लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६५
[[लेखकः :|]]
अध्यायः ४६६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महासाध्वीं लीलावतीं पतिप्रियाम् ।
काशीराजदिवोदासगृहिणीं संशितव्रताम् ।। १ ।।
दिवोदासोऽभवत् कृष्णपार्षदो धामवासकृत् ।
भक्तिप्रवर्तनायाऽत्र भुवि कृष्णनिदेशतः ।। २ ।।
मानुषस्त्वभवद्राजा महाभागवतः प्रिये ।
तस्य भक्तिः सदा कृष्णनारायणे तु निर्मला ।। २ ।।
आसीन्निष्कामरूपा वै कृष्णप्रसन्नताप्रदा ।
लीलावती हरेः पत्नी दासी गोलोकवासिनी ।। ४ ।।
सखी लक्ष्म्याः सदा पार्श्ववर्तिनी कृष्णकामिनी ।
कृष्णाज्ञया सती साध्वी सुराष्ट्रेशसुताऽभवत् ।। ५ ।।
तस्या जन्मनि देवेन्द्राः ऋषयो मुनयः स्त्रियः ।
देव्यो गन्धर्वविद्याध्रा ईशाश्च मनवस्तथा ।। ६ ।।
आययुस्तद्गृहे त्वाशीर्वादान् ददुः शुभावहान् ।
पुष्पवृष्टिं तदा चक्रुर्देवा जगुश्च योषितः ।। ७ ।।
ननृतुश्चाप्सरसस्तु महोत्सवः शुभोऽभवत् ।
जातमात्राऽथ सा कन्या चतुर्भुजा क्षणं शुभा ।। ८ ।।
अदृश्यत वरारोहा सुन्दरी कमला यथा ।
क्षणान्तरेऽभवत् कन्या जाता सूतकशायिनी ।। ९ ।।
अथ योग्ये वयस्यस्या विवाहं त्वकरोन्नृपः ।
पृथिवीजिन्महाराजस्तदा वै विष्णुपार्षदाः ।। 1.465.१ ०।।
काशीस्थास्तु शंकरस्य सर्वे कोटिगणादयः ।
समाजग्मुर्विवाहेऽस्या लीलावत्या समन्ततः ।। ११ ।।
आशीर्वादान् ददुस्ते च देवा देव्योऽतिहर्षिताः ।
काशीं ययौ विमानेन दिवोदासयुता सती ।। १२।।
तदा देवैः पुष्पवृष्टिः कृता विमानमस्तके ।
दम्पती वर्धयामासुः शंकराद्याश्च वैष्णवाः ।। १ ३।।।
दम्पत्योश्चाऽभवत्पुत्रः समरंजयसंज्ञकः ।
ततः पञ्चशतं त्वासीत्पुत्राणां धर्मवर्तिनाम् ।। १४।।
दिवोदासोऽपि राजेन्द्रः कुमारं समरंजयम् ।
अभिषिच्य महाबुद्धिर्ययौ दिग्विजयाय सः ।। १५।।।
महासतीं रथे नीत्वा लीलावतीं पतिव्रताम् ।
दाक्षिणात्यान्नृपान् जिग्ये लीलावत्याः प्रभावतः ।। १६।।
प्राग्ज्योतिषां नृपान् जिग्ये हिमपर्वतभूभृतः ।
उत्तरस्थान्पश्चिमस्थान् जित्वा काशीमगाद्धि सः ।। १७।।
प्रासादं कारयामास स्वर्धून्याः पश्चिमे तटे ।
रिपून् प्रमथ्य समरे यावती श्रीरुपार्जिता ।। १८।।
तावत्या सह भूपालो देवालयानकारयत् ।
भूपाललक्ष्मीरखिला यत्तत्र विनियोजिता ।। १ ९।।
तन्मध्ये श्रीकृष्णनारायणार्चा स्थापिता शुभा ।
शंभुश्च स्थापितः पार्श्वे ब्रह्मा पार्श्वान्तरेऽपि च ।।1.465.२० ।।
अन्ये देवाः स्थापिताश्च राज्ञा सतीप्रतुष्टये ।
लीलावती महालक्ष्मीमन्दिरं चाप्यचीक्लृपत् ।।२१ ।।
लीलावत्याश्चमत्कारं कथयामि शृणु प्रिये ।
लीलावती प्रगे स्नात्वा करोति देवपूजनम् ।।२२।।
पत्युश्च पूजनं नित्यं करोत्येव विधानतः ।
एकदा चिन्तयामास प्रथमं कस्य पूजनम् ।। २३ ।।
कर्तव्यं योषिता पतिव्रतया प्रातरेव तु ।
इतिसंशयमापन्ना सस्मार कमलेश्वरम् ।। २४।।
लक्ष्मीपतिः सह लक्ष्म्या प्राययौ प्रसमुज्ज्वलः ।
सत्कृतो वन्दितो देव्या पूजितः पृष्ट इत्यपि ।। २५।।
कस्य वै पूजनं पूर्वं मया कार्यं कृपानिधे ।
भगवान् श्रीप्रेरितश्च प्राह तूर्णं पतिव्रताम् ।।२६ ।।
पातिव्रत्यं परो धर्मः पत्युः पूजा विशिष्यते ।
पतिर्द्वेधा शरीरस्य चात्मनश्चेति सुन्दरि ।। २७।।
उभयस्य पतिः श्रेष्ठः पूज्यः पूर्वं त्वया सति ।
लीलावती प्रसन्नाऽभूत् परीक्षामकरोत् ततः ।।२८।।
शरीरस्य पतिः कोऽस्ति चात्मनश्च पतिर्हि कः ।
उभयस्य पतिः को वै तदाकर्णय पद्मजे ।।२९।।
पतिर्धातुः शरीरस्य शरीरं पाति रक्षति ।
धातुक्षये क्षयस्तस्य तद्रक्षणं पतिव्रतम् ।।1.465.३ ०।।
ब्रह्मचर्यव्रतं पतिव्रतं नरस्य योषिताः ।
अनेन ब्रह्मशीलेन पातिव्रत्येन पद्मजे ।।३ १ ।।
ब्रह्मलोकात्परं लोकं यान्ति शीलव्रताः प्रजाः ।
संन्यासिनां यतीनां च त्यागिनां ब्रह्मचारिणाम् ।।३२।।
कन्यकानां च बालानां वृद्धानां नरयोषिताम् ।
यूनां चापि धातुरक्षा दम्पतीनां व्रतं तथा ।।३३।।
नियमेन यथा रक्षा यथाऽपत्यजनिर्भवेत् ।
व्यर्थव्ययो यथा नैव पातिव्रत्यं तु तत् सदा ।।३४।।
मोक्षदं वंशदं स्वर्गप्रदं देहेऽपि पुष्टिकृत् ।
पातिव्रत्यं व्रतं ज्ञेयं द्वितीयं चापि तच्छृणु ।।३५।।
देहं पाति सदा पुष्ट्या यदन्नं तत्पतिर्भवेत् ।
अन्नाद् भूतानि जायन्ते जीवन्त्यभिविशन्ति तत् ।।३६।।
अन्नं ब्रह्म विजानीयादुपास्यं पञ्चयज्ञकैः । भ
संविभज्य प्रदातव्यं चात्तव्यं च ततः परम् ।।३७।।
या निन्द्यादन्नमेवात्र देवाय प्राक् समर्पयेत् ।
ऋषिभ्यः पितृभ्यश्चाथ गोभ्यो भृत्येभ्य इत्यतः ।।३८।।
पतये स्वामिने चापि तृप्तिदं ब्रह्म चार्पयेत् ।
अन्नं पतिर्व्रतं तस्य पातिव्रत्यं सदाव्रतम् ।।३९।।
पातिव्रत्यं त्वन्नसत्रं स्वर्गो मोक्षश्च तेन वै ।
अन्नेऽपि भक्षते लक्ष्मि यदि प्राणो न तिष्ठति ।।1.465.४०।।
तदा शवो भवेद् देहस्तस्मात् प्राणस्तृतीयकः ।
पतिरूपः सदा प्रोक्तः प्राणव्रतं समाचरेत् ।।४१ ।।
वृद्धानां चापि पूज्यानामागमे स्वगृहे सति ।
उत्थातव्यं समीपे च गन्तव्यं तान्नमेत्तथा ।।४२।।
अनुत्थाने स्वयं प्राणः समुत्तिष्ठन्ति वै वलात् ।
आयुःक्षयस्तथा स्याच्च तस्मात्प्राणान् सुरक्षयेत् ।।४३।।
वृद्धानां यत् सदा मानं प्राणव्रतं तु तत्स्मृतम् ।
पातिव्रत्यं हि पत्यर्थे तत्प्राणव्रतमाचरेत् ।।४४।।
श्वश्रूश्वशुरयोः पित्रोः स्वामिनश्च तपस्विनः ।
विदुषां त्यागिनां श्रेष्ठजनानां च गुरोः स्त्रियाः ।।४५।।
राज्ञां देवस्य साध्वीनां गुणिनां नाऽवमाननम् ।
प्राणव्रतं हि तत्प्रोक्तं पातिव्रत्यं महत्तरम् ।।४६।।
पालयेत् तत् सदा साध्वी स्वर्गो मोक्षश्च तत्करे ।
चतुर्थं तु शृणु लक्ष्मि मानसं हृदयं सदा ।।४७।।
वासनाकोटि विक्षिप्तं कामक्रोधादिसंभृतम् ।
रागद्वेषभृतं नित्यं लोभमोहाद्यधिश्रितम् ।।४८।।
सात्त्विकं चेन्मनस्तद्वै पाति रक्षति देहिनम् ।
स्थाने स्याश्चेन्मनस्तस्य यशः सर्वत्र जायते ।।४९।।।
विचित्तं चेन्मनस्तस्य प्रमत्तस्य क्षयो भवेत्। ।
मनो वाजी सुमार्गस्थः स्वर्गं मोक्षं ददाति च ।।1.465.५० ।।
स एव रक्षणकर्ता पतिः प्रोक्तोऽत्र कोटरे ।
मनस्तस्मान्निगृहीतं पतिरूपं प्ररक्षति ।। ५१ ।।
तद्व्रतं वै पातिव्रत्यं रागद्वेषादिवर्जनम् ।
मायाया वासनायाश्च मिथ्याकामस्य वर्जनम् ।।५२।।
पातिव्रत्यं चतुर्थं तन्मनो ब्रह्मसमर्चनम् ।
मनो ब्रह्म विजानीयादुपासीत मनोव्रतम् ।।५३ ।।
पञ्चमं तु शृणु लक्ष्मि ज्ञानं रक्षति देहिनम् ।
देहस्य रक्षणं ज्ञानं विज्ञानं धर्मरक्षकम् ।।५४।।
अर्थकामप्रदं ज्ञानं विज्ञानं चात्मबोधकम् ।
विज्ञानं रक्षकं पाति रक्षत्येव शुचःस्थले ।।।५५।।
यावद्देहवतां पाता विज्ञानं पतिरेव सः ।
विज्ञाने नैव रक्षन्ति त्वात्मानं प्राणिनः प्रिये ।।५६ ।।
तस्मात् पतिः सुविज्ञानं बालकेऽपि स्तनन्धये ।
रक्ष्यं ज्ञानव्रतं पातिव्रत्यं कथाप्रसंगतः ।।५७।।
कृष्णकथामृतास्वादग्रहणं तत्पतिव्रतम् ।
पतिर्देवः पतिः कृष्णः पतिर्ज्ञानं तु शार्ङ्गिणः ।।५८।।
आराधना सदा कार्या देवोपास्तिसमन्विता ।
पातिव्रत्यं व्रतं तद्धि स्वर्गमोक्षप्रदं परम् ।।५९।।
शृणु लक्ष्मि तथा षष्ठं व्रतं त्वानन्दसंज्ञकम् ।
सर्वे सदा महाविज्ञाः स्वल्पज्ञाश्च तृणादयः ।।1.465.६० ।।
अभिलषन्ति चानन्दं सुखं स्नेहं प्रमोदनम् ।
उत्सवं च समुत्साहं तेन जीवन्ति जन्तवः ।।६ १ ।।
आनन्देन तु भूतानि प्रजायन्तेऽपि तेन ते ।
जीवन्त्यपि तथा मृत्युं यान्त्यानन्दार्थमेव च ।।६२।।
तस्मात्पाति सदाऽऽनन्दो जीवान् रक्षति वै पतिः ।
आनन्दः स परब्रह्म विजानीयात्. पतिं परम् ।।६३।।
आनन्दे तु सदा मुक्तास्तिष्ठन्ति योगिनोऽपि च ।
आनन्दं तत्परब्रह्म पतिः पतिव्रतं तु तत् ।।६४।।
पातिव्रत्यं महालक्ष्मि! ज्ञात्वा त्वेतत् समाचरेत्। ।
देहस्यैते पतयो वै क्कचिदात्मनि वै मनाक ।।६५।।
पञ्चभूतात्मके देहे कान्तात्मके च ते सदा ।
तिष्ठन्त्येव स्त्रियाश्चापि पातिव्रत्यं निजं निजम् ।।६६।।
स्वामिनस्तु तथा पत्न्यां तिष्ठन्त्येते निजेऽपि च ।
एतद् विज्ञाय वै धर्मस्वरूपं व्रतमाचरेत् ।।६७।।
अथात्मनः शृणु लक्ष्मि पातिव्रत्यं वदामि ते ।
श्रवणं कीर्तनं कृष्णस्मरणं कृष्णसेवनम् ।।६८।।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
विश्वासो वरणं न्यासः कार्पण्यं निश्चलप्रधीः ।।६९।।
आनुकूल्यं सदा कृष्णे परमात्मनि माधवे ।
स एव रक्षिता पाताऽऽनन्दयिताऽविता हरिः ।।1.465.७०।।
तद्व्रतं सर्वथा त्वात्मार्पणं सर्वार्पणात्मकम् ।
नैतादृशं व्रतं किञ्चित् स्वर्गदं मोक्षदं च वा ।।७१ ।।
स्वर्गदं सर्वकृच्चापि यत्र शेषं न विद्यते ।
यत्र नास्ति क्षतिः काचिद् यत्र बन्धो न विद्यते ।।७२।।
यत्र नास्ति व्ययः कश्चिदलाभो नास्ति वै प्रिये ।
एतत्पतिव्रतं कृत्वाऽसंख्यात्मानो दिवं गताः ।।७३।।
यान्ति यास्यन्ति वै त्वन्ये नरा नार्यस्तथेतराः ।
आत्मा ब्रह्म पतिः सोऽयं परब्रह्मव्रतान्वितः ।।७४।।
शाश्वतव्रतवाँश्चाऽय पातिव्रत्यपरायणः ।
इत्युक्तानि सति तुभ्यं पातिव्रत्यानि सर्वथा ।।७५।।
लीलावत्यै मयोक्तानि श्रुत्वा साऽऽश्चर्यगर्विता ।
क्षणं ध्यात्वा विदित्वैव कान्ते विवाहिते निजे ।।७६।।
द्वेधा चक्रे पातिव्रत्यं दिवोदासे सती सदा ।
ब्रह्मचर्यं दिवोदासे प्रथमं सा पतिव्रतम् ।।७७।।
अन्नार्पणं दिवोदासे द्वितीयां सा पतिव्रतम् ।
प्राणार्पणं दिवोदासे तृतीयं सा पतिव्रतम् ।।७८।।
मनोऽर्पणं दिवोदासे चतुर्थं सा पतिव्रतम् ।
ज्ञानमात्रं दिवोदासे पञ्चमं सा पतिव्रतम् ।।७९।।
आनन्दं च दिवोदासे षष्ठं चापि पतिव्रतम् ।
पालयित्वा सती लीलावती पतिमपूजयत् ।।1.465.८०।।
देहस्य पातिव्रत्यं वै दिवोदासे तदात्मनि ।
आत्मस्थे श्रीहरौ स्वस्यात्मनश्चापि पतिव्रतम् ।।८१ ।।
पालयामास सा साध्वी पूजयामास तं पतिम् ।
स्वामिने साऽर्पयामासोपचारान् षोडशापि हि ।।८२।।
आत्मने चार्पयामास स्वात्मानं लीनभावतः ।
आत्मात्मनि स्थितायान्तर्यामिणे सर्वमेव सा ।।८३।।
अर्पयामास भावेन ददर्श तत्र तं हरिम् ।
दिवोदासे दिव्यरूपं श्रीकृष्णं परमेश्वरम् ।।८४।।
पत्यौ पतिं परं दृष्ट्वा प्रमुमोद सती तदा ।
साक्षात् कृष्णस्वरूपं स्वस्वामिन्यपश्यदञ्जसा ।।८५।।
भौतिकेन तु नेत्रेण दिवोदासं ददर्श सा ।
दिव्येनाऽऽन्तरनेत्रेण श्रीकृष्णं तं ददर्श सा ।।८६ ।।
एवं प्राप्य परां दिव्यां दृष्टिं लीलावती सदा ।
पातिव्रत्येन धर्मेण योगं सिद्धिं च शाश्वतीम् ।।८७।।
योगिनामप्यलभ्यां संप्रापत् कृष्णप्रसादतः ।
अन्तेऽक्षरं पदं लेभे तेनैव दिव्यवर्ष्मणा ।।८८।।
सार्धं स्वस्वामिना वंशेनापि सत्प्रजया तथा ।
इति ते कथितं लक्ष्मि! दिव्यं पतिव्रतं शुभम् ।।८९।।
सर्वा आत्मनिवेदिन्यस्तथा कृत्वाऽक्षरं पदम् ।
प्राप्नुवन्ति न सन्देहः कृष्णनारायणं पतिम् ।। 1.465.९० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने काशीनृपतिदिवोदासपत्न्या लीलावत्या अनेकविधदिव्यपातिव्रत्यचमत्कारेण श्रीकृष्णनारायणपददास्यप्राप्त्यादिनिरूपणनामा पञ्चषष्ट्यधिकचतुश्शततमोऽध्यायः ।। ४६५ ।।