लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६४
[[लेखकः :|]]
अध्यायः ४६५ →

श्रीनारायण उवाच-
पुरा कद्रूश्च विनता दक्षपुत्र्यौ तु योषितौ ।
कश्यपस्य धर्मपत्न्यौ क्रीडन्त्या वेकदा शुभे ।। १ ।।
उच्चैःश्रवांसः सूर्याश्वाः शबला धवला नु वा? ।
किंरूपाः स्युरितिवादं चक्राते कश्यपगृहे ।। २ ।।
कद्रूरुवाच विनते गतिस्ते व्योम्न्यखण्डिता ।
ततः सर्वं विजानासि वद रूपं नु कीदृशम् ।। ३ ।।
पणं च कुरु कल्याणि तुभ्यं यो रोचतेऽनघे ।
विनतोवाच कल्याणि किं पणेनात्र दक्षजे ।। ४ ।।
पणे तु नावयोः सौख्यं पणोऽन्यतरदुःखकृत् ।
इति ज्ञात्वा पणो नैव कर्तव्यः स्नेहहानिकृत् ।। ५ ।।
त्वज्जये का च मे हानिर्मे जये का च ते क्षतिः ।
ध्रुवमेकस्या विजयेऽन्यस्यास्त्ववनतिर्भवेत् ।। ६ ।।
एवमेव कथयामि विना पणेन तत् स्वसः ।
कद्रूः प्राह सदा खेलव्यवहारे पणं विना ।। ७ ।।
आस्वादो मानसो नैव रसो नापि प्रजायते ।
तस्मात् पणं पुरस्कृत्य रमन्ते खेलकारिणः ।। ८ ।।
बाला अपि मृषा पणं कुर्वन्ति च हसन्ति च ।
रमन्ते कालयानार्थं पणं कुरु ततो वद ।। ९ ।।
विनताऽऽह यथा प्रीतिस्तवाऽत्र वै ।
अथ कद्रूः शठा धूर्ता पणरूपं जगाद ह ।। 1.464.१ ०।।
तस्यास्तु सा भवेद् दासी पराजीयेत् या यया ।
अस्मिन्पणे त्विमाः सर्वाः सख्यः साक्षिण्य एव नौ ।। ११ ।।
पणीकृत्य तथा कद्रूः कर्बुरं प्राह वाजिनम् ।
विनता धवलं प्राह ततो ययतुः स्वालयम् ।। १२।।
कद्रूः कृष्णसुतान् सर्पानाहूय प्राण तत्पणम् ।
उवाच यात सत्पुत्रा द्रुतं मम निदेशतः ।। १ ३।।
श्वेतं तं वाजिनं पुत्रा वल्गत प्रतिरोमकम् ।
कृष्णवर्णः प्रदृश्येत कल्मषयेत सर्वतः ।। १४।।
इति श्रुत्वा वचो मातुः केचनाऽऽहुः स्वमातरम् ।
वयं नैव गमिष्यामो मृषा दोषभयान्विताः ।। १ ५।।
अन्येऽपि तु तथा प्राहुर्दोषो विश्वासनाशनम् ।
अनृतं नरकद्वारं दोषं कुर्मो न तद् वयम् ।। १६ ।।
अपरेऽपि स्वबन्धूनां स्नेहं मातृस्वसुस्तथा ।
पुरस्कृत्य निषेधं तत्कार्यंऽकुर्वन् नयान्विताः ।। १ ७।।
तान्सर्वानुरगी कद्रूः शशाप क्रोधशेवधिः ।
तार्क्ष्यभक्ष्याः सदा सन्तु ये मद्वचोविरोधिनः ।। १८।।
इति शापप्रदग्धास्ते ययुः पातालमाश्रयम् ।
अथान्ये बालकास्त्वासन् मातृस्नेहसमाकुलाः ।। १ ९।।
ते मत्वा मातृवचनं ययुः सूर्याश्वमम्बरे ।
ववल्गिरे परितोऽश्वं चक्रुर्नीलं सुकर्बुरम् ।। 1.464.२० ।।
अथ सूर्यस्य तापेन दग्धास्ते त्वाययुर्गृहम् ।
मातरं प्राह तत्सर्वं तदा कद्रूस्तु राहुकम् ।।२ १ ।।
समाहूय समर्च्याऽपि सूर्यतापविनाशकम् ।
सुयोजनं समादिश्य पर्वणि राहुणाऽऽवृतम् ।।२२।।
गत्वा सर्पा अर्कवाहं ववल्गिरे समन्ततः ।
विनतापृष्ठमारुह्य कद्रूर्ययौ दिवं यदा ।।२३।।
ताभ्यां तुरंगमोऽदर्शि कर्बुरो नीलवर्णकः ।
विनता प्राह धवलो मया व्यलोकि वै मुहुः ।।२४।।
तव भाग्योदयादश्वः कर्बुरोऽद्य विलोक्यते ।
अस्तु यथा तथा भावि भाग्यं केन निवार्यते ।।२५।।
विधिर्बलीयान् सर्वत्र श्वेतं नीलायतेऽपि यत् ।
अदृष्टं यादृशं यत्र भोग्यत्वेनोपतिष्ठति ।।२६।।
प्रतिकूलं प्रजायेत् सानुकूलमपि द्रुतम् ।
इति दृष्ट्वा नीलमश्वं पराभूता हि पक्षिणी ।।२७।।
कद्रूगृहस्थिता नित्यं तस्या दास्यं सदाऽकरोत् ।
गरुडस्तां तथाभूतां दृष्ट्वा दासीं स्वमातरम् ।।२८।।
प्राह मातः कथं त्वेतद्दास्यं वै प्रोह्यते त्वया ।
धिक् तान्सुतान्बलिष्ठाँस्तु यन्माता त्वन्यकिंकरी ।।२९।।
पुत्रोत्पत्तिस्तदर्था वै या पित्रोः परिपोषिका ।
पुत्रैरपोषिता माता गर्दभ्या तुलनायते ।।1.464.३ ०।।
सत्सु सप्तसु पुत्रेषु गर्दभी भारवाहिनी ।
धिक् तान् पुत्राँस्तु यन्माता तेषु जीवत्सु दुःखिनी ।।३ १ ।।
वरं वन्ध्यात्वमेवाऽस्या यत्सुता वन्ध्यकर्मिणः ।
क्लेशितं जननीजठरं येन माता न मोदते ।।३२।।
माता लक्ष्मीर्जन्मदात्री निजस्वत्वप्रदायिनी ।
सा दुःखात् तारिता यैर्न तेषां जन्म निरर्थकम् ।। ३३।।
मयि सत्त्वे बलिष्ठे च यदि माताऽतिदुःखिनी ।
किं बलं मे प्रशस्तं वै नारकं तत् स्मृतं वलम् ।। ३४।।
अपि पापकृतः पुत्रा यदि रक्षन्ति मातरम् ।
तरन्ति मातृतीर्थेन सेवया तोषितेन ते ।।।३५।।
न यज्ञा न व्रतं जाप्यं दानं न चापि दक्षिणा ।
मातृसेवाशतांशत्वं प्राप्नुवन्ति कदाचन ।। ३६।।
अपि विघ्नसहस्राणि यमदूताऽयुतानि च ।
वियन्ति दूरतो मातुः सेवयाऽऽशीर्भिरेव हि ।। ३७।।
इतिपुत्रवचः श्रुत्वा विनता भक्तबालकम् ।
प्रोवाचाऽहं पुरा दास्यं कद्र्वाः प्राप्ताऽस्मि वै पणे ।। ३८।।
अश्वः सूर्यस्य धवलो मयोक्तश्च तया ततः ।
कर्बुर इत्यभिहितस्ततस्तत्पुत्रकैः खलु ।। ३ ९।।
गत्वाऽश्वश्चित्रितः कृष्णश्चाहं दासीत्वमागता ।
यस्मिन् काले ह्यभीष्टं च तस्या द्रव्यं ददामि चेत् ।।1.464.४०।।
तदा दासीत्वविगमं प्राप्स्ये पृच्छ तु सर्पिणीम् ।
गरुडो विनतां नत्वा कद्रूं नत्वा पुनः पुनः ।।४१ ।।
पप्रच्छ मातृदासीत्वमोक्षदं कद्रुकां हि सः ।
कद्रूः प्राह सुधां देहि भवेद् दासीत्वमोक्षणम् ।।४२।।
गरुडस्तत्समाकर्ण्य समापृच्छ्य तु मातरम् ।
संस्मृत्य श्रीकृष्णनारायणं ययौ स कश्यपम् ।।४३।।
तं जगाद सुधार्थं स्वयात्रां तं प्राह कश्यपः ।
स्वर्गलोकस्य वै चोर्ध्वं निधानं देवभोजनम् ।।४४।।
अमृतं वर्तते देवभृत्यैश्चक्रेण रक्षितम् ।
गच्छ शीघ्रं कृष्णनारायणं स्मृत्वा जयो भवेत् ।।४५।।
जगामाकाशमाविश्य गरुडः पितृवाक्यतः ।
यत्राऽमृतनिधानं तद्दृष्ट्वा मुमोद भक्तराट् ।।४६।।
कृष्णनारायणं स्मृत्वा कोशाध्यक्षान् ददर्श सः ।
पक्षवातेन तान्सर्वान् विधूय सर्वशो बली ।।४७।।
ददर्श कर्तरीयन्त्रममृतोपरि संस्थितम् ।
भ्रममाणं बहुवेगात् सुदर्शनसमं महत् ।।४८।।
अपि स्पृशन्तं कमपि भेदयत्येव खण्डशः ।
क्षणं विचार्य गरुडः सूक्ष्माणुत्वमुपागतः ।।४९।।
यद्यहं मातृभक्तोऽस्मि कृष्णनारायणाऽनुगः ।
तदा मे रक्षणं त्वत्र करोतु भगवान् स्वयम् ।।1.464.५०।।
जरितौ पितरौ यस्य बालापत्यश्च निर्धनः ।
साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येऽपि तस्य न ।।५१ ।।
मातुर्विप्रस्य बालस्य गोः पत्न्याश्च गुरोरपि ।
जीवदानस्य हेत्वर्थे त्वकृत्ये नास्ति दूषणम् ।।५२।।
एवं कृत्वा तु चक्रस्य ह्यधोभागस्थितां सुधाम् ।
विलोक्य कलशे भृत्वा पीत्वाऽपि मृत्युनाशिनीम् ।।५३।।
ततश्चक्रं योगबलात् पिच्छेनोत्पाट्य कीलकात् ।
भ्रमिहीनं मन्दवेगं स्थिरं कृत्वा तु यावता ।।५४।।
सुधाकुंभेन सहितः समुद्गच्छति तावता ।
रक्षकास्तं विलोक्यैव दुद्रुवुः पाशहस्तकाः ।।५५।।
पक्षवातेन तान् सर्वान् मूर्छयित्वाऽतिवेगतः ।
बहिर्यातो निधेस्तस्मात् तावत्सुरेश्वरादयः ।।५६।।
दूतस्मृतास्तत्र तूर्णं युद्धाय त्वाययूः रुषा ।
महेन्द्रस्तं सहेतिर्वै प्राह कस्त्वं सुधाहरः ।।१७।।
तिष्ठ तिष्ठ महाबाहो वज्रेण सूदयामि वै ।
श्रुत्वा वाक्यं हरेस्तत्र चुकोप गरुडस्तदा ।।५८।।
पराक्रमं दर्शयस्व नयामि गरुडोऽमृतम् ।
इत्युक्तश्चेन्द्र एवैनं वज्रेण प्रजघान ह ।।५९।।
कुलिशस्याऽतिपातेपि न वै क्षुब्धो महाबलः।
स्वं मोघं कुलिशं दृष्ट्वा भीतश्चेन्द्रस्तमाह यत् ।।1.464.६ ० ।।
यदि दास्यसि पीयूषमिदानीं नागमातरि ।
भुजंगास्त्वमराः सर्वे क्रियन्ते तु त्वया खग ।।६ १ ।।
प्रतिज्ञा ते भवेन्नष्टा भोजनं ते न वै भवेत् ।
तस्मान्मा तां सुधां देहि कद्रूं कुरु न चामृताम् ।।६२।।
इतिश्रुत्वाऽऽह गरुडो नयामि सुरराट् सुधाम् ।
दास्ये कद्रूं च माता मे स्याददासी ततः परम् ।।६३ ।।
शीघ्रं त्वया प्रहर्तव्या सुधा न पानतां वज्रेत् ।
तथास्त्विति हरिः प्राह ययौ कद्रूं च पक्षिराट् ।।६४।।
दत्वा दास्यं विनिर्धूय मातुः स निर्ऋणोऽभवत् ।
अथ सर्पांश्च कद्रूं च प्राह वै पक्षिराट् स्वयम् ।।६५।।
अशुद्धौ नहि पातव्या सुधा त्वशुद्धतां व्रजेत् ।
रससामर्थ्यहीना स्यात् स्नात्वाऽतश्च पिबन्तु ताम् ।।६६।।
इत्युक्तास्ते ययुः स्नातुं शक्रो जहार तां सुधाम् ।
आगत्य भुजगैर्नैव दृष्टं त्वमृतभाजनम् ।।६७।।
कुशस्तम्बे यत्र पात्रं स्थापितं त्वासीदेव तत् ।
पर्यलिहंस्ततस्तेषां जिह्वाः कुशैर्द्विधाऽभवन् ।।।६८।।
तदा तु चुक्रुशुः सर्पास्त्वमृतार्थं समुल्बणाः ।
इन्द्रेण तु तदा त्वन्यः कलशः कृत्रिमः कृतः ।।६ ९।।
यत्र विषं सुधारंगं प्रच्छन्नं निहितं कृतम् ।
तदादाय पपुः सर्वे बिन्दुमात्रं विभागशः ।। 1.464.७० ।।
तानुवाच प्रसूः पुत्रान् युष्मन्मुखे सदा सुताः ।
बिन्दवः खलु तिष्ठन्तु नो लोपः स्यात् कदाचन ।।७१ ।।
इत्याशीर्वादमाप्तास्ते सर्पा ययुनिजं गृहम् ।
हृष्टास्त्वमृतभ्रान्त्या ते नागाः प्रमुदितास्त्वथ ।। ७२।।
ताँस्तान् गरुडः क्षुधितश्चखाद बलवाँस्ततः ।
पलायितास्तु ते नागा पर्वतादिष्ववस्थिताः ।।७३ ।।
एवं स गरुडः स्वस्य मातरं किंकरीपदात् ।
मोचयित्वा गृहीत्वा च पित्रोराशीर्वचांसि सः ।।७४ ।।
ययौ वैकुण्ठलोकं संवाहात्मको हरेरभूत् ।
हरेर्दास्यं सदा प्राप्तो विष्णुवत्पूज्यतां गतः ।।७५।।
यन्माता विनता चापि भक्तपुत्रप्रसूर्यतः ।
कश्यपस्य सदा मान्या ह्यभवत् सत्यसंस्थिता ।।७६ ।।
अमृतादाः सुताश्चासन् विनतायाः सतीस्त्रियाः ।
शठाया विषवक्त्रायाः कद्र्वास्त्वासन् सुताः शठाः ।।७७।।
तस्माल्लक्ष्मि सदा पाल्यं पातिव्रत्यं हरौ मयि ।
स्वप्रतापेन तेषां वै दूरयामि दुरन्तकम् ।।७८।।
पितृभक्तिर्मातृभक्तिर्गुरोर्भक्तिश्च तारिणी ।
पतिभक्तिः पुत्रभक्तिः सतीभक्तिः सुतारिणी ।।७९।।
भृत्यभक्तिर्देवभक्तिर्भार्याभक्तिश्च तारिणी ।
साधुभक्तिः कृष्णभक्तिर्मोक्षदा मम धामनि ।।1.464.८ ० ।।
सर्वदेहिष्वहं त्वस्मि त्वया शक्त्या सह ध्रुवः ।
इति मत्वा मम भक्तिं कुर्याद् देहिषु देहिभिः ।।८ १ ।।
समर्पयेत् कृतं सर्वं मय्येव त्वान्तरस्थिते ।
मत्प्रसादात्मकं मत्वा भक्तो भुञ्जीत नाऽन्यथा ।।।८२।।
नार्यां नरे पशौ वृक्षे वल्ल्या जडे च चेतने ।
कृष्णनारायणो भोक्ता भोग्यं च सर्वमेव सः ।।८३ ।।
इति मत्वा तु यो देही भुंक्ते यत् तद्धि निर्गुणम् ।
पातिव्रत्यमिदं प्रोक्तं मयि सर्वात्मना मया ।।८४।।
एवं कृत्वा व्रतं देहि मुच्यते नात्र संशयः ।
पठनाच्छ्रवणात् त्वस्य पातिव्रत्यफलं लभेत् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कद्रूविनतयोः सूर्याश्वस्य कर्बुरत्वं श्वैत्यं वेति पणे कद्रूशाठ्येन विनताया दासीत्वस्य गरुडेन प्रमार्जनं कृतमित्यादिनिरूपणनामा चतुःषष्ट्यधिकचतुश्शततमोऽध्यायः ।। ४६४ ।।