लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६३
[[लेखकः :|]]
अध्यायः ४६४ →

श्रीनारायण उवाच-
आकर्णय महालक्ष्मि! प्रभे! पार्वति! पद्मजे ।
सरस्वति! रमे! कृष्णे! माणिकि । कम्भरे सति! ।। १ ।।
दुर्गे! राधे! शारदे! च वृन्दे! तुलसि! चाब्धिजे! ।
पद्मावति! पाण्डवेशि! सावित्रि! रुक्मिणी! प्रिये ।। २ ।।
विनतायास्तथा कद्र्वाः कथां पूर्वभवां पणे ।
दक्षदत्ते कश्यपाय कद्रूश्च विनता तथा ।। ३ ।।
पतिव्रते महासाध्व्यौ स्वामिसेवापरायणे ।
कृष्णनारायणभक्ते कामरूपधरे शुभे ।। ४ ।।
कृष्णार्थं च तपस्यन्त्यावास्तामपत्यवाञ्च्छने ।
कद्र्वाः सर्पाः सुता जाताः कामरूपधराः शुभाः ।। ५ ।।
काद्रवेया गणास्ते वै कृष्णा रक्ता हरिद्गुणाः ।
पिशंगाः पीतरक्ताश्च कपिशाश्चित्रकास्तथा ।। ६ ।।
श्वेता नीलास्तथा सूक्ष्मा मध्या दीर्घाः प्रदीर्घकाः ।
नागाः सरीसृपाः कद्रूसुताः कद्रूपिणोऽभवन् ।। ७ ।।
श्यामाश्च शबलाश्चापि तथाऽर्जुनाश्च धूम्रकाः ।
मिश्रवर्णास्तुलालाब्वः कोटिशो नागजातयः ।। ८ ।।
अथासूतोलूकतार्क्ष्याऽरुणादीन् विनता सुतान् ।
उलूको राज्यमाप्यापि ज्येष्ठत्वात् पक्षिणां ततः ।। ९ ।।
निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ।
क्रूराक्षश्च दिवान्धश्च सदा वक्रनखोऽशुभः ।। 1.463.१ ०।।
वाणी त्वस्योद्वेजिकेति नाऽयं राज्यसमर्हणः ।
अथ त्वराजके राज्ये वर्तन्ते स्वैरचारिणः ।। ११ ।।
पक्षिणश्चेति राजार्थे पुत्रवीक्षणलालसा ।
अण्डं प्रास्फोटयामास मध्यमं विनता तदा ।। १ २।।
यद्वै पक्वं भवेद् वर्षसहस्रे पूर्णतां गते ।
तदभेदि तयौत्सुक्यादण्डमष्टमके शते ।। १३।।
तावत् सर्वाणि गात्राणि सन्ति पूर्णानि नैव हि ।। १४।।
स तु गर्भोऽभवत् क्रुद्धोऽर्धवर्ष्मसिद्धिभेदने ।
क्रोधेन शिशुना माता शापिता त्वविचार्य यत् ।। १५।।
मातृस्वयाऽर्धदेहान्तर्गतमण्डं विभेदितम् ।
रदनिष्पन्नसर्वांगः शपामि त्वां सुताऽहिताम् ।। १ ६।।
यतो दृष्ट्वा काद्रवेयान् तन्मातुरंकलालितान् ।
अधैर्येणाऽण्डमेतन्मे स्फोटितं तन्मिषात्त्वया ।। १७।।
पुत्रं प्राप्य द्रुतं त्वंके लालयामीति चेहया ।
ततस्त्वमेधि दासीत्वं सपत्न्या वै विहंगमे ।। १८।।
इति श्रुत्वा सुतदत्तं शापं माता शुचान्विता ।
प्राहाऽनूरो ब्रूहि शापस्याऽन्तं पुत्र शुभं कुरु ।। १ ९।।
अनूरुः प्राह मा भिन्धि तृतीयाऽण्डमपूर्णकम् ।
तृतीयेऽण्डे भविष्यन् यः स शापॆ वारयिष्यति ।।1.463.२०।।
इत्युक्त्वा मातरं नत्वोड्डीयाऽनूरुर्ययौ वनम् ।
सूर्यमाराध्य तपसा वरं लब्ध्वा प्रभाकरान् ।।२१ ।।
सूर्येण रक्षितो यन्त्रे रव्यश्वान् वाहयत्ययम् ।
अरुणस्योदयः पूर्वं पश्चात् सूर्योदयः कृतः ।।२२।।
अथ वर्षसहस्रे तु पूर्णेऽण्डं तु तृतीयकम् ।
स्वयं भिन्नं ततो जातो गरुडः सूर्यसदृशः । । २३ ।।
पतंगोऽपि बहिः साक्षादण्डान्निःसृत्य शावकः ।
क्षुधार्थी मातरं प्राह भक्ष्यं मे दीयतामिति । । २४।।
हृष्टाऽऽह माता क्षुधितं गरुडं तु महाबलम् ।
क्षुधां शमयितुं पुत्र न शक्नोमि तदन्ततः ।। २५ ।।
तव तातः कश्यपोऽस्ति मेरौ तिष्ठति तं व्रज ।
स दास्यति भोजनं ते क्षुधा ते शममेष्यति । । २६ ।।
मातुर्वचः समाकर्ण्य ययौ यत्र स कश्यपः ।
प्रणम्य शिरसा वाक्यमुवाच पितरं खगः ।। २७ ।।
सुतस्ते गरुडश्चाऽहं मात्रा विनतयेरितः ।
क्षुधया पीडितस्तात भक्ष्यं मे दीयतां प्रभो! ।। २८ ।।
ज्ञात्वा सुतं तमुवाच कश्यपः स्नेहप्रह्वणः ।
अनेकशतसाहस्रा निषादाः पयसां निधेः ।। २९ ।।
तीरे वसन्ति मत्स्यादास्ताँस्त्वं भक्ष सुखी भव ।
विना विप्रं निषादेषु देहयात्रां प्रवर्तय ।। 1.463.३० ।।
इत्युक्तः प्रययौ तत्र गत्वा चखाद ताँस्ततः ।
अलक्ष्यभावो विप्रोऽपि गिलितस्तेन पक्षिणा ।। ३१ ।।
अथ जातो गले वह्निर्जज्वाल कण्ठमध्यमम् ।
वमितुं गिलितुं वापि न शशाक स पक्षिराट् ।। ३२ ।।
गत्वाऽथ पितरं प्राह कण्ठाऽन्तर्मेऽनलः पितः ।
करोति दहनं शश्वल्लग्नः कश्चिज्जनोऽन्तकृत् ।। २३ ।।
कश्यपः प्राह भो पुत्र भवेद् विप्रोऽन्यथा न तत् ।
इत्युक्त्वा कश्यपो विप्रं समाजुहाव वै बहिः ।। ३४।।
विप्रः प्राह विहायैतान्न निर्गच्छामि भो पितः ।
गिलिताः सुहृदः केचित् प्रियाः सम्बन्धिनस्तथा ।। ३ ५ ।।
एतैः सह प्रयास्यामि निरयं वा सुखं हरिम् ।
श्रुत्वा तु विस्मितः प्राह कश्यपः पतितं द्विजम् ।। ३६ ।।
निषादैः सह सम्बन्धं चापावानसि तत्ततः ।
निरयं त्वेव गन्ताऽसि पापियोगाद्धि पापवान् ।। ३७ ।।
अज्ञानाद् यदि वा मोहात्कृत्वा पापं सुदारुणम् ।
ततो धर्मं चरेच्चेत् स यायाद्वै परमां गतिम् ।। ३८ ।।
पापकृन्न वृषं कुर्यात् कुर्यात्पापं पुनस्तदा ।
निमज्जति महाघोरे निरये ते गतिस्तथा ।। ३९ ।।
निर्गच्छ वा मृतिं याहि कण्ठे मा तिष्ठ भूसुर ।
श्रुत्वा कश्यपवाक्यं स सम्बन्धिव्रतवान् द्विजः ।। 1.463.४० ।।
उवाच कश्यपं स्पष्टं शृणु तात हितं मम ।
यद्यप्यस्मि द्विजो जात्या निषादी मेऽस्ति कामिनी ।।४१ ।।
निषादा मे श्यालकाश्च श्वशुरश्चापरे तथा ।
निगिलिता गरुडेन मृतास्ते त्वस्य जाठरे ।।२।।
पावनस्य तु योगेनाऽपावनं पावितं भवेत् ।
विप्रयोगेन ते सर्वे तव योगात्तु पावनाः ।।४३।।
गरुडगर्भयोगेन पावितास्ते विशेषतः ।
सम्बन्धिव्रतवाँश्चाहं पातिव्रत्यपरायणः ।।४४।।
निर्मुक्ताः स्युश्च ते सर्वे जीविताः स्युः पितर्मम ।
निर्गच्छामि तदा कण्ठादन्यथा मरणं ध्रुवम् ।।४५।।
बन्धुजीवः प्राणान्तो वा प्रतिज्ञा सुदृढा मम ।
कश्यपस्तत्समाकर्ण्य श्रेयोऽर्थं त्वाह पक्षिणम् ।।४६।।
उद्वमैतान् सविप्राँश्च निषादानपि सर्वशः ।
इत्युक्तो गरुडश्चैतानुद्ववाम निषादकान् ।।४७।।
ते वै दिक्षु विदिक्षु सम्वसन्ति पक्षिहिंसकाः ।
गरुडकुक्कुटहंसपारावातादिभक्षकाः ।।४८।।
कलौ सर्वे मिलिष्यन्ति त्वेकाहारे प्रजाजने ।
जातिभेदो यदा नैव स्थास्यत्यदनलग्नयोः ।।४९।।
अथापि क्षुधया युक्तो ययाचे भक्ष्यमुत्तमम् ।
कश्यपेन तदादिष्टो ययौ सागरसन्निधौ ।।1.463.५० ।।
तत्र दृष्ट्वा महासत्त्वौ नैकयोजनविग्रहौ ।
कूर्मगजौ नखैर्भित्वोत्पपाताऽऽकाशमुज्जयः ।।५१ ।।
मेरौ दृष्ट्वा जम्बुशाखां निषसाद महत्तमाम् ।
भग्नां शाखां गजकूर्मौ गृहीत्वोड्डीय चाम्बरे ।।५२।।।
सत्यलोकं ययौ ब्रह्मसदनं यत्र माधवः ।
कृष्णनारायणो विष्णुः स्तुतस्तत्र समागतः ।।५३।।
हरिः प्राह कथं व्योम्नि भ्रमसि त्वं खगेश्वर ।
विधृत्य महतीं शाखां महान्तौ गजकच्छपौ ।।५४।।
गरुडस्तु हरिं प्राह काश्यपो विनतासुतः ।
गरुडोऽहं गजकूर्मो गृहीत्वा जम्बुभूरुहम् ।।५५।।
गतः स मेरुवृक्षोऽपि भग्नस्तिष्ठामि कुत्र वै ।
भक्षितुं क्षुधितश्चास्मि क्व यामि वद मे प्रभो ।।५६ ।।
मम भारं तथा वेगं सहन्ते न द्रुमादयः ।
पर्वताश्चापि कम्पन्ते ग्रहाः क्षुभ्यन्ति चाम्बरे ।।५७।।
इत्युक्तो भगवानाह तिष्ठ बाहौ ममात्र वै ।
क्षुधां कुरु प्रशान्तां त्वं भक्षेमौ गजकच्छपौ ।।५८।।
इत्युक्तो गरुडो बाहौ पपात श्रीहरेस्तदा ।
शाखां त्यक्त्वा महाब्धौ च चखाद गजकच्छपौ ।।५९।।
क्षुधा तथापि शान्ता न ततः प्राह हरिस्तु तम् ।
भुंजस्व मम मांसं त्वं भक्षयित्वा सुखी भव ।।1.463.६०।।
इत्युक्तो भुजमांसं स खादित्वा तृप्ततां गतः ।
तथापि न व्रणो बाहौ जातश्चेति विलोक्य सः ।।६ १ ।।
हरिं प्राह प्रियं किं ते करिष्यामि वद प्रभो ।
हरिः प्राह भव मे वाहनं त्वं सार्वकालिकम् ।।६२।।
अवध्यः सर्वभूतेषु भव त्वं चाऽजराऽमरः ।
सर्वत्र ते गतिश्चास्तु कर्म तेजश्च मत्समम् ।।६३।।
आहारं लप्स्यसे पूर्णं मातृव्यसननाशनात् ।
इत्युक्तः स ययौ पक्षी पितरं कश्यपं प्रति ।।६४।।
प्रष्टुं चाज्ञां ग्रहीतुं चाऽकथयत् पितरं च सः ।
प्रहृष्टात्मा कश्यपस्तु तनयं प्राह सद्वचः ।।६५।।
धन्योऽहं जननी धन्या धन्यं कुलं सुपुत्रवत् ।
यस्य पुत्रो विष्णुभक्तः कुलकोटिप्रमोचकः ।।६६।।
क्षयात्तु सर्वपापानां विष्णोः किंकरतां व्रजेत् ।
विष्णुर्यस्य भवेत् प्रीतः सोऽपि स्यात्पुरुषोत्तमः ।।६७।।
पुत्रः पत्नी सुता गौश्च कृष्णार्थं यस्य विद्यते ।
धन्यः स देहवानत्र पूतं यस्य कुटुम्बकम् ।।६८।।
तपोभिर्बहुभिर्धर्मैर्मखैर्नानाविधैरपि ।
विष्णुर्न लभ्यते देवैस्त्वया लब्धो हरिः स वै ।।६९।।
मातरं त्वं सेवयित्वा गच्छ विष्णोः परं पदम् ।
इति त्वाज्ञां गृहीत्वा स शीघ्रं जगाम मातरम् ।।1.463.७० ।।
नत्वा तु मातरं स्वल्पशरीरेण स बालकः ।
कामरूपधरो भूत्वा रेमे जहर्ष सन्निधौ ।।७१ ।।
कद्र्वास्तु किंकरीभूत्वा स्थितां दृष्ट्वा तु मातरम् ।
पप्रच्छ गरुडस्तत्र कारणं वद मेऽम्बिके ।।७२।।
माता प्राह शृणु पुत्र प्राग्वृत्तं कथयामि ते ।
कद्र्वा सह यः संजातः पणस्तं त्वं निबोध मे ।।७३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कश्यपात् कद्रूप्रजाः सर्पाः, विनतायामुलूकस्याऽरुणस्य गरुडस्योत्पत्तिः, गरुडेन भक्षिताः सविप्रशबरा उद्वमिताः, विष्णुभुजपललं भक्षितम्, विष्णोर्वाहनं वरदानं चेत्यादिनिरूपणनामा त्रिषष्ट्यधिकचतुश्शततमोऽध्यायः ।।४६३ ।।