लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६२
[[लेखकः :|]]
अध्यायः ४६३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! भविष्यत्कालिकीं कथां वदामि ते ।
सहिता भगवत्प्रोक्ता ब्रूते त्रैकालिकीं कथाम् ।। १ ।।
भगवद्गोचरं सर्वं यथार्थं चाऽप्यबाधितम् ।
कल्पे कल्पे विभिन्ना च काचित् सजातिसदृशी ।। २ ।।
कथा संजायते विष्णोर्मम ते चापि सुन्दरि ।
आकर्णय प्रिये लक्ष्मि! पञ्चवक्त्रो हरः स्वयम् ।। ३ ।।
पृथिव्यां पञ्चधा भूत्वा यज्ञे संहारकृच्छिवः ।
उमापि च जगद्धात्री द्रुपदस्य महीभुजः ।। ४ ।।
यजतो वह्निकुण्डात् सा प्रादुरास सुकन्यका ।
पञ्चापि पाण्डुतनयाः साक्षादिन्द्रस्वरूपिणः ।। ५ ।।
अवतेरुरिह स्वर्गात् क्षितेर्भाराऽपनुत्तये ।
संजज्ञे श्रीकृष्णनारायणोऽपि तत्सहायकृत् ।। ६ ।।
सम्पद्विपद्भ्रमावर्ता नैसर्गिका जगद्भुवि ।
जगद्भुवां प्रजायन्ते ह्युदयाऽनुदयादयः ।। ७ ।।
कदाचित्ते महावीरा भ्रातृव्यैः समयोजिताम् ।
वनवासिप्रथारीतिं शिश्रियिरे विपत्समाम् ।। ८ ।।
पञ्चालपुत्री सा देवी ययौ वनस्थलीं तु तैः ।
भक्ता पतिव्रता साध्वी पूजयत्येव तान् सदा ।। ९ ।।
पतिभक्ता सती साध्वी कृष्णभक्ता हरेः सखी ।
इन्द्रपत्नी तापसी साऽऽराधयामास भास्करम् ।। 1.462.१० ।।
ब्रह्मचर्यपरा वन्याहारा संसेव्य तान्पतीन् ।
शेषकाले ह्यनिरुद्ध्य सूर्यध्यानपराऽभवत् ।। ११ ।।
ध्यात्वा चानखकेशान्तं समावाह्याऽर्कपादपे ।
बहुवस्तुप्रदानेन पूजयत्येव भावतः ।। १२।।
जलं पुष्पं दलं वन्यं फलं भोज्यं सुगन्धिकम् ।
नीराजनं प्रदीपं च भक्त्याऽर्पयति सा सती ।। १३ ।।
नमनं स्मरणं स्तोत्रं प्रदक्षिणं क्षमापनम् ।
पुष्पाञ्जलिं परिहारं सा करोति पतिव्रता ।। १४ ।।
आराधितोऽथ सविता ददौ स्वदर्शनं रविः ।
उवाच तां महादेवीं वद किं तेऽस्त्यभीप्सितम् ।। १ ५।।
अहं सूर्यः कुष्णतनुस्त्वं कृष्णा यज्ञसंभवा ।
तन्वोरैक्यं विजानामि यन्मदीयं तवापि तत् ।। १६।।
द्रौपदी प्राह देवेश वने वै साधनं विना ।
बहूनां भोजनाद्यं च पर्याप्तं नैव पार्यते ।। १७।।
सहस्राणामतिथीनामागमो भवति क्वचित् ।
श्रुत्वा हि पाण्डवानां तु वनवासं वने रवे! ।। १८।।
तदा तेषां कृते योग्यं यथापूर्णा तु सत्कृतिः ।
जायेत भगवँस्तद्वै देहि निर्व्याधिकं धनम् ।। १ ९।।
पातिव्रत्यं पतिकीर्तिर्यथा न स्यात्तु निम्नगा ।
तथा सहायतां देहि वनवासकृतेऽर्थदाम् ।। 1.462.२० ।।
आसनं च जलं वन्यफलान्नं मधुरा च वाक् ।
नेत्रस्नेहस्त्वतिथीनां प्रसादस्य प्रयोजकाः ।।२१ ।।
आशीर्वादाः प्रजायन्ते प्रसन्नहृदयोत्थिताः ।
दूयमानहृदुत्थास्तु शापा भस्मकरा मताः ।।२२।।
पतिसेवा वने लाभः परमो मेऽत्र वर्तते ।
पतितुल्याऽतिथिसेवाऽन्नाद्यैः संशयिता प्रभो ।।२३ ।।
इति श्रुत्वा तु पाञ्चाल्याः प्रसन्नो भास्करः प्रभुः ।
सदर्वीं सपिधानां च स्थालिकामक्षयां ददौ ।।२४।।
उवाच स प्रसन्नात्मा स्वात्मिकां तां सतीं तनुम् ।
स्थाल्यैतया महापुण्ये यावन्तोऽन्नार्थिनो जनाः ।।२५ ।।
तावन्तस्तृप्तिमाप्स्यन्ति यावच्च त्वं न भोक्ष्यसे ।
भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविष्यति ।।२६ ।।
रसवद्व्यञ्जननिधिरिच्छाभक्ष्यप्रदायिनी ।
यावद्वने निवासस्ते तावत् स्थास्यति ते वशे ।।२७।।
प्रसेवय पतीन् नित्यं लक्षशो वनवासिनः ।
पुण्यमर्जय देवेशि सर्वं भद्रं सदाऽस्तु ते ।।२८।।
त्वं लक्ष्मीस्त्वं सती श्रीश्च त्वं प्रभा त्वं च माणिकी ।
त्वं पार्वती जया राधा रमा पद्मा च मोहिनी ।।२९।।
पद्मावती च रुद्राणी चम्पा त्वं शारदा शिवा ।
तुलसी त्वं महालक्ष्मीर्वृन्दा सीता च रुक्मिणी ।।1.462.३ ०।।
त्वं न जानासि देवेशि मानुषलीलयाऽन्विता ।
जानाम्यहं सति त्वां वै कृष्णकान्ताऽसि सर्वथा ।।३ १ ।।
नररूपोऽर्जुनस्ते ३ पतिः कृष्णार्धकस्तव ।
कृष्णे पतिव्रतं तेऽस्ति कृष्णा त्वं कृष्णकामिनी ।।३२।।
त्वामेकां निमित्तीकृत्य पञ्चवीरैर्वसुन्धराम् ।
कृष्णो निर्दैत्यभारा वै कर्तुमिच्छति यज्ञजे ।।३३ ।।
त्वत्स्वरूपं मम पात्रे चोभे त्वक्षयपूर्तिदे ।
त्वतः सर्वाः कलाः सत्यो मम पात्रात्तु सन्मखाः ।।३४।।
भवन्त्येव भविष्यन्ति कृष्णनारायणाश्रिताः ।
नहि कृष्णवचःकर्त्री त्वादृशी कोमला सती ।।३५।।
सात्त्विकी क्षमया व्याप्ता विना लक्ष्मीं भविष्यति ।
कृष्णवचस्तदेवास्ति व्रतं पतिव्रतं तव ।।३६ ।।
धर्माधर्मौ कृष्णवाक्ये बन्धमोक्षावपि प्रभौ ।
सुखदुःखे कृष्णमूर्तौ पाण्डवाः कृष्णमूर्तयः ।।३७।।
मातस्तेऽस्तु सदा स्वस्ति मा दुःखं वनवासकृत् ।
मन्येथाः सुखरूपाऽसि स्मर कष्टे हरिं च माम् ।।३८।।
करिष्ये सेवनं काले दास्ये साहाय्यमित्यपि ।
महतीनां भवेत्कष्टं क्षुद्रीणां किं भवेत् सती ।।३ ९।।
खड्गधारसहा राज्यं कुर्वन्ति क्षत्रिया भुवि ।
नहि शृगालतुल्यानां क्षेत्रं स्वल्पं स्वकं भवेत् ।।1.462.४०।।
अग्निकष्टं सहेत या साऽग्निवर्चस्कभूषणा ।
भवत्येव हि साऽग्नेस्तु जाया कोट्यर्कवर्चला ।।४१ ।।
नहि भेकी सिंहपत्नी नहि काकी प्रहंसिका ।
नहि दासी राजपत्नी न रंका धनदाधिपा ।।४२।।
त्वया सर्वं जगत् स्मृद्धं त्वां विना निष्प्रभायते ।
द्रौपदि स्मर गोविन्दं हृत्स्थं स्वामिस्थितं च तम् ।।४३ ।।
इत्युक्त्वा प्रययौ सूर्यो नत्वा तां स तया नतः ।
द्रौपदी वनमध्ये संसेवते श्रीहरिं पतीन् ।।४४।।
धार्तराष्ट्रेण दुर्वासा अयुतशिष्यसेवितः ।
प्रेषितः पाण्डवानां तु विनाशमिषहेतवे ।।४५।।
आतिथ्यभोजनं न स्यादयुतानां ततः ऋषिः ।
प्रशप्स्यति पाण्डवाँश्च नाशमेष्यन्ति ते ततः ।।४६।।
इत्यभिप्रेत्य विहितो दुर्वासास्तद्वनं ययौ ।
पाण्डुभिः सत्कृतश्चापि भोजनार्थं निवेदितः ।।४७।।
स्नानार्थं स ययौ यावत् सूर्यपात्रं तु तत्तदा ।
प्रक्षाल्य स्थापितं सत्या नैव दास्यति भोजनम् ।।४८।।
नियमोत्तरकाले तु क्षीणमन्नं न वर्धयेत् ।
विनाऽन्नं ऋषिराट् क्रुद्धः प्रशप्स्यति ध्रुवं यतः ।।४९।।
तदा सत्या स्मृतः कृष्णः कृष्णप्रियया योषिता ।
दिव्यरूपः स्वयं कृष्णः समायातः कृपालयः ।।1.462.५०।।
वद देवि स्मृतः कस्मादाह कृष्णनरायणः ।
सती प्राहाऽत्रिपुत्रस्य भोजनं किं ददाम्यहम् ।।।५१ ।।
सर्वं रिक्तं तु संजातं भुक्तं मयाऽपि पात्रकम् ।
प्रक्षाल्य रक्षितं स्थाने नास्त्यन्नं कृष्ण माधव ।।५२ ।।
कृष्णः प्राह सति पात्रं समानय विलोकये ।
आनीतं तत्र पार्श्वे संलग्नं तान्दूलपत्रकम् ।।५३ ।।
दृष्टं कृष्णेन तत्पत्रं निहितं स्वमुखे तु तद् ।
प्रियतां श्रीविश्वभर्ता ब्रह्माण्डं प्रियतां तथा ।।५४।।
इत्युक्त्वा भगवान् कृष्णश्चखाद तद्दलं शुभम् ।
पपौ जलं ततश्चक्रे समुद्गारं पुनः पुनः ।।५५ ।।
अहो तृप्तिस्तु मे जाता त्रैलोक्यं तृप्तमेव च ।
दुर्वासास्तदयुतं च शिष्याणां तृप्तमेव च ।।।५६।।
उदराणि प्रपूर्णानि जातान्येव हरेः कृतेः ।
यस्य गेहे हरिर्भुंक्ते तस्य भुंक्ते जगत्त्रयम् ।।५७।।
यस्य गेहे हरिस्तृप्तस्तस्यास्तृप्तं जगत्त्रयम् ।
दुर्वासाः शिष्यसहितो भयं प्राप्तोऽति तृप्तिमान् ।।५८।।
किं भवेन्नेव भोक्ष्यामस्तदा शप्तास्तु योषिता ।
विनंक्ष्यामस्ततस्तत्र गन्तव्यमेव नो त्वितः ।।५९।।
इति विचिन्त्य सहसा स्नानस्थानाद् ययुर्द्रुतम् ।
पलायनपराः सर्वे शिष्याश्च क्रोधनो मुनिः ।।1.462.६०।।
पाण्डवाश्चाऽभवन् स्वस्था द्रौपद्यपि विचिन्तना ।
कृष्णश्च सेवितः सर्वैः रक्षाकरहरिर्वने ।।६ १ ।।
यदाऽऽपत् स्यात् सुस्मर्तव्य इत्युक्त्वा प्रययौ प्रभुः ।
एष पतिव्रताधर्मः कृष्णपत्यात्मकः सति ।।६२।।
सर्वा वाञ्छन्ति सुभगं सुरूपं यौवनान्वितम् ।
धनाढ्यं स्मृद्धमैश्वर्यान्वितं कीर्तिकरं पतिम् ।।६३।।
तादृशं कृष्णमासाद्य का न सेवेत किंकरी ।
का न कुर्यात् स्वीयजन्मसाफल्यं वै पतिव्रता ।।६४।।
देव्यो गान्धर्व्य आसुर्यो नागपत्न्यो मुनिप्रियाः ।
वल्ल्यो नद्यः क्षमाद्याश्च क्ष्माद्याश्च किन्नरस्त्रियः ।।६५।।
मानव्यश्च किंपुंपत्न्यो विद्याधर्यस्तथाऽपराः ।
या या मुमुहुः कृष्णे ताः सर्वाः प्रापुः परं पदम् ।।६६।।
तासां सुखकरः कृष्णो लोके जायते जन्मना ।
जन्म कर्म च दिव्यं तद् दृश्यते न विधीयते ।।६७।।
श्रीहरेर्हरिकृष्णस्य कृष्णनारायणस्य वै ।
राधादीनां रमादीनां जन्मानि योनिजानि न ।।६८।।
यदा यदा स्वयं कृष्णश्चावतरितुमिच्छति ।
ददात्याज्ञां वायुदेवं वस गर्भपुटे स्थिरः ।।६९।।
यथा दृश्यं भवेन्मात्रुदरं गर्भयुतं शुभम् ।
नवमासान् स्थिरो भूत्वा दशमे मासि चागते ।।1.462.७०।।
जन्मकाले त्वया गर्भान्निःसरणीयं बालवत् ।
अहं तदाऽपत्यरूपं बालकं मां विधाय च ।।७१ ।।
पतिष्यामि भुवो भागे जानीयुर्मां हि जन्मितम् ।
अयोनिजं मम जन्म तथा भवति सर्वथा ।।७२।।
सर्वेषामवताराणामयोनिजं जनुर्मम ।
राधालक्ष्मीरमापद्माश्रीप्रभाकान्तिशारदाः ।।७३।।
माणिकीपार्वतीदुर्गासरस्वतीसतीजयाः ।
पद्मावतीललिताकम्भराद्यास्ता अयोनिजाः ।।७४।।
यदा यदा हि जायन्ते वायुर्गर्भे प्रतिष्ठति ।
दशमे मासि चायाते प्राप्ते कालेऽनिलः स्वयम् ।।७५।।
क्षणं बालस्वरूपो वै भूत्वा योनेर्बहिस्ततः ।
आयात्येव तदा देव्यो भवन्ति बालिकात्मिकाः ।।७६ ।।
अन्ये यथा न जानीयुस्तथा बाला भवन्ति ताः ।
कथयन्ति जना अज्ञा योनिजा इति तास्तदा ।।७७।।
दिव्यदृष्टिपरास्तास्तु पश्यन्त्ययोनिबालिकाः ।
इदं दिव्यजनुस्तस्य कृष्णस्य तस्य योषिताम् ।।७८।।
संकल्पसृष्टिवत् सृष्टिः कृष्णनारायणस्य वै ।
कामो वीर्यं रतिर्गर्भः सर्वं दर्शनमात्रकम् ।।।७९।।
लोकवत्तु तस्य लीलां कैवल्यं चापि लोकवत् ।
लोकाः पश्यन्ति देवास्तु देववद् दिव्यचक्षुषः ।।1.462.८०।।
ईश्वरा ईशवत्तद्वै मुक्ताः पश्यन्ति मुक्तवत् ।
स्वः विलोकयति स्वीयं स्ववच्छ्रीपुरुषोत्तमः ।।८ १ ।।
तस्मात् सर्वाः क्रियाः कृष्णे दिव्या दिव्यत्वदायिकाः ।
इतिधर्मान् कृष्णधर्मान् कृष्णपतिपरायणान् ।।८२।।
पतिरूपान् कृष्णभक्तान् संप्राप्य च पतिव्रताः ।
स्वर्गं मोक्षं वृषं कामं चार्थं समर्जयन्ति ताः ।।८३ ।।
पुत्रं पुत्रीं सुखं दिव्यानन्दं समर्जयन्ति ताः ।
कृष्णार्थं सर्वमेवापि कृत्वाऽर्चयन्ति माधवम् ।।८४।।
कृष्णव्रतं सदा कृत्वा संसेव्य पतिमाधवम् ।
देहं स्वं पतिसात्कृत्वा चाप्नुवन्ति हरेः पदम् ।।८५।।
किं वक्तव्यं प्रिये लक्ष्मि! जानात्येवेदृशं व्रतम् ।
मद्व्रतं त्वद्व्रतं सर्वं शुभं दाम्पत्यधर्मकम् ।।८६।।
निर्गुणं च परनिर्वाणदं मत्पदनायकम् ।
श्रेष्ठाच्छ्रेष्ठतरं तुभ्यं कथितं मत्प्रिये सति ।।८७।।
या कापि नीचगा चोच्चकुलजा वा तु भामिनी ।
मद्रतिर्मत्कृतप्राणा मदर्थार्पितजीवना ।।८८।।
मयोक्तभावसंभिन्ना सेवते मां पतिव्रता ।
हरिव्रता च सा त्वन्ते प्राप्स्यत्येव पतिव्रता ।।८९।।
अस्याऽध्यायस्य संश्रोत्री कर्त्री दर्शितसद्विधेः ।
अर्चयित्री च मे नित्यं प्राप्स्यत्येव सती हि माम् ।।1.462.९०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्रौपद्याः सतीत्वेन पातिव्रत्यबलेन वनेऽभोजनकालागतसशिष्यदुर्वाससो द्रोपद्यादिरक्षणं तान्दूलपत्रादनं कृष्णकृतमिति निरूपणनामा द्वाषष्ट्यधिकचतुश्शततमोऽध्यायः ।। ४६२ ।।