लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६१
[[लेखकः :|]]
अध्यायः ४६२ →

श्रीलक्ष्मीरुवाच-
पातिव्रत्यं परो धर्मः श्रुतो ज्ञातश्च ते मुखात्। ।
नारीदेहस्य पावित्र्यं शाश्वतं कृत्रिमं च वा ।। १ ।।
यद्वा संस्कारसम्प्राप्यं यद्वा वैवाहिकं मतम् ।
यथार्थं वद मे कान्त धर्मकार्यादिपुष्टिकृत् ।। २ ।।
श्रीनारायण उवाच-
स्त्रियः पवित्राः सततं नैता दुष्यन्ति केनचित्। ।
मासि मासि रजस्तासां दुष्कृतान्यपकर्षति ।। ३ ।।
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।
भुंजते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ।। ४ ।।
स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम् ।
कल्याणवाणीं गन्धर्वास्तेन मेध्याः सदा स्त्रियः । । ५ । ।
कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने ।
स्तनोद्भेदेषु गन्धर्वास्तत्प्रागेव प्रदीयते । । ६ । ।
कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं बहु ।
कन्यादानफलप्रेप्सुस्तस्माद्दद्यादयौवनाम् । । ७ ।।
रजोरोमस्तनोद्भेदा यौवनस्य प्रदर्शकाः ।
अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ।। ८ ।।
दशवर्षा भवेत् कन्या ह्यत ऊर्ध्वं रजोऽन्विता ।
कन्यादानं शुभं प्रोक्तं चतुर्दशसमाय वै । । ९ ।।
शयनासनयानानि कुणपं स्त्रीमुखं कुशाः ।
यज्ञपात्राणि सर्वाणि न प्रदुष्यन्ति वै क्वचित् ।। 1.461.१० । ।
वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने ।
नार्यो रतिप्रयोगेषु श्वा मृगग्रहणे शुचिः । । ११ । ।
अजाऽश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।
ब्रह्मज्ञाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः । । १२ । ।
बलात्कारोपभुक्ता वा चोरहस्तगताऽपि वा ।
न त्याज्या दयिता नारी मेध्याऽजेन विनिर्मिता । । १३ ।।
साधवो गैरिकापूता रजःपूताश्च योषितः ।
कृष्णपूतं जगत्सर्वं दम्पत्युद्वाहपावनौ ।। १ ४।।
गर्भपूतं सदा वीर्यं जन्मपूतं तु बालकम् ।
मन्त्रपूताः सदा शिष्या दीक्षापूताः शरीरिणः । । १ ९' । ।
व्रतपूताः सदा सन्तः पतिपूतो वधूजनः ।
जीवपूतं सदा दुग्धं स्थानपूता रदादयः । । १६ ।।
भावपूता सदा कन्या युवती जरठाऽथवा ।
आपः स्वभावतो मेध्या मेध्यो वह्निः स्वभावतः । । १७ । ।
वह्निरापोऽनिलो नारी मेध्या वंशोद्भवाः सदा ।
तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाऽशनैः ।। १८ । ।
भूतिकामैर्नरैर्नित्यं सत्कार्येषूत्सवेषु च ।
रमन्ते देवतास्तत्र स्युस्तत्र सफलाः क्रियाः ।। १९ ।।
यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति ।
तत्र वेश्मनि कल्याणं सम्पद्येत पदे पदे । । 1.461.२० ।।
प्रातिकूल्ये कलत्रं चेन्नरकेणापि किं ततः ।
दक्षा प्रजावती साध्वी प्रियवाणी वशंवदा । । २१ ।।
पतिप्राणा भागवती सा श्रीः स्त्रीरूपधारिणी ।
सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि ।। २२ ।।
वपुरावर्तगन्धाश्च छाया सत्त्वं स्वरो गतिः ।
वर्णश्चेत्यष्टधा बोध्या नारीलक्षणभूमयः ।। २३ ।।
षष्टिः षडुत्तरा योषिदंगलक्षणसत्खनिः ।
आदौ पादतलं रेखास्ततोऽङ्गुष्ठांऽगुलीनखाः ।। २४ । ।
पृष्ठं गुल्मद्वयं पार्ष्णी जंघे रोमाणि जानुनी ।
ऊरू कटिर्नितम्बस्फिग्भगो जघनबस्तिके ।। २५ ।।
नाभिः कुक्षिद्वयं पार्श्वोदरमध्यवलित्रयम् ।
रोमाली हृद्यं वक्षो वक्षोजद्वयचूचुकम् । । २६ । ।
जत्रुस्कन्धांऽसकक्षादोर्मणिबन्धकरद्वयम् ।
पाणिपृष्ठं पाणितलं रेखाऽङ्गुष्ठांऽगुलीनखाः ।। २७ । ।
पृष्ठिः कृकाटिका कण्ठे चिबुकं च हनुद्वयम् ।
कपोलो वक्त्रमधरोत्तरौष्ठौ द्विजजिह्विकाः । । २८ ।।
घण्टिकातालुहसितं नासिका क्षुतमक्षिणी ।
पक्ष्मभ्रूकर्णभालानि मौलिसीमन्तमौलिजाः ।। २९ । ।
एतेष्वंगेषु नार्यो वै परीक्ष्यन्ते शृणु प्रिये! ।
स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् । । 1.461.३० ।।
अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ।
रूक्षं विवर्णं परुषं खण्डितप्रतिबिम्बकम् । । ३१ । ।
शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ।
चक्रस्वस्तिकशंखाब्जध्वजमीनाऽऽतपत्रवत् ।। ३२ ।।
यस्याः पादतले रेखाः सा भवेद्वै नृपांगना ।
मध्यांगुलीगताचोर्ध्वरेखा भोगातिभोगदा । । ३३ । ।
सर्पमूषकरेखास्तु दारिद्र्यदुःखदायिकाः ।
पुष्टोन्नतः शुभोऽङ्गुष्ठो वर्तुलो बहुभोगदः । । ३ ४।।
ह्रस्ववक्रचिपिटस्त्वंगुष्ठः सौभाग्यनाशकः ।
विधवा विपुलांगुष्ठा दीर्घांगुष्ठा तु दुर्भगा ।। ३५ । ।
मृदून्नतघनवृत्तांगुलयः सम्पदां प्रदाः ।
दीर्घांगुलयः कुलटा कृशांगुलयो निर्धनाः । । ३६ ।।
ह्रस्वांगुल्यो हस्वजीवा भुग्नांगुल्यः शठा मताः ।
चिपिटांऽगुलयो दास्यो दरिद्रा विरलांगुलिः ।। ३७ । ।
परस्परसमारूढपादांगुल्यस्तु योषितः ।
अनेकवारं विधवाः परनार्यश्च ता मताः । । ३८ । ।
यस्याः पथि चलन्त्यास्तु पृष्ठे धूली समुच्छलेत् ।
सा पित्रोश्च तथा पत्युः कुलनाशकरी भवेत् । । ३९ । ।
यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।
सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् । । 1.461.४० ।।
अनामिका तु गच्छन्त्या यस्या भूमिं तु न स्पृशेत् ।
पतिद्वयं निहत्यैव तृतीयं कुरुते पतिम् ।। ४१ । ।
मध्यमांगुलिका यस्या यान्त्या भूमिं न वै स्पृशेत् ।
पतित्रयं निहत्यैव चतुर्थं कुरुते पतिम् ।।४० ।।
अनामिका मध्यमाऽतिह्रस्वा पतिवियोगिनी ।
प्रदेशिनी सदांगुष्ठसंयुक्ता कुलटाकरी ।।।४३।।
स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः ।
उन्नतं चेत् पादपृष्ठं मसृणं मृदु मांसलम् ।।४४।।
अस्वेदमशिराढ्यं च राज्ञी भवेन्न संशयः ।
मध्यनम्रं पादपृष्ठं सदा दारिद्र्यसूचकम् ।।४५।।
शिरालं त्वध्वगतिदं रोमाढ्यं किंकरीकरम् ।
निर्मांसं चेत् सुदुर्भाग्यप्रदं बोध्यं हि योषितः ।।४६।।
गूढौ गुल्फौ तु सुखदौ वर्तुलौ चाऽशिरालकौ ।
नीचैःस्थौ शिथिलौ बाह्यो दुर्भाग्यदौ हि योषितः ।।४७।।
समः पार्ष्णिः सुशुभदः पृथुः पार्ष्णिस्तु दुर्भगः ।
उन्नतः कुलटापार्ष्णिः पार्ष्णिर्दीर्घः सुदुःखदः ।।४८।।
नीरोमे विशिरे जंघे स्निग्धे च क्रमवर्तुले ।
मनोहरे सुरक्तके राजपत्न्या मते शुभे ।।४९।।
राज्ञी भवेदेकरोमा द्विरोमा सुखभागिनी ।
त्रिरोमा रोमकूपेषु विधवा स्यान्न संशयः ।।1.461.५०।।
वृत्ते सुमांसले पुष्टे जानुनी धर्मयोषितः ।
निर्मांसे स्वैरचारिण्या दरिद्रायास्तु विश्लथे ।।५१ ।।
कदलीकरभाकारौ मसृणौ धवलौ घनौ ।
ऊरू वृत्तौ मृदू रोमरहितौ विशिरौ शुभौ ।।५२।।
भूपस्त्री सुधनाढ्यस्त्री विदुषी स्यात् पतिव्रता ।
सरोमोरुयुता स्याद्वै विधवा परगा तथा ।।५३ ।।
दुर्भाग्या स्याच्चिपिटोरुमती दुःखमयी सदा ।
सछिद्रोरुयुता दुःखभागिनी सशिरोरुका ।।५४।।
कठिनत्वगूरुमती दारिद्र्यव्यापिनी सदा ।
चतुर्विंशत्यंगुला या कटिर्वर्तुलमानगा ।।५५।।
समुन्नतनितम्बा च चतुरस्रा कटिः शुभा ।
निम्ना नता चिपिटा च शुष्का दीर्घा तु दुःखदा ।।५६।।
कटिः सरोमा ह्रस्वा तु विधवात्वप्रसंजिका ।
नितम्बौ तून्नतौ पुष्टौ पृथू कठिनमांसलौ ।।५७।।
कपित्थफलवद्वृत्तौ रतिभोगविवर्धनौ ।
योनिः कच्छपविस्तारा गजकुंभोन्नता शुभा ।।५८।।
वामोन्नता तु कन्यादा दक्षोन्नता तु पुत्रदा ।
आखुरोमनिभरोमा गुप्तमध्या च विस्तृता ।।५९।।
दृढबन्धा दृढतटोन्नता प्लक्षदलाऽऽयता ।
पद्मवर्णा स्वल्पशुष्का श्रेष्ठा सौभाग्यवर्धिनी ।।1.461.६ ०।।
मृगादिखुररूपाया वर्तुला चुल्लिकासमा ।
सरोमा विवृतास्या च लम्बशुकाऽधमा मता ।।६ १ ।।
शंखावर्तसमा गर्भधृतियोग्या न जायते ।
चिपिटा खर्पराकारा किंकरीकारिणी सदा ।।६२।।
वंशवेतसपत्राभा दीर्घोच्छ्ररोमसंयुता ।
अत्युन्नतशुकाढ्या तु योनिर्नैव शुभप्रदा ।।६३ ।।
दृढोन्नततटा स्वच्छरक्ताभा स्वल्पमध्यिका ।
अन्तर्वलययुक्ता तु योनिः सौख्यप्रदा सदा ।।६४।।
मांसच्छन्नोर्ध्वाऽस्थिगुप्ता निमज्जदस्थिरक्षिता ।
परितोऽन्तर्मांसला तु योनिः सौख्यप्रदा सदा ।।६५।।
विकटा कुटिला लम्बा विशाला शिथिलां गुहा ।
कन्दरा मुक्तमांसार्द्रा सुखदा न कदाचन ।।६६।।
भगभालं जघनं तु विशालं तुंगमांसलम् ।
मृदुलं मृदुरोमाढ्यं दक्षिणावर्तमुत्तमम् ।।६७।।
वामावर्तं च निर्मांसं वक्रं वैधव्यसूचकम् ।
जघनं गर्भिणीतुल्यं लम्बोदरं न शान्तिदम् ।।६८।।
शुष्कं संकुचितं निम्नं जघनं सास्थि दुःखदम् ।
जघनपार्श्वगा बस्तिर्मृद्वी विपुलकोमला ।।६९।।
किञ्चिच्च प्रोन्नता श्रेष्ठा यानवाहनदायिनी ।
रोमशा च शिराला सा रेखांका नैव शस्यते ।।1.461.७०।।
गम्भीरा दक्षिणावर्ता नाभिः स्यात् सुखसम्प्रदा ।
वामावर्त्ता समुत्ताना व्यक्तग्रन्थिर्न शस्यते ।।७१ ।।
विस्तृतकुक्षिका सूते सुतान् बहून् हि भामिनी ।
मण्डुकोदरवत् कुक्षिः सूत्रे पुत्रं नृपं सती ।।७२।।
ऊर्ध्वकुक्षिर्भवेद् वन्ध्या वलिकुक्षिः सती भवेत् ।
सावर्तकुक्षिका दासी भवेदाजन्मकिंकरी ।।७३ ।।
सममांसलमृदुलमग्नास्थिपार्श्वशालिनी ।
सौभाग्याऽऽनन्दसुगुणैश्वर्यसौख्यवती भवेत् ।।७४।।
सरोमोन्नतसंदृश्यनाडिकाकृशपार्श्वला ।
दुःशीला निरपत्या च सा भवेद् दुःखसागरा ।।७५।।
स्वल्पं विशिरं मृदुत्वगुदरं भोगबोधकम् ।
कुंभमृदंगकूष्माण्डोदरं दुष्पूरमेव हि ।।७६।।
लम्बोदरी श्वशुरघ्नी निरपत्या पृथूदरी ।
तनुमध्या तु सुभगा वलित्रया रतिप्रदा ।।७७।।
ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मदा ।
पिंगा वक्रा स्थूलछिन्ना रोमाली धववर्जिता ।।७८।।
निर्लोमोन्नतहृदया पतिस्नेहप्रदा सदा ।
विशालहृदया नारी पुंश्चली निर्दया भवेत् ।।७९।।
उद्भिन्नरोमहृदया पतिहा भवति घ्रुवम् ।
अष्टादशांगुलततमुरो यस्यास्तु पीवरम् ।।1.461.८०।।
उन्नतं सुखदं प्रोक्तं मांसलं शोभनं वरम् ।
दुःखदं तु भवेत् तद्वै रोमशं विषमं पृथु ।।८ १ ।।
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ।
स्थूलाग्रौ विरलौ शुष्कौ कोमलौ नहि शर्मदौ ।।८२।।
दक्षिनोन्नतदार्ढ्याढ्यकुचा पुत्रवती भवेत् ।
वामोन्नतकुचा कन्यां सूते सौभाग्यसुन्दरीम् ।।८३।।
अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ।
पीवरास्यौ सान्तरालौ पृथूपान्तौ न शोभनौ ।।८४।।
मूले स्थूलौ क्रमकृशौ तीक्ष्णाग्रौ यौ पयोधरौ ।
प्रथमं सुखदौ पश्चाच्छोकदौ दुःखकारिणौ ।।८५।।
सुन्दरे कठिने श्यामे वर्तुले चूचुके शुभे ।
अन्तर्मग्ने च वा दीर्घे कृशे क्लेशस्य सूचके ।।८६।।
पीवराभ्यां तु जत्रुभ्यां तु धनधान्यवती वधूः ।
श्लथाऽस्थिभ्यां तु निम्नाभ्यां विषमाभ्यां दरिद्रिणी ।।८७।।
अबद्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ ।
वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्यवैधव्यसूचकौ ।।८८।।
निगूढसन्धी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ।
वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ ।।८९।।
कक्षे शस्ते सूक्ष्मरोमे तुंगे स्निग्धे सुमांसले ।
न प्रशस्ते स्वेदयुक्ते गम्भीरे च शिरालके ।।1.461.९० ।।
हस्तौ रक्तौ मांसलौ निश्शिरौ गूढास्थिकोमलौ ।
विरोमाणौ शुभ्रताम्रौ सरलौ सत्ययोषिताम् ।।९१ ।।
वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यकारकौ ।
दृश्यशिरौ तथा रूक्षौ कृष्णौ क्लेशप्रदौ मतौ ।। ९२।।
अभ्भोजमुकुलाकारमंगुष्ठांगुलिसम्मुखम् ।
हस्तद्वयं सतीनां तु बहुभोगप्रसूचकम् ।।९३।।
मृदु मध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् ।
शस्तरेखान्वितं शस्तं स्वल्परेखं शुभश्रियम् ।। ९४।।
विधवा बहुरेखाभिश्चाऽरेखा तु दरिद्रणी ।
सशिरे भिक्षुकी पाण्योस्तले वैराग्यबोधके ।। ९५।।
विरोमे विशिरे पाण्योः पृष्ठे शस्ते समुन्नते ।
सरोमे मांसरहिते सशिरे विधवास्त्रियः ।।९६ ।।
रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ।
कररेखा भाग्यरेखा प्रशस्ता योषितां मता ।।९७।।
मत्स्येन सुभगा साध्वी स्वस्तिकेन धनप्रदा ।
पद्मेन भूपतेः पत्नी नृपमाता भवेत्तु सा ।।९८।।
चक्रवर्तिस्त्रियाः पाणीौ दक्षिणावर्तस्वस्तिकः ।
शंखातपत्रकमठध्वजच्छत्राणि वामके ।।९९।।
तुलारेखा वणिक्पत्नी बद्धकोशा वणिक्प्रिया ।
गजवाजिवृषा वामे प्रासादशकटे तथा ।। 1.461.१० ०।।
युगचिह्नं तु वामे चेद् वैश्यपत्नी हि सा भवेत् ।
चामरांऽकुशकोदण्डैः राजपत्नी समीरिता ।। १०१ ।।
अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् ।
सा स्यान्नारी पतिहन्त्री घातिनी दुःखकारिणी ।। १ ०२।।
त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ।
दानकर्त्री भवेत् सा स्त्री कीर्तिमती पतिव्रता ।। १ ०३।।
कंकजम्बूकमण्डूकवृकवृश्चिकभोगिनः ।
रासभोष्ट्रबिडालाः स्युः करस्था दुःखदाः स्त्रियाः ।। १ ०४।।
कृष्णा दन्तेषु दीर्घा या मिञ्जरीमुखतस्तु या ।
रोरूयमाणवदना खञ्जागमनतिर्यगा ।। १ ०५।।
कृष्णचाम्पलचरणा हनुलम्बमुखी च या ।
पृष्ठभग्नोदरघटा कीर्तिस्थानविनाशिनी ।। १०६ ।।
शुभकृत् सरलोऽङ्गुष्ठो वृत्तो वृत्तनखो मृदुः ।
अंगुल्यश्च सुपर्वाण्यो दीर्घा वृत्ताः कृशाः शुभाः ।। १ ०७।।
ताश्चिपिटा रूक्षशुष्काः पृष्ठरोमयुजोऽशुभाः ।
अतिह्रस्वाः कृशा वक्रा विरला रौगहेतुकाः ।। १ ०८।।
बहुपर्वसमेतांगुलयो दुःखप्रदा सदा ।
अरुणाः सशिखास्तुंगा वर्तुलाश्च नखाः शुभाः ।। १ ०९।।
निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यसूचकाः ।
नखेषु बिन्दवः श्वेताः स्वैरिणीत्वप्रसंजकाः ।। 1.461.११ ०।।
अन्तर्निमग्नपृष्ठास्थिः पृष्ठिश्च मांसला शुभा ।
रोमयुक्ता यदि पृष्ठिर्वैधव्यबोधिका तु सा ।। १११ ।।
भुग्ना नता सुशिरा च पृष्ठिर्दुःखप्रदायिनी ।
ऋज्वी कृकाटिकोन्नता समांसा शोभना सदा ।। ११ २।।
शुष्काशिराला रोमाढ्या विशाला कुटिलाऽशुभा ।
मांसलो वर्तुलः कण्ठः प्रशस्तश्चतुरंगुलः ।। ११३ ।।
शस्ता ग्रीवा त्रिरेखाङ्का चाऽव्यक्तास्थिः सुसंहता ।
निर्मांसा चिपिटा दीर्घा शुष्का नास्ति शुभप्रदा ।। १ १४।।
स्थूलग्रीवा तु विधवा वक्रग्रीवा तु किंकरी ।
वन्ध्या स्याच्चिपिटग्रीवा हस्वग्रीवा तु निःसुता ।। १ १५।।
चिबुकं द्व्यंगुलं शस्तं वृत्तं पीनं सुकोमलम् ।
स्थूलं द्विधा विभक्तं सरोमाऽऽयतं न शोभनम् ।। ११६ ।।
हनुश्चिबुकसंलग्ना निर्लोमा सुघना शुभा ।
वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा ।। ११ ७।।
पीनौ वृत्तावुन्नतौ शस्तौ कपोलौ सुपूरितौ ।
निम्नौ परुषौ रोमाढ्यौ निर्मांसौ सुखदौ नहि ।। १ १८।।
जनेतृवदनच्छायं स्वामोदं वर्तुलं समम् ।
स्निग्धं रम्यं सुमांसं प्रपूर्णं मुखं सतीस्त्रियाः ।। ११९ ।।
सुरक्तो वर्तुलः स्निग्धो मध्ये रेखाविभूषितः ।
अधरो राज्यदो मध्यादाप्रान्तं क्रमशस्तनुः ।। 1.461.१२० ।।
कृशः प्रलम्बः स्फुटितो रूक्षो दौर्भाग्यबोधकः ।
स्थूलः कपिशो वैधव्यक्लेशदश्चाऽधरौष्ठकः ।। १२१ ।।
किञ्चिन्मध्योन्नतोऽरोमा चिक्कणो भोगदोऽधरः ।
कोदण्डाकाररेखश्च लक्ष्मीदश्चोत्तराधरः ।। १२२ ।।
शुक्ला दाडिमबीजाभाः स्निग्धाश्चोभयतः समाः ।
स्तोकं समुन्नता दन्ताः सतीनां धर्मयोषिताम् ।। १२३ ।।
पीताः स्यावाः स्थूलदीर्घाः शुक्त्याभा विरला रदाः ।
मूलरूक्षा असमा द्विपंक्तयो भाग्यवर्जिताः ।। १ २४।।
अधोऽधिकरदा नारी मातृनाशकरी मता ।
विकटदन्ता विधवा कुलटा च पृथक्दती ।। १ २५।।
शोणा मृद्वी सिता जिह्वा मिष्टेष्टभोजना भवेत् ।
मध्ये संकुचिता चाग्रे विस्तृता दुःखदा भवेत् ।। १२६ ।।
सिता जलमृतिदात्री श्यामा कलहकारिणी ।
मांसला दारिद्र्यदा च लम्बा त्वभक्ष्यभक्षिणी ।। १२७ ।।
विशाला रसना नित्यप्रमादबोधिनी मता ।
सुस्निग्धं भूपद्मरंगं तालु मृदु प्रशस्यते ।। १२८ ।।
सिते तालुनि वैधव्यं पीतं संन्यासिनां भवेत् ।
कृष्णेऽपत्यविहीना च रूक्षे बहुकुटुम्बिनी ।। १ २९।।
कण्ठान्तर्वर्तिनी घण्टी तीक्ष्णा रक्ता च वर्तुला ।
अप्रलम्बा शुभाऽस्थूला स्थूलकृष्णा तु दुःखदा ।। 1.461.१३० ।।
हास्य चाऽदृश्यदन्त च किञ्चित्फुल्लकपालकम् ।
अनिमीलितनेत्रं च स्मितं नार्याः प्रशस्यते ।। १३१ ।।
समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा ।
स्थूलाग्रा मध्यनिम्ना चोन्नता नापि प्रशस्यते ।। १३२ ।।
शुकचञ्चुसमवक्रप्रान्ता नासा तु चोत्तमा ।
ह्रस्वाग्रा रक्तवर्णान्ता नासा वैधव्यकारिणी ।। १३३ ।।
चिपिटा किंकरीनासा ह्रस्वा दीर्घां कलिप्रिया ।
ललनालोचने शस्तं रक्तान्त कृष्णतारके ।। १ ३४।।
धवले दलवद्दीर्घे सुस्निग्धे कृष्णपक्ष्मणी ।
उच्छ्रयाक्षिर्न दीर्घायुर्वृत्ताक्षी कुलटा मता ।। १ ३५।।
मेषाक्षी महिषाक्षी च चिपिटाक्षी न शस्यते ।
गोपिंगाक्षी कामवेगा बहुभोगाश्रया भवेत् ।। १३६ ।।
पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ।
दुष्टा गह्वरनयना गजनेत्रा न शस्यते ।। १ ३७।।
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकर्णिका ।
रमणी मधुपिंगाक्षी धनधान्यसमृद्धिभाग् ।। १३८ ।।
पक्ष्मभिः सुघनैः सूक्ष्मैः स्निग्धैः कृष्णैः सुभाग्यभाक् ।
कपिलैर्विरलैः स्थूलैनिन्द्यकार्यकरी मता ।। १३९ ।।
भ्रुवौ सुवर्तुले स्निग्धे कृष्णकटे पृथक्स्थिते ।
प्रशस्ते मृदुरोमाणौ सुतीक्ष्णे कार्मुकाकृती ।। 1.461.१४० ।।
खररोमा विस्तृता च दीर्घरोमा च पिंगला ।
संहता च विकीर्णा च भ्रूर्न शस्ता वरस्त्रियाः ।। १४१ ।।
कर्णौ लम्बौ शुभावर्तौ कोमलौ सुखदौ स्त्रियाः ।
शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ।। १४२ ।।
भालः शिराविरहितो निर्लोमाऽर्धेन्दुसन्निभः ।
अनिम्नस्त्र्यंगुलो नार्याः सौभाग्यारोग्यसौख्यदः ।। १४३ ।।
स्पष्टस्वस्तिकरेखं तु ललाटं राज्यद्ं भवेत् ।
प्रलम्बमस्तका नारी भवेद् देवरघातिनी ।। १४४।।
शिरालोच्चोन्नमणिमस्तका रोगिणी मता ।
सीमन्तः सरलः श्रेष्ठः श्रेष्ठो मौलिः समुन्नतः ।। १४५ ।।
गजकुंभनिभौ वृत्तः सौभाग्यैश्वर्यसूचकः ।
घटमूर्धा तु विधवा लम्बशीर्षा तु पुंश्चली ।। १४६ । ।
विशालमूर्धा द्विमूर्धा दुर्भाग्या भवतीह वै ।
केशाः कृष्णा मृदुसूक्ष्माः स्निग्धाऽऽकुंचितसाग्रकाः ।। १ ४७।।
दीर्घाः सरला भास्वराः पातिव्रत्यस्य सूचकाः ।
परुषाः स्फुटिताग्राश्च पिशंगा लघुरूक्षकाः ।। ९४८ ।।
विरलाः स्थूलकठिना दुःखदारिद्र्यदायकाः ।
भ्रुवोरन्तर्ललाटे वा मशको राज्यदो मतः ।। १४९ ।।
वामे कपोले मशकः शोणो मिष्टान्नपानदः ।
तिलकं दक्षिणावर्तो माला वा भ्रमरोऽपि वा ।। 1.461.१५ ० ।।
तिलश्चन्द्रो मशको वा लक्षणं राज्यभाग्यदाः ।
दक्षकुचे रक्तबिन्दुस्तिलो वा सा प्रसूर्भवेत् ।। १ ५ १ ।।
कन्याचतुष्टयस्यापि पुत्रत्रयस्य वै सती ।
वामे कुचे तिलः शोणः पुत्रैकजननी तु सा ।। १५२ ।।
ततो वैधव्यमाप्नोति धर्मवती तु सा सती ।
गुह्यदक्षे तिलवती राजमाता भवेत् सती ।। १५३ ।।
नासाग्रे मशकः शोणो यस्याः सा नृपभामिनी ।
स चेत् कृष्णः सा पतिघ्नी पुंश्चली च भवेत् खलु ।। १ ५४।।
नाभ्यधो मशकश्चिह्नं तिलः पतिव्रतास्त्रियाः ।
गुल्फदेशे तिलश्चिह्नं मशकश्च दरिद्रकृत् ।। १५५ ।।
सव्ये कण्ठे करे कर्मे कपोले वा तिलोऽथवा ।
मशको वा भवेच्चिह्नं प्रथमं पुत्रदं भवेत् ।। १५६ ।।
भाले त्रिशूलरेखा चेदाचार्याणी भवेन्नृपी ।
सुप्ता जल्पति दन्ताँश्च कटायते कुलक्षणा ।। १५७।।
करे रोम्णां दक्षिणावर्तस्तु धर्मकरः सदा ।
वामावर्तो दुःखदः स्यात् करे रोम्णां स्त्रिया अपि ।। १५८।।
नाभौ कर्णे हृदि दक्षावर्तः प्रशस्त एव सः ।
पृष्ठस्य दक्षिणे दक्षोवर्तो महासुखप्रदः ।। १५९।।
पृष्ठदण्डे निम्नदक्षावर्तश्चायुसुतप्रदः ।
योनेस्तु मस्तके दक्षावर्तो राज्ञीत्वसूचकः ।। 1.461.१६० ।।
स चेत् स्याच्छकटाकारो बह्वपत्यादिसौख्यदः ।
भगारब्धः कटिश्रान्तश्चेत् पुत्रपतिनाशकः ।। १६१ ।।
उदरपुच्छकौ पृष्ठावर्तौ लम्बौ न शान्तिदौ ।
एकः स पतिहन्ता स्यादन्यः स पुंश्चलीकरः ।। १६ २।।
कण्ठस्थो दक्षिणावर्तो मतो वैधव्यदुःखदः ।
केशारंभे ललाटे सः कबर्यां वाऽतिकष्टदः ।। १६३ ।।
कृकाटिकायां कूपे वा यस्या रोमभ्रमो भवेत्। ।
सव्यावर्तोऽथवा दक्षावर्तः सा विधवा भवेत् ।। १६४।।
मस्तके वामभागे स्यादेको द्वौ वा तदा तु सा ।
आदशाहं पतिघ्नी स्यात् कट्यावर्ता तु पुंश्चली ।। १६५।।
पृष्ठावर्ता तु भर्तृघ्नी नाभ्यावर्ता पतिव्रता ।
कुलक्षणाऽपि सद्भक्ता देवभक्ता सती मता ।। १६६ ।।
तीर्थव्रततपोहोमजपदानपरायणाः ।
सतां हरेश्च कृपया पतिव्रताः सुलक्षणाः ।। १६७।।
सुलक्षणाः सतीनार्यः स्वल्पायुष्कमपि प्रियम् ।
दीर्घायुषं प्रकुर्वन्ति तारयन्ति कुलानि च ।। १६८।।
सर्वलक्षणमूर्धन्यं पातिव्रत्यं परो वृषः ।
तद्भवेच्चेल्लक्षणानि सर्वाणि सुखदानि वै ।। १६९।।
लक्षणानि मयोक्तानि सुखाय गृहिणां प्रिये ।
पठनाच्छ्रवणाच्चास्य स्वज्ञानं सुखदं भवेत् ।। 1.461.१७० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने स्त्रीपावित्र्यस्त्रीतनुस्थशुभाऽशुभादिसूचकचिह्नरेखाऽङ्गप्रत्यंगादिफलनिरूपणनामैकषष्ट्यधिक-
चतुश्शततमोऽध्यायः ।।४६ १ ।।