लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४६०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४६०
[[लेखकः :|]]
अध्यायः ४६१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारं ज्ञानोदस्य वदामि ते ।
अनादिसिद्धे संसारे पुरा देवयुगे सति ।। १ ।।
ईशानाख्यो दिशापालश्चरन् भूमिं समाययौ ।
तदा संकल्पमात्रेण सत्यधर्माः कृते युगे ।। २ ।।
न वर्षन्ति यदाभ्राणि न प्रावर्तन्त निम्नगाः ।
यदा जलाभिलाषा न स्नानपानादिकर्मसु ।। ३ ।।
पृथिव्यां मुनिसञ्चारे वर्तमाने क्वचित् क्वचित्। ।
आनन्दकाननं क्षेत्रमूषरं प्रविवेश सः ।। ४ ।।
आलुलोके ब्रह्मतेजोमयं लिंगं यदक्षरात् ।
किरणाख्यं समायातं यदा विष्णोश्च वेधसः ।। ५ ।।
अहमहमिको भावः श्रेष्ठत्वेत्वभवत्तदा ।
ईशानेन तदा स्वल्पमूषरे त्ववलोकितम् ।। ।।
स्वर्णसमं सुरूपं प्रोज्ज्वलं दिव्यं सुमोहकम् ।
ईशानस्याऽभवदिच्छा स्नापयामि जलैस्तु तत् ।। ७ ।।
चखान च त्रिशूलेन दक्षिणाशोपकण्ठतः ।
कुण्डे तत्र जलं दिव्यं तदा नारायणांगजम् ।। ८ ।।
जलावरणसम्बद्धं प्राविरासाऽतिपावनम् ।
तैर्जलैः स्नापयाञ्चक्रे लिंगं सुवर्णसदृशम् ।। ९ ।।
पीयूषवत् स्वादुतरैरस्पृष्टैरन्यदेहिभिः ।
अदृष्टपूर्वलोकानां मनोनयनहारिभिः ।। 1.460.१ ०।।
सहस्रधारैः कलशैः स ईशानो दिगीश्वरः ।
सहस्रकृत्वः स्नपयामास तुष्टस्ततो हरः ।। ११ ।।
प्रोचे वृणु वरं मत्तो ददामि तेऽतिदुर्लभम् ।
ईशानः प्राह विश्वेशं त्वन्नाम्ना तीर्थमस्त्विति ।। १२ ।।
विश्वेश्वरस्तदा प्राह तथास्त्विति सुमूर्तिमान् ।
भूत्वा लिंगस्वरूपः स वरिवर्ति महेश्वर. ।। १३ ।।
लीनमर्थं गमयति लिंगं ज्ञानप्रदं तु तत् ।
रश्मिं विना तदाधारं संभवेन्न कदाचन ।। १४।।
आधारस्तु परब्रह्म भगवान् पुरुषोत्तमः ।
तस्य ज्ञानप्रदं चिह्नं लिंगं तत् किरणं मतम् ।। १५ ।।
तस्य सुवर्णरूपस्य वापी स्नानार्थमेव या ।
ज्ञानवापी ज्ञानजलं ज्ञानोदं तीर्थमेव तत् ।। १६ ।।
ज्ञानं द्रवस्वरूपं च ज्ञानोदं शंकरालयम् ।
अस्य स्पर्शनपानाचमनस्नानोक्षणादिभिः ।। १ ७।।
भुक्तिं मुक्तिं पितृतृप्तिं यथेष्टं च फलं लभेत् ।
ज्ञानरूपोऽहमेवात्र द्रवमूर्ति विधाय च ।। १८।।
जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम् ।
इति दत्वा वरं शंभुर्लिंगे चान्तरधीयत ।। १९।।
ईशानश्च गतो नत्वा स्वदिशां प्रति पद्मजे ।
अथाऽऽनन्दवने तत्र हरिस्वामीति भूसुरः ।।1.460.२०।।
आसीत्तस्याऽभवत्पुत्री शीलरूपगुणान्विता ।
कलाकलापकुशला मिष्टस्वराऽतिसुन्दरी ।।२१ ।।
कृष्णभक्ता कृष्णनारायणस्वामिप्रदेवता ।
सुशीला नाम सा नित्यं स्नात्वा ज्ञानोदतीर्थके ।।२२।।
विश्वेश्वरालये संमार्जनादि कुरुते सती ।
कृष्णकृष्णेतिकृष्णेति शिवशंभो जगौ मुदा ।।२३।।।
सुलोचनापि सा कन्या पश्यत्यास्यं न कस्यचित् ।
सुश्रवा ह्यपि सा बाला नाऽऽदत्ते कस्यचिद् वचः ।।२४।।
सुशीला शीलसम्पन्ना रहस्तद्गतमानसैः ।
प्रार्थिताऽपि कृष्णव्रता नाभिलाषां बबन्ध सा ।।२५।।
धनैस्तस्यास्तु जनको युवभिः प्रार्थितो बहुः ।
नाऽशकत्तां सुशीलां स दातुं शोलोर्जितश्रियम् ।।२६।।
ज्ञानोदतीर्थभजनात् सुशीला सा कुमारिका ।
बहिरन्तस्तदाऽद्राक्षीत् सर्वं कृष्णमयं जगत् ।।२७।।
अथ विद्याधरस्तत्र शंभोर्दिदृक्षयाऽऽगतः ।
रूपलावण्यसम्पन्नां दृष्ट्वा तां चकमे तु सः ।।२८।।
गान्धर्वेण विवाहेन गृहीत्वा स ययौ सतीम् ।
सापि प्रसेवते नित्यं मलयाद्रौ तु तं पतिम् ।।२९।।
पातिव्रत्यपरा साध्वी कृष्णनारायणं पतिम् ।
सस्मार सर्वदा तत्र स्वामिनि त्विष्टदेवताम् ।।1.460.३ ० ।।
अथ कदाचिन्मलये भ्रमन्तं त पतिं महान् ।
निजघान त्रिशूलेन ह्यकस्माद् व्योममार्गतः ।।३ १ ।।
पतिव्रतया च तया शीघ्रं जलं धृतं मुखे ।
तत्याजाऽसून् राक्षसं च भस्मीचकार सा सती ।।३२।।
अथाऽस्य शवमादाय कृत्वा चितां तु सुन्दरी ।
कृष्णं पतिं तदा ध्यात्वा चक्रे चिताग्निसात् तनुम् ।।३ ३ ।।
दम्पती तौ स्वर्गलोकं भुक्त्वा वै लक्षवत्सरान् ।
विद्याध्रः स जनुः प्राप राज्ञो मलयकेतुतः ।।३४।।
वैष्णवः परमोदारः सतां सेवापरायणः ।
सुशीला सा जनुर्लेभे कर्णाटे नगरे सती ।। ३५।।
सुतो मलयकेतोस्तां कालेन परिणीतवान् ।
जातिस्मरौ दम्पती तौ कृष्णभक्तिपरायणौ ।।३६।।
नाम्ना तौ समविख्यातौ माल्यकेतुः कलावती ।
कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ।।३७।।
अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक् ।
एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ।।३८।।
चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ ।
तां तु चित्रपटीं राजा कलावत्यै समार्पयत् ।।३ ९।।
साऽङ्गुल्या प्राङ्निवासस्य स्थानं स्मृत्वा विवेद तत् ।
गंगामुदग्वहां स्मृत्वा स्मृत्वा च मणिकर्णिकाम् ।।1.460.४० ।।
पञ्चगंगां च गोघाटं तथा प्रह्लादकेशवम् ।
बलिकेशवनामानं विष्णुं नारदकेशवम् ।।४१ ।।
आदिकेशवनामानं कृष्णमादित्यकेशवम् ।
भीष्मकेशवनामानं तथा वामनकेशवम् ।।।४२।।
भृगुकेशवनामानं नरनारायणौ तथा ।
गोपीगोविन्दनामानं यज्ञवाराहकेशवम् ।।।।४३।।
लक्ष्मीनृसिंहनामानं शेषमाधवनामकम् ।
शंखमाधवनामानं सस्मार सा पतिव्रता ।। ४४।।
श्रीबिन्दुमाधवं कृष्णं साक्षाल्लक्ष्मीपतिं पतिम् ।
तथा श्रीमंगलागौरीं सस्मार धर्मकूपकम् ।।४५।।
दशाश्वमेधिकं तीर्थं ज्ञानवापीं प्रियां पराम् ।
विश्वेश्वरं तथा कृष्णनारायणेश्वरं हरिम् ।।४६।।
कलावती चित्रपटीं पश्यन्तीत्थं मुहुर्मुहुः ।
पुनर्ददर्श ज्ञानोदं श्रीविश्वेश्वरभूतले ।।४७।।
हर्षवाष्पाम्बुकलिले जाते तस्याः सुलोचने ।
तस्तम्भ गात्रलतिका मुखं प्रफुल्लतां गतम् ।।४८।।
स्वरोऽथ गद्गदो जातो ज्ञानवापीं विलोक्य वै ।
दृष्ट्वा राजा सतीं प्राह किं प्रिये स्मरसि स्थलम् ।।४९।।
सा तु नम्राऽभवत् क्षिप्रं लज्जयोवाच वै ततः ।
नाथ धर्मार्थकामाश्च मोक्षश्चेति पुमर्थकाः ।।1.460.५०।।
साधनीया मनुष्येण मोक्षो मुख्यः पुमर्थकः ।
तद्विहीना जनिरपि जलबुद्बुदवन्मता ।।५१ ।।
यत्राऽऽनुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ।
मद्विधानां तु दासीनां बाहुल्यं तेऽस्ति मन्दिरे ।।५२ ।।
तथापि नितरां प्रेम स्वामिनो मयि दृश्यते ।
तव दास्यपि भोगाढ्या किमुताऽङ्कस्थलीचरी ।।५३।।
तत्राऽप्यनन्यसम्पत्तिस्तत्र स्वाधीनभर्तृता ।
विपश्चित्संचयेदर्थानिष्टापूर्ताय कर्मणे ।।५४।।
तपोऽर्थमायुर्निर्विघ्नं दाराँश्चापत्यलब्धये ।
सर्वं ते नृप संभूतं वैराग्येऽथ मनः कुरु ।।५५।।
भक्ष्यविकारकामानां नाऽन्तोस्ति मरणं विना ।
ज्ञानेन मरणं कार्यं देहस्य मरणं न तत् ।।५६।।
आनन्दकाननयात्रां कर्तुमिच्छामि मोक्षदाम् ।
पूरणीयोऽभिलाषो मे मानुष्यं सफलं भवेत् ।।५७।।
श्रुत्वा राजा च तामाह योग्यं काले सुस्मारितम् ।
सैव पत्नी सती साध्वी लक्ष्मीः श्रीः सा हरेः प्रिया ।।५८।।
पतिव्रताऽपि सा या स्मारयेदन्ते हरिं पतिम् ।
न राज्यं राज्यमित्योहुः राज्यश्रीर्या पतिव्रता ।।५९।।
सप्तांगमपि साम्राज्यं तया हीनं तृणायते ।
यदि पत्नी स्वयं भूत्वा पतिं पातयति वृषात् ।।1.460.६० ।।
मोक्षाच्च सा न वै पत्नी कृत्या माया तु राक्षसी ।
स्वयं यात्येव निरयं नयत्यपि पतिं सुतान् ।।६१ ।।
कुलान्यपि तु पापाद्यैः पातयत्येव सा दिवः ।
या न स्मारयति भक्तिं कृष्णनारायणस्य वै ।।६२।।
साध्वी नारी तु सा प्रोक्ता सति द्रव्ये च सम्पदि ।
धर्मं तीर्थं व्रतं पुण्यं दानं संस्मारयेद्धरिम् ।।६३ ।।
तीर्थं समुत्सवं पूजां गुरोः पित्रोश्च शार्ङ्गिणः ।
सतां सेवां हरेर्दास्यं कारयत्येव सा प्रिया ।।६४।।
प्रियात् प्रियतरस्त्वात्मा तस्य प्रियतमोऽच्युतः ।
मोक्षः प्रियतमश्चाति स्मारयेत्तं पतिव्रता ।।६५।।
तव बलान्मया साध्वि भुक्तं राज्यमकण्टकम् ।
हृषीकार्थाः कृतार्थाश्च धर्मश्चापि कृतोऽतुलः ।।६६।।
अपत्यान्यपि जातानि किं कर्तव्यमिहाऽस्ति मे ।
अवश्यमेव गन्तव्याऽऽवाभ्यां वाराणसी पुरी ।।६७।।
इति निश्चित्य राजा स्वं पुत्रे राज्यं निधाय च ।
दत्वा दानानि बहूनि काशीं प्रति प्रतस्थिवान् ।।६८।।
दृष्ट्वा विश्वेश्वरं ज्ञानवापीं निजपुराभुवम् ।
जहृषतुश्च तौ कृष्णनारायणपदार्थिनौ ।।६९।।
स्नात्वा ददौ विविधानि दानानि कनकानि च. ।
सुवर्णरूप्यकलशान् गाश्च दोग्ध्रीर्ददौ मुदा ।।1.460.७० ।।
दुकूलानि विचित्राणि पूजोपकरणानि च ।
ययौ भार्यायुतो मुक्तिमण्डपं तत्र वा चिताम् ।।७ १।।
लक्ष्मीनारायणसंहितायाः शुश्राव सत्कथाम् ।
दक्षिणां सद्धनं दत्वा पूजां सायं शिवस्य सः ।।७२ ।।
कारयामास विधिना ज्ञानवापीं ययौ ततः ।
नृपः सार्धं कलावत्या तत्र सस्नौ प्रहृष्टवत् ।।७३ ।।
तत्र पिण्डान् स निर्वाप्य सन्तर्प्य श्रद्धया पितॄन् ।
दीनाऽनाथसतीसाधून् दत्वा दानानि वै ततः ।।७४।।
बुभुजाते दम्पती च भोजनं प्रविभज्य तु ।
ततः कलावती कृष्णनारायणं मुदा मुहुः ।।७५।।
जजाप परया भक्त्या तपश्चक्रे तपस्विनी ।
एकान्तरोपवासैश्च कदाचित्तु त्र्यहोव्रतैः ।।७६ ।।
षडहोभोजनैश्चापि पक्षार्धनियमैरथ ।
पक्षान्तरोपवासैश्च मासोपवसनादिभिः ।। ७७ ।।
चान्द्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रुषणैरपि ।
निनाय क्षणवत्कालमायुःशेषस्य सा सती ।।७८ ।।
एकदा ज्ञानवाप्यां तु प्रातः स्नात्वोपविष्टयोः ।
आगत्य जटिलः कश्चिदाशीर्भिरभिनन्द्य च ।।७९ ।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
मन्त्रं दत्वा प्रसन्नास्यस्तुलसीमालिकाधरः ।।1.460.८० ।।
उत्तिष्ठतं प्रकुरुतं मोक्षार्थं मानसं परम् ।
तावद् विमानमापन्नं सुक्वणत्किंकिणीगणम् ।।८ १ ।।
चतुर्भुजैर्हरेर्भक्तैर्दिव्यैः सप्पार्षदैर्युतम् ।
लक्ष्मीनारायणमूर्तितैजोव्याप्तं सुशोभितम् ।।८ २ ।।
स्वयं लक्ष्मीस्त्ववतीर्य दत्वा ज्ञानं परात्परम् ।
तारकं मोक्षदं तौ च निनाय दिव्यविग्रहौ ।।८ ३ ।।
विमानेन महालक्ष्म्या सह नारायणेन तौ ।
चतुर्भुजौ दिव्यदेहौ कृष्णधाम गतौ प्रिये ।।८४ ।।
इति ते कथितं लक्ष्मि! कलावत्याव्रतं शुभम् ।
मोक्षदं पठनाद्वापि श्रवणात्सर्वथा सति! ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आनन्दवनक्षेत्रे ज्ञानोदमहिमनि सुशीलायाः साध्वीव्रतस्थायाः गान्धर्वविवाहोत्तरं दम्पत्योर्जन्मान्तरे राज्यप्राप्तिः पातिव्रत्यप्रभावेण मोक्षणं चेत्यादिनिरूपणनामा षष्ट्यधिकचतुश्शततमोऽध्यायः ।। ४६० ।।