लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५९
[[लेखकः :|]]
अध्यायः ४६० →

श्रीनारायण उवाच-
इन्द्रलोकात्परे त्वर्चिष्मतीनाम्नी शुभा पुरी ।
वीतिहोत्रस्य नगरी स्वर्गोत्तमेऽस्ति पद्मजे ।। १ ।।
जातवेदसि या भक्तास्ता वसन्त्यत्र सुव्रताः ।
अग्निप्रवेशं याः कुर्युर्दृढसत्त्वा जितेन्द्रियाः ।। २ ।।
वह्निस्नाना नरा नार्यः सर्वास्ता वह्निभासुराः ।
अग्निहोत्ररता विप्रास्तथाऽग्निब्रह्मचारिणः ।। ३ ।।
पञ्चाग्निव्रतिनो भक्ता ब्राह्मणाश्चाग्निपूजकाः ।
समिदिध्माग्निष्टिकानां दातारो वह्निरूपिणः ।। ४ ।।
यज्ञस्य कारिणो वह्नेरर्चिष्मत्यां वसन्ति वै ।
धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ।। ५ ।।
वह्निभुक्तं निषेवन्ते सर्वविधा दिवौकसः ।
विश्वानरस्य विप्रस्य नर्मदातटवासिनः ।। ६ ।।
नर्मपुराधिदेवस्य ब्रह्मयज्ञरतस्य च ।
ब्रह्मतेजसः शाण्डिल्यगोत्रस्याऽभूत् सुचिन्तनम् ।। ७ ।।
चतुर्ण्णामप्याश्रयाणां कोऽतीव श्रेयसे सताम् ।
इति विचार्य गार्हस्थ्यं विश्वानरः शशंस ह ।। ८ ।।
सर्वाधारो गृहस्थो वै देहिभिरुपजीव्यते ।
परदारपरित्यागात् स्वदारपरितुष्टितः ।। ९ ।।
ऋतुकालाभिगामित्वाद् ब्रह्मचारी गृही सदा ।
एवं निश्चित्य स विश्वानरो विप्रः पतिव्रताम् ।। 1.459.१० ।।
उदुवाहविधानेन स्वोचितां कुलकन्यकाम् ।
अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ।। ११ ।।
देवपित्रतिथ्यनाथगवादिपरिपूजकः ।
एवं वै वर्तमानस्य कालो बहुतिथो गतः ।। १ २।।
भार्या शुचिष्मती नाम सुव्रता स्वामिसेविका ।
अपश्यन्त्यंकुरमपि सन्ततेः स्वर्गसाधनम् ।। १३ ।।
पतिं कृष्णं पतिं विष्णुं मत्वोवाच पतिव्रता ।
भगवन् दुर्लभं नास्ति किञ्चित्तव दयालवात् ।। १४।।
महेशसदृशं पुत्रं देहि वंशविवर्धनम् ।
श्रुत्वा प्रोवाच तां पत्नीमेकपत्नीव्रते स्थितः ।। १ ५।।
तथास्त्विति ततो विप्रो जगाम तपसे द्रुतम् ।
प्राप्य वाराणसीं स्नात्वा गंगायां वीक्ष्य शंकरम् ।। १६ ।।
यत्र निश्चलतामेति तपस्तनयकाम्यया ।
तत्र वीरेश्वरभूमौ गत्वा जग्राह सद्व्रतम् ।। १ ७।।
एकाहारोऽभवन्मासं मासं नक्ताशनोऽभवत् ।
अयाचिताऽशनो मासं मासं त्यक्ताशनस्तथा ।। १८।।
पयोव्रतोऽभवन्मासं मासं शाकफलाशनः ।
मासं मुष्टितिलाहारो मासं पानीयभोजनः ।। १ ९।।
पञ्चगव्याशनो मासं मासं चान्द्रायणव्रती ।
मासं कुशाग्रजलभुक् मासं श्वसनभक्षणः ।। 1.459.२० ।।
अथ त्रयोदशे मासे स्नात्वा गंगाजले द्विजः ।
प्रत्यूष एव वीरेशं यावदायाति भूसुरः ।। २१ ।।
तावल्लिंगान्तरे बालं ददर्शाऽष्टसमं शुभम् ।
पिंगजटं दीर्घनेत्रं श्वेतं विभूतिभूषितम् ।।२२।।
तमालोक्य स्तुतिं चक्रे विश्वानरोऽतिमोदवान् ।
एकमेवाऽद्वितीयं यत् परंब्रह्म परात्परम् ।। २३ ।।
कृष्णनारायणसंज्ञं शिवदं शिव ते नमः ।
कर्तृ पोष्टृ च संहर्तृ तेजो विविधतां गतम् ।। २४।।
यन्मूर्तेरेकभागस्थमैश्वर्यं ज्वलनादिकम् ।
सौरभ्यादि यतो भूमौ तस्मै बालाय ते नमः । ।२५। ।
यद् गृहीतृ गन्तृ द्रष्टृ धातृ नियन्तृ चान्तरम् ।
सर्वकामप्रदातृ तत् तस्मै बालाय ते नमः । । २६ । ।
स्तुत्वेति पादयोस्तस्य विश्वानरः पपात ह ।
बालो वरं वृणीहीति प्रोवाच हसिताननः ।। २७। ।
विश्वानरः प्रत्युवाच भवान् सर्वप्रदो यतः ।
पुत्रं देहि त्वादृशं ते प्रणतोऽस्मि पुनः पुनः । । २८ ।।
बालः प्राह तथास्त्वित्यचिरेण ते मनोरथः ।
शुचिष्मत्यामहं पुत्रो भविष्यामि फलिष्यति ।। २ ९।।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ।
तव पुत्रो भविष्यामीत्युक्त्वा चान्तरधीयत ।। 1.459.३० ।।
विश्वानरस्ततस्तूर्णमाजगाम निजं गृहम् ।
शुचिष्मत्यै जगादैतत् स्वल्पकालेन भामिनी ।। ३१ ।।
गर्भं दधार सुषुवे कालेन पुत्रमेव सा ।
गर्भाधानादयः सर्वे संस्कारा गुरुणा कृताः ।। ३ २।।
पुत्रजन्मनि देवाद्या ववृषुः कुसुमादिकान् ।
देवदुन्दुभयो नेदुः प्रोत्सवो ह्यभवन्महान् ।। ३३ ।।
अप्सरसां सुनृत्यानि त्वभवन् विप्रमन्दिरे ।
विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः ।। ३४।।
गन्धर्वोरगवृक्षाणां सुवासिन्यश्च कन्यकाः ।
मणिरत्नोपदा नीत्वा सशृंगारसुशोभनाः । ३ ५।।
सवाद्या मंगलवस्तुसहिताश्चन्द्रसत्प्रभाः ।
गायन्तो ललितं गीतं जग्मुर्विश्वानरगृहम् ।। ३६ ।।
मरीचाद्याः ऋषयश्च शतशोऽपि तु तद्गृहम् ।
लोकपाला मुनयश्च समाजग्मुः सहस्रशः ।। ३७।।
विष्ण्वाद्याश्च सुराः सर्वे नागाश्च मानवादयः ।
तीर्थक्षेत्राणि सर्वाणि चाजग्मुः पितरस्तथा ।। ३८ ।।
स्थावरा जंगमं रूपं धृत्वाऽऽयाताः सहस्रशः ।
जातकर्म स्वयं चक्रे तस्य देवः पितामहः ।। ३९ ।।
श्रुतिं विचार्य तद्रूपां नाम्ना गृहपतिस्त्वयम् ।
इति नाम ददौ तस्मै देयमेकादशेऽहनि ।।1.459.४० ।।
गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः ।
अग्ने गृहपते आयच्छस्वाऽन्नं मे यशो बलम् ।।४ १ ।।
अजो नाम इतिकृत्वा स्तुत्वा सत्यं ययौ ततः ।
देवाद्यास्तु ययुः सर्वे शंसन्तः पुत्रमुज्वलम् ।।४२ ।।
अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः ।
पुत्रेण लोकान् जयति भक्तेनापि विशेषतः ।।४३ ।।
अपुत्रस्य गृहं शून्यमपुत्रस्याऽर्जनं वृथा ।
अपुत्रस्याऽन्वयश्छिन्नो नाऽपवित्रं ह्यपुत्रतः ।।४४। ।
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ।
न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित् ।।४५।।
औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः ।
आपत्सु रक्षितः शिष्यः पुत्रास्ते त्वष्टधा मताः ।।४६ ।।
विश्वानरः सुतं त्वध्यापयामास यथोचितम् ।
नवमे वत्सरे वैश्वानरं जगाम नारदः ।।८७ ।।
पप्रच्छ कुशलं सर्वं पुत्रस्य मुनिराड् यथा ।
विश्वानर महाभाग शुचिष्मति शुभव्रते ।। ४८।।
कुरुते युवयोर्वाक्यं कच्चिद् गृहपतिः शिशुः।
नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्क्रिया ।।४९
विहाय पित्रोर्वचनं नान्यो धर्मः सुतस्य वै ।
गर्भधारणपोषाभ्यां माता पितुर्गरीयसी ।।1.459.५०
पिता वन्द्यो यतिर्वन्द्यः सन्यासी वन्द्य इत्यपि ।
तैः सर्वैस्तु गुरुर्वन्द्यस्तेषां वन्द्याः प्रसूः सदा ।।५१
इदमेव तपोऽत्युग्रमिदमेव परं व्रतम् ।
अयमेव परो धर्मो यत् पित्रोः परितोषणम् ।।५२
पितृव्रतमिदं प्रोक्तं कृष्णमिव प्रसेवयेत् ।
मातृव्रतमिदं प्रोक्तं लक्ष्मीमिव प्रसेवयेत् ।।५३
वैश्वानर समभ्येहि ममोत्संगे निषीद भो ।
लक्षणानि परीक्षेऽहं पाणिं दर्शय दक्षिणम् ।।५४।
इत्युक्तः स गृहपतिर्नारदांऽके ह्युपाविशत् ।
मुनिर्दृष्ट्वा बालकस्य तालुजिह्वाद्विजानथ ।।५५।
आनीय कुंकुमाऽऽरक्तं सूत्रं च त्रिगुणीकृतम् ।
ममौ समस्तकाद् बालमापादतलमुच्छ्रयम् ।।५६ ।
तिर्यगूर्ध्वं समो माने योऽष्टोत्तरशतांगुलः ।
स भवेत् पृथिवीपालो यथाऽयं बालकोऽपि च ।।५७।
पञ्चसूक्ष्मः पञ्चदीर्घः सप्तरक्तः षडुन्नतः ।
त्रिपृथु लघुगम्भीरो द्वात्रिंशल्लक्षणोऽस्त्ययम् ।।५८।।।
त्वक्केशांगुलिदशनपर्वाण्यणूनि पञ्च च ।
सन्त्यस्य खलु सूक्ष्माणि दिक्पालपदभाग् भवेत् ।।५ ९ ।
भुजौ नेत्रे हनुर्जानू नासा दीर्घाणि चास्य वै ।
तेनायं तु भवेद् दीर्घायुष्को ब्रह्माण्डसञ्चरः ।।1.459.६ ० ।
पाण्यो स्तले च नेत्रान्ते तालुजिह्वाऽधरौष्ठकम् ।
सप्ताऽरुणं च सनखमस्य राज्यसुखप्रदम् ।।६ १ ।।
वक्षःकुक्ष्यलकं स्कन्धं करं वक्त्रं षडुन्नतम् ।
दृश्यतेऽस्य भवेच्चायं महदैश्वर्यभाक् खलु ।।६ २।।
ललाटकटिवक्षोभिः पृथुरयं भवेन्नृपः ।
ग्रीवाजंघामेहनैश्च ह्रस्वोऽयं बहुभोगवान् ।।६ ३ ।।
स्वरेण हृदा नाभ्या च गम्भीरः सुखभाक् सदा ।
कमठीपृष्ठकठिनौ पत्रवत्कोमलौ करौ ।।६ ४।।
राज्यहेतूशिशोरस्य पादौ पद्मसुकोमलौ ।
अच्छिन्ना तर्जनीं व्याप्य तथा रेखाऽस्य वर्तते ।।६ ५ ।।
कनिष्ठापृष्ठनिर्याता दीर्घायुष्यं निवेदयेत् ।
पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशोभनौ ।।६ ६ ।।
समगुल्फौ स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ ।
स्वल्पाभिः कररेखाभिरारक्ताभिः सदा सुखी ।।६७।।
लिंगेन कृशहस्तेन राजराजो भविष्यति ।
उत्कटासनगुल्फस्फिग्नाभिरस्यापि वर्तुला ।।६८।।
दक्षिणावर्त्तमरुणं महदैश्वर्यसूचिका ।
धारैका मूत्रयत्यस्मिन् दक्षिणावर्तिनीति सा ।।६ ९।।
गन्धश्च मीनमधुनोर्गुप्तवीर्येऽस्य वर्तते ।
विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ ।।1.459.७० ।।
वामावर्तौ सुप्रलम्बौ दोषौ दिग्रक्षणोचितौ ।
श्रीवत्सवज्रचक्राऽब्जमत्स्यकोदण्डदण्डभृत् ।।७ १ ।।
तथाऽस्य करगा रेखा यथा स्यात् त्रिदिवस्पतिः ।
द्वात्रिंशद्दशनश्चायं करकम्बुशिरोधरः ।।७१।।
क्रौंचदुन्दुभिहंसाऽभ्रस्वरः सर्वेश्वराऽधिकः ।
मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् ।।।७२।।
पञ्चरेखललाटस्तु तथा सिंहोदरः शुभः ।
ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगन्धवान् ।।७४।।
अच्छिद्रपाणिः सुनखो महालक्षणवानयम् ।
तथापि द्वादशे वर्षे प्रत्यूहो विद्युदग्नितः ।।७५।।
अस्य विशंके भगवन् रक्षणीयः प्रयत्नतः ।
इत्युक्त्वाऽर्चां गृहीत्वैव नारदो निर्जगाम ह ।।७६।।
दम्पती क्षणमात्रं तु शुशुचतुर्मुमुदतुः ।
अथ बालश्चिरायुष्को भवितु पितरौ तदा ।।७७।।
प्राह प्रतिज्ञां शृणुतं यदि वां तनयो ह्यहम् ।
करिष्येऽहं तपस्तादृक् विद्युन्मत्तस्त्रसिष्यति ।।७८।।
मृत्युञ्जयं कालकालं समाराधयितुं सुतः ।
पित्रोरनुरज्ञां सम्प्राप्य ययौ स काशिकां पुरीम् ।।७९ ।।
सस्नौ गंगाजले शंभुं ददर्श चान्नपूर्णिकाम् ।
मत्स्योदर्यां क्षितौ गत्वा तस्थौ क्षणं ततः परम् ।।1.459.८०।।
निर्विघ्ने तु स्थले स्थाप्य लिगं चक्रे तपः सुतः ।
संस्नाप्य प्रत्यहं शंभुं दत्वा नीलोत्पलानि वै ।।८ १ ।।
जपति स्म नमः कृष्णनारायणशिवाय ते ।
तपश्चचार षण्मासं कन्दमूलफलाशनः ।।८२।।
शीर्णपर्णाशनस्तद्वत् षण्मासाँस्तप आचरत् ।
षण्मासं वायुभक्षोऽभूत् षण्मासं जलबिन्दुभुक् ।।८३ ।।
एवं वर्षद्वये याते जन्मतो द्वादशे गते ।
विघ्नं सत्यं करिष्यन् वै चाभ्यगात् कुलिशायुधः ।।८४।।
वरं ब्रूहीति तं प्राह सुतः श्रुत्वाऽऽह वासवम् ।
नाहं वृणे वरं त्वत्तः शंकरो वरदोऽस्ति मे ।।८५।।
गच्छाऽऽहल्यापतेऽसाधो श्रत्वा क्रुद्धः स्ववज्रकम् ।
चिक्षेप यावच्छंभुस्तज्जग्राह लीलया करे ।।८६।।
प्रत्यक्षः शंकरो जातो महेन्द्रश्च ययौ दिवम् ।
शंभुस्तं तु ददौ चिरंजीवेति वरमुत्तमम् ।।८७।।
सर्वेषामेव देवानां मुखं भवाऽग्निरूपकः ।
जाठरो भव भूतानां दिगीशो राज्यमाप्नुहि ।।८८।।
मल्लिंगं त्वत्स्थापितं तद् भवत्वग्नीश्वराभिधम् ।
इत्युक्त्वा प्रययौ शंभुर्दत्वा मन्त्रं च वैष्णवम् ।।८९।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
वैश्वानरो ययौ स्वस्य गृहं माता पतिव्रता ।।1.459.९०।।
अर्चिष्मती सुतं दृष्ट्वा मुमुदे जनकोऽपि च ।
उत्सवं तु मुदा चक्रे समाहूय सुरादिकान् ।।९१ ।।
इन्द्रं तत्र समायातं दृष्ट्वा चुक्रोध वह्निराट् ।
पुनर्वज्रं प्रचिक्षेप वैश्वानरोपरीन्द्रकः ।।९२।।
मूर्छां जगाम बालस्तन्माता स्वांके निधाय तम् ।
पातिव्रत्यं भवेन्मे चेदिन्द्रः पततु भूतले ।।९३।।
पतिव्रता दृढा स्यां चेदिन्द्रवज्रं निरर्थकम् ।
सर्वथा सर्वथा चास्तु पुत्रो मे चेतनो भवेत् ।।९४।।
एवमुक्ते तया वज्रं कृष्णकर्दमतां गतम् ।
इन्द्रः पतितो धरणौ बुबुधे त्वंकजः सुतः ।।९५।।
हाहाकारो महान् जातः पातिव्रत्यबलेन वै ।
महेन्द्रप्रार्थिता देवी क्षमार्थं करुणापरा ।।९६ ।।
उवाच तं महेन्द्रं सा समुत्तिष्ठ स्थिरो भव ।
गृहाण वज्रं मा वह्नौ कदाचित् त्वं नियोजय ।।९७।।
मातृपितृगुरुकृष्णद्रोहिषु सतीद्रोहिषु ।
वज्रं ते प्रेरितं विद्युद्रूपं भवतु मद्वरात् ।।९८।।
कृष्णभक्तेषु पित्रोश्च गुरोर्भक्तेषु तापसे ।
सतीभक्तेषु ते वज्रं कर्दमत्वमवाप्नुहि ।।९९।।
इत्युक्तः स सतीं नत्वा नत्वा वैश्वानरं तथा ।
विश्वानरं पुनर्नत्वा ययौ स्वर्गं सुरा ययुः ।। 1.459.१० ०।।
अर्चिष्मत्याः प्रभावेण पातिव्रत्यवृषस्य च ।
आसन्नमरणश्चापि रक्षितः शंभ्वनुग्रहात् ।। १०१ ।।
यावद्ब्रह्मा भवेत्तावद् वैश्वानरो भविष्यति ।
इति ते कथितं लक्ष्मि! वृत्तं भुक्तिसुमुक्तिदम् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वानरविप्रस्य पुत्रस्य गृहपत्याख्यस्यतपसा चिरजीवित्वं, मातुः पातिव्रत्यबलेनेन्द्रकृतवज्रद्वारकमृत्युविघ्नविनाशश्चेत्यादिनिरूपणनामैकोनषष्ट्यधिकचतुश्शततमोऽध्यायः ।।४५९।।