लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५८
[[लेखकः :|]]
अध्यायः ४५९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! माधवांशः पर्शुराम उवाच तम् ।
कार्तवीर्य रणमध्ये धर्मभृतं वचो यथा ।। १ ।।
शृणु राजेन्द्र! धर्मिष्ठ चन्द्रवंशसमुद्भव ।
विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः ।। २ ।।
कथे दुर्बुद्धिमाप्तस्त्वमहनो वृद्धभूसुरम् ।
ब्राह्मणी शोकसन्तप्ता भर्त्रा सार्धे गता सती ।। ३ ।।
किं भविष्यति ते भूप परत्रैवाऽनयोर्वधात् ।
क्व गता कपिला सा ते कीदृक् कूलं भविष्यति ।। ४ ।।
यत् कृतं तु त्वया राजन् हालिको न करिष्यति ।
सत्कीर्तिश्चाथ दुष्कीर्तिः कथामात्राऽवशेषिता ।। ५ ।।
त्वया कृतो घोरतरस्त्वन्यायस्तत्फलं लभ ।
उत्तरं देहि राजेन्द्र समाजे रणमूर्धनि ।। ६ ।।
कार्तवीर्याऽर्जुनः श्रुत्वा प्रवक्तुमुपचक्रमे ।
शृणु राम हरेरंशस्त्वमप्यसि न संशयः ।। ७ ।।
सद्बुद्ध्या कर्मणा ब्रह्मभावनां करोति यः ।
स्वधर्मनिरतः शुद्धो ब्राह्मणः स प्रकीर्त्यते ।। ८ ।।
अन्तर्बहिश्च मननात् कुरुते फलदां क्रियाम् ।
मौनी शश्वद् वदेत् काले हितकृन्मुनिरुच्यते ।। ९ ।।
स्वर्णे लोष्टे गृहेऽरण्ये पंके सुस्निग्धचन्दने ।
रामवृत्तिः समभावो योगी यथार्थ उच्यते ।। 1.458.१ ०।।
सर्वजीवेषु यो विष्णुं भावयेत् समताधिया ।
हरौ करोति भक्तिं च हरिभक्तः स उच्यते ।। ११ ।।
तपोधनं ब्राह्मणानां मुनीनां योगिनां तथा ।
हरिभक्तस्य विप्रस्य तपस्याः कामधेनवः ।। १ २।।
क्षत्रियाणां सदैश्वर्ये स्पृहा रत्नेषु सर्वदा ।
क्षत्रियाणां तु तपसि स्पृहाऽतीवाऽप्रशंसिता ।। १३ ।।
ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता ।
रागी राजसिकं कार्यं कुरुते कर्मरागतः ।। १४।।
रागान्धो यो राजसिकस्तेन राजा प्रकीर्त्यते ।
रागतः कामधेनुस्तु मया वै याचिता मुने ।। १५।।
तव पित्रा तु सैन्यानि कृतान्ययं व्यतिक्रमः ।
कृत एव वद विप्र को दोषो रागिणोऽत्र मे ।। १६ ।।
त्रिंशदक्षौहिणीसेना हत्या नाशयितुं च माम् ।
उद्यतस्य तु हनने न दोषो ह्याततायिनः ।। १७।।
त्वं चापि तापसो भूत्वा विप्रधर्मविवर्जिताम् ।
प्रतिज्ञां कृतवान् सोऽयमन्यायः किं न मे वद ।। १८।।
पित्रोर्द्वयोः कृते त्वं तु कर्तुं पृथ्वीं निःक्षत्रियाम् ।
त्रिःसप्तकृत्वो यत्तत् किं न्याय्यं वद भूसुरः ।। १ ९।।
इति श्रुत्वा गर्ववाक्यं पर्शुरामाऽतिरुड्भरः ।
क्षणात् टंकारयित्वा स्वं धनुर्मुमोच सायकान् ।। 1.458.२०।।
बाणौघैश्छादयामासाऽर्जुनं रथं तथाऽम्बरम् ।
मनोरमा स्थिता दिव्या रथे पतिव्रता सती ।।२ १ ।।
महालक्ष्मीयुता देवी ररक्ष स्वपतिं तदा ।
तावद् राजाऽपि बाणौघाँश्चिच्छेद निजसायकैः ।।२२।।
रामस्य भ्रातरः सर्वे चत्वारोऽन्ये प्रशिष्यकाः ।
निजघ्नुरर्जुनसैन्यं तीक्ष्णशस्त्राऽसिपाणयः ।।२३ ।।
शरजालेन राजेन्द्रो वारयामास तानपि ।
चिच्छिदुः शरजालं च जमदग्निसुतास्तदा ।।२४।।
राजा चिक्षेप दिव्यास्त्रं मुनयश्चिच्छिदुस्तु तत् ।
दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः ।।२५।।
रथं च सारथिं चैव राज्ञः सन्नाहमित्यपि ।
मनोरमा दिव्यरूपा ररक्ष स्वपतिं सती ।।२६।।
न्यस्त्रशस्त्रं नृपं दृष्ट्वा मुनयो हर्षविह्वलाः ।
जगृहुः शूलिनः शूलं मत्स्यराजजिघांसया ।।२७।।
शूलनिक्षेपसमये वाग्बभूवाऽशरीरिणी ।
शूलं त्यजत विप्रेन्द्रा शिवस्याऽव्यर्थमेव तत् ।।२८।।
शिवस्य कवचं दिव्यं सर्वावयवरक्षकम् ।
मत्स्यराजगलेऽस्त्येतत् कवचं याचत नृपम् ।।२९।।
श्रुत्वा रामो यतिर्भूत्वा ययाचे कवचं नृपम् ।
राजा ददौ तु कवचं ब्रह्माण्डविजये ततः ।।।1.458.३ ०।।
रामो जघान शूलेन मूर्छां जगाम चार्जुनः ।
मनोरमा सती सत्यव्रतेन योगसिद्धिभिः ।।।३ १ ।।
स्वस्वामिहस्तदा प्राणान् मूर्घ्नि ररक्ष भामिनी ।
सा तदाऽऽकाशवत् साध्वी समुवाच नृपान् सती ।।।३२।।
बृहद्बलं सोमदत्तं विदर्भं मिथिलेश्वरम् ।
निषधाधिपतिं चापि मगधाधिपतिं तथा ।।३३।।
प्रशृण्वन्तु प्राणतुल्याः प्राणस्य मेऽवनं त्वहम् ।
करोमि यातु भवन्तो रणं कुर्वन्तु चोल्बणम् ।।३४।।
क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ।
रणे स्वाहा ब्राह्मणानां लोके वेदे विडम्बना ।।३५।।
क्षत्रियाणां बलं शस्त्रं व्यापारस्तु बलं विशाम् ।
भिक्षाबलं भिक्षुकाणां शूद्राणां सेवनं बलम् ।।३६।।
भक्तिर्दास्यं कृष्णनारायणे भक्तबलं हरिः ।
तपो बलं तापसानां दुष्टानां हिंसनं बलम् ।।३७।।
बलं वेषस्तु नारीणां यौवनं गृहयोषिताम् ।
बलं सैन्यं नृपाणां वै वालानां रोदनं बलम् ।।३८।।
सतां सत्यं बलं भक्तिः साधूनां तु बलं क्षमा ।
मिथ्या बलं चाऽसतां तु धैर्यं साहसिनां बलम् ।।३९।।
विद्या बलं पण्डितानां धनं तु धनिनां बलम् ।
बलं विवेकः श्रेष्ठानां प्रजानां बलमेकता ।।1.458.४०।।
गुणो बलं तु गुणिनां सतीनां पतिसेवनम् ।
पूजा देवबलं प्रोक्तं शिष्याणां गुरुसेवनम् ।।४१ ।।
बलं पत्नी गृहस्थानां भृत्यानां स्वामितोषणम् ।
त्यागिनां निस्पृहत्वं तु बलं ब्रह्मव्रतं महत् ।।४२।।
पुण्यं बलं सुकृतीनां जलजानां जलं बलम् ।
शान्तिर्बलं तु विप्राणां क्षत्रियाणां बलं बलम् ।।४३।।
ससैन्याः क्षत्रियाः सर्वे युद्धं कुर्वन्तु भूसुरैः ।
इत्युक्त्वा सा सती मनोरमाऽर्जुनं विमूर्छितम् ।।४४।।
परिचचार विविधैरुपचारैः सुशक्तिदैः ।
यद्यहं प्राणनाथस्य पतिव्रताऽस्मि सर्वथा ।।४५।।
प्राप्नोतु चेतनां स्वामी समुवाच पतिव्रता ।
तावत् स चेतनां प्राप्तः समुत्थितो रणाय च ।।४६।।
अथ रामस्त्रिशूलेन सोमदत्तं जघान ह ।
बृहद्बालं तु गदया विदर्भं तोमरेण च ।।४७।।
मैथिलां मुद्गरेणापि शक्त्या तु नैषधं तथा ।
मागधं तीक्ष्णनाराचैरस्त्रजालैश्च सैन्यकान् ।।४८।।
निहत्य निखिलान् भूपान् दुद्राव चाऽर्जुनं प्रति ।
तावत् सती समीपस्था मनोरमा व्यवस्थिता ।।४९।।
रामरामाऽधमविप्र भस्मीभूतो भविष्यसि ।
यदि त्वन्यायमालम्ब्य मन्नाथं मारयिष्यसि ।।1.458.५० ।।
श्रुत्वा सतीं पुरो दृष्ट्वा भयाद् रामो न्यवर्तत ।
कान्यकुब्जाः शतशस्तु सौराष्ट्राः शतशस्तथा ।।५१ ।।
राष्ट्रीयाः शतशश्चापि महाराष्ट्राश्च वंगजाः ।
गौर्जराश्च कलिंगाश्च रामेण व्यसवः कृताः ।।५२।।
द्वादशाक्षौहिणीः रामो जघान त्रिदिवानिशम् ।
तावद्राजा कार्तवीर्यः श्रीलक्ष्मीकवचं करे ।।५३।।
बद्ध्वा शस्त्रास्त्रसम्पन्नो रथमारुह्य चाययौ ।
युयुधे विविधैरस्त्रैर्जघान ब्राह्मणान् बहून् ।।५४।।।
पर्शुरामः सपरशुर्दधाव कालरूपधृक् ।
शिरो निकृन्तितुं तावद् विष्णुर्विप्रस्वरूपधृक् ।।५५।।
मा याहीति करं धृत्वा रुरोध प्राह तत्क्षणम् ।
कवचं श्रीमहालक्ष्म्या बाहौ तेन धृतं यतः ।।५६।।
न मरिष्यति भूपालो ययाचे तं स्थिरो भव ।
विष्णुर्विप्रस्वरूपस्तद् याचितुं नृपमाययौ ।।५७।।
विप्रो भूत्वा च कवचं ययाचे भगवान् स्वयम् ।
मनोरमा तदा त्रासप्रापेदे पतिपक्षिणी ।।५८।।
अर्जुनो दित्सति तावन्मनोरमा न्यवारयत् ।
राजन् लक्ष्मीकवचं ते बाहौ यावद्धि वर्तते ।।।५९।।
तावल्लक्ष्मीस्वरूपाऽहं शक्नोमि त्वां प्ररक्षितुम् ।
मा देहीति मुहुः प्रोक्तस्तथापि प्रददौ नृपः ।।1.458.६०।।
क्षणं मनोरमालक्ष्मीः पतिं नत्वा रुरोद वै ।
अथाऽशक्ता कवचेन समं यातुं च तत्परा ।।६ १ ।।
अभूद् विष्णुपरीक्षां च करोति स्म तदा सती ।
विष्णुः कवचमादाय रामं प्रति समाययौ ।।६२।।
ददौ समन्त्रं परशुरामाय तच्छृणु प्रिये ।
ओं श्रीकमलवासिन्यै स्वाहा मन्त्रं ददौ ततः ।।६ ३ ।।
प्रजापतिः ऋषिर्यस्य छन्दश्च बृहती तथा ।
देवी पद्मालया यस्य चतुर्वर्गं नियोजनम् ।।६४।।
ओं श्रीकमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
ओं श्री कपालं मे पातु लोचने श्रींश्रियै नमः ।।६५।।
ओ श्रींश्रियै स्वाहेति वै कर्णयुग्मं सदाऽवतु ।
ओंश्रींक्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ।।६६।।
ओं श्रीं पद्मालयायै च स्वाहा दन्तान् सदाऽवतु ।
औश्रीं कृष्णप्रियायै च दन्तरन्ध्रान् सदाऽवतु ।।६७।।
ओं श्रीनारायणेशायै मम कण्ठं सदाऽवतु ।
ओंश्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ।।६८।।
ओंश्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ओं ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ।।६९।।
ओंश्रींमो कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ओंह्रींश्रींश्रियै स्वाहा च मम हस्तो सदाऽवतु ।।1.458.७०।।
ओंश्रीनिवासकान्तायै मम पादौ सदाऽवतु ।
ओंश्रींह्रींक्लीं श्रियै स्वाहा सर्वांगं मे सदाऽवतु ।।७१ ।।
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीहरिप्रिया ।।७२।।
पद्मालया पश्चिमे मां वायव्यां पातु मा स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ।।७३।।
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ।।७४।।
इतिसर्वैश्वर्यप्रदं वर्म बाहौ सुधारय ।
देवेन्द्रैश्चासुरेन्द्रैश्चाऽवध्यो भवसि निश्चितम् ।।७५।।
इत्युक्त्वा कवचं दत्वा ययौ वैकुण्ठमच्युतः ।
तावन्मनोरमा लक्ष्मीकलाऽर्जुनं विहाय वै ।।७६।।
ययौ तु विष्णुना सार्धं वैकुण्ठं विष्णुना हृता ।
अर्जुनः प्राह रे पत्नि त्यक्त्वा मां याहि मा प्रिये ।।७७।।
मनोरमा तु तं प्राह सम्बन्धः सान्ततां गतः ।
परशुरामशस्त्रेण हतो मामनुयास्यसि ।।७८।।
शीघ्रं ब्राह्मणहस्तेन हतः प्राप्स्यसि मोक्षणम् ।
वैकुण्ठं त्वत्कृते राजन् निश्चितं यत्र मे स्थितिः ।।७९।।
इत्युक्त्वा सा ययौ देवी राजा युयोध दारुणम् ।
द्विलक्षसैन्यं युयुधे ब्राह्मणैः सह पद्मजे ।।1.458.८०।।
राजा चिक्षेप शस्त्राणि रामशिष्याः पलायिताः ।
चिक्षेप रामस्त्वाग्नेयं बभूवाऽग्निमयं रणे ।।८१ ।।
निर्वापयामास राजा वारुणेन महौजसा ।
चिक्षेप रामो गान्धर्वं शैलसर्पादिकोटिकम् ।।८२।।
वायवेनार्जुनस्तद्वै वारयामास दारुणम् ।
चिक्षेप रामो नागास्त्रं राजा चिक्षेप गारुडम् ।।८३।।
रामश्चिक्षेप माहेशं राजा चिक्षेप वैष्णवम् ।
ब्रह्मास्त्रं चिक्षिपे रामो राजा ब्रह्मास्त्रमाक्षिपत् ।।८४।।
तावत् ध्यातोऽर्जुनगुरुर्दत्तात्रेयः समागतः ।
ददौ शूलं हि रामस्य नाशार्थं कृष्णवर्म च ।।८५।।
जग्राह राजा शूलं तश्चिक्षेप रामकन्धरे ।
मूर्छामवाप रामः सः पपात श्रीहरिं स्मरन् ।।८६।।
ब्राह्मणं जीवयामास शंभुर्नारायणाज्ञया ।
चेतनां प्राप्य च रामोऽग्रहीत् पाशुपतं यदा ।।८७।।
दत्तात्रेयेण दत्तेन सिद्धाऽस्त्रेणाऽर्जुनस्तु तम् ।
जडीचकार तत्रैव स्तम्भितो राम एव वै ।।८८।।
श्रीकृष्णरक्षितं भूपं ददर्श कृष्णवर्म च ।
ददर्शाऽपि भ्रमत्सुदर्शनं रक्षाकरं रिपोः ।।८९।।
एतस्मिन्नन्तरे तत्र वाग्बभूवाऽशरीरिणी ।
कृष्णस्य कवचं राज्ञो बाहावस्ति तदुत्तमम् ।।1.458.९०।।
रक्षति तन्नृपं शंभुर्याचतु भिक्षया तु तत् ।
तदा हन्तुं नृपं शक्तो भार्गवोऽयं भविष्यति ।।९१ ।।
अथ शंभुः सिद्धमन्त्रैर्दत्वा चेतनमेव तु ।
अपोह्य स्तंभनं रामो जग्राह परशुं स्वकम् ।।९२।।
पाशुपतं करे धृत्वा परशुं च तथा करे ।
सस्मार श्रीकृष्णनारायणं तावत् स आययौ ।।९३।।
शंभुर्विप्रः स्वयं भूत्वा ययाचेऽर्जुनमेव तत् ।
कवचं नृपसंदत्तं रामाय शंभुरार्पयत् ।।९४।।
सुदर्शनं च कवचं कृष्णनारायणस्त्रयः ।
रामपार्श्वे समागत्य प्राहुर्जेष्यसि साम्प्रतम् ।।९५।।
शंभोः पाशुपतं श्रेष्ठं हरेरेव सुदर्शनम् ।
एते प्रधाने सर्वेषामस्त्राणां तु जगत्त्रये ।।९६ ।।
कवचं रक्षकं श्रेष्ठं धारयित्वाऽऽह तं द्विजः ।
राजन् कुरु रणं शीघ्रं कालभेदे जयाऽजयौ ।।९७।।
त्वयाऽधीतं बहुदत्तं शासिता च वसुन्धरा ।
संग्रामेऽहं त्वया जडीकृतोऽत्रैव सुमूर्छितः ।।९८।।
जिताः सर्वेऽपि भूपाला रावणो लीलया जितः ।
जितोऽहं दत्तशूलेन शंभुना जीवितोऽस्म्यहम् ।।९९।।
शीघ्रं कुरु क्षणस्तेऽयं श्रुत्वैवं प्रत्युवाच सः ।
अहो राम किमधीतं कि दत्तं का च शासिता ।। 1.458.१ ००।।
गताः कतिविधा भूपा मच्छ्रेष्ठाः कालभक्षिताः ।
बुद्धिस्तेजो विक्रमश्च जयश्च विजयस्तथा ।।१ ०१।
श्रीरैश्वर्यं मतिर्दानं प्रतिष्ठा परमं तपः ।
विद्या गर्वस्तथा मान्यं सार्वभौमत्वमित्यपि ।। १ ०२।।
सर्वं मनोरमासंगे गतमेव मम क्षणात् ।
सा च लक्ष्मी कला साध्वी पातिव्रत्यपरायणा ।। १ ०३।।
मृता यावद् रक्षिका मे तया सार्धं गतं मम ।
त्वं किं विप्र प्रथमं वै युद्धं पश्यसि केवलम् ।। १ ०४।।
मम युद्धानि पूर्वाणि नेक्षितानीति शोचना ।
प्रथमाऽथ द्वितीयाऽपि मरणं ब्राह्मणेन मे ।। १ ०५।।
वृद्धदम्पतीनाशेन शोचना चातिनिष्ठुरा ।
काले सिंहः शृगालं च सृगालः सिंहमेव वा ।। १ ०६।।
काले व्याघ्रं हन्ति मृगो गजेन्द्रं हरिणस्तथा ।
महिषं मक्षिका काले गरुडं च तथोरगः ।। १ ०७।।
नृपश्च किंकरं स्तौति महेन्द्रो मानवं तथा ।
सर्वं कालकृतं विप्र कालो हि दुरतिक्रमः ।। १ ०८।।
ब्राह्मणस्य च हननं सर्वं नाशकरं मम ।
पतिव्रताया मरणं ब्राह्मणीनाशकृत्फलम् ।। १ ०९।।
पतिव्रताया मरणे मृतोऽहं सर्वथा द्विज ।
लक्ष्मीरूपा मृता प्राग्वै संकेतोऽच्युतकृद्धि सः ।। 1.458.११० ।।
याचे त्वां च तथा देवान् गुरून् सर्वांश्च भावतः ।
क्षमध्वं चापराधान्ये मा भून्मे नारकं पुरः ।। १११ ।।
इत्युक्त्वा च धनुष्टंकारयित्वा सायकान् मुहुः ।
कालकाल इव भूत्वा ववर्ष लक्षशो बहून् ।। ११ २।।
कृष्णकृष्णवदन् राजा मनोरमेति संवदन् ।
अर्धचन्द्राँस्तथा शक्तीर्भल्लान् खड्गान् सहस्रशः ।। ११३।
चिक्षेप धनुषा तत्र ब्राह्मणेष्वायुषःक्षये ।
रामो रूपद्वयं कृत्वा युयुधे तेन भूभृता ।। १ १४।।
कृत्रिमेण तु रूपेण धृत्वा कुठारकं करे ।
दधाव तं पुरो गत्वा चिच्छेद भुजमण्डलम् ।। १ १५।।
द्वितीयेन स्वरूपेण जग्राहाऽस्त्रं महोल्बणम् ।
पाशुपतं समन्त्रं च चिक्षेप लीलया नृपे ।। १ १६।।
हाहाकारो महानासीत् कार्तवीर्यार्जुनो हतः ।
अन्ये ये जीवसंग्राहास्तेऽप विप्रैर्हता रणे ।। १ १७।।
विदुद्रुवुस्तथा चान्ये स्वस्वराज्यानि चक्रिरे ।
माहिष्मतीं तदा रामो ददौ विप्राय दक्षिणाम् ।। १ १८।।
अन्येषां चापि राज्यानि ददौ विप्राय दक्षिणाः ।
देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः ।। ११ ९।।
सर्वे चक्रुः पुष्पवृष्टिं राममूर्ध्नि च पद्मजे ।
स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह ।।1.458.१ २०।।
एवं त्रिःसप्तकृत्वश्च चक्रे पृथ्वीं निःक्षत्रियाम् ।
यशसा चापि परशुरामस्याऽऽपूरितं जगत् ।। १२१ ।।
ब्राह्मणेभ्यो ददौ रामो राज्यानि विरराम च ।
हतास्तु क्षत्रियाः सर्वे गर्भस्था बालकास्तथा ।। १ २२।।
युवानो जरठा वृद्धाः स्तनंधया अपि प्रिये ।
काश्चन क्षत्रियनार्यः पातिव्रत्यपरायणाः ।। १२३ ।।
देव्यो दिव्यगतिकाश्च गुप्ता ययुर्हिमालयम् ।
कन्दरासु वसन्त्यश्च पुपुषुर्बालकान् स्वकान् ।। १ २४।।
तद्वंशाः क्षत्रिया जाताः पुना राज्यानि चक्रिरे ।
पर्शुरामः प्रतिज्ञां स्वां पूरयित्वा कुरुस्थले ।। १ २५।।
स्यमन्तपञ्चकान् कुण्डान् क्षत्रियरुधिराऽञ्चितान् ।
कृत्वा रक्तैः पितुर्मातुर्ब्राह्मणानां जलांजलीन् ।। १२६ ।।
श्राद्धं ददौ तदा तृप्तिं चकार पितृदेवताः ।
ततो जलं तथाऽन्नं च बुभुजे शान्तितः स्वयम् ।। १ २७।।
क्षत्रियाणां विनाशे तु निर्बला ये ह्यसुप्रियाः ।
मृषा वदन्तो जीवानां चक्रुर्वै रक्षणं तु ते ।। १ २८।।
अन्या अन्या जातयश्च जाता वर्णा विभिन्नकाः ।
अक्षात्रास्ते क्षात्रकर्महीना दस्यव एव वै ।। १ २९।।
व्यापारकारकाश्चान्ये दास्यकृष्यादिकारकाः ।
वर्तन्ते स्म भुवि लक्ष्मि! गुप्तक्षत्रियजातयः ।। 1.458.१३ ०।।
अथ प्रतिज्ञां सम्पूर्णां कृत्वा रामो ययौ गुरुम् ।
शिवं पूजयितुं दिव्ये कैलासे तत्र गोपुरे ।। १३१ ।।
गणेशेन निरुद्धः सः क्रुधा गणपतिं तदा ।
रामो जघान दन्ते तं पर्शुना तु गणाधिपम् ।। १३ २।।
दन्तो भग्नस्ततश्चैकदन्तो गणेश उच्यते ।
आमूलाद् भग्नदन्तेन कृत्वा शूण्ढं सुदीर्घकम् ।। १ ३३।।
गणेशेन धृतः शूण्ढे शूण्ढश्च वर्धितो बहुः ।
त्रैलोक्ये भ्रामयित्वा तं रामं चिक्षेप वारिधौ ।। १ ३४।।
जडीभूतं पुनर्धृत्वा गोलोके विनिपातितः ।
श्रीकृष्णचरणांभोजे पातकानां विशुद्धये ।। १ ३५।।
ततः शुद्धं कृतं राममुत्थाप्य श्रीगणेश्वरः ।
चिक्षेप परशुरामं शंकरस्य हि सन्निधौ ।। १ ३६।।
ददर्श शंकरं प्राप्याऽऽशीर्वादं चाप्यनुग्रहम् ।
शंकरस्य शिवायाश्च प्रसाद्य श्रीगणेश्वरम् ।। १ ३७।।
चक्रे स्तुतिं शिवं शिवां तं तु शिवाऽऽह मंगलम् ।
अमरो भव हे पुत्र! वत्स सुस्थिरतां व्रज ।। १ ३८।।
सर्वप्रसादात् सर्वत्र जयोऽस्तु तव सन्ततम् ।
सर्वान्तरात्मा भगवाँस्तुष्टः स्यात् सन्ततं हरिः ।। १ ३९।।
भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ।
शंभुः प्राह सदा शिष्य चिरंजीवो भव ध्रुवः ।। 1.458.१४० ।।
ततः परशुरामोऽसौ जगाम तपसे भुवम् ।
महेन्द्रपर्वते स्थित्वा तपः करोति शाश्वतम् ।। १४१ ।।
इति ते कथितं लक्ष्मि! कार्तवीर्यस्य नाशनम् ।
मनोरमायाः कथितं पतिव्रतबलं तथा ।। १४२।।
पठनाच्छ्रवणाच्चास्य पतिसेवाबलं लभेत् ।
भुक्तिं मुक्तिं कृष्णसेवां लभेत् कृष्णप्रसादतः ।। १४३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पर्शुरामेण सह युद्धे मनोरमया दिव्यया पतिव्रतया सहस्रार्जुनो रक्षितः, लक्ष्मीकवचवियोगे मनोरमावियोगस्ततोऽर्जुनस्य मरणं, गणेशस्यैकदन्तत्वं चेत्यादिनिरूपणनामाऽष्टपंचाशदधिकचतुश्शततमोऽध्यायः ।। ४५८ ।।