लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५७
[[लेखकः :|]]
अध्यायः ४५८ →

श्रीनारायण उवाच-
दत्रात्रेयस्य सच्छिष्यः कार्तवीर्याऽर्जुनो नृपः ।
पतिव्रतया तत्पत्न्या मनोरमाख्यया मुहुः ।। १ ।।
रक्षितोऽपि बोधितोऽपि न मेने स्वप्रियावचः ।
अनादृत्य गतो युद्धे जामदग्न्यस्य सन्निधौ ।। २ ।।
तदा देहः परित्यक्तो मनोरमाख्ययोषिता ।
ततो मृतः कार्तवीर्यः शृणु लक्ष्मि! कथां तु ताम् ।। ३ ।।
माहिष्मत्या नगर्याः स राजाऽभूदर्जुनो महान् ।
एकदा कार्तवीर्यः स जगाम मृगयां वने ।। ४ ।।
रात्रौ बुभुक्षितः श्रान्तो जमदग्न्याश्रमं ययौ ।
कामधेनुप्रतापेन ससैन्यो भोजितो नृपः ।। ५ ।।
जमदग्निं मारयित्वा कामधेनुं जहार सः ।
ययावनु सती वह्नौ प्रविश्य रेणुका पतिम् ।। ६ ।।
पर्शुरामः क्रोधमाप्तः प्रतिज्ञां प्रचकार ह ।
त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिमाम् ।। ७ ।।
ब्राह्मणेभ्यो धनं दत्वा ब्रह्मलोकं जगाम ह ।
प्रतिज्ञां कथयामास ब्रह्मणेऽथ तमाह सः ।। ८ ।।
शिवलोकं गच्छ वत्स शंकरं शरणं व्रज ।
श्रीकृष्णमन्त्रकवचग्रहणं कुरु शंकरात् ।। ९ ।।
दुर्लभं वैष्णवं तेजः शैवं शाक्तं विजेष्यति ।
श्रुत्वा नत्वा वेधसं सः शिवलोकं जगाम ह ।। 1.457.१० ।।
ननाम मूर्ध्ना शंभुं स वृत्तान्तं समुवाच तम् ।
प्रसन्नः शंकरस्तस्मै ददौ श्रीकृष्णसन्मनुम् ।। ११ ।।
त्रैलोक्यविजयं वर्म तथा स्तोत्रं हरेः शुभम् ।
त्रैलोक्यविजयस्याऽस्य कवचस्य प्रजापतिः ।। १ २।।
ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः प्रभुः ।
त्रैलोक्यविजयप्राप्तौ विनियोगः सदा मतः ।। १३ ।।
प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात् कपालं 'कृष्णाय स्वाहा' पञ्चाक्षरात्मकः ।। १४।।
कृष्णेति पातु नेत्रे च कृष्णः स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ।। १५।।
ओं गोविन्दाय स्वाहेति नासिकां पातु सर्वदा ।
गोपालाय नमो गण्डौ पातु मे सर्वतः प्रभो ।। १६।।
ओं नमो गोपांगनेशाय कर्णौ पातु सदा मम ।
ओं कृष्णाय नमः शश्वत्पातु मेऽधरयुग्मकम् ।।१७।।
ओं गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।
पातु कृष्णाय दन्ताऽधो दन्तोर्ध्वं क्लीं सदाऽवतु ।। १८।।
ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ।। १ ९।।
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपांगनेशाय वक्षः पातु सदा मम ।।1.457.२०।।
ओं गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोरवेशाय स्वाहा पृष्ठं सदाऽवतु ।।२१ ।।
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
औं ह्रीं क्लीं कृष्णाय स्वाहा करौ पातु सदा मम ।।२२।।
ओं विष्णवे नमो बाहुयुग्मं पातु सदा मम ।
ओं हीं भगवते स्वाहा नखरं पातु मे सदा ।।२३।।
ओं नमो नारायणाय नखरन्ध्रं सदाऽवतु ।
औं ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ।।२४।।
ओं सर्वेशाय स्वाहेति ककालं पातु मे सदा ।
ओं गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ।।२५।।
ओं गोपीरमणनाथाय पादौ सदाऽवतु मम ।
ओं हीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ।।२६।।
ओं केशवाय स्वाहेति मम केशान् सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ।।२७।।
ओं माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
ओं ह्रीं श्रीं रलिकेशाय स्वाहा सर्वं सदाऽवतु ।।२८।।
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ।।२९।।
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैर्ऋत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ।।1.457.३ ०।।
गोविन्दः पातु मां शश्वद् वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ।।३ १।।
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ।
वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ।।३२।।
सदैव माधवः पातु बलिहारी बलाधिकः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ।।३३।।
स्वप्ने जागरणे शश्वत् पातु मां माधवः सदा ।
सर्वात्मा श्रीकृष्णनारायणो मां पातु सर्वतः ।।३४।।
इति त्रैलोक्यविजयं वर्मोक्तं ते महाऽद्भुतम् ।
कण्ठे वा दक्षिणे बाहौ धारणाद् विजयः सदा ।।३५।।
स भवेत् सिद्धकवचो दशलक्षं जपेत्तु यः ।
दशांशहोमः कर्तव्यो यथेष्टसिद्धिमिच्छता ।।३६।।
ओं श्री नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा ।
सिद्धः स्यात् पञ्चलक्षैस्तु मन्त्रः सप्तदशाक्षरः ।।३७।।
अथ स्तोत्रं शृणु दिव्यं सद्यस्तुष्टिकरं परम् ।
दिव्यं श्रीश्रीकृष्णनारायणस्य वेधसोदितम् ।। ३८।।
सूक्ष्मतमं चाक्षरेशं निर्गुणं सगुणं हरिम् ।
निराकारं च साकारं श्रीकृष्णं प्रणमाम्यहम् ।।३९।।
सर्वाधारं स्वतन्त्रं च कमनीयं विभुं हरिम् ।
साक्षिणं कर्मफलदं श्रीकृष्णं प्रणमाम्यहम् ।।1.457.४०।।
जगज्जन्मादिकर्तारं सच्चिदानन्दमर्थगम् ।
स्त्रीपुंनपुंसकात्मानं श्रीकृष्णं प्रणमाम्यहम् ।।४१ ।।
तारकं धारकं सर्वकारणानां तु कारणम् ।
बीजं विप्रं रविं चन्द्रं श्रीकृष्णं प्रणमाम्यहम् ।।४२।।।
शंकरं शेषरूपं च ब्रह्माणं कपिलं मुनिम् ।
सनत्कुमारं राधेशं श्रीकृष्णं प्रणमाम्यहम् ।।४३।।
विष्णुं देवीं मनुं भक्तं वसन्तं मार्गशीर्षकम् ।
एकादशीं सागरं च श्रीकृष्णं प्रणमाम्यहम् ।।४४।।
हिमालयं क्षितिं वृन्दां चन्दनं कल्पपादपम् ।
धान्यं च पारिजातं च श्रीकृष्णं प्रणमाम्यहम् ।।४५।।
ऐरावतं वैनतेयं कामधेनुं तथामृतम् ।
सुवर्णं च यवं सिंहं श्रीकृष्णं प्रणमाम्यहम् ।।४६ ।।
बृहस्पतिं कुबेरं च वेदमिन्द्रं सरस्वतीम् ।
अकारं जाह्नवीं मनः श्रीकृष्णं प्रणमाम्यहम् ।।४७।।
सुदर्शनं ब्रह्मतेजः कान्तं कालं बलं गुरुम् ।
मातरं विश्वकर्माणं श्रीकृष्णं प्रणमाम्यहम् ।। 8८।।
पतिव्रतां पितरं च शालग्रामं सुतं नृपम् ।
सामवेदं वृषं शैत्यं श्रीकृष्णं प्रणमाम्यहम् ।।४९।।
गन्धं शब्दं राजसूयं गायत्रीं पावकं पयः ।
सुचित्रस्थं स्तुतिं दर्भं श्रीकृष्णं प्रणमाम्यहम् ।।1.457.५० ।।
शान्तिं विभुं मतिं चित्रं श्यामलं गोपिकापतिम् ।
दिव्यभूषाधरं कान्तं श्रीकृष्णं प्रणमाम्यहम् ।।५१ ।।
विहारिणं च रसिकं राधाकान्तं मनोहरम् ।
लक्ष्मीशं श्रीकृष्णनारायणं नित्यं नमाम्यहम् ।।५२।।
इति स्तोत्रेण त्रैलोक्ये सर्वदा विजयो भवेत् ।
गच्छ साधय संकुरु प्रतिज्ञान्तं जयस्तव ।।५३।।
रामो गत्वा पुष्करे संसाध्य युद्धाय निर्गतः ।
ददर्श मंगलान्येव शुश्राव जयसूचकम् ।।५४।।
हरिशब्दं सिंहशब्दं घण्टादुन्दुभिवादनम् ।
आकाशीयस्वरगीतिं जयस्ते भवितेति वै ।।५५।।
नवेङ्गितं च कल्याणं मेघशब्दं जयावहम् ।
ददर्श पुरतो विप्रबन्दिदैवज्ञभिक्षुकान् ।।।५६।।
पुरो ददर्श दीपं च पतिपुत्रवतीं सतीम् ।
शिवं शिवां पूर्णकुंभं चापं च नकुलं तथा ।।५७।।
कृष्णमृगं गजं सिंहं तुरगं गण्डकं द्विपम् ।
चमरीं राजहंसं च चक्रवाकं शुकं पिकम् ।।५८।।
मयूरं खञ्जनं शंखचिल्लं तथा चकोरकम् ।
पारावतं बलाकं च कारण्डं चातकं चटम् ।।५९।।
सौदामिनीं शक्रचापं सूर्यं सूर्यप्रभां शुभाम् ।
सद्योमांसं सजीवं च मत्स्यं शंखं सुवर्णकम् ।।1.457.६०।।
माणिक्यं रजतं मुक्तां मणीन्द्रं च प्रवालकम् ।
दधि लाजान् शुक्लधान्यं शुक्लपुष्पं च कुंकुमम् ।।६१ ।।
पर्णं पताकां छत्रं च दर्पणं श्वेतचामरम् ।
धेनुं वत्सयुतां नृपं रथस्थं हेतिसंयुतम् ।।६२।।
दुग्धमाज्यं च पूगं चामृतं च पायसं शुभम् ।
शालग्रामं फलं पक्वं स्वस्तिकं शर्करां मधु ।।६३।।
मार्जारं च वृषं श्वेतं मेषं पर्वतमूषिकम् ।
मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम् ।।६४।।
कस्तूरीं व्यजनं तोयं हरिद्रां तीर्थमृत्तिकाम् ।
सिद्धार्थं सर्षपं दूर्वां विप्रबालं च कन्यकाम् ।।६५।।
मृगं वेश्यां षट्पदं च कर्पूरं पीतवाससम् ।
गोमूत्रं गोपुरीषं च गोधूलिं गोपदाऽङ्कितम् ।।६६।।
गोष्ठं गवां वर्त्म रम्यां गोशालां गोगतिं तथा ।
भूषणं देवमूर्तिं च ज्वलदग्निं महोत्सवम् ।।६७।।
ताम्रं च स्फटिकं वन्द्यं सिन्दूरं माल्यचन्दनम् ।
गन्धं च हीरकं रत्नं ददर्श दक्षिणे मुनिः ।।६८।।
सुगन्धिपवनाऽऽघ्राणं प्राप्य विप्राशिषः शुभाः ।
कार्तवीर्याऽर्जुनाऽभ्याशे ययौ श्रीनर्मदातटम् ।।६९।।
तत्राऽक्षयवटाऽधस्ताद् रात्रौ निद्रां जगाम ह ।
निशातीते ददर्शायं स्वप्नानि विविधानि च 1.457.७०।।
न चिन्तितं यन्मनसा वायुपित्तकफं विना ।
गजाश्वशैलप्रासादगोवृक्षफलितेषु च ।।७ १ ।।
आरुह्यमाणमात्मानं रुदन्तं कृमिभक्षितम् ।
आरुह्यमाणमात्मानं नौकायां चन्दनोक्षितम् ।।७२।।
पुष्पमालां धृतवन्तं पीतवस्त्रैः सुशोभितम् ।
विण्मूत्रोक्षितसर्वांगं वसापूयसमन्वितम् ।। ७३ ।।
वीणां वरां वादयन्तमात्मानं स ददर्श ह ।
विस्तीर्णपद्मपत्राढ्यं स्वं ददर्श सरित्तटे ।।७४।।
दध्याज्यमधुसंयुक्तं भुक्तवन्तं च पायसम् ।
भुक्तवन्तं च ताम्बूलं लभन्तं व्राह्मणाशिषम् ।।७५।।
फलपुष्पप्रदीपं च पश्यन्तं स्वं ददर्श ह ।
परिपक्वफलं क्षीरमुष्णान्नं शर्करान्वितम् ।।७६।।
स्वस्तिकं भुक्तवन्तं च मिष्टान्नं श्वेतचूर्णजम् ।
शर्करायुग्वारिपानं कुर्वन्तं स्वं ददर्श सः ।।७७।।
जलौकसा वृश्चिकेन मीनेन भुजगेन च ।
भक्षितं भीतमात्मानं पलायन्तं ददर्श सः ।।७८।।
ततो ददर्श चात्मानं मण्डले शशिसूर्ययोः ।
पतिपुत्रवतीं नारीं ददर्श सस्मितां ततः ।।७९।।
सुवेषया कन्यया सस्मितेन च द्विजेन च ।
ददर्श श्लिष्टमात्मानं तुष्टेन परितुष्टया ।।1.457.८० ।।
फलितं पुष्पितं वृक्षं देवताप्रतिमां नृपम् ।
गजस्थं च रथस्थं च पश्यन्तं स्वं ददर्श सः ।।८१ ।।
पीतवस्त्रपरीधानां रत्नालंकारभूषिताम् ।
विशन्तीं ब्राह्मणीं गेहं पश्यन्तं स्वं ददर्श सः ।।८२।।
शंखं च स्फटिकं श्वेतमालां मुक्तां च चन्दनम् ।
सुवर्णं रजतं रत्नं पश्यन्तं स्वं ददर्श सः ।।८३।।
गजं वृषं च सर्पं च श्वेतं च श्वेतचामरम् ।
नीलोत्पलं दर्पणं च पर्शुरामो ददर्श ह ।।८४।।
रथस्थं नवरत्नाढ्यं मालतीमाल्यभूषितम् ।
रत्नसिंहासनस्थं स्वं रामः स्वप्ने ददर्श ह ।।८५।।
पद्मश्रेणीं पद्मकुंभं दधि लाजान् घृतं मधु ।
पर्णच्छत्रं छत्रिणं च रामः स्वप्ने ददर्श ह ।।८६।।
बकपंक्तिं हंसपंक्तिं कन्यापंक्तिं व्रतान्विताम् ।
पूजयन्ती घटं शुभ्रं रामः स्वप्ने ददर्श ह ।।८७।।
मण्डपस्थं द्विजगणं पूजयन्तं हरं हरिम् ।
जयोऽस्त्वित्युक्तवन्तं तं रामः स्वप्ने ददर्श ह ।।८८।।
सुधावृष्टिं पर्णवृष्टिं फलवृष्टिं गवागमम् ।
पुष्पचन्दनवृष्टिं च रामः स्वप्ने ददर्श ह ।।८९।।
सद्योमांसं जीवमत्स्यं मयूरं श्वेतखञ्जनम् ।
सरोवरं च तीर्थानि रामः स्वप्ने ददर्श ह ।।1.457.९०।।
पारावतं शुकं चापं शंखं चिल्लं च चातकम् ।
व्याघ्रं सिंहं च सुरभीं रामः स्वप्ने ददर्श ह ।।९१ ।।
गोरोचनां हरिद्रां च शुक्लधान्यचयं शुभम् ।
ज्वलदग्निं तथा दूर्वां रामः स्वप्ने ददर्श ह ।।९२।।
देवालयसमूहं च शिवलिंगं च पूजितम् ।
अर्चितां मृन्मयीं शैवां रामः स्वप्ने ददर्श ह ।।९३।।
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ।
भुक्तवन्तं मुहुः स्वं च रामः स्वप्ने ददर्श ह ।।९४।।
दिव्यवस्त्रविभूषाढ्या नारीः स्वप्ने स भुक्तवान् ।
अगम्यागमनं स्वप्ने चकार परशुप्रधिः ।।९५।।
ददर्श नर्तकीं वेश्यां रुधिरं च सुरां पपौ ।
रुधिरोक्षितसर्वांगं स्वात्मानं स ददर्श ह ।।९६।।
पक्षिणां पीतवर्णानां मानुषाणां च पद्मजे ।
मांसानि बुभुजे रामो हृष्टः स्वप्नेऽरुणोदये ।।९७।।
अकस्मान्निगडैर्बद्धं क्षतं शस्त्रेण स्वं पुनः ।
दृष्ट्वैवं बुबुघे प्रातः समुत्तस्थौ हरिं स्मरन् ।।९८।।
मनसा बुबुधे सर्वं विजेष्यामि रिपून् ध्रुवम् ।
कार्तवीर्यार्जुनो रात्रावनिष्टानि ददर्श ह ।। ९९।।
तैलाऽभ्यंगितमात्मानं ददर्श गर्दभोपरि ।
औढपुष्पस्य माल्यं च बिभ्रतं रक्तचन्दनम् ।। 1.457.१ ००।।
रक्तवस्त्रपरीधानं लोहालंकारभूषितम् ।
क्रीडन्तं च हसन्तं च निर्वाणांगारराशिना ।। १०१ ।।
भस्मच्छन्नां च पृथिवीं जयापुष्पान्वितां भुवम् ।
रहितं चन्द्रसूर्याभ्यां रक्तसन्ध्यान्वितं नभः ।। १ ०२।।
मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम् ।
रक्तवस्त्रपरीधानां ददर्श चाट्टहासिनीम् ।। १ ०३।।
सशरामग्निरहितां चितां भस्मसमन्विताम् ।
भस्मवृष्टिमसृग्वृष्टिमग्निवृष्टिं ददर्श सः ।। १ ०४।।
पक्वतालफलाकीर्णां पृथिवीमस्थिसंभृताम् ।
कर्परौघं ददर्शाऽपि छिन्नकेशनखान्विताम् ।। १ ०५।।
पर्वतां लवणानां च राशीभूतं कपर्दकम् ।
चूर्णानां चैव तैलानां ददर्श कन्दरं निशि ।। १०६ ।।
ददर्श पुष्पितं वृक्षमशोककरवीरयोः ।
तालवृक्षं च फलितं ददर्श सः पतत्फलम् ।। १ ०७।।
स्वकरात्पूर्णकलशः पपात च बभञ्ज च ।
ददर्शाऽपि च गगनात् सम्पतत्सूर्यमण्डलम् ।। १ ०८।।
एवं ददर्श गगनात् सम्पतच्चन्द्रमण्डलम् ।
उल्कापातं धूमकेतुं ग्रहणं चन्द्रसूर्ययोः ।। १ ०९।।
विकृताकारपुरुषं विकटास्यं दिगम्बरम् ।
आगच्छन्तं त्वग्रतस्तं स्वप्ने ददर्श चार्जुनः ।। 1.457.११ ०।।
बाला द्वादशवर्षीया वस्त्रभूषणभूषिता ।
संरुष्टा याति स्वगेहादेवं स्वप्ने ददर्श सः ।। १११ ।।
मनोरमा निजपत्नी याचते काननं प्रति ।
गमनायैकला चेति स्वप्ने ददर्श चार्जुनः ।। ११ २।।
रुष्टो विप्रो मां शपते सन्यासी च यतिर्गुरुः ।
भित्तौ पुत्तलिकाश्चित्रा नृत्यन्तीश्च ददर्श सः ।। ११ ३।।
गृध्रैः काकैर्महिषैश्च पीडितं स्वं ददर्श सः ।
पीडितं तैलयन्त्रेण भ्रामितं तैलकारिणा ।। १ १४।।
धृतं नग्नैः पाशहस्तैरात्मानं स ददर्श ह ।
नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे ।। १ १५।।
विवाहं परमानन्दं रमतो लोकनायकान् ।
केशाकेशि कुर्वतश्चाऽर्जुनो ददर्श वै निशि ।। १ १६।।
ददर्श समरं रात्रौ काकानां च शुनां तथा ।
मोटकानि च पिण्डानि श्मशानं शवसंयुतम् ।। १ १७।।
रक्तवस्त्रं शुक्लवस्त्रं ददर्श चार्जुनो निशि ।
कृष्णाम्बरा कृष्णवर्णा विवस्त्रा मुक्तमूर्धजा ।। १ १८।।
विधवाऽऽश्लिष्यति स्वं तत् स्वप्नेऽर्जुनो ददर्श ह ।
नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च वक्षसम् ।। ११ ९।।
नखैर्विदारितं वक्षः स्वप्नेऽर्जुनो ददर्श ह ।
पादुकाश्चर्मरज्जूनां राशिं स्वप्ने ददर्श सः ।। 1.457.१ २०।।
चक्रं भ्रमन्तं भूमौ च कुलालस्य ददर्श सः ।
वात्यया घूर्णमानं च शुष्कवृक्षं समुत्थितम् ।। १२१ ।।
पूर्णमानं कबन्धं च स्वप्नेऽर्जुनो ददर्श ह ।
ग्रथितां मुण्डमालां च चूर्ण्यमाना तु वात्यया ।। १२२।।
अतीव घोरदशनान् भूतप्रेतान् भयंकरान् ।
हुताशनं वमतश्च स्वप्नेऽर्जुनो ददर्श ह ।। १ २३।।
दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम् ।
अंगहीनं च वृषलं स्वप्नेऽर्जुनो ददर्श ह ।। १ २४।।
कुहपर्वतवृक्षाणां सहसा पतनं तथा ।
मुहुर्मुहुर्वज्रपातं स्वप्नेऽर्जुनो ददर्श ह ।। १२५।।
कुक्कुराणां शृगालानां मुहुः शुश्राव रोदनम् ।
अधःशीर्षमूर्ध्वपादं मुक्तकेशं दिगम्बरम् ।। १२६।।
भूमौ भ्रमन्तं गच्छन्तं ददर्श चार्जुनो निशि ।
विकृतध्वनिशन्दं च ग्रामाग्रे देवरोदनम् ।। १ २७।।
श्रुत्वा प्रातर्जजागार कार्तवीर्याऽर्जुनो नृपः ।
क्षुवँश्च शयनाद् यातः प्रस्खलन् स्वपतिव्रताम् ।। १२८।।
मनोरमां निशि दृष्टदुष्टस्वप्नातिदुःखिताम् ।
सती साध्वी प्रिया नाथं पतिं दृष्ट्वा पतिव्रता ।। १ २९।।
सिषेवे त्वन्तिमां सेवां क्रोडे कृत्वा पतिं स्वकम् ।
शतपुत्राधिकः प्रेम्णा सतीनां वै पतिर्यतः ।। 1.457.१३ ०।।
किन्तु दुष्टापशकुनैर्ज्ञात्वा भाविविनाशनम् ।
पतिर्मे श्रीकृष्णनारायणांशेन द्विजेन वै ।। १३१ ।।
योद्धुं याति च विज्ञाय प्राणान् सर्वान् निरुद्ध्य सा ।
षटचक्राणि भेदयित्वा ब्रह्मरन्ध्रं जगाम सा ।। १ ३२।।
त्वरितं दिव्यरूपा सा सतीलोकं तु प्राग् ययौ ।
अथाऽर्जुनो ययौ योद्धुं ददर्शाऽमंगलानि सः ।। १३३ ।।
सती दिव्यशरीरेण स्वामिना सह सङ्गरम् ।
रथमारुह्य पार्श्वस्थाऽदृश्या सहचरी ययौ ।। १ ३४।।
ददर्श द्वारि विधवां छिन्ननासां कुरूपिणीम् ।
अर्जुनः कृष्णवस्त्राढ्यां रुदतीं मुण्डिनीं खलाम् ।। १ ३५।।
मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम् ।
पतिपुत्रविहीनां चाऽपरां ददर्श पुंश्चलीम् ।। १३६ ।।
कुंभकारं तैलकारं व्याधं सर्पोपजीविनम् ।
कुचैलमतिरूक्षांगं नग्नं काषायवाससम् ।। १ ३७।।
चितादग्धं शवं भस्म निर्वाणांगारमित्यपि ।
वसाविक्रयिणं चापि कन्याविक्रयिणं तथा ।। १ ३८।।
सर्पक्षतं नरं सर्पं गोधां च शशकं विषम् ।
श्राद्धपाकं च पिण्डं च मोटकं च तिलांस्तथा ।। १ ३९।।
शूद्रान्नभोजकं विप्रं देवलं ग्रामयाजकम् ।
कुशपुत्तलिकां चैव शवदाहनकारिणम् ।। 1.457.१४०।।
शून्यकुंभं भग्नकुंभं तैलं लवणमस्थि च ।
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ।। १४१ ।।
दक्षिणे तु शृगालं च कुर्वन्तं भैरवं रवम् ।
कपर्दकं च क्षौरं च छिन्नकेशं नखं मलम् ।। १४२।।
कलहं च विलापं च तथा क्लेशकरं जनम् ।
अमंगलं रुदन्तं च रुदन्तं शोकिनं जनम् ।। १४३।।
मिथ्यासाक्ष्यप्रदातारं चौरं च नरघातिनम् ।
पुंश्चलीपतिपुत्रौ च पुंश्चल्योदनभक्षकम् ।। १४४।।
देवतागुरुविप्राणां वस्तुवित्तापहारकम् ।
दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ।। १४५।।
पितृमातृविरक्तं च द्विजाऽश्वत्थविघातिनम् ।
सत्यघ्नं च कृतघ्नं च क्षतं विश्वासघातिनम् ।। १४६।।
गुरुदेवद्विजानां च निन्दकं स्वागहीनकम् ।
नपुंसकं कुष्ठिनं च काणं बधिरमित्यपि ।। १४७।।
पुल्कस छिन्नलिंगं च खल्वाटं श्मश्रुहीनकम् ।
सुरामत्तं सुरां रण्डामुष्टेर महिषगर्दभ१ ।। १४८।।
क्षिप्तं वमन्तं रुधिरं लूकं काकं ददर्श सः ।
मूत्रं पुरीषं श्लेष्माणं रूक्षिणं नृकपालकम् ।। १४९।।
चण्डवातं रक्तवृष्टिं कुवाद्यं वृक्षपातनम् ।
वृकं च सूकर गृध्रं श्येनं कंकं च भल्लुकम् ।। 1.457.१५० ।।
निगडं शुष्ककाष्ठं च वायसं गन्धकं तथा ।
अभिचारोपजीवं कुवैद्य तुषं तथौषधम् ।। १५१ ।।
रक्तपुष्पं मृतवार्ता विप्रशापं क्षुवं तथा ।
यष्टिमुकुटपतनं कार्तवीर्यो ददर्श ह ।। १५२।।
वामांगस्पन्दनं देहजाड्य रथाश्वपश्चनम् ।
रथचक्रक्रूररावो हृदि त्रासश्च जज्ञिरे ।। १५३।।
तथापि राजा निःशंकः प्रविवेश रणाजिरम् ।
प्रणम्य परशुरामं ब्राह्मणेभ्यो ददौ धनम् ।। १५४।।
रणतूर्याण्यवाद्यन्त सन्नाहोऽभूच्च सैन्ययोः ।
पर्शुरामोऽर्जुनमाह न्याय्यं यत् सर्वश्पृण्वताम् ।। १५५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कामधेनुहरणमिषेगा जमदग्निनाशः, रेणुकायाः सतीत्वं, पर्शुरामस्य शकरात् श्रीकृष्णमन्त्रकवचस्तोत्रलाभः, स्वप्ने जागरणे पर्शुरामस्य शकुनानि, सहस्रार्जुनस्याऽपशकुनानि, पतिव्रतायाः मनोरमायाः पातिव्रत्येन सतीत्वं, रणागमश्चेत्यादिनिरूपणनामा सप्तपञ्चाशदधिकचतुश्शत तमोऽध्यायः ।।४५७।।