सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५६

विकिस्रोतः तः
← अध्यायः ४५५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५६
[[लेखकः :|]]
अध्यायः ४५७ →

श्रीनारायण उवाच-
ध्याने सर्वं समालोच्याऽगस्तिः स्वस्य पतिव्रताम् ।
लोपामुद्रामुवाचेदं शृणु लक्ष्मि! जगद्धितम् ।। १ ।।
अपि पश्य वरारोहे! किमेतत्समुपस्थितम् ।
क्व तत्कार्यं क्व च वयं मुनिमार्गाऽवलम्बिनः ।। २ ।।
काशीक्षेत्रे निवसतां विघ्ना भवन्ति भाग्यतः ।
काशीक्षेत्रं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ।। ३ ।।
उपस्थितोऽयं कल्याणि! सोऽन्तरायो महान्मम ।
तथापि देवकार्यार्थं यास्यामि श्रीशिवोऽवतात् ।। ४ ।।
इत्युच्चार्य शिवं नत्वोपस्पृश्याऽसिजलं शुभम् ।
लोपामुद्रासहायः स योगेन तपसा मुनिः ।। ५ ।।
व्योममार्गेण दिव्येन निमेषार्धेन वै दिवम् ।
जगामाऽग्रे ददर्शाद्रिं विन्ध्यं रुद्धाम्बरोन्नतम् ।। ६ ।।
चकम्पे त्वचलस्तूर्णं दृष्ट्वैवाऽग्रस्थितं मुनिम् ।
तमगस्तिं प्रियायुक्तं वातापील्वलवैरिणम् ।। ७ ।।
गोवर्धनं करे धृत्वाऽस्थापयद् यो यमीभुवि ।
तमग्निसदृशं विन्ध्यो भूत्वा खर्वतरो भयात्। ।। ८ ।।
आज्ञाप्रसादः क्रियतां किंकरोऽस्मीति चाऽब्रवीत् ।
अगस्तिः प्राह विन्ध्य! त्वं मां विजानासि तत्त्वतः ।। ९ ।।
पुनरागमनं चेन्मे तावत् खर्वतरो भव ।
इत्युक्त्वा प्रियया साकं दक्षिणाशां ययौ मुनिः ।। 1.456.१० ।।
विन्ध्यः पश्यति सोत्कण्ठो न शप्तो यदगस्तिना ।
न मया सदृशो धन्य इति मत्वा तुतोष ह ।। ११ ।।
अद्य श्वो वा परश्वो वाऽप्यागमिष्यति वै मुनिः ।
इति चिन्तामहाभारैर्गिरिर्ह्रस्वस्तथा स्थितः ।। १ २।।
नोऽद्यापि मुनिरायाति नाद्यापि गिरिरेधते ।
अरुणोऽपि च तत्काले कालज्ञोऽश्वानकालयत् ।। १ ३।।
जगत्स्वास्थ्यमवापोच्चैः पूर्ववद् भानुसञ्चरैः ।
विवर्धिषति यो नीचः पराऽसूया समुद्वहन् ।। १४।।
दूरे तद्वृद्धिवार्ताऽऽस्तां प्राग्वृद्धेरपि संशयः ।
मनोरथा न सिद्धाः स्युः सिद्धा नश्यन्त्यपि ध्रुवम् ।। १५।।
अविज्ञायाऽन्यसामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत् ।
उपहाससमवाप्नोति तथैवाऽयमिहाऽचलः ।। १६।।
अथ गोदावरीतीरं ययावगस्तिरीश्वरः ।
ददर्शाऽग्रे महालक्ष्मीं सहास्यां सुचिरं स्थिताम् ।। १७।।
तां तु स्तुत्वा भगवतीं महालक्ष्मीं हरिप्रियाम् ।
पत्नीयुक्तः प्रणनाम साष्टांगं दण्डवन्मुनिः ।। १८।।
लक्ष्मी प्राह मुनिं लोपामुद्रां चापि पतिव्रताम् ।
प्रसन्नाऽहं त्वां प्रवीक्ष्य वृणु यत्ते हृदि स्थितम् ।। १ ९।।
राजपुत्रि! महाभागे! त्वमिहोपविशाऽमले ।
कोलदैत्यविनाशार्थमहमत्र समागता ।।1.456.२०।।
त्वदंगलक्षणैरेभिः सुपवित्रैश्च ते व्रतैः ।
निर्वापयितुमिच्छामि दैत्याऽस्त्रैस्तापितां तनुम् ।।२१ ।।
इत्युक्त्वा मुनिपत्नीं तां समालिङ्ग्य हरिप्रिया ।
अलंचकार सुप्रीत्या बहुसौभाग्यमण्डनैः ।।२२।।
लोपामुद्राऽपि तां लक्ष्मीं सेवयामास सुस्पृशैः ।
देहसंवाहनं चक्रे तापः शशाम च श्रियः ।।२३।।
लोपामुद्रा श्रियाः पादौ धृत्वा ननाम सादरम् ।
ववन्दे स्तवनं चक्रे तव लक्ष्मिः तदा सती ।।२४।।
शृणु तत्स्तवनं येन स्तावकाः स्युर्धनाश्रयाः ।
नैकसम्पत्समायुक्तास्त्वया प्रसन्नयेक्षिताः ।।२५।।
मातर्नमामि कमले! पद्माऽऽयतसुलोचने ।
श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ।।२६।।
क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि ।
लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ।।२७।।
महेन्द्रसदने त्वं श्रीः रुक्मिणी कृष्णभामिनी ।
चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ।।२८।।
स्मितानने जगद्धात्रि शरण्ये सुखवर्द्धिनि ।
जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ।।२९।।
ब्रह्मणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा ।
शिवे संहारिका शक्तिर्विश्वमातर्नमोऽस्तु ते ।।1.456.३ ०।।
त्वया शूरो गुणी विज्ञो धन्यो मान्यः कुलीनकः ।
कलाशीलकलापाढ्यो विश्वमातर्नमोऽस्तु ते ।।३ १ ।।
त्वया गजस्तुरगश्च स्त्रैणस्तृणं सरः सदः ।
देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ।।३२।।
त्वया पक्षी पशुः शय्या रत्नं पृथ्वी नरो वधूः ।
श्रेष्ठाः शुद्धा महालक्ष्मि! विश्वमातर्नमोऽस्तु ते ।।३३।।
लक्ष्मि! श्रि कमले पद्मे रमे पद्मोद्भवे सति ।
अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ।।३४।।
इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् ।
लोपामुद्रे मुने जाने वां यत् हृत्तापकारणम् ।।३५।।
सचेतनं दुनोत्येव काशीविश्लेषजोऽनलः ।
युवां वाराणसीं प्राप्य सिद्धिं प्राप्स्यथ ईप्सिताम् ।।३६।।
ये पठिष्यन्ति मत्स्तोत्रं तापदारिद्र्यनाशकम् ।
इष्टसम्पत्प्रदं तेषां जयसन्ततिकारकम् ।।३७।।
मम सान्निध्यदं बालग्रहादिव्याधिनाशनम् ।
भविष्यति मम सारूप्यादिप्रमोक्षणं तथा ।।३८।।
इति लब्ध्वा दम्पती श्रीप्रदाशिषः प्रणम्य ताम् ।
ययतुर्नातिदूरस्थं श्रीशैलं कमलाश्रयम् ।।३९।।
पत्नीयुक्तः स संवीक्ष्य परां मुदमवाप ह ।
परोपकरणं येषां जागर्ति हृदये सताम् ।।1.456.४०।।
नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ।
तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम् ।। ४१।
तपोभिरुग्रैस्तन्नाऽप्यमुपकृत्या यदाप्यते ।
नोपकारात्परो धर्मो नाऽपकारादघं परम् ।।४२।।
उपकारफलं लक्ष्मीदर्शनं शैलदर्शनम् ।
लोपामुद्रामुनिभ्यां श्रीवेंकटाद्रिर्विलोकितः ।।४३।।
उवाच वचनं पत्नीं तदा प्रीतमना मुनिः ।
आकर्णय वरारोहे तत्त्वं ते कथयामि वै ।।४४।।
मुक्तिस्थानान्यनेकानि भवन्ति भूतले सति ।
प्रयागं तीर्थराजं वै कुरुक्षेत्रं च नैमिषम् ।।४५।।
अवन्तिका हरिद्वारमयोध्या मथुरा पुरी ।
द्वारिका चामरावती तथा कुंकुमवापिका ।।४६।।
सरस्वती सिन्धुसंगो गंगासागरसंगमः ।
काञ्ची च त्र्यम्बकं चापि सप्तगोदावरीतटम् ।।४७।।
कालंजरं प्रभासश्च बद्रिकाश्रमरैवतौ ।
महालयस्तथौंकारक्षेत्रं च पौरुषोत्तमम् ।।४८।।
गोकर्णो भृगुकच्छश्च भृगुतुङ्गश्च पुष्करम् ।
श्रीपर्वतो मानसं च धारातीर्थं च भौतिकम् ।।४९।।
आध्यात्मिकानि तीर्थानि दयास्नेहादिकान्यपि ।
एतानि मुक्तिदान्येव नाऽत्राऽस्ति संशयो मनाक् ।।।1.456.५०।।
सत्यं तीर्थं क्षमातीर्थं तीर्थमिन्द्रियनिग्रहः ।
सर्वभूतदयातीर्थं तीथमार्जवमित्यपि ।।५१ ।।
दानं तीर्थं दमस्तीर्थं सन्तोषस्तीर्थमुच्यते ।
ब्रह्मचर्यं परं तीर्थं तीर्थं च प्रियवादिता ।।५२।।
ज्ञानं तीर्थं धृतिस्तीर्थं तपस्तीर्थमुदाहृतम् ।
सर्वतीर्थपरं तीर्थं शुद्धिर्या मानसी सदा ।।९३।।
न जलेन विशुद्धिर्वै मनःशुद्धि सती सदा ।
न शरीरमलत्यागाच्छुद्धिर्देहो न निर्मलाः ।।५४।।
ऐहिकसुखलब्ध्यर्थं वाञ्च्छा वै मानसो मलः ।
तत्र तत्र विरागस्तु सुनैर्मल्यमुदाहृतम् ।।५५।।
भावे तु निर्मले जाते कामाद्या अपि निर्मलाः ।
दोषाश्च गुणतां यान्ति सत्त्वप्रकर्षसंश्रयात् ।।५६ ।।
निगृहीतेन्द्रियग्रामो यत्र क्वापि वसेज्जनः ।
तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च ।।५७।।
ध्यानपूते ज्ञानजले रागद्वेषमलापहे ।
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ।।५८।।
एतत्ते मानसं प्रोक्तं तीर्थं साधुप्रसेवनम् ।
बाह्य भौमं जलीयं च शृणु तीर्थं कथं हि तत् ।।५९।।
शारीरा ब्रह्मरन्ध्राद्या भागा मेध्यतमा यथा ।
तथा भूजलभागाश्च मेध्यास्तीर्थानि तानि वै ।।1.456.६ ०।।
स्वयंजातानि पुण्यानि कानिचिद् देवजानि च ।
कानिचित्सत्पूरुषाणां निवासाद्यैः कृतानि च ।।६१ ।।
पतिव्रतानां वासाद्यैश्चमत्कारैः सतामपि ।
सतीनां चाप्यनुग्रहैः साध्वीनां तपसा तथा ।।६२।।
पत्नीव्रतानां कार्याद्यैस्तीर्थानि संभवन्ति हि ।
आत्मतीर्थं महत् प्रोक्तं श्रीकृष्णो महतो महान् ।।६३।।
शुद्धं बुद्ध्यात्मकं तीर्थं निर्मलानीन्द्रियाण्यपि ।
भौतिकानि शरीराणि तपोभिः पावनानि च ।।६४।।
अस्थि चर्मादिकं चाप्यशुद्धं सतां तु पावनम् ।
तीर्थं वै जायते कृष्णतपोयोगात् सुदिव्यकम् ।।६५।।
कथात्मकं सर्वश्रेष्ठं तीर्थं तीर्थोत्तमोत्तमम् ।
भावात्मकं महत्तीर्थं स्नेहतीर्थं च सुकृतम् ।।६६।।
वृद्धाभिवन्दनं तीर्थं ब्रह्मलोकप्रदं मतम् ।
यज्ञभूमिर्महत्तीर्थं गोतीर्थं तुलसीक्षतिः ।।६७।।
एकादश्यादिकं तीर्थं तारयत्येव बन्धनात् ।
श्रद्धात्मकं परं तीर्थं पुण्यदं फलदं तथा ।।६८।।
तस्माद्भौमेषु तीर्थेषु जलीयेषु तथा प्रिये ।
यथा दिव्यत्वबुद्धिर्वै तथा कृत्वा तु देहिषु ।।६९।।
देवालयेषु देवेषु मूर्तिषु प्रतिमासु च ।
सत्सु साध्वीषु सत्कार्यं सुकृतं त्वर्जयेत् सदा ।।1.456.७०।।
आन्तरेषु च बाह्येषु तीर्थेषु स्नाति यो जनः ।
कृष्णसंघगतौ भक्तो विन्दति परमां गतिम् ।।७१।।
स्नानं दानं जपो होमस्तर्पणं वपनं कृतम् ।
हरेः सतां सेवनं च दर्शनं त्वक्षयं भवेत् ।।७२।।
काशी काञ्ची च मायाख्या त्वयोध्या द्वारवत्यपि ।
मथुराऽवन्तिका चैता मोक्षदा भगवद्भुवः ।।७३।।
तथापि काशिका सर्वदेववासेन यादृशी ।
मानसे मे रोचतेऽद्य न तथाऽन्या पतिव्रते ।।७४।।
तारकं ज्ञानमन्त्रादि ददाति शंकरः स्वयम् ।
नित्यं भिक्षुकरूपेण भ्रमत्येव गृहं गृहम् ।।७५।।
महावैष्णवराजोऽयं वैकुण्ठं चामृतं तथा ।
गोलोकं चापि कैलासं भक्तान् प्रेषयति प्रभुः ।।७६।।
यममार्गः सदा रुद्धः काशीवासकृतां प्रिये ।
अविमुक्तं महाक्षेत्रं शिवादीनां परात्परम् ।।७७।।
तद्वासार्थं रोचयेऽहं यावस्तां काशिकां पुरीम् ।
सतीनां काशिकावासाद् ब्रह्मलोकाऽऽप्तिरेव वै ।।७८।।
सतीलोकात्परं लोकं वैकुण्ठं यान्ति ताः स्त्रियः ।
एतच्छ्रुत्वा मुनिं लोपामुद्रा पप्रच्छ सादरम् ।।७९।।
नारीणां चाप्सरसां च सतीनां क्वाऽस्ति तत्पुरम् ।
वद मे जीवनेशाऽत्र स्यां च निःसंशया यथा ।।1.456.८० ।।
ओमित्युक्त्वा सतीलोकमगस्तिः प्राह योषिते ।
शृणु साध्वि भूमिलोकात्परो वायुस्तरः स्मृतः ।।८१।।
पिशाचादिनिवासः स ततो गुह्यकमण्डलम् ।
गुह्यकानां तु देवानां लोकः स स्मृद्धिसंभृतः ।।८२।।।
ततो गान्धर्वलोकश्च यत्र गन्धर्वचारणाः ।
ततो वैद्याधरो लोको विद्याध्रा यत्र सन्ति हि ।।८३।।
ततो धर्मपुरी रम्या धार्मिकाः स्वर्गवासिनः ।
ततः स्वर्गं महत्पुण्यभाजां स्थानं सदासुखम् ।।८४।।
ततश्चाऽप्सरसां लोकः स्वर्गे चोर्ध्वे व्यवस्थितः ।
अप्सरसो महासत्यो यज्ञभाजां प्रियंकराः ।।८५।।
वसन्ति चाप्सरोलोके लोकपालानुसेविकाः ।
युवत्यो रूपलावण्यसौभाग्यनिधयः शुभाः ।।८६।।
दृढग्रन्थिनितम्बिन्यो दिव्यालंकारशोभनाः ।
दिव्यभोगप्रदा गीतिनृत्यवाद्यसुपण्डिताः ।।८७।।
कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः ।
रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु ।।८८।।
नानाऽऽदेशविशेषज्ञा नानाभाषासुकोविदा ।
संकेतोदन्तनिपूणाः स्वतन्त्रा देवतोषिकाः ।।८९।।
लीलानर्मसु साभिज्ञाः सुप्रलापेषु पण्डिताः ।
क्षीरोदस्य सुताः सर्वा नारायणेन निर्मिताः ।।1.456.९० ।।
उर्वशी मेनका रंभा चन्द्रलेखा तिलोत्तमा ।
वपुष्मती कान्तिमती लीलावत्युपलावती ।।९१ ।।
अलम्बुषा गुणवती स्थूलकेशी कलावती ।
कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा ।।९२।।
अनंगलतिका विद्युल्लता मदनमोहिनी ।
चकोराक्षी चन्द्रकला मणिप्रभा मनोहरा ।।९३।।
ग्रावद्रावा तपोद्वेष्ट्री चारुनासा सुकर्णिका ।
दारुसञ्जिवनी सुश्रीः क्रतुशुल्का शुभानना ।।९४।।
तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती ।
पञ्चाश्वमेधिका विद्या राजसूयार्थिनी प्रभा ।।९५।।
अष्टाग्निहोमिका माध्वी वाजपेयशतोद्भवा ।
अच्छोदा मोहिनी चम्पा ललिता च जया रमा ।। ९६।।
वर्धिनी पद्मिनी मञ्जुकेशी हेम्नी च मञ्जुला ।
मिश्रकेशी देविका शान्तिका षष्टिसहस्रकम् ।। ९७।।
अप्सरसां वसत्यन्या स्त्रियो लोकेऽत्र सन्त्यपि ।
सदाऽस्खलितलावण्याः सदाऽस्खलितयौवनाः ।।९८।।
दिव्याम्बरा दिव्यमाला दिव्यगन्धानुलेपनाः ।
दिव्यभोगैः सुसम्पन्नाः स्वेच्छाविधृतविग्रहाः ।। ९९ ।।
कृत्वा मासोपवासानि स्खलन्ति ब्रह्मचर्यतः ।
सकृदेव द्विकृत्यो वा त्रिःकृत्वो दैवयोगतः ।। 1.456.१००।।
ता इमा दिव्यभोगिन्यो रूपलावण्यसम्पदः ।
निवसन्त्यप्सरोलोके सर्वकामसमन्विताः ।। १०१ ।।
कृत्वा व्रतानि सांगानि कामिकानि विधानतः ।
भवन्ति कामचारिण्यो देवभोग्या इहाऽऽगताः ।। १ ०२।।
पतिव्रतधरानार्यो बलेन बलिना धृताः ।
भर्तृबुद्ध्या रमन्ते त कदाचित्ता इमाः प्रियाः ।। १० ३।।
भर्तरि प्रोषिते यास्तु ब्रह्मचर्यव्रताः सदा ।
विप्लवन्ते सकृद् दैवात् ता एता वामलोचनाः ।। १ ०४।।
स्वर्णं सुगन्धं सहस्रं शय्यां भूषाश्च भोजनम् ।
बहुकौतुकवस्तूनि समर्च्य द्विजदम्पतीम् ।। १ ०५।।
संक्रान्तौ वा व्यतीपाते दद्यात् या वरवर्णिनी ।
कामरूपधरो देवः प्रीयतामिति वादिनी ।। १ ०६।।
कोऽदात् कस्मा अदात् कामोऽदात् कामाय त्वदात्तथा ।
कामो दाता कामः प्रतिगृहीता काम ते इदम् ।। १ ०७।।
इतिमन्त्रेण संदात्री यथाशक्ति सकामना ।
सा श्रेष्ठाऽप्सरसां मध्ये वसेत् कल्पमिहांऽगना ।। १ ०८।।
कन्यारूपधरा काचिद् व्याभुक्ता केनचित् क्वचित् ।
देवरूपेण तं कालमारभ्य ब्रह्मचारिणी ।। १ ०९।।
वृत्तं तद् ध्यायमाना सा निधनं याति कालतः ।
दिव्यरूपधरा सेह जायते दिव्यभोगभाक् ।। 1.456.११ ०।।
इत्यावेद्य स्त्रियै कुंभजन्मा मित्रावरुणजः ।
लोपामुद्राऽभिधपत्न्यै तूष्णीमास महामुनिः ।। ११ १।।
अथ काश्यां शिवा दुर्गा देव्यो ब्रह्मव्रतप्रियाः ।
ययुः प्रातरगस्त्यस्याश्रमं देवीं पतिव्रताम् ।। ११ २।।
देवीपूज्यां महासाध्वीं लोपामुद्रां प्रवीक्षितुम् ।
अदृष्ट्वा तामनिवृत्तां रिक्तं चाश्रममण्डलम् ।। ११ ३।।
ध्यात्वा ज्ञात्वा वेंकटाद्रौ स्थितां द्रष्टुं द्रुतं ययुः ।
नेमुराश्लेषयामासुः कथाः प्राहुः परस्परम् ।। १ १४।।
देवीभिरर्थिता साध्वी ताभिः साकं निजाश्रमम् ।
अगस्तिना सह साध्वी समाजगाम काशिकाम् ।। १ १५।।
पतिव्रतां महासाध्वीं सतीं प्राप्य सुरस्त्रियः ।
काशीस्था सुखमापन्ना दुर्लभः सत्समागमः ।। ११६ ।।
इति ते कथितं लक्ष्मि! विन्ध्यस्याऽवर्धनं तथा ।
अगस्त्यस्य चमत्कारो लोपामुद्रासतीशता ।। १ १७।।
या कन्या शृणुयाच्चेदं पठेद्वा सा पतिव्रता ।
सती साध्वी श्रीसमाना भवेदेव न संशयः ।। १ १८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
विन्ध्याचलस्य सूर्यमार्गमवरुद्ध्य स्थितस्याऽगस्त्येन निरोधः कृतः, अगस्त्यस्य महालक्ष्मीदर्शनं, महालक्ष्मीस्तोत्रं, तीर्थविविधता, तीर्थप्रशंसा, अप्सरसां लोकः, अप्सरोभावप्राप्तिकारणानि, काशीदेविभिर्लोपामुद्रागस्त्ययोः काशीं प्रत्यानयनमित्यादिनिरूपणनामा षट्पञ्चाशदधिकचतुश्शत-
तमोऽध्यायः ।।४५६।।