लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५५
[[लेखकः :|]]
अध्यायः ४५६ →

श्रीनारायण उवाच-
अगस्त्यस्य प्रियपत्न्याः प्रतापं त्वं शृणु प्रिये ।
पतिव्रतोत्तमालोपामुद्राया दिव्ययोषितः ।। १ ।।
कदाचिन्नारदो लक्ष्मि! स्नात्वा श्रीनर्मदाम्भसि ।
विन्ध्यं विलोकयाञ्चक्रे व्रजन् श्रीबदरीश्वरम् ।। २ ।।
रसालयं द्रुमवल्लीस्तम्बसस्यादिशोभितम् ।
वर्धमानं महाकाशे लोकयन्तं समन्ततः ।। ३ ।।
दृष्ट्वा क्षणं नारदः स तस्थौ व्योम्न्येव कौतुकात् ।
विन्ध्योऽपि सूर्यसंकाशं नभसि द्योतिताम्बरम् ।। ४ ।।
नारदं दृष्टवान् प्रेम्णा दूरात् प्रत्युज्जगाम तम् ।
सन्तं दृष्ट्वा कठिनोऽपि धत्ते मृदुलतां यतः ।। ५ ।।
नत्वा मुनिं ददौ पाद्यमर्घ्यं चासनमर्हणम् ।
पादसंवाहनं चक्रे बभाषेऽवनतो गिरिः ।। ६ ।।
अद्य ते पादरजसा नष्टं रजस्तमो मम ।
धराधरत्वं कुलिषु मान्यं मे स्यात्तवाऽऽगमात् ।। ७ ।।
श्रुत्वैतन्नारदः किञ्चिदुच्छ्वस्य स्थितवाँस्ततः ।
विन्ध्याद्रिराह मुनिराडुच्छ्वासकारणं वद् ।। ८ ।।
हिमाद्रीन् पर्वतान्नाहं गणये भूधरानिति ।
वद कार्यं तु ते किञ्चित् करिष्ये सेवया युतः ।। ९ ।।
नारदस्तं तदा प्राह मेरुस्त्वामवमन्यते ।
इत्युक्त्वा नारदस्तस्माद् ययौ बदरिकाश्रमम् ।। 1.455.१ ०।।
विन्ध्याद्रिस्त्वाप महतीं 'चिन्तां धिग्जीवनं मम ।
ज्ञातिपराजितस्यात्रोद्यमविवर्जितस्य च ।। ११ ।।
कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो ।
रहः शर्म कथं तस्य यस्य ज्ञातिपराभवः ।। १ २।।
युक्तमुक्तं पुराविद्भिश्चिन्ता कृत्या भयंकरी ।
नोपायैः शाम्यति घोरा निद्रां बलं हरत्यपि ।। १ ३।।
चिन्ताज्वरो महातीव्रः प्रत्यहं नवतां व्रजेत् ।
किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम् ।। १४।।
विश्वेशं शरणं यायां स मे बुद्धिं प्रदास्यति ।
इति विचार्य महति त्वम्बरे वर्धते गिरिः ।। १५।।
दक्षिणे सूर्यमार्गं स निरुद्ध्य समवस्थितः ।
सूर्याश्वास्त्वग्रतो गन्तुं न शेकुर्वै तदाऽरुणः ।। १६।।
प्राह सूर्यं महाविन्ध्यो निरुद्ध्य गगनं स्थितः ।
स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां तु प्रदक्षिणाम् ।। १७।।
राहुबाहुग्रहव्यग्रो यः क्षणं नाऽवतिष्ठति ।
योजनानां सहस्रे द्वे, द्वे शते, द्वे च योजने ।। १८।।
योजनस्य निमेषार्धाद् याति सोऽपि चिरं स्थितः ।
तत् सूर्यस्य गतिस्तम्भात् स्तम्भितं तन्निमित्तकम् ।। १९ ।।
कालमानं तथा कार्यं रुरुदुर्दुद्रुवुः प्रजाः ।
ततो देवादयः सर्वे ब्रह्माणं शरणं ययुः ।। 1.455.२०।।
नमश्चक्रुस्तुष्टुवुश्च रक्ष रक्षेति चाऽब्रुवन् ।
विलोक्य दुःखितान् ब्रह्मा प्रत्युवाच दिवौकसः ।।२१ ।।
दास्यामि सकलान् कामान् शृणुध्वं वरमुत्तमम् ।
स्वस्थास्तिष्ठत भो यूयं कथं सत्ये समाकुलाः ।।२२।।
एते वेदाः सर्वविद्याः सत्यं धर्मस्तपः क्रतुः ।
ब्रह्मचर्यं भारतीयं श्रुतयः स्मृतयस्तथा ।।२३।।
ब्रह्मनिष्ठास्तापसाश्च व्रतिनश्चोपवासिनः ।
पातिव्रत्यपरा नार्यो ये चान्ये ब्रह्मचारिणः ।।२४।।
मातापित्रोः सदा भक्ता गोभक्ता देवसेवकाः ।
पत्नीव्रता अतिथीनां पूजका दानसुकृताः ।।२५।।
सर्वे मे सत्यलोकेऽत्र सन्ति ते सुखिनः सदा ।
वदन्तु भवतां चेष्टं करोमि सुखकृद्ध्रुवम् ।।२६।।
देवाः प्राहुर्विन्ध्यशैलः स्पर्धते मेरुणा दिवि ।
सूर्यमार्गं निरुद्ध्यैव वर्धते त्वद्गृहं प्रति ।।२७।।
सूर्याधाराः क्रिया रुद्धास्ततो लयो भविष्यति ।
सूर्यमार्गमतो रोधरहितं कुरु सर्वथा ।।२८।।
श्रुत्वैतद् विश्वसृट् प्राहाऽगस्त्यनामा महामुनिः ।
काशीक्षेत्रे तपत्युग्रं याचध्वं तं मुनिं सुराः ।।२९।।
मित्रावरुणपुत्रः स लोपामुद्रापतिः ऋषिः ।
विधास्यति स वः कार्यं वातापील्वलभक्षकः ।।1.455.३०।।
इत्युक्तास्तु सुराद्यास्ते ययुः काशीमगस्त्यकम् ।
मणिकर्ण्यां सुराः स्नात्वा ददृशुः काशिकां पुरीम् ।।३ १।।
विद्वज्जनप्रलक्षैः सत्साधुलक्षैरधिष्ठिताम् ।
तीर्थवासिजनव्रातकोटिमण्डलचञ्चलाम् ।।३२।।
देवालयैस्त्रिकोटिभिर्गृहस्थालयकोटिभिः ।
सहस्रोद्यानसत्क्षेत्रैः राजसौधसहस्रकैः ।।३३।।
वारनारीप्रलक्षैश्च देवनारीप्रलक्षकैः ।
ब्रह्मचारिकोटिभिश्च नैकदेशीयमानवैः ।।३४।।
तीर्थकोटिशतलक्षैर्गंगाद्युनदिकानदैः ।
विमानैर्वाहनैर्यानैर्महापुस्तकपत्तनैः ।।३५।।
धन्वन्तर्यादिशालाभिरन्नसत्रसहस्रकैः ।
सुशोभिता भिक्षुकैश्च दीनाऽनाथैः सहस्रकैः ।। ३६।।
एवं तां नगरीं दृष्ट्वा कृत्वा तीर्थान्यनेकशः ।
विश्वनाथं चान्नपूर्णां लक्ष्मीनारायणं तथा ।।३७।।
श्रीबिन्दुमाधवं धर्मदेवं दृष्ट्वा प्रणम्य ते ।
सम्पूज्य चरणौ प्रक्षालयित्वाऽऽगृह्य चामृतम् ।।३८।।
जग्मुः परोपकारार्थमगस्तिर्यत्र तिष्ठति ।
अगस्तीश्वरलिंगं च कुण्डं कृत्वा तदग्रतः ।।३९।।
शतरुद्रीयसूक्तेन जपन्मुनिर्विराजते ।
तेजसा सूर्यसंकाशं दृष्ट्वा सिष्मियिरे सुराः ।।1.455.४०।।
अहो हो सर्वतेजांसि श्रित्वेमां ब्राह्मणीं तनुम् ।
शीलयन्ति परं धाम शान्तं शान्तपदाप्तये ।।४१ ।।
यस्याऽऽश्रमेऽत्र दृश्यन्ते हिंस्रा अपि समन्ततः ।
सत्त्वाश्रिताः सर्वसत्त्वास्त्यक्त्वा वैरं निसर्गजम् ।।४२।।
सह सर्वे निवसन्ति क्रूराः शान्ताश्च राजसाः ।
पशवः पक्षिणः सर्वे मृगाः सरीसृपास्तथा ।।४३।।
इत्याश्रमचरान् दृष्ट्वा तिरश्चोऽपि मुनीनिव ।
अबोधि विबुधैः सर्वः प्रभावोऽगस्तिभूमिजः ।।४४।।
धर्मार्थकाममोक्षास्तु मूर्ता यत्र चरन्ति हि ।
इतिपश्यन्तो गीर्वाणा ददृशुस्तूटजं मुनेः ।।४५।।
होमधूपसुगन्धाढ्यं बटुभिर्बहुभिर्वृतम् ।
ब्रह्मचर्यरताभिश्च ब्रह्माऽध्ययनतेजसा ।। ४६ ।।
चन्द्राभाभिर्मुनिकन्याभिश्च सौम्यमलंकृतम् ।
सार्द्रवल्कलकौपीनैर्वृक्षशाखावलम्बिभिः ।।४७।।
सूचयत् सन्मुनिवासान् सत्त्वप्रसादकारितान् ।
पतिव्रताशिरोरत्नलोपामुद्रांऽघ्रिमुद्रया ।।४८।।
मुद्रितं वीक्ष्य ते नेमुः पर्णशालाऽङ्गणं सुराः ।
विसर्जितसमाधिं च धृतकर्णाऽक्षिमालिकम् ।।४९।।
अधिष्ठितबृसीपृष्ठं वेधसा सदृशं श्रिया ।
पुरोऽगस्त्यं समालोक्य देवाः सर्वे सवासवाः ।।1.455.५०।।
प्रहृष्टवदनाः प्रोचुः प्रोच्चैर्जय जयेति च ।
मुनिः सर्वानुपावेश्य पप्रच्छागमकारणम् ।।५१ ।।
देवगुरुस्तमुवाच देवागमनकारणम् ।
धन्योऽसि कृतकृत्योऽसि मान्योऽसि महतामपि ।।५२।।
प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनः ।
किन्न सन्तः सन्त्यगस्त्ये काचिदन्यैव ते स्थितिः ।।।५३ ।।
तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मं तेजस्त्वयि स्थिरम् ।
पुण्यश्रीश्च त्वयि श्रेष्ठा चमत्कारास्त्वयि स्थिताः ।।५४।।
पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी ।
तवांऽगच्छायया तुल्या यत्कथा पुण्यकारिणी ।।५५।।
अरुन्धती च सावित्री शाण्डिली श्रीः सती तथा ।
अनसूया महालक्ष्मीः शतरूपा च मेनका ।।५६ ।।
सुनीतिः कमला स्वाहा संज्ञा चेति पतिव्रताः ।
या यास्तासु यथैषा वर्ण्यते श्रेष्ठा तथा न ताः ।।५७।।
भुंक्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति ।
सुनिद्रिते तु निद्राति प्रथमं प्रतिबुध्यति ।।५८।।
नाऽलंकृतं निजात्मानं तव दर्शयति क्वचित् ।
गते भवति कार्यार्थं न धत्ते मण्डनानि तु ।।५ ९ ।।
तवाऽऽयुष्यविवृद्ध्यर्थं न गृणात्यभिधां तव ।
कृष्णं विनाऽन्यपुन्नाम नैव वदति कर्हिचित् ।।1.455.६०।।
आक्रुष्टा दण्डिता चापि नाऽऽक्रोशति प्रसीदति ।
इदं कुरु समाज्ञप्ता शीघ्रं करोति तत्क्षणम् ।।६ १ ।।
करिष्यसीति सम्प्रोक्ताऽवश्यं कान्तेति वक्ति च ।
त्वयाऽऽहूताऽन्यकार्याणि त्यक्त्वा त्वायाति सत्वरम् ।।६२।।
आज्ञापय कृपासिन्धो वक्ति कृतं प्रमन्यताम् ।
न चतुष्कस्य मार्गस्याऽङ्गनस्य द्वारि तिष्ठति ।।६३।।
अनापृष्ट्वा भवन्तं सा वस्तुमात्रं तृणं ह्यपि ।
त्वया नानुमतं किञ्चित् कस्मैचिन्न ददात्यपि ।।६४।।
स्वयमाहरति पूजासामग्रीर्नोदिताऽपि च ।
जलं दर्भान् फलपत्रपुष्पाणि चाक्षतादिकान् ।।६५ ।।
साधयत्येव समये विनाऽऽज्ञामपि सा सती ।
नोद्विग्ना भवति क्वापि नोद्वेजयति चापरान् ।।६६ ।।
यथाकालं यथायोग्यमुपस्थापयतीक्षते ।
भुंक्ते भर्तुः प्रसादं च जलमन्नं फलादिकम् ।।६७।।
मत्वा महाप्रसादं तत् स्वामिदत्तं समीहते ।
देवपित्रतिथिपोष्यानाथसतीसतः सदा ।।६८।।
दासगोभिक्षुकान् दत्वाऽश्नाति विभज्य नैजकम् ।
संयतोपस्करा प्रातर्दृष्टा व्ययपराङ्मुखी ।।६ ९।।
यथापेक्षव्ययकर्त्री योग्यशश्वत्परिग्रहा ।
तवाऽऽदेशं विना नेयं करोत्यपोषणं व्रतम् ।।1.455.७०।।
विनाऽऽज्ञां ते न यातीयं द्रष्टुं समाजमुत्सवम् ।
प्रदर्शनं मल्लयुद्धं नृत्यं नाट्य कलालयम् ।।७१ ।।
तीर्थयात्रां विवाहं ते विनाऽऽज्ञां द्रष्टुमेति न ।
आसीनं रममाणं च सुप्तं पतिं सुखेन सा ।।७२ ।।
अत्यावश्यककार्येऽपि त्वां नोत्थापयति क्वचित्। ।
अकामं त्वां च रजसा स्वार्थार्थं नापि सेवते ।। ७३ ।।
राजस्वल्ये मुखं नैव दर्शयति दिनत्रयम् ।
श्रावयति स्ववाक्यं न पूर्वं स्नानादिशुद्धितः ।।७४।।
पश्यति तुर्यदिवसे भर्तुर्मुखं रविं हरिम् ।
ध्यायतीयं कान्तरूपं कृष्णरूपं पतिव्रता ।।७५ ।।
नित्यं सौभाग्यचिह्नानि धारयत्येव त्वद्रता ।
केशसंस्कारकबरीकरकर्णादिभूषणम् ।।७६ ।।
हरिद्रां कुंकुमचन्द्रं सिन्दूरं नेत्रकज्जलम् ।
कंचुकीं नत्थिकां तन्त्रीं नूपुरं बंगिडीं तथा ।।७७।।
शृंखलां चोर्मिकां हारं स्वर्णैरणे च शाटिकाम् ।
विष्णुतैलं सुगन्धं च धारयत्येव त्वद्रता ।।७८।।
न च संगं करोत्येषा नास्तिकायास्तु योषितः ।
नाऽस्पृश्याया न पुंश्चल्याः पाखण्डिन्याश्च योषितः ।।७९।।
नाऽशुद्धायाश्च कामिन्या धर्मवर्जितयोषितः ।
भर्तृविद्वेषिणीं नारीं नैषा संभाषते सती ।।।1.455.८ ०।।
नैकाकिनी बहिर्याति विवस्त्रा स्नाति न क्वचित् ।
निषीदति सदा निम्ने न समे भर्तृसन्निधौ ।।८ १ ।।
कण्डन्यां न च पेषण्यां न चूल्ल्यां जलकुंभके ।
गर्गर्यां न कटाहादौ मूशले न शिलातले ।।८२।।
चूर्णयन्त्रे न मार्जन्यां चट्टनीपेषके न हि ।
न देहल्यां पुण्यपात्रे कृत्वा पृष्ठं गुरुं पतिम् ।।८३ ।।
निषीदति क्वचिच्छाटीमुत्तार्याऽपि न त्वद्रता ।
स्तनं जघनं कश्चिन्न संपश्येद् वर्तते तथा ।।८४।।
विना व्यवायसमयं प्रागल्भ्यं समरक्षति ।
भर्तुर्यत्र यथा तृप्तिः रुचिस्तत्र प्रवर्तते ।।८५।।
परं धर्मं व्रतं श्रेष्ठं देवपूजनमुत्तमम् ।
पालनं पतिवाक्यस्य मत्वोल्लंघनमेति न ।।८६।।
बालमशक्तमकामं व्याधितं दुरवस्थकम् ।
क्लीबं व्रतस्थं वृद्धं वा रुग्णं पतिं पतिव्रता ।।८७।।
सुस्थितं दुःस्थितं वापि व्यसनाढ्यं दरिद्रकम् ।
चौरं कामातिसक्तं वा सेवते सर्वदा सती ।।८८।।
तापसं चापि निष्कामं त्वां सदा सेवते त्वियम् ।
हृष्टा सदा त्वयि हृष्टे विषण्णे शोकगर्भिता ।।८९।।
सम्पत्सु चैकरूपा ते विपत्स्वपि तव प्रिया ।
गृहे भोज्यस्य वस्तूनां वेषवारस्य च क्षये ।।1.455.९० ।।
सम्पादयति चाज्ञया नास्तीति न ब्रवीत्यपि ।
तीर्थेच्छया ते चरणामृतं पिबति नित्यशः।।९१ ।।
विष्णोर्नारायणाच्छंभोरधिकं मनुते पतिम् ।
भर्तृचरणपूजात्मनियमं तु प्ररक्षति ।। ९२।।
सत्रपं चापवादे च कष्टदं कलिकारकम् ।
मृषा हसनं चाक्रोशं नेयं गृणाति वै क्वचित् ।।९३।।
देवं गुरुं व्रतं तीर्थं धर्मं जानाति सा पतिम् .।
तव छायासमा चेयं वर्तते किंकरी तव ।।९४।।
धन्योऽसि मुनिवर्य त्वं धन्यौ ते पितरौ तथा । ।
अस्यास्तु पितरौ धन्यौ यतश्चेयं पतिव्रता ।।९५।।
पतिव्रतायाश्चरणो यत्र भूमौ स्पृशत्यपि ।
सा भूमिः सर्वदा तीर्थं पावनं तारकं भवेत्। ।।९६।।
परमेश्वरभक्त्यैव लभते स्त्री पतिव्रता ।
गृहस्थस्त्वं यथार्थोऽसि यस्य तेऽस्ति पतिव्रता ।।९७।।
पतिव्रताया दृष्ट्याऽपि पातकी पावनो भवेत् ।
न गंगया तया भेदो या नारी पतिदेवता ।।९८।।
गंगास्नानफलं त्वेतद् यज्जातं तव दर्शनम् ।
तव पत्न्या दर्शनं च जातं नो बहुपुण्यतः ।।९९।।
प्रणवस्त्वं श्रुतिश्चेयं क्षमैषा त्वं स्वयं तपः ।
सत्क्रियेयं फलं त्वं च धन्योऽसि त्वं महामुने! ।। 1.455.१०० ।।
इदं पतिव्रतं तेजो ब्रह्मतेजो भवान्परम् ।
तत्राऽप्येतत्तपस्तेजः किमसाध्यतमं तव ।। १०१ ।।
तव नाऽविदितं किञ्चित्तथापि प्रवदाम्यहम् ।
यदर्थमागता देवास्तन्मुनेऽत्र निशामय ।। १ ०२।।
अयं शतमखः श्रीमानयमग्निर्जगत्प्रभुः ।
धर्मराजो वरुणश्च वायुः श्रीशशिवादयः ।। १ ०३।।
समभ्यर्थयितारोऽमी त्वं याच्यश्च जगत्कृते ।
वाङ्मात्रोद्यमसाध्यं तत् तव विश्वोपकारकम् ।। १ ०४।।
विन्ध्याद्रिर्वर्धते मेरोः स्पर्धया त्वं निवारय ।
सूर्यमार्गमवरुद्ध्येदानीमूर्ध्वं प्रगच्छति ।। १ ०५।।
ये तु निष्ठुरनैसर्गा ये च मार्गावरोधकाः ।
ये स्पर्धन्ते च वृद्ध्यर्थं तद्वृद्धिर्हानिदा सदा ।। १ ०६।।
श्रुत्वा ध्यात्वा क्षणं तथेत्युक्त्वाऽगस्तिर्महामुनिः ।
विसृज्य देवताः प्राह लोपामुद्रामिदं वचः ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कुतयुगसन्ताने विन्ध्याद्रिणा वर्धमानेन सूर्यमार्गाऽवरोधे देवानामगस्तिमुनिं प्रति यानं लोपामुद्रायाः पातिव्रत्यधर्मवर्णनं चेतिनिरूपणनामा पञ्चपञ्चाशदधिकचतुश्शततमोऽध्यायः ।। ४५५ ।।