लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५४
[[लेखकः :|]]
अध्यायः ४५५ →

श्रीनारायण उवाच-
शृणु प्रिये महालक्ष्मि! पातिव्रत्यं जनातिगम् ।
धर्माधर्मौ स्वामिवचो मुख्यं नान्यदिति ध्रुवम् ।। १ ।।
पत्युर्वचसि चेन्मान्द्यं सती कुर्यात् सुधानिभम् ।
स्वामिवाक्यं भवेत् हिंस्रं कुर्यात् पुण्यनिभं सती ।। २ ।।
कान्तोक्ते चेद् भवेत्। स्तैन्यं न्याय्यं मत्वाऽऽचरेत् सती ।
भर्त्राज्ञप्तं व्यवायं च धर्मं मत्वाऽऽचरेत् सती ।। ३ ।।
पतिरेव परब्रह्म कृष्णनारायणः स्वयम् ।
शुभं समादिशेद् यद्वाऽशुभं सती समाचरेत् ।। ४ ।।
सती तस्य वचोवश्या पातिव्रत्यफलं लभेत् ।
पतिश्चेदशुभं समादिशेत् स फलभाग् भवेत् ।। ५ ।।
नाऽत्राऽशुभे वचोऽधीने कार्ये तद्भागिनी सती ।
प्रत्युताऽशुभकार्यं सा सामर्थ्यात् शुभदं चरेत् ।। ६ ।।
अनिष्टं दुःखदं सा तु सुखदं परिवर्तयेत् ।
सत्याः संकल्पमात्रेण मृत्युः कालो यमो भयम् ।। ७ ।।
अधर्मः क्लेशदाः सर्वे सुखदाः संभवन्ति वै ।
पातिव्रत्यं परो धर्मः पातिव्रत्यं परं बलम् ।। ८ ।।
पातिव्रत्यवृषाग्रे तु पापं पुण्यप्रदं भवेत् ।
दुःखं सुखस्वरूपं स्यात् पतिकृष्णप्रतोषणात् ।। ९ ।।
अत्रार्थे तु पुरा वृत्तं कथयामि शृणु प्रिये ।
पतिवाक्यं समादृत्य व्यवायस्थस्वयोषितः ।। 1.454.१ ०।।
सर्वं पुण्यात्मकं जातं देवतोषकरं यथा ।
दक्षिणापथमध्ये वै ग्रामे बाष्कलनामके ।। ११ ।।
प्रजा असंस्कृता आसन् ज्ञानवैराग्यवर्जिताः ।
नरा नार्यः कृषिकार्या आरण्यकप्रजीवनाः ।। १ २।।
तत्रैको विदुरो नाम धर्माचारविवर्जितः ।
द्विज आसीत् कृषिगोप्ता शूद्रादिमित्रतांगतः ।। १३ ।।
कृषिकार्ये कर्मचारिणीभिः प्रवर्ततेऽनिशम् ।
परनारीप्रसंगादिदोषं जानाति नैव सः ।। १४।।
शूद्रया सह कार्यादौ कामेन संगतः क्वचित् ।
विदुरं कृपणा सा च याचते भोजनं धनम् ।। १५ ।।
विदुरः कृपयाऽऽविष्टः कामभावनया तथा ।
निर्वाहार्थं तु शूद्रायै ददात्येव क्वचित्क्वचित् ।। १६ ।।
सदारोऽपि सतीं भार्यां बन्दुलां नातिमन्यते ।
गृहस्थितं धनं चान्नं शूद्रायै प्रददाति सः ।। १७।।
बन्दुला सहते सर्वं पत्यर्थं नवयौवना ।
धनं चान्नं क्षयं प्राप्तं शूद्रायै स्वामिनाऽर्पितम् ।। १८।।
विदुरस्तु सतीं पत्नीं याचते देहि मे धनम् ।
अन्नं देह्यम्बरं देहि शूद्र्यर्थ देहि मे प्रिये ।। १ ९।।
इत्युक्ता सा सती प्राह गृहे यद्यद्धि विद्यते ।
तत्सर्वं नीयतां नाथ त्वदधीनं गृहं सदा ।।1.454.२०।।
त्वयि नाथे प्रसन्ने च सर्वं मे सुखदं भवेत् ।
मदग्रे तु धनं नास्ति यदात्थ तत्करोम्यहम् ।।२१ ।।
विदुरस्तां सतीमाह गच्छाऽन्यसेवनं कुरु ।
नरान् धनिनः संसेव्य धनमानय देहि मे ।।।२२।।
सती त्वाज्ञाकरी पत्यौ विश्वस्ता चेश्वरे यथा ।
कैंकर्य कस्यचित् कृत्वा दास्यं पतीत्वमेव वा ।।२३।।
धनमानयति पत्याज्ञया तस्मै ददाति च ।
पतिरेव परो धर्मः पतिवाक्यं सुखावहम् ।। २४।।
इतिमत्वा परपुंसां कामसेवापराऽभवत् ।
एवं तयोस्तु दम्पत्योर्दुराचारप्रवृत्तयोः ।। २५।।
ग्रामे कश्चित् कथाकारो ब्राह्मणो दैवयोगतः ।
समाययौ संहितायाः कथां चकार धर्मतः ।।२६।।
ग्रामीणा शुश्रुवुः सर्वे प्राचीनां धर्मसंहिताम् ।
कुमार्गं संपरित्यज्य धर्ममार्गं समाश्रिताः ।। २७।।
जगृहुर्वैष्णवं मन्त्रं पूजयामासुरच्युतम् ।
ब्राह्मणं त्वर्चयामासुर्विहायाऽसत्क्रियां जनाः ।। २८।।
पश्चात्तापं स्वकृत्यानां चक्रुस्ते सस्मरुर्हरिम् ।
विदुरेण परित्यक्तः शूद्रासंगस्ततः परम् ।।२९।।
अतीव धार्मिको जातश्चैकभुक्तं करोति च ।
स्नानं सन्ध्यां जपं पूजां नैवेद्यं देवदर्शनम् ।।1.454.३ ०।।
कृत्वा भुंक्ते सदा त्वेवं पत्नी चापि तथाऽकरोत् ।
एवं वै वर्तमानस्य विदुरस्याऽऽयुषः क्षये ।।३ १ ।।
आयाता यमदूतास्तं नेतुं यमपुरं तदा ।
चुक्रोश दृष्ट्वा तान्दूतान् कृष्णनारायणेति सः ।।३२।।
पत्नी प्राह च तं श्रुत्वा कथमाक्रोशनं प्रिय ।
स चाह तां यमदूता नेतुं मां वै समागताः ।।३३ ।।
पत्नी जलं करे कृत्वा समुवाच सती तदा ।
यदि पत्युः प्रिया भार्या पत्युः प्रियकरी सदा ।। ३४।।
पत्याज्ञायां वर्तमाना पतिकृष्णपरायणा ।
तेन सत्येन दूतास्ते दूरं यान्तु यमालयम् ।। ३५।।
इत्युक्त्वा तज्जलं पत्युः पार्श्वे चिक्षेप तावता ।
दूरात्पलायिता दूता अवप्लुत्य स्थलात्ततः ।।३६ ।।
पतिः स्वस्थस्तदा जातो वृत्तान्तमाह तत्तथा ।
पत्नी प्राह पुनः कान्तं स्वामिसेवाकृतं फलम् ।।३७।।
तुभ्यं ददामि मे कान्त सद्गतिरस्तु तेन ते ।
तावद्वै वैष्णवा विष्णोः पार्षदास्त्वाययुर्मुदा ।।३८।।
पत्न्या दृष्टा पातिव्रत्यधर्मफलेन तत्क्षणम् ।
पूजिता वन्दिताश्चापि पतिं निन्युः परं पदम् ।।३९।।
बन्दुला तु पतिं कृत्वा क्रोडे रुरोद वै क्षणम् ।
अथ संचिन्तयामास यद्यहं कान्तरञ्जिनी ।।1.454.४०।।
तदा कान्तेन साकं मे प्राणाः प्रयान्तु तत्क्षणम् ।
तावन्मूर्छां गत्वा साध्वी प्राणाँस्त्यक्त्वा तु तत्क्षणम् ।।४१ ।।
स्वामिना दिव्यदेहेन सह याता सुरूपिणी ।
दिव्यदेहा विमानस्था विष्णुपार्षदसत्कृता ।।४२।।
तत्तेजश्च विमानं च दृष्टं श्रोतृभिरुज्ज्वलम् ।
ब्राह्मणः स तु सद्भक्तैस्तयोर्वै चोर्ध्वदैहिकम् ।।४३।।
कारयामास विधिना भोजयामास वैष्णवान् ।
ददौ कृष्णोपदेशं च धर्मं पत्नीव्रतं ददौ ।।४४।।
पातिव्रत्यं तथा धर्मं ददौ प्रजाः स्वयं द्विजः ।
सर्वेऽपि वैष्णवास्त्वासन् नरा नार्यः समन्ततः ।।४५।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इति मन्त्रं तु ते लब्ध्वा भेजिरे कृष्णमच्युतम् ।।४६।।
कथां शुशुकरीशस्य चक्रुश्च भजनं सदा ।
कथाया वाचको विप्रः स्वप्ने स्वदर्शनं ददौ ।।।४७।।
नरेभ्यो वनिताभ्यश्च नारायणश्चतुर्भुजः ।
हारकेयूरमुकुटपीताम्बरसुदर्शनैः ।।४८।।
सहितः सेवितो लक्ष्म्याऽदृश्यत वै मनोहरः ।
कथान्ते पूजितः सर्वैः स्वीकृत्य पूजनं ततः ।।४९।।
उपादिदेश तान् सर्वान् भक्तानुग्रहविग्रहः ।
पातिव्रत्यं परं धर्मं बन्दुलाया विलोक्य तु ।।1.454.५०।।
अहं नारायणस्तस्याः कल्याणार्थं द्विजात्मकः ।
समायातः कथाकारश्चोद्धृता यूयमित्यपि ।।५१ ।।
कथां श्रुत्वा वैष्णवाश्च जातास्तत्सेवनं मम ।
पूजयध्वं च मां नित्यं शृणुध्वं च कथां हरेः ।।५२।।
नरैः पत्नीव्रतं पाल्यं नारीभिश्च पतिव्रतम् ।
उभाभ्यां श्रीकृष्णनारायणव्रतं च तारकम् ।।५३।।
सत्कथाश्रवणं नित्यं कर्तव्यं मोक्षदं परम् ।
कृष्णस्य कथया चेतो विशुद्धिं परमां व्रजेत् ।।५४।।
कथया सिद्ध्यति ध्यानं ध्यानात् कैवल्यमुत्तमम् ।
सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं मतम् ।।५५।।
कामः क्रोधश्च लोभश्च मदमानादयः परे ।
अधर्मस्य सुता यान्ति दूरं कथाश्रवाद्धरेः ।।५६।।
गुरुतल्पः सुरापानं तथाऽकामाप्रसंगकः ।
कामस्य तनयास्त्वेते यान्ति दूरं कथाश्रवात् ।।५७।।
पितृवधो मातृवधो ब्रह्महत्या च नाशनम् ।
क्रोधस्य तनयाश्चैते दूरं यान्ति कथाश्रवात् ।।२८।।
देवस्वहरणं विप्रस्वहारः स्वर्णमोषणम् ।
लोभस्य तनयास्त्वेते दूरं यान्ति कथाश्रवात् ।।२९।।
अश्रद्धा चापि दुर्मेधा अविद्यायाः सुते ह्युभे ।
कृष्णनारायणकथाश्रवाद् दूरं प्रगच्छतः ।।1.454.६०।।
कथा संसृतिबद्धानां सद्यो मुक्तिप्रदा शुभा ।
स्त्रीणां पांसुलपादानां दासानां दासयोषिताम् ।।६१ ।।
अज्ञानतिमिरान्धानां दीपरूपा हरेः कथा ।
भवरोगाभिभूतानां सुसेव्यं परमौषधम् ।।६२।।
महापातकशैलानां कथा वज्रनिभा मता ।
भर्जनं कर्मबीजानां साधनं सर्वसम्पदाम् ।।६३।।
शृण्वतां श्रीहरेर्गाथां तथा कीर्तयतां सताम् ।
तेषां पादरजांस्यैव तीर्थानि मुनयो जगुः ।।६४।।
मुहूर्तमपि शृणुयादशक्तोऽपि दिने दिने ।
घटिकां वा तदर्धं वा क्षणं वा पावनीं कथाम् ।।६५।।
स्थूलकार्यप्रसक्तानां स्थूलबुद्धिमतां कथा ।
कल्पवृक्षसमो नान्यः पन्थाः कथेतरः सुखः ।।६६।।
पिबन्नेवाऽमृतं यत्नादेकः स्यादजरामरः ।
पीतं कथामृतं कुर्यात् कुलमेवाऽजरामरम् ।।६७।।।
कथावक्ता हरिः साक्षाद् गुरूणां यावतां गुरुः ।
मोक्षदः पुण्यदो ज्ञानप्रदीपः परो गुरुः ।।६८।।
ये कथां तत्प्रवक्तारं प्रशंसन्ति जना अपि ।
अशृण्वन्तोऽपि ते यान्ति शाश्वतं परमं पदम् ।।६९।।
कथाश्रवणसाहाय्यं ये कुर्वन्ति जना भुवि ।
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदम् ।।1.454.७०।।
सत्कथाबोधलाभेन स्मरणं मे हरेर्भवेत् ।
सदास्मरणयोगेन वासनानां क्षयो भवेत् ।।७१ ।।
तथा सती विरागः स्याद् रागाभावे परं सुखम् ।
तृष्णाक्षयसुखं त्वात्मानन्दोद्भवे सहायकृत् ।।७२।।
रागे नष्टे प्रतिद्वन्द्वी द्वेषोऽपि नश्यति ध्रुवम् ।
रागद्वेषौ यस्य नष्टौ दोषौ तस्य प्रवर्तनम् ।।।७३ ।।
शुभाऽशुभं न वै जन्ममृत्युप्रदं प्रजायते ।
प्रवृत्तेरप्यभावेन भोगाभावो भवेत् सदा ।।७४।।
नित्यानन्दं चिदानन्दं सदानन्दं निजात्मकम् ।
भुंक्ते भक्तिरसे मग्नः श्रीकृष्णात्मकभावतः ।।७५।।
नित्यतृप्तो मम मूर्तौ नित्यमग्नो मदात्मनि ।
ब्रह्मानन्दमयो धाम्नि ममोऽश्रुतेऽकृतं सुखम् ।।७६।।
एवं कथाश्रुतेः पुण्यं फलं मोक्षप्रदं भवेत् ।
अहं तुष्टो भवाम्येव यत्र मेऽस्ति कथामृतम् ।।७७।।
वज्रलेपादिपापानि कथात्ममत्प्रयोगतः ।
मदाराधनविज्ञानात् भस्मीभवन्ति सर्वशः ।।७८।।
सत्या पतिगुणाः श्रव्या एष धर्मः सनातनः ।
पतिश्चाहं परब्रह्म मत्कथां शृणुयाच्छुभाम् ।।७९।।
दानं यज्ञं तथा तीर्थं द्रव्यं व्ययैः समुत्सवम् ।
कर्तुमशक्तभक्तेन कथा श्रव्या मम ध्रुवम् ।।1.454.८०।।
कीर्तनं मे स्वामिनश्च नित्यं कार्यं प्रगे निशि ।
पूजा कार्या मदर्थे च ग्रसितन्यं निवेदितम् ।।८१ ।।
पत्रं पुष्पं जलं खाद्यं सर्वं प्रासादिकं ग्रसेत् ।
तेन सत्त्वप्रशुद्धिः स्यात्स्मृतिर्देवस्य शाश्वती ।।८२।।
कृष्णनारायणस्मृत्या ध्रुवो मोक्षोऽप्यवाप्यते ।
स्मृतौ तु सर्वथा हेतुः श्रीकृष्णयशसां श्रवः ।।८३।।
क्षितेदनिजपुण्येन स्वर्गप्राप्तिर्न वै ध्रुवा ।
कथाश्रवणभक्त्या तु शाश्वतॆ धाम गम्यते ।।८४।।
स्वर्णकोटिसहस्राणां दानाच्चाप्यधिका कथा ।
राजसूयसहस्रेभ्यश्चोत्तमा श्रीहरेः कथा ।।८५।।
व्रतेभ्यो नियमेभ्यश्च जपेभ्यः श्रेयसी कथा ।
यत्र मे मम साधूनां भक्तानां योगयोषिताम् ।।८६ ।।
साध्वीनां च सतीनां च चमत्कारा निरूपिताः ।
चरित्राणि सुदिव्यानि द्युमन्ति वर्णितानि च ।।८७।।
तानि सर्वाणि दातॄणि सम्पदां मोक्षणस्य च ।
भवतां मोक्षणार्थाय सत्याः सद्भावसेवया ।।८८।।
युष्माकं तारणार्थं वै विप्ररूपो भवाम्यहम् ।
अथाऽहं यामि वैकुण्ठं भवन्तः साधुसेवनम् ।।८९।।
कथायाः श्रवणं नित्यं कुर्वन्तु ध्यानमेव मे ।
भुक्तिं मुक्तिं मम सेवां यूयं सर्वे गमिष्यथ ।।1.454.९०।।
इत्युक्त्वा वाचको विप्रो विमानेन सुतेजसा ।
ययौ नारायणो भूत्वा वैकुण्ठं भक्तसेवितः ।। ९१ ।।
इत्येवं कथितं लक्ष्मि! कान्ताज्ञापालने फलम् ।
श्रवणात्पठनाच्चास्य भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।।९ २।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्यपराया बन्दुलाया विदुराख्यविप्रस्य स्वस्वामिनः आज्ञापालने व्यवायस्याऽदोषत्वे भगवत्कथाप्राप्तिलाभेन भगवद्धामप्राप्तिरित्यादिनिरूपणनामा चतुःपञ्चाशदधिकचतुश्शततमोऽध्यायः ।। ४५४ ।।