लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५३
[[लेखकः :|]]
अध्यायः ४५४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि भक्ताया वारयोषितः ।
नारायणमनस्कायाश्चमत्कारमयीं कथाम् ।। १ ।।
नन्दिग्रामे पुरा त्वासीन्महानन्दाभिधा हरे ।
भक्तिमती तु वनिता शृंगारललिताकृतिः ।। २ ।।
कुटुम्बरहिता स्वेच्छातन्त्रा शिवस्य किंकरी ।
यद्यपि वारवनिता किन्तु कृष्णमयी सती ।। ३ ।।
नित्यं स्नाति हरे विष्णुं पूजयत्यतिभावतः ।
नर्तनं गायनं चापि करोति देवसन्निधौ ।। ४ ।।
नृत्यगायनतालादौ ये त्वायान्ति तु दर्शकाः ।
तेभ्यः प्रासादिकं वारि फलं तुलसीमिश्रितम् ।। ५ ।।
पावित्र्यार्थं ददात्येव कृष्णार्थसर्वसंभवा ।
नित्यं भजति गोविन्दं कृष्णभावनया नरम् ।। ६ ।।
कृष्णार्पणं विधायैव देहकार्यं करोति सा ।
छत्रं पूर्णेन्दुसंकाशं यानं स्वर्णविराजितम् ।। ७ ।।
चामराणि सुदण्डानि पादुके तु हिरण्मये ।
अम्बराणि विचित्राणि पर्यंकश्च हिरण्मयः ।। ८ ।।
चन्द्ररश्मिनिभां शय्यां कृष्णार्थं परिरक्षति ।
गावो महिष्यो दोग्ध्र्यश्च दीपांगदासदासिकाः ।। ९ ।।
तस्या वचनविश्वस्ताः पूजयन्ति हरं हरिम् ।
भूषणानि परार्ध्याणि नवरत्नोज्ज्वलानि च ।। 1.453.१ ०।।
गन्धकुंकुमकस्तूरीकर्पूराऽगुरुलेपनम् ।
चित्रमाल्यावतंसश्च यथेष्टं मृष्टभोजनम् ।। ११ ।।
नानाचित्रवितानाख्यं नानाधान्यभृतं गृहम् ।
बहुरत्नसहस्राढ्यं स्वर्णरूप्यादिकं धनम् ।। १२।।
सर्वं कृतं हरार्थं च हर्यर्थं च तया सदा ।
एवं सविभवा वारवनिता सत्यधर्मिणी ।। १ ३।।
भक्तसेवापरा कृष्णशिवपूजापरायणा ।
सदा शास्त्रकथाश्रोत्री नामजापपरायणा ।। १४।।
विनोदहेतोर्देवाग्रे नाट्यमण्डपमध्यतः ।
रुद्राक्षैर्भूषयित्वैकं मर्कटं चैककुक्कुटम् ।। १५।।
करतालैश्च गीतैश्च सदा नर्तयति स्वयम् ।
रुद्राक्षैः कृतकेयूरकर्णाभरणभूषणः ।। १६।।
मर्कटः शिक्षया तस्याः सदा नृत्यति बालवत् ।
शिखायां बद्धरुद्राक्षः कुक्कुटः कपिना सह ।। १७।।
चिरं नृत्यति नृत्यज्ञः पश्यतां चित्रमावहन् ।
एकदा भवनं तस्याः कश्चिद् वणिक् सभृत्यकः ।। १८।।
नृत्यस्य दर्शनार्थं सद्भक्तः सकरकंकणः ।
तत्प्रकोष्ठस्थितं रत्नकंकणं वीक्ष्य चाह तम् ।। १ ९।।
महारत्नखचितोऽयं कंकणस्ते करस्थितः ।
मनो हरति मे भक्त दिव्यस्त्रीभूषणोचितः ।।1.453.२० ।।
इति तां सस्पृहां वीक्ष्य वणिक् प्राह च तां तदा ।
यदि ते रोचते चायं कंकणो मम भूषणम् ।।२१ ।।
भद्रमादत्स्व मद्भूषां मूल्यमस्य ददासि किम् ।
तदा विहस्य सा वारवनिता स्फुटमाह तम् ।।२२।।
आगन्तुकस्य देहेन सेवाधर्मोऽस्ति मे सदा ।
नारायणस्वरूपं त्वां मत्वा सेवां करोमि वै ।।२३ ।।
यद्येतद्रत्नखचितं ददासि करभूषणम् ।
दिनत्रयमहोरात्रं तव पत्नी भवाम्यहम् ।।।२४।।
नियतस्य न पत्नीत्वं सर्वदा वारयोषिताम् ।
एकनियतपत्नीत्वं यथा नाऽप्सरसां दिवि ।। २५।।
तथास्त्विति वणिक् प्राह प्रमाणं शशिभास्करौ ।
कृत्वा सत्यं त्रिवारं च स्पृष्ट्वाऽन्योन्यस्य वक्षसि ।।२६।।
दिनत्रयमहोरात्रं भूत्वाऽऽवां दम्पती ह्युभौ ।
सहधर्मं चरावश्चेत्याहतुर्हदयस्पृशौ ।।२७।।
अथ तस्यै वणिक्श्रेष्ठी प्रददौ रत्नकंकणम् ।
निन्यतुस्तौ सुखं रात्रिं कामधर्मेण दम्पती ।। २८।।
द्वितीयायामथ रात्रौ नाट्यमण्डपिकान्तरे ।
अकस्मादुत्थितो वह्निर्दीपवर्त्तिप्रसंगतः ।।२९।।
मर्कटकुक्कुटौ मुक्तौ बन्धनान्निर्मतावुभौ ।
अन्ये दासाश्च दास्यश्च गोमहिष्यादयोऽपि .च ।।1.453.३०।।
निर्बन्धना विनिर्गता तौ चापि निर्गतौ ततः ।
शिवलिंगं हरिमूर्तिर्वह्नौ भस्माऽभवत् तदा ।।३ १ ।।
स्मृत्वा तद् दम्पती तौ च दुरन्तं दुःखमापतुः ।
वणिक् प्राह मम योगे सर्वं ते ज्वलितं प्रिये ।।३२।।
शिवो विष्णुर्मूर्तिरूपो ज्वलितो मम चागमात् ।
महत्पापं मया चात्राऽऽगत्याऽर्जितं दुरन्तकम् ।। ३३ ।।
न वै शर्म लभे साध्वि! म्रिये दुःखाऽसहात् प्रिये ।
इत्युक्त्वा प्राणमाहृत्य पपात धरणौ वणिक् ।। ३४।।
युवती त्रिदिनं तस्य धर्मपत्नी ह्यभूद् यतः ।
अतीव दुःखिता भूत्वा स्मृत्वा धर्मं सुसाक्षिकम् ।। २५।।
सर्वानाहूय सा तत्र बभाषे करुणं वचः ।
रत्नकंकणमादाय साक्ष्ये च शशिसूर्ययोः ।।३६।।
दिनत्रयमहमस्य पत्नी जाताऽस्मि धर्मतः ।
यया तस्य चितायां वै प्रवेष्टव्यं हि धर्मतः ।।३७।।
इति तस्या वचः श्रुत्वा वणिग्भृत्य उवाच ताम् ।
मैवं मैवं वद सौम्ये पतिर्नाऽयं विवाहितः ।।३८।।
विवाहितेन पतिना वह्निना साक्षिणा च या ।
गृहीता करग्राहा च सा पत्नीति प्रकीर्त्यते ।।३ ९।।
त्वं तु नैतादृशी पत्नी व्यभिचारपरायणा ।
कंकणार्थं महालोभात् पत्नीनाम्ना प्रकत्थसे ।।1.453.४०।।
त्वया सहाऽस्य दहने नरकं जीवतो यथा ।
व्यवायस्य गृहे नष्टो व्यवायिनीकरेण च ।।४१ ।।
व्यवायिन्या समं दाहः श्रेयसां न प्रदायकः ।
गच्छ दूरं सदा धूर्ते पुंश्चलि संप्रतारिके! ।।।४२।।
मम स्वामिशवस्याऽहं करिष्ये दहनं तथा ।
प्रवेक्ष्ये स्वामिचितायां मरिष्ये भृत्यधर्मतः ।।४३।।
भृत्योऽहं बहुकालीनः सेवयामि निरन्तरम् ।
विना वै स्वामिनं प्राणाः स्थातुं शक्ता न मेऽत्र वै ।।४४।।
अन्नदाता वृत्तिदाता रक्षको ज्ञानदायकः ।
निषेकी मन्त्रदो विपन्नाशकः पितरः स्मृताः ।।४५।।
विना पितरं लोकेऽस्मिन् भृत्यो मृत इव स्मृतः ।
स्वामिनं नाशयित्वाऽहं दर्शयिष्ये कथं मुखम् ।।४६ ।।
भृत्योऽहं पुत्रतुल्योऽहं पोष्योऽहं धर्मतः सदा ।
दाहं दास्ये ह्यहं पश्चात्प्रवेक्ष्यामि हुताशनम् ।।४७।।
मम लोका भविष्यन्ति शाश्वताः स्वामिना सह ।
इत्युक्त्वा स चितां चक्रे काष्ठान्यादाय सर्वथा ।।४८।।
वणिजस्तु धनं किञ्चित्तथाऽन्यच्छृंखलादिकम् ।
ददौ दानं सुपात्रेभ्यः शवं न्यस्य चितानले ।।४९।।
प्रवेष्टुं याति यावद्धि तावत् सा वारकामिनी ।
प्रधाव्य जगृहे हस्तं मा मा मेति जगाद तम् ।।1.453.५०।।
मैवं भृत्य त्वया कार्यं पुत्र जीव सदा भुवि ।
इत्युक्तोऽपि जनैः सर्वैर्वारितोऽपि विवेश ह ।।५१ ।।
चितायां पतिते भृत्ये ततो निकटधर्मिणी ।
सती त्वाह समाजस्य शृण्वतोऽस्य गृहिण्यहम् ।।५२।।
सधर्मचारिणी त्वस्य दिनत्रयं सुसम्मता ।
मद्गेहे मम योगेन मृतोऽयं वै पतिः कृतः ।।५३।।
तस्मादहं प्रवेक्ष्यामि सहाऽनेन हुताशनम् ।
सत्येन प्रीतिमायान्ति देवास्त्रिभुवनेश्वराः ।।५४।।
सत्यात्मा वै परो धर्मः सत्ये सर्वं प्रतिष्ठितम् ।
सत्येन स्वर्गमोक्षौ च नाऽसत्येन परा गतिः ।।५५।।
तस्मात् सत्यं समाश्रित्य प्रवेक्ष्यामि हुताशनम् ।
भक्तयोगेन पूताऽहं भविष्यामि च पावनी ।।५६।।
कृष्णनारायणविष्णो शिव मंगलकृद्भव ।
ओंनमः श्रीकृष्णनारायणाय स्वामिने नमः ।।५७।।
नमः शिवाय कृष्णाय श्रीराधापतये नमः ।
इति श्रीकृष्णभजनं चक्रे दानं ददौ बहु ।।५८।।
सर्वस्वं साधुभक्तेभ्यो दत्वा ध्यात्वा हरं हरिम् ।
नत्वा सर्वान् पतिं ध्यात्वा पत्युश्चिताऽनलं सती ।।५९।।
तद्भक्ता त्रिः परिक्रम्य प्रवेशाभिमुखी स्थिता ।
तां पतन्तीं समिद्धाऽग्नौ स्वपदार्पितमानसाम् ।।1.453.६ ०।।
वारयामासतुर्देवौ प्रादुर्भूतौ शिवाऽच्युतौ ।
वीक्ष्य सा तौ देवदेवौ कोटिसूर्याधिकप्रभौ ।।६ १ ।।
स्तब्धेव जायमाना सा भीतेव जडवत् स्थिता ।
तामूचतुः समाश्वास्य भगवन्तौ कृपानिधी ।।६२।।
सत्यं धर्मं च ते धैर्यं भक्तिं नरात्मके प्रभौ ।
शिवकृष्णप्रतिमायां द्रष्टुं शिवाच्युतावुभौ ।।६३।।
माययाऽग्निं समुत्पाद्य दग्धवन्तौ सुमण्डपम् ।
दग्धं कृत्वोभप्रतिमे भृत्यः शिवः स्वयं मुदा ।।६४।।
भृत्यभक्तिं दर्शयितुं प्रविष्टोऽत्र हुताशनम् ।
वणिग्रूपोऽप्यहं नारायणकृष्ण पतिस्तव ।।६५।।
परीक्षितुं समायातश्चान्तिमं सेवनं तव ।
वेश्याः कैतवकारिण्यः स्वैरिण्यो जनवञ्चकाः ।।६६।।
सा त्वं सत्यमनुस्मृत्य प्रविष्टाऽग्निं सहाऽनुगा ।
अतस्ते वाञ्च्छितं दास्ये वद श्रेष्ठोत्तमोत्तमम् ।।६७।।
श्रुत्वा साऽऽह न मे वाञ्छा भोगे त्वत्पादवर्जिते ।
एते भृत्याश्च दास्यश्च ये त्वन्ये मम बान्धवाः ।।६८।।
सर्वे त्वदर्चनपरास्त्वयि सन्न्यस्तवृत्तयः ।
सर्वानेतान् मया सार्धं नीत्वा तवाऽक्षरं पदम् ।।६९।।
शाश्वतानन्दसम्पूर्णसेवायां रक्ष सर्वदा ।
तथेति तस्या वचनं प्रतिनन्द्य नरायणः ।।1.453.७०।।।
तान् सर्वांश्च तया सार्धं निनाय पदमव्यम् ।
कालेन निधनं प्राप्तौ यौ तु कुक्कुटमर्कटौ ।।७१ ।।
कुक्कुरः काश्मीरराज्यकुमारः पुण्यतोऽभवत् ।
मर्कटस्तत्प्रधानस्य कुमारश्चाऽभवत् तदा ।।७२।।
शिवविष्णुमहाभक्तौ कृत्वा राज्यं चिरं च तौ ।
देहान्ते चाऽक्षरं धाम ययतुर्यत्र सा सती ।।७३।।
इति ते कथितं लक्ष्मि! महापापाप्रमोक्षणम् ।
पठनाच्छ्रवणात्त्वस्य पापप्रध्वंसनं भवेत् ।।७४।।
पापिन्यपि वारनारी श्रवणात् करणात्तथा ।
साधुसंसेवनात् सद्यो मुक्ताऽन्या मुच्यते तथा ।।७५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वारवनितायाः सर्वस्वार्पणभक्त्या शिवाच्युतौ भृत्यवणिजौ भूत्वा पातिव्रत्याऽनलपरीक्षां चक्रतुर्मोक्षं प्रददतुश्चेत्यादिनिरूपणनामा त्रिपंचाशदधिकचतुश्शततमोऽध्यायः ।। ४५३ ।।