लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४५१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५२
[[लेखकः :|]]
अध्यायः ४५३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारं पातिव्रत्यस्य वै पुनः ।
पतिर्देवो गुरुर्देवः शिवो देवस्त्रयो यया ।। १ ।।
पूजिताः सेविता नित्यं वन्दिताः कृष्णकान्तया ।
तस्या मृषापि सत्यं स्याद् विपरीतं च सत्फलम् ।। २ ।।
दुःखं चापि भवेत् सौख्यं वन्ध्यात्वं च सापत्यकम् ।
वैधव्यं सधवात्वं दुर्भाग्यं श्रेष्ठभाग्यकम् ।। ३ ।।
अदैवं चापि सौभाग्यं विरुद्धं सानुकूलकम् ।
विपत् सम्यत्स्वरूपा स्यात् तुष्टे पत्यौ गुरौ शिवे ।। ४ ।।
आनर्तविषये कश्चिन्नाम्ना वेदरथो द्विजः ।
चमत्कारपुरे त्वासीत् सुतदारकुटुम्बवान् ।। ५ ।।
तस्य कन्या शारदाख्या कमलेव सती सदा ।
जन्मतः श्रीकृष्णनारायणाय स्वामिने नमः ।। ६ ।।
इति प्राग्भवसंस्कारात् सदा वदति वै स्फुटम् ।
श्रुत्वा जना महाश्चर्यं प्राप्ता ववन्दिरे सतीम् ।। ७ ।।
कृष्णं शिवं हाटकेशं गुरुं च पितरौ सती ।
नित्य प्रातर्नमस्कृत्य ततोऽन्यत् प्राकरोत् सदा ।। ८ ।।
एवं सा भजनानन्दाऽभवद् द्वादशहायना ।
तां ययाचे पद्मनाभो ब्राह्मणो नृपमानितः ।। ९ ।।
महाधनस्य शान्तस्य तां कन्यां प्रददौ पिता ।
कृतोद्वाहो द्विजः सायं सन्ध्यां कर्तुं ययौ नदीम् ।। 1.452.१ ०।।
मार्गे दष्टो भुजंगेन स ममार द्विजस्ततः ।
चुक्रुशुर्बान्धवा कृत्वा श्वशुरावस्य कामिनी ।। ११ ।।
कृतं तु बान्धवैरौर्ध्वदैहिकं शारदा ततः ।
ब्राह्मणी प्राप्तवैधव्या पितुरेवाऽऽलये स्थिता ।। १२।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
वदत्येव सदा बाला नमः कृष्णाय चाऽजपत् ।।१३।।
कृष्ण एव पतिर्नान्यो ज्ञात्वाऽर्चयाते माधवम् ।
पितरौ सेवते नित्यं शिवाशिवस्वरूपिणौ । १४।।
लक्ष्मीं नारायणं नार्यां नरे पश्यति योगिनी ।
शिवः स्वामी पतिः कृष्णो गुरुर्देवः पिता हरिः ।। १५।।
माता लक्ष्मीः सखी देवी कुटुम्बं साधुमण्डलम् ।
भक्तिः शय्या रतिः कृष्णे ध्यानं मूर्तौ शिवा सुखम् ।।१६।।
भाग्यं धर्मः कृतिः सेवा विश्रान्तिर्भगवत्स्मृतौ ।
यस्या भागवती सर्वा क्रिया दिव्या सतीमयी ।। १७।।
वैधव्येऽप्यभवत्पूर्वार्जितपुण्यबलाच्छुभा ।
कृष्णः कान्तो धवो यस्याः सेवा सतां च मातृका ।।१८।।
तत्र सौभाग्यमेवाऽस्ति वैधव्यं परिवर्तते ।
एवं वै वर्तमानायास्तस्याः पितुश्च मन्दिरे ।। १ ९।।
एकदा नैध्रुवो नाम साधुर्वृद्धः समागतः ।
अन्धः शिष्यकरग्राही भिक्षां देहीति चाऽवदत् ।।1.452.२०।।
साधुं दृष्ट्वा यथा विष्णुं ददौ साऽऽसनमुत्तमम् ।
स्वागतं ते महापूज्य पीठेऽस्मिन्नु ह्युपाविश ।।२१।।
इत्युक्त्वा भक्तिमास्थाय कृत्वा पादावनेजनम् ।
वीजयित्वा जलं दत्वाऽपूजयत् पुष्पचन्दनैः ।।२२।।
श्रेष्ठमिष्टवरान्नैश्च भोजयामास सादरम् ।
तृप्तस्त्वन्धमुनिस्तस्यै सुप्रीतः परमाशिषम् ।।२३।।
विहृत्य भर्त्रा सुखिनी लब्ध्वा सुतं गुणाधिकम् ।
कीर्तिं च महतीं प्राप्य भव देवकृपावती ।।।२।।।
साधूक्तं सा समाकर्ण्य विस्मिता प्रत्युवाच तम् ।
साधो त्वद्वचनं सत्यं मन्दाया मे कथम् ऋतम् ।।२५।।
शिलाग्र्यामिव सद्वृष्टिः शुनक्यामिव सत्क्रिया ।
विफला विधवायां वै शुभाशीः साधुदाऽपि तु ।।२६।।
अहं विधवा जाताऽस्मि त्वदाशीःपात्रता कथम् ।
साधुः प्राह च तां देवीं मयोक्तं सफलं भवेत् ।।२७।।
साधूनां वचने कृष्णः स्वयमेव विराजते ।
शंभुर्देवाः सहायाश्च भवन्ति वचने सताम् ।।२८।।
बलाल्लक्ष्म्या च शिवया प्रेरितोऽहं समागतः ।
तव भक्त्या सति! पुत्रि! सौभाग्यं ते भविष्यति ।।२९।।
नहि भक्तिमती बाला दुःखिनी स्यादिति प्रभुः ।
विष्णुश्चाहं साधुरूपस्त्वदर्थं वै समागतः ।।1.452.३०।।
भज कृष्णं शिवं लक्ष्मीं शिवां च पितरौ सदा ।
कुरु त्वेकव्रतं पुत्रि! ह्युमामाहेश्वराभिधम् ।।३ १ ।।
यथोक्तं तु मया सर्वं सौभाग्यं ते भविष्यति ।
वैधव्यं मम भक्तायाः कथं सहे सुपुत्रिके ।।१२।
आगच्छ तव पितरौ कथयामि यथातथम् ।
इत्युक्त्वा साधुविष्णुस्तामानयत् पितृसन्निधौ ।। ३३।।
दत्ताशीर्वादवृत्तान्तं सौभाग्यं च व्रतं हरिः ।
जगाद भावि यत्सर्वं ततश्चान्तरधीयत ।।३४।।
शृणु लक्ष्मि! व्रतं चोमामाहेश्वरं सुभाग्यदम् ।
मया तदा शारदायै कथितं चाकरोत् तु सा ।।३५।।
चैत्रे वा मार्गशीर्षे वा शुक्लपक्षे शुभे दिने ।
अष्टम्यां वा चतुर्दश्यामुभयोः पर्वणोरपि ।।३६।।
गुर्वाज्ञया व्रतारंभं प्रकुर्वीत सती शुभा ।
संकल्पं विधिवत् कृत्वा प्रातः स्नानं समाचरेत् ।।३७।।
सन्तर्प्य पितृदेवादीन् मण्डपं रचयेच्छुभम् ।
तन्मध्ये पंचरंगानां चूर्णैः पद्मं समुल्लिखेत् ।।३८।।
चतुर्दशदलैर्बाह्यैर्द्वाविंशद्भिस्तदन्तरे ।
तदन्तरे षोडशभिरष्टभिश्च तदन्तरे ।।३९।।।
चतुरस्रं ततः कुर्यादन्तर्वर्तुलमित्यपि ।
मध्ये कूर्चं तत्परितो व्रीहितण्डुलराशिकम ।।1.452.४०।।
कृत्वा कूर्चे वारिपूर्णं कलशं स्थापयेत्ततः ।
वस्त्रं चित्रं कलशे च तत्र विन्यस्य वै शिवम् ।।४१ ।।
शिवां च स्थापयेद् द्रव्यैः षोडशभिः प्रपूजयेत् ।
पंचामृतैः स्नापयेच्च जलेन स्नापयेत्ततः ।।४२।।
रुद्रं त्वेकादशवारं समुच्चार्य शताष्टकम् ।
शिवाय नम इत्युक्त्वा पीठे मूर्तिं समर्चयेत् ।।४३।।
प्राणायामान् यथाशक्ति कृत्वा संकल्पयेत् ततः ।
पूर्वजन्मीयपापानां नाशार्थं त्वां समर्थये ।।४४।।
सौभाग्यविजयाऽऽरोग्यधर्मैश्वर्याभिवृद्धये ।
पुत्रसम्पत्स्वर्गमोक्षसिद्ध्यर्थं वां प्रपूजये ।।४५।।
अंगन्यासाँस्ततः कृत्वा ध्यायेदीशं च पार्वतीम् ।
योगिनं शंकरं ध्याये सतीं ध्याये पतिव्रताम् ।।४६।।
सजटं च सकेशां च त्र्यम्बकं त्र्यम्बिकां तथा ।
ससर्पभूषणं कान्तं स्वर्णभूषान्वितां सतीम् ।।४७।।
नीलकण्ठं मिष्टकण्ठां द्विभुजं दोर्दशाऽष्टकाम् ।
ध्यानमग्नं त्वंकमग्नां श्वेतं रक्तां विचिन्तये ।।४८।।
इति ध्यात्वा प्रतिमायामावाहनादि चारभेत् ।
आवाहनं तथाऽर्घ्यं च गन्धं पुष्पाणि चाक्षतान् ।।४९।।
धूपं दीपं च नैवेद्यं जलं ताम्बूलकं ददेत् ।
शिवाय नमो मन्त्रेण जुहुयादष्टकं शतम् ।।1.452.५०।।
ततो नीराजनं कुर्यान्नमस्कारं क्षमापनम् ।
अथाऽभ्यर्च्योपचारेण भोजयेद् भक्तदम्पतीम् ।।५१।।
एवं सायं प्रकुर्याच्च पूजां भुञ्जीत पायसम् ।
एवं संवत्सरं कुर्यात् तत उद्यापनं चरेत् ।।५२।।
शतरुद्राध्यायपाठं कारयित्वा प्रपूजयेत् ।
वस्त्रं सुवर्णं कलशं प्रतिमां गुरवेऽर्पयेत् ।।५३।।
साधून् विप्रान् भोजयेच्च दद्याच्च स्वर्णदक्षिणाम् ।
ततः प्रसादं गृह्णीयाद् गोदानादिकमाचरेत् ।।९४।।
एवं व्रतस्य कर्ता वा कर्त्री स्वेष्टसुखं लभेत् ।
वंशं सौभाग्यमर्थं च सम्पदं मुक्तिमाप्नुयात् ।।५५।।
अन्ते मोक्षं शिवपदं कृष्णपदं प्रपद्यते ।
महाव्रतमिदं तेन साधुनोक्तं कृतं तया ।।५६।।
साध्व्या संवत्सरस्यान्ते तदुद्यापनमर्जितम् ।
उपोषिता तु सा बाला जजाप मन्त्रमन्वहम् ।।५७।।
शिवा शिवः समायातौ दिव्यरूपधरौ शुभौ ।
विष्णुना कथितं यद्वत् सर्वं सौभाग्यमेव तत् ।।५८।।
भवत्वत्रैव देहे ते पतिसौख्यं लभस्व च ।
इत्याशीर्वचनैर्बालां समरञ्जयतां ह्युभौ ।।५९।।
शंभुः प्राह प्रिये बाले पितरौ बान्धवादिकान् ।
समाह्वयाऽत्र तान् वक्तुमिच्छामि ते पुराभवम् ।।1.452.६०।।
इत्युक्ता शारदा सर्वानाह्वयत् शिवसन्निधौ ।
सर्वेषां शृण्वतां शंभुः शारदामाह पुत्रिके ।।६ १ ।।
द्राविडे प्राग्भवे विप्रपत्न्यौ त्वं चापरा ह्युभे ।
आस्तां तत्र त्वया नित्यं पतिस्त्वयि प्रमोहितः ।।६२।।
ज्येष्ठायै ते सपत्न्यै च त्वया कान्तकृतं सुखम् ।
कदाचिन्नार्पितं तेन ज्येष्ठा दुःखेन वै मृता ।।६३ ।।
तेन पापेन विधवा त्वं त्विदानीं प्रविद्यसे ।
याः कुर्वन्ति स्त्रियो लोके जायापत्योस्तु विप्रियम् ।।६४।।
तासां कौमारवैधव्यं भवत्येव न संशयः ।
त्वया त्वाराधितः कृष्णो व्रतं चापि कृतं शुभम् ।।६५।।
तेन पुण्यं महज्जातं तेन पुण्येन ते पतिः ।
पूर्वभवीयविप्रोऽसौ स्वप्ने रतिं प्रदास्यति ।।६६।।
तेन पुत्रो विष्णुतुल्यश्चात्रैव संभविष्यति ।
एषः स विप्रवर्योऽस्ति शंभुर्यावज्जगाद ताम् ।।६७।।
तावत् तत्र प्राक्पतिः सः समदृश्यत वै युवा ।
सर्वैर्दृष्टः शिववाक्यात् तया माला समर्पिता ।।६८।।
कान्तेन चार्पितो भाले केशे सिन्दूरचूर्णकः ।
प्रकोष्ठयोः प्रदत्ते च कंकणे नेत्रकज्जलम् ।।६९।।
सर्वसौभाग्यद्रव्याणि दत्वा प्राग्ब्राह्मणः पतिः ।
पाणिना तच्छिरस्तत्र पस्पर्श यावदेव तु ।।1.452.७०।।
तावत् केशाः कृष्णरूपाः प्ररोहिताः प्रसाधिताः ।
धम्मिलश्च कृतस्तेन शाटिका स्वर्णतारिका ।।७१ ।।
कृता तत्रैव हस्तस्य स्पर्शेनाऽऽशीः प्रयुञ्जिता ।
एवं हसन् क्षणं तस्थौ शंभुर्दत्वा शुभाशिषः ।।७२।।
अदृश्यश्चाभवत्सोऽपि पतिश्चाऽदृश्यतां गतः ।
उत्सवः समभूत्तस्याः कन्याया व्रतपुण्यतः ।।७३।।
शृणु लक्ष्मि! व्रतदाता साधुर्विष्णुरभूत् स्वयम् ।
स एव शंभुना चात्राऽऽहूतो विष्णुर्वरोऽभवत् ।।७४।।
कन्यायाः प्रत्ययार्थं च तद्वत् कुटुम्बिनां तथा ।
प्राग्भवीयस्य कान्तस्य रूपं दधार माधवः ।।७५।।
स एव भगवान् कृष्णः पतिर्भूत्वा सदा निशि ।
भक्ताया मानसे नित्यं कामतृप्तिं ददाति सः ।।७६।।
क्वचित् कृष्णस्वरूपं च क्वचिद् विप्रस्वरूपकम् ।
क्वचिच्छिवस्वरूपं च क्वचित्साधुस्वरूपकम् ।।७७।।
गृह्णाति भगवानस्या भवने रमते सदा ।
साऽपि श्रीरिव सौभाग्यतेजोभिर्दीव्यतां ययौ ।।७८।।
आत्मानं मुक्तिगं मेने प्रकाशं नाऽकरोत् सती ।
एवं दिनेषु गच्छत्सु सा बाला तु प्रतिक्षणम् ।।७९।।
भर्तुः समागमं लेभे रात्रौ सुखविवर्धनम् ।
शिवयोर्वरदानेन शारदा विशदव्रता ।।1.452.८०।।
दधार गर्भं स्वप्नेऽपि कृष्णसंगानुभावतः ।
अज्ञातास्तु जनाः कन्यां गर्भिणीं जारिणीं जगुः ।।८ १ ।।
तैरज्ञातैः कृतस्तत्र समाजो ग्रामवासिनाम् ।
दण्डदानाय विद्वांसः पृष्टास्तत्र समागताः ।।८२।।
तेषु मध्ये स्वयं कृष्णो विप्रो भूत्वाऽपि चाययौ ।
शिवस्तत्र सुपण्डितो भूत्वा काश्यां समागतः ।।८३।।
शृणु लक्ष्मि! शारदायाः कृते किं किमभूत्तदा ।
अन्तर्वत्नीं समाहूय शारदां वृद्धमानवाः ।।८४।।
पप्रच्छुश्च कुतो गर्भः शारदापितरौ तदा ।
प्रत्यूचतुः प्राग्भवीयकान्तयोगाद् व्रतार्जितात् ।।८५।।
स्वप्ने बीजस्य लाभेन गर्भोऽयं नहि दोषवान् ।
जहसुश्च तदा सर्वे तिरस्कृत्य कुटुम्बकम् ।।८६।।
अतर्जयन् सुसंक्रुद्धाः केचिदासन् पराङ्मुखाः ।
सर्वे सम्मन्त्रयामासुः किं कुर्म इतिभाषिणः ।।८७।।
केचिदाहुः पापिनीयं कुलद्वयविनाशिनी ।
कृत्वाऽस्याः केशवपनं छित्वा कर्णौ च नासिकाम् ।।८८।।
निर्वासयन्तु च बहिर्ग्रामात् स्वगोत्रतो बहिः ।
अथ विष्णुः पण्डितस्तु तत्राऽऽह सर्वमानवान् ।।८९।।
मया पूर्वं श्रुतं चोमामाहेश्वरं व्रतं कृतम् ।
अनया तेन पुण्येन प्राप्तः स्वाप्नः पतिः सदा ।।1.452.९०।।
स्वप्ने गर्भो न भवति संशयो गर्भिणीकृते ।
नाऽस्यै दण्डः प्रदातव्यः सुचरित्रेयमंगना ।।९१ ।।
कुचारित्र्यं तु वदतां जिह्वा द्वेधा भविष्यति ।
श्रुत्वा प्रजहृषुस्तस्या जननीजनकादयः ।।९२।।
ततः क्षणं ग्रामवृद्धा मौनं भयात् प्रजगृहुः ।
तत्र केचिदविश्वस्ता मिथ्या स्वप्नमवादिषुः ।।९३।।
तेषां जिह्वा द्विधा भिन्ना ववमुस्ते तु रक्तकम् ।
भीताः सर्वे न चोचुर्वै विपरीतं ततश्च ते ।।९४।।
अथ शंभुः पण्डितश्च तदाह विष्णुपण्डितम् ।
स्वप्ने गर्भोऽपि भवति दैवानामीदृशी गतिः ।।९५।।
मायामयमिदं विश्वं दृश्यते श्रूयते च यत् ।
किं भाव्यं किमभाव्यं वा संसारे कृष्णनिर्मिते ।।९६।।
अनिरूप्यमभूतार्थं कदाचिज्जायते ऋतम् ।
श्रीकृष्णस्य वशे सर्वं तस्य को वेद चेष्टितम् ।।९७।।
यूपकेतोस्तु राजर्षेः शुक्रं निपतितं जले ।
सशुक्रं तज्जलं पीत्वा दासी गर्भं दधौ किल ।।९८।।
मुनेर्विभाण्डकस्यापि शुक्रं पीत्वा सहाम्भसा ।
हरिणी गर्भिणी भूत्वा ऋष्यशृंगमसूयत ।।९९।।
सौराष्ट्रस्य तथा राज्ञः करं स्पृष्ट्वा मृगागना ।
तत्क्षणाद् गर्भिणी भूत्वा मुनिं प्रासूत तापसम् ।। 1.452.१ ००।।
तथा सत्यवतीनारी शफरीगर्भसंभवा ।
तथैव महिषीगर्भो जातो वै महिषासुरः ।। १०१ ।।
फलस्य भोजनेनापि गर्भवत्यः स्त्रियः पुरा ।
मनसा कल्पिता नार्यो बभूवुः पुत्रमातरः ।। १ ०२।।
साम्बस्य जठराज्जातं मुसलं मुनिशापतः ।
युवनाश्वस्य गर्भोऽभून्मुनीनां मन्त्रगौरवात् ।। १ ०३।।
बीजं नार्यां नरे वापि विद्यते सर्वथा जनाः ।
परिणामो योगिनां तु वचनेन विजायते ।। १ ०४।।
अहल्या चोपला जाता गौतमस्यैव वाक्यतः ।
रामस्पर्शेन सा जाता युवती चेति दृश्यते ।। १ ०५।।
इन्द्रहेतिकृता जाता मरुतो बहवस्तथा ।
राधाया वचनाद् गंगा जलरूपा व्यजायत ।। १ ०६।।
समुद्रमथनाल्लक्ष्मीः क्षितेः सीता ह्यजायत ।
एवं वै बहुधा सृष्टिर्योगिनां वै प्रजायते ।। १ ०७।।
वसुदेवस्य कृपया रोहिण्यां गर्भ आस्थितः ।
शंकरस्य जटातश्च वीरभद्रोऽप्यजायत ।। १ ०८।।
नूनमेषापि कल्याणी व्रतस्य बलतस्तथा ।
साधोः सेवाप्रतापेन कृष्णस्य शरणागतेः ।। १० ९।।
आशीर्वादात्मकं बीजं धत्ते गर्भमनिन्दिता ।
इत्युक्तस्तु सभाश्रेष्ठाः शशंसुर्ज्ञातिबान्धवाः ।। 1.452.११ ०।।
साधुसाध्विति जगदुर्मुमुचुर्नेत्रतो जलम् ।
कुलस्त्रियः प्रमुदितास्तामुद्दिश्य समाश्वसन् ।। १११ ।।
तथापि मानवानां वै सन्देहस्य निवृत्तये ।
विप्रौ तौ तत्र सञ्जातो क्षणमात्रं शिवो हरिः ।। ११ २।।
विष्णुर्विप्रस्वरूपोऽभूत् क्रोडे कृत्वा तु शारदाम् ।
तान् सर्वान् दर्शयामास कान्तं स्वं शारदां प्रियाम् ।। १ १३।।
दम्पतीरूपिणौ दृष्ट्वाऽऽवापुर्विस्मयमुत्तमम् ।
ततो व्यलीयत कृष्णः शिवोऽप्यन्तरधीयत ।। १ १४।।
सती तां पूजयामासुः श्रीरूपिणीं तदा जनाः ।
चमत्कारपुरावासा ययुः स्वं स्वं निकेतनम् ।। १ १५।।
अथ काले शुभे पुत्रमसूत शारदा सती ।
शारदेयाऽभिधः सोऽपि विद्वान् कृष्णसमोऽभवत् ।। १ १६।।
शारदा बहुवर्षाणि कृष्णसेवां विधाय च ।
वंशं लोके स्थापयित्वा श्रीकृष्णेन समं सती ।। १ १७।।
दिव्ययानेन गोलोकं ययौ पदं हि शाश्वतम् ।
इत्येतत् पुण्यमाख्यानं शारदायाः प्रवर्णितम् ।। ११८।।
पठतां शृण्वतां सम्यग् भुक्तिमुक्तिफलप्रदम् ।
स्त्रीणां मंगलसौभाग्यसन्तानर्द्ध्यायुषा प्रदम् ।। ११ ९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आनर्तदेशे चमत्कारपुरीयशारदाया वैधव्ये साधोराशीर्वादेन पुनः कृष्णात्मकविप्ररूपपतितः सौभाग्यं पुत्रलाभो जनानां विश्वासार्थं विप्ररूपकृष्णदर्शनं गोलोकप्राप्तिश्चेत्यादिपातिव्रत्यचमत्कारनिरूपणनामा द्विपञ्चाशदधिकचतुश्शततमोऽध्यायः ।। ४५२ ।।