लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५१

विकिस्रोतः तः
← अध्यायः ४५० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५१
[[लेखकः :|]]
अध्यायः ४५२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि शबर्यास्तु पतिव्रतम् ।
चमत्कारभरं सर्वं पत्यर्थं किं न जायते ।। १ ।।
या सती सर्वथा स्वामिसन्तोषादिपरायणा ।
जयत्येव सदा लोके धर्मो रक्षति रक्षितः ।। २ ।।
आसीत् पाञ्चालराजस्य सिंहकेतोस्तु किंकरः ।
चण्डकाख्यस्तु शबरो यस्य गेहे पतिव्रता ।। ३ ।।
शबरी पतिभक्ताऽऽसीत् पतिं मत्वा परं प्रभुम् ।
पतिं भेजे सदा भक्त्या यथा सन्तोषमाप्नुयात् ।। ४ ।।
भोजनादौ विहारादौ व्यवसायादिकर्मसु ।
कैंकर्ये वा गृहकार्ये क्लेशं नैव करोति सा ।। ।९ ।।
सर्वदा सुप्रसन्नाऽऽस्ते स्मितानना च किंकरी ।
शुष्कं रूक्षं पर्युषितं स्निग्धं मिष्टं च वातुलम् ।। ६ ।।
तिक्तं दग्धमपक्वं वा भर्जितं पाचितं च वा ।
संस्कृतं बाष्पितं यद्वा यादृक् तादृग् भवेदपि ।। ७ ।।
शबरो न रुषं याति शबरी न विदूयते ।
शबरो नित्यमेवाऽस्याः प्रेमपात्रं सुशान्तिदः ।। ८ ।।
शबरी स्वामिवशगा दत्वा कान्ताय खादति ।
कान्तं विष्णुं सदा मत्वा करोति सेवनं सती ।। ९ ।।
शूद्रधर्मं पुरस्कृत्य वर्तेते दम्पती सदा ।
निष्कपटौ शाट्यहीनौ सत्यमार्गपरायणौ ।।1.451.१ ०।।
साधूनां सेवकौ न्यायमार्गलब्धसुजीवनौ ।
कैंकर्येण च यल्लब्धमन्नाद्यं तत्र तुष्यतः ।। ११ ।।
कार्ये प्राप्ते शबरश्च पृष्ट्वा भार्यां करोति तत् ।
शबर्यपि पतिं पृष्ट्वा कार्यं योग्यं करोति सा ।। १२।।
यद्यपि स्यात्प्राणनाशः पतिवाक्यं न मुञ्चति ।
शबरोऽपि निषिद्धं यच्छबर्या न करोति तत् ।। १ ३।।
शबर्यपि निषिद्धं यत् स्वामिना न करोति तत् ।
यत्र वै मनसोरैक्यं वैकुण्ठं स्वर्गमेव तत् ।। १४।।
यत्र सत्यं निष्कापट्यं परस्परं सुमाननम् ।
तत्र नारायणः कृष्णो विष्णु शिवः शिवा श्रियाः ।।१५।।
स्मृद्धयश्च शुभो लाभः सिद्धिः रक्षा निरामयम् ।
एकदा सिंहकेतुः सः क्षात्रधर्मं समाश्रितः ।। १६।।
जगाम मृगयार्थं सभृत्यो वनं मृगान्वितम् ।
शबरः स वने जीर्णं ददर्श देवतालयम् ।। १७।।
तत्र लिंगं भग्नपीठे वियुक्तं स्वल्पमित्यपि ।
दृष्ट्वाऽऽदाय नृपं प्राह पश्यैनं रुचिरं शिवम् ।। १८।।
तमेनं पूजयिष्यामि यथाविभवमादरात् ।
पूजारीतिं मम ब्रूहि प्रीतः स्याच्छंकरो यथा ।। १९।।
इति पृष्ठो नृपः प्राह प्रहस्यैनं यथातथम् ।
कठिनं पूजनं त्वस्य त्वया तन्नहि पार्यते ।।।1.451.२०।।
संकल्पेन सदा कुर्यादभिषेकं नवाऽम्भसा ।
उपवेश्याऽऽसने शुद्धे शुभैर्गन्धाऽक्षतैर्नवैः ।।२१ ।।
वन्यैः पत्रैश्च कुसुमैर्धूपैर्दीपैश्च पूजयेत् ।
चिताभस्मोपहारं च प्रथमं परिकल्पयेत् ।।२२।।
आत्मोपभोग्येनान्नेन नैवेद्यं कल्पयेत् सदा ।
पुनश्च धूपदीपादीनुपचारान्प्रकल्पयेत् ।।२३।।
नृत्यवादित्रगीतादीन् थथावत् परिकल्पयेत् ।
नमस्कारं प्रकुर्याच्च प्रसादं धारयेत् ततः ।।२४।।
एष साधारणः प्रोक्तः शिवपूजाविधिस्तव ।
चिताभस्मोपहारेण सद्यस्तुष्यति शंकरः ।।२५।।
नमः शिवाय च वदेत् पार्वतीपतये नमः ।
एवमुच्चारयन् देवं पूजयेत् सकुटुम्बकः ।।२६।।
इत्युक्तश्चण्डको भीलो मूर्ध्ना जग्राह तद्वचः ।
अथ स्वभवनं प्राप्य लिङ्गरूपं सदाशिवम् ।। २७।।
चतुष्के पिप्पलमूले संस्थाप्य वैदिकोपरि ।
प्रत्यहं पूजयामास चिताभस्मोपहारकृत् ।।२८।।
यत्त्वात्मनः प्रियं वस्तु पत्न्याश्चापि प्रियं तु यत् ।
गन्धपुष्पाऽक्षताद्यं च मिष्टान्नं कणमेव वा ।।२९।।
निवेद्य शंभवे नित्यमुपायुंक्त ततः स्वयम् ।
एवं सदाशिवं भक्त्या सह पत्न्याऽभ्यपूजयत् ।।1.451.३०।।
आशुतोषस्तुतोषाऽस्मै ददौ सुखं धनादिकम् ।
अन्नं वस्त्रं गृहं द्रव्यं गौश्च दोग्ध्री यशस्तथा ।।३ १ ।।
राज्यतः प्राप्यते सर्वं वेतनं दास्यधर्मतः ।
सत्याधारं शिवाधारं सुखं प्राप्तं कुटुम्बिना ।।३२।।
यथा यथाऽभवद् भीलः सुखी साधनवाँस्तथा ।
पूजनं प्राकरोन्नित्यं नियमेनाऽर्हणं मुहुः ।।३३।।
स्वयं गत्वा श्मशानादावादाय शवभस्म सः ।
शिवस्य पूजनं चक्रे वृष्ट्यादावपि नित्यदा ।।३४।।
एकदा शिवपूजायै प्रवृत्तः शबरोत्तमः ।
न ददर्श चिताभस्म पात्रे यद् रक्षितं च तत् ।।३५।।
वृष्ट्या रात्रौ जलधारा पात्रे पपात छिद्रतः ।
भस्म प्रक्षालितं सर्वं प्रवाहेण समं गतम् ।।३६।।
इति विलोक्य रिक्तं तत्पात्रं यत्र च नाऽण्वपि ।
भस्म लेभे ततो दूरं श्मशानं प्रययावपि ।।३७।।
वृष्ट्या प्रक्षालितत्वात्तु चिताभूमेर्मनागपि ।
भस्म लेभे न वै तत्र परितः संभ्रमन्नपि ।।३८।।
ततः श्रान्तो रिक्तहस्तो गृहमागान्निराशकः ।
किं करोमि क्व गच्छामि भस्मार्थ चाद्य भूतले ।।३९।।
वृष्टिः सर्वत्र बहुला जाता प्रजायतेऽतिगा ।
ग्रामान्तरेऽपि सर्वत्र क्षालिता फेरुराट्क्षितिः ।।1.451.४०।।
भस्म प्राप्येत नैवाद्य पूजा जायेत नैव च ।
भोजनाद्यं ततः सर्वं भवेन्नाद्य तु मे खलु ।।४१ ।।
वृष्टेर्विरामे संजाते कस्यचिन्मरणोत्तरम् ।
मासान्ते वा मिलेद् भस्म तदा नीत्वा हरं प्रभुम् ।।४२।।।
पूजयिष्ये ततो भक्ष्यं गृहीष्यामि कुटुम्बयुक् ।
इतिविचार्य चाहूय पत्नीं भीलोऽब्रवीत् प्रिये! ।।४३।।
न प्रापाऽहं चिताभस्म किं करोमि वद प्रिये! ।
हरपूजामहाविघ्नं जातं मे त्वद्य दुस्तरम् ।।४४।।
प्राप्तवान्न चिताभस्म वृष्ट्या धौतं श्मशानकम् ।
उपायं नात्र पश्यामि पूजोपकरणार्जने ।।४५।।
पूजां विना क्षणार्धं वा नाऽहं जीवितुमुत्सहे ।
उपवासा भवेयुर्मे विना भस्मप्रपूऽजनम् ।।४६।।
इतिव्याकुलितं दृष्ट्वा सा सती शबरांगना ।
चिन्तयामास सततं शिवेन सुखिनो वयम् ।।४७।।
शिवः सुखप्रदो - लक्ष्मीप्रदो मोक्षप्रदस्तथा ।
नहि शिवस्य भक्तानामशिवं संभवेत् क्वचित् ।।४८।।
शिवार्थं क्रियते यद्यत् तत्सर्वं शिवदं भवेत् ।
धनं गृहं यशो वस्त्रं भोजनं जलमित्यपि ।।४९।।
शिवार्थं कल्पितं सर्वं दिव्यं शिवकरं भवेत् ।
शिवेन सुन्दरो देहः प्रदत्तस्तेन पोषितः ।।1.451.५०।।
पत्यर्थं च शिवार्थं मे नारीदेहो भवेच्छुभः ।
को लाभस्तत्परश्चात्र येन मोक्षो भवेन्मम ।।५१।।
एवं विचार्य शबरी मा भैः कान्तमुवाच ह ।
इदमेव गृहं दग्ध्वा जीर्णकाष्ठोपबृंहितम् ।।५२।।
अहमग्निं प्रवेक्ष्यामि चिताभस्म भवेत् ततः ।
पूजां तेन कुरु कान्त नारी कार्याऽपरा त्वया ।।५३।।
अहं प्राप्स्ये च कैलासं तव देहवियोजने ।
नेतुं चाहं त्वागमिष्ये शंभुना सह मा शुचः ।।५४।।
प्रियावाक्यं समाकर्ण्य शबरस्तामुवाच ह ।
धर्मार्थकाममोक्षाणां देहः परमसाधनम् ।।५५ ।।
कथं त्यजसि तं देहं सुखदं नवयौवनम् ।
अधुना त्वनपत्या त्वं भोगयोग्या पुनः पुनः ।।५६।।
दृढा पुष्टा बलिष्ठा च कथं दग्धुमिहेच्छसि ।
शबरी प्राह रे कान्त साफल्यं जीवितस्य मे ।।५७।।
प्राणत्यजनं पत्यर्थे शिवार्थं किमुत स्वयम् ।
किन्नु तप्तं तपो घोरं किं वा दत्तं मया पुरा ।।५८।।
किं वाऽर्चनं कृतं शंभोः पूर्वजन्मशतान्तरे ।
किं वा पुण्यं मम पितुः का वा मातुः कृतार्थता ।।५९।।
यच्छिवार्थे समिद्धाऽग्नौ त्यजाम्येतत्कलेवरम् ।
शबर्या मे प्राप्तकालो मोक्षस्याऽयं प्रवर्तते ।।1.451.६०।।
अनेकजन्मभिर्यो न प्राप्यते भीलयोषिता ।
कथं तं निष्फलं कर्तुं मोहे पतामि शूद्रिका ।।६१ ।।
सर्वे यज्ञाः प्रदानानि तीर्थानि च तपांसि च ।
मम जातानि मन्येऽहं मद्भस्म शंकरेऽर्पितम् ।।६२।।
इत्थं स्थिरां मतिं दृष्ट्वा तस्या भक्तिं च शंकरे ।
शबरोऽपि स्वस्य भस्म कर्तुं दातुं मनो दधे ।।६३।।
उवाच शबरीं पत्नीं जीव कान्ते शतं समाः ।
मम भस्म विधायैव मोक्षं यास्येऽतिदुर्लभम् ।।६४।।
नैकजन्मनां पापेन शबरोऽहं महाऽधमः ।
प्राप्तं मोक्षस्य सद्द्वारं कथं त्यक्तुं समुत्सहे ।।६५।।
त्वया शंभुः पूजनीयो सदा मद्भस्मना प्रिये ।
यद्वा सती प्रियं कान्तं जीवयप्येव भस्मतः ।।६६।।
सावित्री सत्यवन्तं संजीवयामास वै पुरा ।
यद्वा सती स्वयं वह्निमुत्पाद्य स्वामिना सह ।।६७।।
दिवं व्रजेत् तथा कार्यं त्वया मे प्रियया प्रिये ।
इत्युक्ता सा पतिं प्राह नाथ ते मरणोत्तरम् ।।६८।।
निश्चितं मरणं मेऽस्ति सतीरीत्या हि सर्वथा ।
द्वयोर्मृत्य्वपेक्षयाऽत्र ममैव मरणं वरम् ।।६९।।
पतिदृष्ट्या सती नारी पतिहस्तेन या मृता ।
पत्यर्थं च शिवार्थं च जन्मसाफल्यमृच्छति ।।1.451.७० ।।
एकोत्तरशतवंशोद्धारयित्री तु सा भवेत् ।
तल्लाभो मेऽत्र संप्राप्तो भवत्वेवं मयि कृपा ।।७१ ।।
इत्थं स्थिरां मतिं दृष्ट्वा न्याय्यं तस्या हितं वचः ।
तथेति दृढसंकल्पः शबरः प्रत्यपूजयत्। ।।७२।।
सा भर्तारमनुज्ञाप्य स्नात्वा शुचिरलंकृता ।
गृहमादीप्य तं वह्निं भक्त्या चक्रे प्रदक्षिणम् ।।७३।।
नमस्कृत्वाऽऽत्मगुरवे ध्यात्वा पतिं तथा शिवम् ।
अग्निप्रवेशाऽभिमुखी कृतांजलिरिदं जगौ ।।७४।।
ममेन्द्रियाणि पुष्पाणि सन्तु धूपोऽगुरुर्वपुः ।
हृदयं सुप्रदीपोऽस्तु प्राणा हवींषि सन्तु च ।।७५।।
करणान्यक्षताः सन्तु शंभो त्वां पूजयाम्यहम् ।
न वाञ्च्छामि महाराज्यं स्वर्गं वा परमं पदम् ।।७६।।
तव सेवां सह पत्या सदा त्विच्छामि शंकर ।
चित्तं त्वयि सदा त्वस्तु हृदयेश नमोऽस्तु ते ।।७७।।
इतिप्रसाद्य देवेशं शबरी मुदितानना ।
विवेश ज्वलितं वह्निं भस्मसादभवत्क्षणात् ।।७८।।
शबरोऽपि तु तद्भस्म यत्नेन परिगृह्य च ।
चक्रे दग्धगृहोपान्ते हरपूजां समाहितः ।।७९।।
अथ सस्मार पूजान्ते प्रसादग्रहणोचिताम् ।
दयितां नित्यमायान्तीं प्रांजलिं विनयान्विताम् ।।1.451.८०।।
स्मृतमात्रां तदाऽपश्यदागतां पृष्ठतः स्थिताम् ।
पूर्वरूपां यथायोग्यां भक्तिनम्रां सुरूपिणीम् ।।८१ ।।
तां वीक्ष्य शबरः पत्नीं हास्ययुक्तां कृतांजलिम् ।
तथा भस्मीकृतं देहं यथापूर्वमवस्थितम् ।।८२।।
क्षणमाश्चर्यमापन्नस्तर्कयामास वै हृदि ।
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ।।८३।।
राजा दहति दण्डेन ब्राह्मणो मनसा दहेत् ।
शत्रुर्दहति हान्याद्यैः कुलटा वाक्प्रताडनैः ।।८४।।
विषं दहति चोष्णत्वाद् दुष्टा दहन्ति दर्शनात् ।
चिन्ता दहति फल्गुत्वाद्धिमं दहति शैत्यतः ।।८५।।
तृष्णा दहति चाऽतृप्तेः सती दहति शापतः ।
साधुर्दहति पापानि स्पर्शमात्रान्न संशयः ।।८६।।
कथं चेयं न वै दग्धा दृश्यतेऽत्र यथायथम् ।
किमयं स्वप्न आहोस्वित् किंवा मायेन्द्रजालिका ।।८७।।
इति विस्मयसंभ्रान्तस्तां पत्नीं समपृच्छत ।
अयि त्वं तु कथं चास्से भस्मीभूताऽपि जवसि ।।८८।।
प्रदग्धं भवनं भूयः कथं पूर्ववदास्थितम् ।
श्रुत्वा प्रसन्नसुमुखी पतिव्रताऽऽह तं प्रियम् ।।८९।।
यदा गृहं समुद्दीप्य प्रविष्टाऽहं हुताशने ।
तदात्मानं न जानामि न पश्यामि हुताशनम् ।।1.451.९० ।।
तदा पश्यामि पीषूषाक्तं शंभुं मम पार्श्वगम् ।
पाययन्तं सुधां मे संस्पृशन्तं स्वकरेण माम् ।।९ १ ।।
न तापलेशोऽप्यासीन्मे प्रविष्टाया इवोदकम् ।
सुषुप्तेव क्षणार्धेन प्रबुद्धाऽस्मि पुनः क्षणात् ।।९२।।
तावद् भवनमद्राक्षमदग्धमिव सुस्थितम् ।
अधुना देवपूजान्ते प्रसादं लब्धुमागता ।।९३।।
देहि प्रसादं मे कान्त त्वानयामि सुवस्तु किम्! ।
इत्युक्ता जलमादाय ददौ फलं तथाऽक्षतान् ।।९४।।
एवं प्रतिदिनं तौ तु पूजयामासुरादरात् ।
लक्षशो मनुजाः श्रुत्वा चमत्कारं तथाऽद्भुतम् ।।९५।।
दर्शनार्थं समाजग्मुस्तयोश्च शंकरस्य च ।
एवं परस्परं प्रेम्णा दम्पत्योर्वर्तमानयोः ।।९६।।
शंकरस्य कृपलेशात् सुखं लक्षसमा गताः ।
पुत्रपौत्रधनागारक्षेत्रगोदासयोषितः ।।९७।।
वैष्णवाः शंकरान्मन्त्रं प्राप्य जाताः कुटुम्बिनः ।
देहान्ते तु तयोर्भक्तदम्पत्योर्दिव्यमद्भुतम् ।।९८।।
प्रादुरासीद्विमानं च तत्र स्थित्वा तु दम्पती ।
शिवदूतकरस्पर्शाद् दिव्यदेहौ सरूपिणौ ।।९९।।
भूत्वा शिवालयं धाम ययतुर्वै परात्परम् ।
इति ते कथितं लक्ष्मि! पातिव्रत्यं परं व्रतम् ।। 1.451.१०० ।।
पत्नीव्रतं तथा श्रेष्ठं व्रतं शंभ्वार्पणं व्रतम् ।
आत्मार्पणं व्रतं सर्वव्रतेभ्यो वै विशिष्यते ।। १०१ ।।
योऽपि शूद्रः पठेद्वापि शृणुयाद्वा कथामिमाम् ।
शिवलोकं विष्णुलोकं भक्त्या यायान्न संशयः ।।१ ०२।।
पत्नीव्रतं पातिव्रत्यं विज्ञायाऽपि तथाऽऽचरेत् ।
ततोऽपि सर्वथा भुक्तिं मुक्तिं चान्ते लभेत् प्रिये ।। १० ३।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शबरदम्पतीकृतशिवपूजार्थं पतिव्रताशबरीचिताभस्मार्पणे शबर्याः पुनर्जीवनमित्यादिपातिव्रत्यचमत्कारनिरूपणनामैकपञ्चाशदधिकचतुश्शततमोऽध्यायः ।।४५१ ।।