लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४५०
[[लेखकः :|]]
अध्यायः ४५१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सुतार्थं वै पार्वत्याः पातिव्रत्यकम् ।
सत्या स्वयं सुरमध्ये व्रतान्ते सम्प्रकाशितम् ।। १ ।।
हिमालयो ददौ कन्यां पार्वतीं शंकराय तु ।
संरेमे नर्मदातीरे शय्यायां शिवया हरः ।। २ ।।
तयोर्बभूव शृंगारो योगिनोर्बहुवासरान् ।
देवा दैत्यार्दिताः शंभुपुत्रं दैत्यविनाशकम् ।। ३ ।।
अयोनिजं समिच्छन्तो ययुस्तयोः रतेर्गृहम् ।
वीर्यस्रावस्य निकटे प्राक्क्षणे द्वारि ते स्थिताः ।। ४ ।।
आजुहुवुर्महादेवं देवास्ते रतिभंजकाः ।
उत्तिष्ठतो महेशस्य भूमौ वीर्यं पपात ह ।। ५ ।।
तद्वै तत्र सुवर्णं च रजतं च व्यजायत ।
अथ वीर्यं न वै गर्भे प्राप्तं सत्याः शुशोच सा ।। ६ ।।
यतो देवैः कृतं विघ्नं ततो देवा अपि सदा ।
रति भंगकराः सर्वे व्यर्थवीर्या भवन्त्विति ।। ७ ।।
इत्युक्त्वा शंकरं प्राह रतिविच्छेददुःखिता ।
रतिभंगो दुःखमेकं द्वितीयं वीर्यपातनम् ।। ८ ।।
दुःखातिरेकिदुःखं तु तृतीयमनपत्यता ।
ततः पुत्रौो यथा मे स्यात्तथा कुर्वत्र शंकर! ।। ९ ।।
श्रुत्वा तां शंकरः प्राह हरेर्भक्त्यन्विता सदा ।
व्रतं तु पुण्यकं नाम वर्षमेकं कुरु प्रिये ।। 1.450.१ ०।।
तेन पुत्रफलं तेऽत्र निश्चितं वै भविष्यति ।
व्रतं तत् सुखदं पुण्यं वाञ्च्छाकल्पद्रुमात्मकम् ।। ११ ।।
जाह्नवी सरितां मध्ये सुराणां श्रीहरिर्यथा ।
अहं वैष्णवभक्तानां यथा त्वं देवयोषिताम् ।। १२।।
लक्ष्मीश्च सम्पदां यद्वत् सुवर्णं द्रव्यनामिनाम् ।
शीलव्रतं व्रतानां च तद्वत् पुण्यव्रतं त्विदम् ।। १३ ।।
वर्णानां ब्राह्मणो यद्वत् तीर्थानां बदरीवनम् ।
पारिजातं कुसुमानां दलानां तुलसीदलम् ।। १४।।
एकादशी तिथीनां च वाराणां तु यथा रविः ।
मार्गशीर्षश्च मासानामृतूनां च वसन्तकः ।। १५।।
सम्वत्सरश्च वर्षाणां युगानां च कृतं यथा ।
विद्यागुरुश्च पूज्यानां गुरूणां जननी यथा ।। १६ ।।
सती पत्नी यथाऽऽप्तानां विश्वस्तानां तु हृद् यथा ।
यथा रत्नं धनानां च प्रियाणां च यथा पतिः ।। १७।।
यथा सुतश्च बन्धूनां कल्पद्रुः शाखिनां यथा ।
आम्रफलं फलानां देशानां सौराष्ट्रको यथा ।। १८।।
वृन्दावनं वनानां च राधिका योषितां यथा ।
पुरीणां च यथा काशी लक्ष्मीनां कंभरा यथा ।। १ ९।।
तेजस्विनां यथा त्वर्कः खण्डानां त्वजनाभकम् ।
रात्रीशानां यथा चन्द्रो मोहकानां च मन्मथः ।।1.450.२०।।
विद्यानां तु यथा वेदाः साधूनां कपिलो यथा ।
वानराणां हनूमाँश्च क्षेत्राणां च सतांमुखम् ।।२१ ।।
नेत्राणां च यथा विद्या वासना बलिनां यथा ।
मनोहराणां काव्यं च व्यापकानां वियद् यथा ।।२२।।
अंगानां लोचनं यद्वत् साध्यानां मोक्षणं यथा ।
वैभवानां कृष्णकथा सुखानां तृष्णिकालयः ।।२३।।
स्पर्शानां पुत्रसंस्पर्शो हिंसकानां खलो यथा ।
यथा मिथ्या च पापानां पापिनां मातृगो यथा ।।२४।।
पुण्यानां स्वार्पणं यद्वत् कार्याणां साधुसेवनम् ।
ऐकाग्र्यं तपसां यद्वल्लाभानां हरिसेवनम् ।।२५।।
गव्यानां च घृतं यथा वृक्षस्तपस्विनाम् ।
अमृतं भोज्यवस्तूनां सस्यानां व्रीहयो यथा ।।२६ ।।
पवित्राणां यथा वारि शोधकानां यथाऽनलः ।
स्त्रीरूपं सर्वरूपाणां मिष्टानां सुप्रियं वचः ।।२७।।
वैनतेयः पक्षिणां च ऐरावतश्च दन्तिनाम् ।
सनत्कुमारो योगिनां देवर्षीणां च नारदः ।।२८।।
गन्धर्वाणां चित्ररथो गुरुर्बुद्धिमतां यथा ।
कवीनां तु यथा शुक्रः काव्यानां संहिता यथा ।।२९।।
स्रोतस्वतां यथा त्वब्धिः क्षमिणां च क्षितिर्यथा ।
फलानां च यथा मुक्तिः शान्तिश्च सम्पदां यथा ।।1.450.३०।।
पावनानां वैष्णावाश्च वर्णानां प्रणवो यथा ।
कृष्णमन्त्रश्च मन्त्राणां पोष्टॄणां प्रकृतिर्यथा ।।३ १ ।।
सरस्वती विदुषीणां गायत्री छन्दसां यथा ।
यथा कुबेरः श्रेष्ठिस्थो नागानां वासुकिर्यथा ।।३२।।
शय्यानां च यथा शेषो लयानां निद्रिका यथा ।
निष्क्रियाणां यथाऽऽलस्यं शैलानां मेरुपर्वतः ।।३३।।
गवां च सुरभिर्यद्वत् तृणानां च यथा कुशः ।
वेदानां सामवेदश्च मनो वै वेगिनां यथा ।।३४।।
सुखदानां यथा लक्ष्मीरक्षराणामवर्णकः ।
हितार्थिनां यथा तातो हेतीनां कवचं यथा ।।३५।।
शालग्रामश्च मूर्तीनां पशूनां केसरी यथा ।
देहिनां मानवो यद्वदिन्द्रियाणां तु हृद् यथा ।।३६।।
मन्दाग्निश्च रुजां यद्वच्छक्तिः शक्तिमतां यथा ।
स्थूलानां च विराड् यद्वत् सूक्ष्माणां परमाणुकः ।।३७।।
आदित्यानां यथा विष्णुर्देवानामिन्द्र एव च ।
दैत्यानां च बलिर्यद्वद् दातॄणां च दधीचिकः ।।३८।।
प्रह्लादश्चैव साधूनां चक्राणां च सुदर्शनम् ।
ब्रह्मास्त्रं च यथाऽस्त्राणां रामादित्यश्च भूभृताम् ।।३९।।
धन्विनां च नरो यद्वत् कृष्णो हृदयवासिनाम् ।
प्रसेव्यानां गुरुर्यद्वद् व्रतानां पुण्यकं तथा ।।1.450.४० ।।
कर्तव्यं सेवनीयं च पालनीयं सुपुत्रदम् ।
हरेर्मन्त्रं गृहीत्वा त्वं व्रतं पुत्रप्रदं कुरु ।।४१ ।।
माघशुक्लत्रयोदश्यां व्रतारंभः शुभः प्रिये ।
उपोष्य पूर्वदिवसे द्वितीये व्रतमाचरेत् ।।४२।।
श्रीकृष्णं षोडशवस्तुसूपचारैः प्रपूजयेत् ।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।।४३।।
स्नानीयं मधुपर्कं च वस्त्राण्याभरणानि च ।
सुगन्धि पुष्पधूपं च दीपं नैवेद्यचन्दनम् ।।४४।।
यज्ञसूत्रं च ताम्बूलं द्रव्याण्येतानि षोडश ।
पुष्पांजलिं प्रणामादीन् क्षमा चाथ विसर्जनम् ।।४५।।
नित्यं कुर्याद् व्रतं सांवत्सरं पुत्रफलप्रदम् ।
षण्मासाँश्च हविष्यान्नं मासान् पञ्च फलादिकम् ।।४६।।
हविः पक्षं जलं पक्षं व्रतमेव समापयेत् ।
देया व्रतसमाप्ती च दक्षिणा होमपूर्विका ।।४७।।
कृष्णांशो वै भवेत्पुत्रो व्रतकर्त्र्या न संशयः ।
प्रियव्रतोत्तानपादौ लेभे शतरूपा व्रतात् ।।४८।।
देवहूतिर्व्रताल्लेभे कृष्णांशं कपिलं सुतम् ।
अरुन्धती व्रताल्लेभे कृष्णांशं शक्तिकं सुतम् ।।४९।।
सावित्री च व्रतं कृत्वा लेभे वेदान् सुपुत्रकान् ।
शक्तिकान्ता व्रतं कृत्वा लेभे पुत्रं पराशरम् ।।1.450.५०।।
सत्यवती व्रतं कृत्वा लेभे व्यासं सुतं हरिम् ।
व्रतेन कंभरा प्राप सुतं कृष्णनरायणम् ।।५१ ।।
अदितिश्च व्रतं कृत्वा लेभे वामनकं सुतम् ।
महेन्द्राणी व्रतं कृत्वा लेभे जयन्तकं सुतम् ।।५२।।
उत्तानपादपत्नी च लेभे ध्रुवं व्रतात् सुतम् ।
कुबेराणी व्रतं कृत्वा ललाभ नलकूबरम् ।।५३।।
सूर्यपत्नी श्राद्धदेवं मनुं लेभे च रैवतम् ।
अनसूया व्रतं कृत्वा लेभे चन्द्रं शुभं सुतम् ।।५४।।
लेभे चांगिरसः पत्नी व्रतात्। सुतं बृहस्पतिम् ।
ख्यातिर्लेभे व्रतं कृत्वा शुक्राचार्यं सुतं कविम् ।।।५५।।
एते नारायणांशा वै जाता व्रतप्रभावतः ।
व्रतस्यास्य प्रभावेण स्वयं गोपीपतिः प्रभुः ।।५६।।
ईश्वरः सर्वभूतानां तव पुत्रो भविष्यति ।
इत्युक्त्वा प्रययौ शंभुः पार्वत्या सह जाह्नवीम् ।।५७।।
तस्यै ददौ हरेर्मन्त्रं श्रीकृष्णाय नमः शुभम् ।
स्नात्वा व्रतस्य संकल्पं कृत्वा यया गृहं निजम् ।।५८।।
आनीय सर्वद्रव्याणि समारेभे व्रतं ततः ।
सनत्कुमारो भगवानभूत् तत्र पुरोहितः ।। ५९।।
ब्रह्माद्या देवताः सर्वे मनवो यतयस्तथा ।
ऋषयो वालखिल्याश्च दक्षाद्या भूभृतस्तथा ।।1.450.६०।।
दिक्पाला लोकपालाश्च चिरजीविन आययुः ।
पूजिताः शंभुना प्राहुः करोतु पुण्यकं शिवा ।।६१ ।।
श्रीकृष्णश्च सुतस्तस्या भविष्यति पुरा यथा ।
एवं क्रमो महादेव! कल्पे कल्पेऽस्ति सर्वथा ।।६२।।
इत्युक्तः शंकरः सनत्कुमारेण निवेदिताम् ।
पार्वतीद्वारिकां कृष्णपूजां श्रेष्ठामकारयत् ।।६३।।
संस्थाप्य रत्नकलशं शुक्लधान्योपरि स्थितम् ।
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम् ।।६४।।
चन्दनागुरुकस्तूरीकुंकुमादिसमर्चितम् ।
मुनीन् सती पूजयित्वा संपूज्य स्वपुरोहितम् ।।६५।।
पुरः संस्थाप्य दिक्पालान् देवान् समर्च्य वै ततः ।
स्वस्तिवाचं वाचयित्वाऽऽवाह्य कृष्णं घटे ततः ।।६६ ।।
सम्पूज्य षोडशद्रव्यैरुपहारं चकार सा ।
तिलसर्पिषा हवनं त्रिलक्षं प्रचकार सा ।।६७।।
ब्राह्मणान् भोजयामास प्रददौ दक्षिणां पराम् ।
पुरोहितः शिवां प्राह देहि मे पतिदक्षिणाम् ।।६८।।
पतिरूपां दक्षिणां तु श्रुत्वा शुशोच पार्वती ।
शिवः प्राह शिवे! दक्षिणया कर्मफलं भवेत् ।।६९।।
यत्कर्म दक्षिणाहीनं तत्सर्वं निष्फलं भवेत् ।
तन्मुहूर्ते व्यतीते तु दक्षिणा द्विगुणा भवेत् ।।1.450.७०।।
चतुर्गुणा दिनातीते पक्षे शतगुणा भवेत् ।
मासे पञ्चशतगुणा षण्मासे तच्चतुर्गुणा ।।७१ ।।
सम्वत्सरे व्यतीते तु कर्म तन्निष्फलं भवेत् ।
पुत्रपौत्रधनैश्वर्यक्षयः स्यात्तु ततः परम् ।।७२।।
धर्मो नष्टो भवेत्तस्य धर्महीने तु कर्मणि ।
विष्णुः प्राह सति! रक्ष फलदं रक्षकं वृषम् ।।७३ ।।
ब्रह्मा प्राह सति! धर्मे नष्टे कर्ता विनश्यति ।
धर्मः प्राह शिवे! कान्तं दत्वा मां रक्ष यत्नतः ।।७४।।
रक्षिते च मयि साध्वि! सर्वं भद्रं भविष्यति ।
देवा ऊचुः रक्ष धर्मं कुरु पूर्णं व्रतं सति! ।।७५।।
वयं तव व्रते पूर्णे कुर्मस्त्वां पूर्णमानसाम् ।
ऊचुस्तां मुनयः शंभुं देहि विप्राय दक्षिणाम् ।।७६ ।।
स्थितेष्वत्मत्सु धर्मज्ञे नाऽभद्रं ते भविष्यति ।
प्राह सनत्कुमारस्त्वं मे शिवं देहि दक्षिणाम् ।।७७।।
नो चेद् व्रतफलं सर्वं त्यज प्राप्स्याम्यहं फलम् ।
शिवा प्राह पतिर्यत्र ह्रियते तु पुरोधसा ।।७८।।
किं मे स्यात् तद्व्रतेनापि किं मे दक्षिणया सुराः ।
किं पुत्रेण च धर्मेण सर्वस्वं यत्र नीयते ।।७९।।
कुतः फलं कुतो वृक्षो यदि बीजं न विद्यते ।
भूमिः सा निष्फला बीजं विना सस्यप्रदा न वै ।।1.450.८०।।
कृषिश्च विफला सर्वा बीजं विना तु वार्षिकी ।
प्राणं त्यक्त्वा प्रयत्नेन वर्ष्मणा किं प्रयोजनम् ।।८१ ।।
दृष्टिशक्तिविहीनेन चक्षुषा किं प्रयोजनम् ।
शतपुत्राधिकः स्वामी साध्वीनां तु सुरेश्वराः ।।८२।।
यदि भर्ता व्रते देयः किं व्रतेन सुतेन वा ।
भर्तुर्वंशो हि तनयो भर्तुमूलो भवेत्सदा ।।८३।।
यत्र मूलं भवेद् भ्रष्टं तद्व्यापारस्तु हानिदः ।
विष्णुः प्राह सतीं तत्र पुत्रात् स्वामी परः सदा ।।८४।।
स्वामिनश्च परो धर्मस्तन्नाशे स्वामिनाऽपि किम् ।
ब्रह्मा प्राह सति पुत्रि धर्मो वै स्वामिनः परः ।।८५।।
धर्मात्परं सत्यकार्यं व्रतं सत्यं परं मतम् ।
सत्यं सदक्षिणं कर्म न तु भ्रष्टं कुरु व्रतम् ।।८६।।
शिवा प्राह च वेदेषु स्वशब्दो धनवाचकः ।
तद् यस्याऽस्तीति स स्वामी धनवान् स समुच्यते ।।८७।।
धनितः श्रेष्ठ एवात्र धर्मस्ततो व्रतं ऋतम् ।
तेभ्योऽधिकः पतिः स्वामी स्वामित्वं तत्र शाश्वतम् ।।८८।।
आगन्तुकं धनवतां तस्मात्। स्वामी पतिः परः ।
तस्याऽहं धनमेवाऽस्मि पित्राऽहं चार्पिता पुरा ।।८९।।
दानरूपा शिवस्वत्ववती चाहं न मे शिवः ।
स्वत्वं विना कथं दानं वदन्त्यत्र सुरादयः ।।1.450.९०।।
धर्मः प्राह सदा पत्नी स्वामिनोऽर्धांगना मता ।
दम्पतीमूर्तिरेकैव स्वेन स्वं शक्यतेऽर्पितुम् ।। ९१ ।।
सती प्राह मयि स्वाम्यं स्वामित्वं चेति चागतम् ।
स्वामित्वविगमं स्वाम्यं विनिवोगक्षमं भवेत् ।।९२।।
ततो योग्या न वर्तेऽत्राऽर्पयितुं तु पतिं मम ।
पतिर्दाने स्त्रिया दत्त इति सृष्टौ न वै श्रुतम् ।। ९३।।
कन्यादानं श्रुतावुक्तं जामात्रे जगतां क्रमः ।
वरदानं वरार्थिन्यै ज्येष्ठपित्रे कुतः क्रमः ।।१४।।
देवाः प्राहुः सति! नैव बुद्धिमन्तो वयं त्वयि ।
पुण्यके कल्पितां स्वामिदक्षिणां धर्ममाचर ।।९५।।
श्रुतौ श्रुतः स वै धर्मो विपरीतो ह्यधर्मकः ।
सती प्राह विना लोकाचारं वेदोऽतिनिर्बलः ।।९६ ।।
वेदे प्रकृतिपुंसोस्तु गरीयान् पुरुषोऽधिपः ।
अधिपं नु कथं दास्ये बालाऽहं कथयामि किम् ।।९७।।
बृहस्पतिस्तदा प्राह सर्गश्चोभयनिर्मितः ।
श्रीकृष्णश्चोभयस्रष्टा समौ प्रकृतिपूरुषौ ।।९८।।
सती प्राह पुमान् कृष्णनारायणांश एव सः ।
नार्यस्तु मूलप्रकृतेरंशास्ततः पुमान् गुरुः ।।९९।।
पुमाँस्त्वत्र परब्रह्म सदाशिवः पतिर्मम ।
मया कथं पतिर्देयो वदन्त्वत्र हि देवताः ।। 1.450.१० ०।।
इतिवादे प्रवृत्तेऽत्र विमानं स्वर्णभास्वरम् ।
आगतं श्रीपतिर्नारायणश्चतुर्भुजस्ततः ।। १० १।।
अवतीर्य सभामध्ये स्थितः सर्वैः प्रपूजितः ।
प्राह गौरीं सति! त्वया न्याय्यमेव समुच्यते ।। १ ०२।।
दक्षिणा यज्ञपत्नी च यजमानेन दीयते ।
विप्राय तत्र मूल्यं वै दीयते न क्रतुप्रिया ।। १ ०३।।
परपत्नी परेण दीयते पराय न क्वचित् ।
तन्निमित्तं स्वर्णरौप्यं दीयते धनमेव यत् ।।१ ०४।।
पत्नीदाने पुत्रदाने स्वस्य दाने पत्यर्पणे ।
गोप्रदानं विधायैव कर्म पूर्णॆ प्रजायते ।। १०५।।
विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः ।
विष्णुदेहा दक्षिणा च मूल्यात्मिका प्रदीयते ।। १ ०६।।
व्रतं पूर्णे कुरु शिवे! शिवं दत्वा तु दक्षिणाम् ।
पुनः समुचितं मूल्यं दत्वा नाथं ग्रहीष्यसि ।। १ ०७।।
इत्युक्ता सा हवनान्ते शिवं ३ दक्षिणां ददौ ।
स्वस्तीत्युक्त्वा तु जग्राह कुमारो देवसंसदि ।। १०८।।
सती प्राह गृहाणैतद् गवां लक्षं धनं च वा ।
देहि मत्स्वामिनं विप्र दास्ये दानानि वै ततः ।। १ ०९।।
पतिं विना न वै कर्म त्वन्यत् कर्तुॆ क्षमा यतः ।
सनत्कुमारश्चोवाच मे गवां न प्रयोजनम् ।।1.450.१ १ ०।।
रत्नानां च धनानां च साधोर्मे किं प्रयोजनम् ।
प्रयोजनं मे शिष्यस्य त्यागिनोऽवधूतस्य च ।। १११ ।।
स तु प्राप्तो मया त्वत्तो न दास्ये शंकरं तव ।
कर्तुरेवेप्सितं कर्म स्वस्य द्रव्ये स्वतन्त्रता ।।१ १२।।
अन्ये वदन्तु यत्किञ्चिद् गोभिर्न मे प्रयोजनम् ।
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्त्रयम् ।। ११ ३।।
बालकानां बालिकानां समूहस्मितकारणम् ।
इत्युक्त्वा तु शिवं पार्श्वे वासयामास वै सनत् ।। १ १४।।
पार्वती तु तदोत्तस्थौ जगाद शोकविह्वला ।
पुनर्लब्धः पतिर्नैव न प्राप्तं तु फलं व्रते ।।१ १५।।
एषा सती भवाम्यत्र वह्निमुत्पाद्य देहतः ।
हाहाकारोऽभवत् तत्र श्रीकृष्णो भगवान् स्वयम् ।। १ १६।।
झटित्येनां समाश्लिष्य वारयामास मूर्तिमान् ।
सत्या दृष्टश्च भगवान् विमानादवतीर्य सः ।। १ १७।।
रराज विनिवार्यैव सभामध्ये विलोकितः ।
देवौः सुपूजिते कृष्णं पार्वती तुष्टुवे हृदा ।। १ १८।।
त्वयाऽहं जीविता कृष्ण पुनर्जीवय शंभुना!
शंभुं देहि फलं देहि पुत्रं भवादृशं प्रभो ।।१ १ ९।।
इत्युक्तः श्रीहरिः सत्यै दापयामास शंकरम् ।
पुरोधसे ददौ द्रव्यं विप्रेभ्यो दक्षिणास्तथा ।। 1.450.१ २०।।।
व्रतं समाप्य सा सर्वान् भोजयित्वा ततः परम् ।
बुभुजे स्वामिना सार्धं ताम्बूलं च ददौ ततः ।। १२१ ।।
देवाद्याः पूजिताः सर्वे ययुः स्वर्गं ततः सती ।
शय्यायां शंभुना रेमे तावद् ब्राह्मणरूपधृक् ।। १ २२।।
कृष्णस्तत्र समायातो वृद्धो भिक्षुक आह च ।
मातर्भिक्षां तु मे देहि पुनः पुनरुवाच ह ।।१२३।।
शंभुरुत्थाय तु शीघ्रं वीर्यमुत्सृज्य शायने ।
बहिः शीघ्रं त्वाजगाम तत् सत्याः शरीरेऽलगत् ।। १२४।।
वीर्यं यत्तत्कृतः पिण्डः कृष्णस्तस्मिन् व्यलीयत ।
तूर्णं बालोऽभवत् सत्या कृष्णतुल्यो विलोकितः ।। १२५।।
एवं प्राप्तो गणेशः सः श्रीकृष्णः स्वयमेव तु ।
पातिव्रत्येन सा दुर्गा पतिं तत्याज न क्वचित् ।। १ २६।।
पतिर्देवः पतिः पोष्टा परलोकप्रदायकः ।
पुत्रपौत्रादिवंशस्य मूलं पतिः परः प्रभुः ।। १२७।।
प्राणानां विगमे चापि न त्याज्यः स्वपतिः प्रियः ।
दक्षिणार्थं गृहीतोऽपि गृहीतो न विसर्जितः ।। १ २८।।
एवं पतिप्रिया साध्वी लभते कृष्णसदृशम् ।
सुपुत्रं कृपया पत्युः किमु वाच्यं नु पद्मजे ।। १२९।।
सतीव्रतसमाख्यानं पतिदानसमाग्रहम् ।
शृणुयाद्वा पठेद्वापि पुत्रं सौभाग्यमाप्नुयात् ।। 1.450.१ ३०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्याः पुण्यकव्रते शंभुदक्षिणानिमित्तपातिव्रत्यबलं संवादो गणेशपुत्रप्राप्तिश्चेत्यादिनिरूपणनामा पञ्चाशदधिकचतुश्शततमोऽध्यायः ।।४५०।।