लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४९
[[लेखकः :|]]
अध्यायः ४५० →

श्रीनारायण उवाच-
अथ सीमन्तिनीसत्याश्चमत्कारं वदामि ते ।
शृणु लक्ष्मि! कृष्णभक्तिपरायाः पतियोषितः ।। १ ।।
पातिव्रत्येन धर्मेण सदा कृष्णः प्रतुष्यति ।
पत्नी लक्ष्मीस्वरूपाऽस्ति पतिर्नारायणात्मकः ।। २ ।।
इति बुद्ध्या प्रसेवेत परस्परं प्रमुच्यते ।
दम्पत्योः कृतसकल्पाः सिद्ध्यन्ति नहि निष्फलाः ।। ३ ।।
विदर्भविषये विप्रो वेदमित्रोऽभवत् सुधीः ।
तस्य पुत्रः सुमेधोऽभूद्धर्माचारपरायणः ।। ४ ।।
अन्यः सारस्वताख्यश्च विप्रोऽभूत्तस्य पत्तने ।
तस्य पुत्रः सोमवाँश्चाऽभवद्धर्मपरायणः ।। ५ ।।
सुमेधः सोमवाँश्चोभौ मित्रवर्यौ समाकृती ।
सर्वविद्याकुशलिनौ समविद्यौ बभूवतुः ।। ६ ।।
तावेकदा स्वतनयौ द्विजाववोचतां हितम् ।
हे पुत्रकौ युवां बाल्ये कृतविद्यौ सुवर्चसौ ।। ७ ।।
वैवाहिकोऽयं समयो वर्तते युवयोः समम् ।
इमं विदर्भराजानं प्रसाद्य प्राप्य वै धनम् ।। ८ ।।
श्रेष्ठकुलजकन्याभ्यां कृतोद्वाहौ भविष्यथः ।
एवमुक्तौ सुतौ गत्वा समतोषयतां नृपम् ।। ९ ।।
धनार्थमर्थितो राजा प्राह तौ दैवनोदितः ।
मम पुत्री निषधेशपत्नी सीमन्तिनी सती ।। 1.449.१ ०।।
सोमवारे पूजयित्वा श्रीपतिं पार्वतीपतिम् ।
पत्नीयुक्तान् द्विजान् वेदविदो धनं ददात्यलम् ।। ११ ।।
अतोऽत्र युवयोरेको नारीविभ्रमवेषधृक् ।
एकस्तस्याः पतिश्चेति जायेथां विप्रदम्पती ।। १२।।
गत्वा तत्र धनं लब्ध्वा पुनर्यातं ममान्तिकम् ।
यदि न्यूनं भवेच्चेत् तद् दास्येऽहं त्वधिकं धनम् ।। १ ३।।
इत्युक्तौ प्राहतुः राजन् कर्तुं तज्जायते भयम् ।
देवतासु गुरौ पित्रोः सिद्धे योगिनि भूभृति ।।१४।।
कौटिल्यमाचरन् सद्यो दण्डपात्रं विनश्यति ।
गोप्यमानं तु नौ छद्म कदाचित् ख्यातिमेष्यति ।। १५।।
तदार्जिता गुणाः सर्वे नशिश्यन्ति क्षणान्नृप ।
पापं निन्दा भयं वैरं तिष्ठन्ति छद्मनि ध्रुवम् ।। १६।।
अतो धूर्तजनाचारं नाश्रयावः कदाचन ।
श्रुत्वैतन्नृपतिः प्राह देवतापितृयोगिनाम् ।। १७।।
नोल्लंघ्यं शासनं पाल्यं सद्गुरुसिद्धभूभृताम् ।
शुभाशुभं तदादिष्टं कर्तव्यं श्रेयसे भवेत् ।। १८।।
इत्युक्तौ तौ तथेत्युक्त्वा सामवान् रूपवाँस्तदा ।
स्त्रीवेषं शाटिकां भूषा अञ्जनं केशसाधनम् ।। १ ९।।
अंगरागं स्पृहणीयं दधार युवती यथा ।
एवं तौ दम्पती भूत्वा जग्मतुस्तां सीमन्तिनीम् ।।1.449.२०।।
सा राज्ञी त्वर्चयांचक्रे पत्नीयुक्तान् यथाव्रतम् ।
तौ तु विप्रसुतौ दृष्ट्वा प्राप्तौ कृतकदम्पती ।।२ १ ।।
पातिव्रत्येन धर्मेण तथा कृष्णस्य सेवया ।
हरभक्त्या विवेदैनं कुमारं कन्यकाकृतम् ।।।२२।।
ज्ञात्वा किंचिद् विहस्याऽथ पित्रा संप्रेषिताविति ।
मेने गौरीमहेशौ च लक्ष्मीनारायणाविति ।।२३।।
शिवकृष्णात्मकान् विप्रान् गौरीश्रीरूपयोषितः ।
आवाह्य गन्धमाल्याद्यैर्धूपदीपैरपूजयत् ।।२४।।
पायसं मोदकान् मिष्टपोलिकाः शष्कुलीस्तथा ।
शाकानि भक्ष्यभोज्यानि विप्रानभोजयत् सती ।।२५।।
ताम्बूलं दक्षिणा धेनूर्हिरण्यं रत्नलक्षकम् ।
प्रत्येकं वस्त्रबाहुल्यं दत्वा नत्वा व्यसर्जयत् ।।२६ ।।
सीमन्तिन्या शिवां लक्ष्मीं त्वावाह्य सामवान् द्विजः ।
पूजितः कल्पिता कन्या सत्यं कन्या व्यजायत ।।२७।।
नारीचिह्नानि सर्वाणि पर्यवर्तन्त वर्ष्मणि ।
तौ तु धनं यथेष्टं वै प्राप्य ययतुः स्वं गृहम् ।।२८।।
सा तु विस्मृतपुंभावा मित्रे जातस्पृहाऽभवत् ।
कराभ्यां विप्रमाबद्ध्य कन्दर्पविवशाऽब्रवीत् ।।२९।।
अयि कान्त क्षणं तिष्ठ वने रम्ये सुपुष्पिते ।
त्वया विहर्तुमिच्छामि प्रिया तेऽस्मि गृहाण माम् ।।1.449.३ ०।।
परिष्वजस्व मां कान्तां पाययस्व नवाऽधरम् ।
नाऽहं गन्तुं समर्थाऽस्मि स्मराऽऽवेगप्रपीडिता ।।३ १ ।।
इत्थमश्रुतपूर्वां तां दृष्ट्वा निशम्य शंकितः ।
पप्रच्छ स्तनयुक्तां तां किमेवं भाषसे सखे ।।३२।।
नर्मवाक्यं वृथा नैवं वक्तव्यं कृत्रिमाऽबले ।
कन्यावेषं परित्यज्य कुमारवेषमावह ।।३३।।
इत्याज्ञप्ता प्रसन्ना सा वस्त्राणि दूरतोऽकरोत् ।
तावत् सा सत्यधम्मिला जघनस्तनशोभिनी ।।३४।।
योनियुक्ता लिंगहीना दृष्टा सुमेधसा प्रिया ।
सा तु जग्राह विप्रं तं सुरताय नवप्रिया ।।३५।।
सुमेधाः प्राह तां कन्यां शाटिकादीनि धारय ।
न प्रशस्तं विदुषोर्वैं जारधर्मनिषेवणम् ।।३६।।
वञ्चयित्वाऽऽत्मपितरौ धूर्तराजाऽनुशासनात् ।
अयं स्वयंकृतोऽनर्थ आवाभ्यां यद्विचेष्टितम् ।।३७।।
यस्त्वं विप्रात्मजो बालः प्राप्तः स्त्रीत्वं विगर्हितम् ।
कामभोगो ह्यनर्थाय कुमारयोर्विषं फलम् ।।३८।।
एवं विवेकमाश्रित्य तूष्णीमेहि स्वयं गृहम् ।
देवद्विजप्रसादेन स्त्रीत्वं नाशं समेष्यति ।।३९।।
अथवा दैवयोगेन स्त्रीत्वमेव भवेत्तव ।
पित्रा दत्ता मया साकं रंस्यसे वरवर्णिनि ।।1.449.४० ।।
इत्युक्तापि कामदावानलव्याप्ता वधूस्तदा ।
बलेन तं समालिंग्य चुचुम्बाऽधरपल्लवम् ।।४१ ।।
धर्षितोऽपि तया धीरः सुमेधाः स्पर्शमात्रतः ।
शान्तिं तस्याश्चकारैव बहिः स्पर्शः प्रदाय च ।।४२।।
अक्षता कन्यका तृप्ता कामदाहो निववृते ।
शुद्धिं कृत्वा जलाद्यैश्च ययतुर्नृपमन्दिरम् ।।४३।।
राजा ज्ञात्वाऽथ तद्वृत्तमवाप विस्मयं ततः ।
आहूय पितरौ विप्रौ जगाद स्वविचेष्टितम् ।।४४।।
श्रुत्वा सारस्वतः प्राह राजानं धूर्तचेष्टितम् ।
अरे राजन् मम पुत्रस्तवाऽऽज्ञया तु कान्यकम् ।।४५ ।।
वेषं धृत्वाऽभवत् कन्या स्त्रीत्वं भुंक्ते जुगुप्सितम् ।
अद्य ममैकपुत्रस्य वंशो नष्टस्तथा मम ।।४६ ।।
निराशाः पितरः सर्वे लुप्तपिण्डोदकक्रियाः ।
वदाऽत्र किं मया कार्यं दण्ड्योऽस्त्यद्य भवान् खलु ।।४७।।
राजा सर्वान् समाहूय महर्षीनाह दीनवत् ।
अस्याः पुंस्त्वं यथा स्यात् कुर्वन्तु मयि प्रसादनम् ।।४८।।
तेऽब्रुवन् श्रीपतेः सतीपतेर्लभ्यं प्रसादनम् ।
तद्भक्तानां प्रसादश्च लभ्यस्तेनेष्टमाप्नुयात् ।।४९ ।।
अथ राजा भरद्वाजं समाहूय महामुनिम् ।
पूजनं कारयामास श्रीपतेः पार्वतीपतेः ।।1.449.५ ०।।
विप्रा राजा तथा कन्याश्चैते सर्वे ह्युपोषिताः ।
त्रिरात्रं पूजनं चक्रुः षोडशादिसुवस्तुभिः ।।५ १ ।।
अखण्डं भजनं चक्रुर्महोत्सवमकारयन् ।
जय लक्ष्मि जय चाम्बे श्रीपते पार्वतीपते ।।५२।।
इति तद्भजनं चाखण्डितं बाद्यसमन्वितम् ।
चक्रुस्तेन सुसन्तुष्टौ श्रीपतिः पार्वतीपतिः ।।५३।।
आययतुर्वाहनस्थौ पत्नी युक्तौ कृपालयौ ।
तौ चाहतुश्च राजानं किं ते ब्रूहि समीहितम् ।।५४।।
सोऽप्याह पुंस्त्वमेतस्य दीयेतां कृपया मयि ।
तावाहतुस्तदा राजन्नस्मद्भक्तैस्तु यत् कृतम् ।।५५।।
शक्यते नाऽन्यथाकर्तुं वर्षायुतशतैरपि ।
सीमन्तिनी महाभक्ता सती कृष्णपतिव्रता ।।५६।।।
नैकसिद्धियुता देवी यमुनाजलपायिनी ।
स्वभर्तुर्जीवरक्षायाः कर्त्री योगसमाधिना ।।५७।।
यथा संकल्पयेत् साध्वी सती कृष्णापतिव्रता ।
तथा तत्कल्पनारूपं वस्तु परिणतं भवेत् ।।५८।।
कन्यावेषोऽभवद् बालस्तयाऽर्चिता तु कन्यका ।
कन्येयं पार्वती लक्ष्मीरिति संकल्प्य पूजिता ।।५९।।
सुमेधसः सुपत्नीयमिति संकल्प्य सादरम् ।
सुमेधाश्च पतिरस्याः सोमवत्याश्च कल्पितः ।।1.449.६ ०।।
तत् तथैव हि सञ्जातं योगिनां सबला गतिः ।
नान्यथा क्रियते कैश्चिदिति राजन् निबोध वै ।।६ १ ।।
वयं भक्तवशाः सर्वे भक्तकृतं मतं हि नः ।
गच्छन्तु च भवन्तो वै सीमन्तिन्याः प्रपन्नताम् ।।६२।।
यदि कृपायुता राज्ञी युष्मदिष्टं विधास्यति ।
कन्येयं कृपया तस्याः पुनः पुंस्त्वमवाप्स्यति ।।६ ३ ।।
इत्युक्ता विमनसस्ते ययुः सीमन्तिनीगृहम् ।
पुंस्त्वार्थं प्रार्थयामासुः प्राह सीमन्तिनी तु तान् ।।६४।।
कृतं कर्मफलं भुंक्ते मानवो भुवि सर्वथा ।
अस्या मात्रा व्रतं पुण्यकाख्यं कृतं पुरा यदा ।।६ ५।।
पुत्रेच्छया कृतं चापि वर्षान्ते दक्षिणाविधौ ।
पुत्री स्यान्मे तदा श्रेष्ठमिति वै कल्पितं फले ।।६६ ।।
एवं द्वेधा व्रतपूर्णाहूतौ संकल्पितं यतः ।
ततः पुत्रः समुत्पन्नः स एव यौवनं गते ।।६७।।
कन्यारूपा प्रजाताऽस्ति व्रतेन कर्मणापि च ।
तस्मान्नेयं पुनः पुंस्त्वं गमिष्यति कदाचन ।।६८।।
किन्तु पुनस्तत्स्वरूपस्तत्पित्रोः सुसुतः शुभः ।
सर्वलक्षणसम्पन्नो दीर्घजीवी च वैष्णवः ।।६९।।
ममेष्टदेवसंकल्पाद् भविष्यति हि निश्चितः ।
एषा सामवती नाम सुता तस्य द्विजन्मनः ।।1.449.७०।।
भूत्वा सुमेधसः पत्नी कामभोगेन युज्यताम् ।
यत्संकल्पेन यज्जातं प्राग्भवे चात्र वा भवे ।।७१ ।।

फलं संस्कारजन्यं तत् समापतति कालतः ।
अस्मिन्नेव भवे त्वेषा नारीवेषधरा सती ।।७२।।
पतिं मत्वा सुमेधं तं वामपार्श्वे स्थिताऽभवत् ।
पतिव्रताया हस्तेन पूजनं सर्वसाक्षिकम् ।।७३।।
सञ्जातं देवतुल्येन राज्ञा समनुमोदितम् ।
सत्सर्वं तीव्रसंवेगं कर्म त्वस्याः फलात्मकम् ।।७४।।
पाकं प्राप्तं शक्यते नाऽन्यथाकर्तुं तु केनचित् ।
कण्वस्य वचनात् कृष्णकुटुम्बस्य विनाशकम् ।।७५।।
साम्बगर्भसमाबद्धं मूशलं सुव्यजायत ।
तस्माच्छोको न कर्तव्यः प्राप्ते फले तु कर्मणः ।।७६।।
कन्यात्वेऽपि परौ लाभः पुत्रस्ते स्याद् द्वितीयकः ।
एवं मत्वा सुखं यान्तु सर्वे सन्तु निरामयाः ।।७७।।
इत्युक्त्वा सा सती पुत्रीं सीमन्तिनी शुभाशिषा ।
योजयामास बहुधा ययुः स्वं स्वं गृहं तु ते ।।७८।।
सारस्वतो द्विजः पुत्रीं ददौ तस्मै सुमेधसे ।
अलभद् द्वितीयं पुत्रं सुताभूतसुतोत्तमम् ।।७९।।
एवं सतीप्रतापेन त्वतर्क्यमपि जायते ।
तत्रापि कृष्णभक्ताया इष्टं द्रुतं विवर्तते ।।1.449.८०।।
एतत्ते कथितं लक्ष्मि सर्वं तपःप्रभावनम् ।
पठनाच्छ्रवणात्त्वस्य यथेष्टं लभते जनः ।।८१।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सारस्वतविप्रस्य सामवान्नामकसुतस्य विवाहव्ययार्थं विदर्भराजतो धनेच्छया गतस्य कन्यावेषेण भिक्षुकस्य सामवतः पतिव्रतया सीमन्तिन्या कन्यां मत्वा पूजितस्य सामवतीकन्यात्वं तत्पितुः पुत्रान्तरप्राप्तिश्चेत्यादिनिरूपणनामैकोनपञ्चाशदधिकचतुश्शततमोऽध्यायः ।।४४९।।