लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४८
[[लेखकः :|]]
अध्यायः ४४९ →

श्रीनारायण उवाच-
लक्ष्मि! मया सदाशिवस्वरूपं संधृतं पुरा ।
त्यागवैराग्यरूपं तत् सर्वसंहारकारणम् ।। १ ।।
मम शिवस्य रूपस्य सोमवारेऽर्चकः पुरा ।
आर्यावर्ते नृपश्चित्रवर्माऽऽसीद्धार्मिकः परः ।। रे ।।
सुगोप्ता धर्मसेतूनां यष्टा यज्ञादिकर्मणाम् ।
पुण्यानामाश्रयो दाता भक्तः शिवमुकुन्दयोः ।। ३ ।।
बहुपुत्रोत्तरं तस्य पत्न्यां कन्या व्यजायत ।
प्राग्जन्मनां तु कर्माणि जातमात्रा प्रवक्ति सा ।। ४ ।।
जातिस्मरा सती साध्वी कृष्णधर्मपरायणा ।
सदा श्रीमत्कृष्णनारायणध्यानरता शुचिः ।। ५ ।।
पातिव्रत्यपरा कृष्णे नान्यं स्मरति नित्यदा ।
एकदा भूभृता कृष्णसाधवो भोजिता गृहे ।। ६ ।।
विप्राः सहस्रशो बाला नैष्ठिका बालिकास्तथा ।
ज्योतिर्विदो भाग्यविदो रेखाविदश्च योगिनः ।। ७ ।।
तेषां ताम्बूलदानार्थं कन्या सेवापरा ह्यभूत् ।
दैवज्ञास्तां विलोक्यैव भिन्नं भिन्नं फलं जगुः ।। ८ ।।
एकोऽब्रवीत् तव कन्या नाम्ना सीमन्तिनी नृप ।
पार्वतीव सुमांगल्यवती राधेव रूपिणी ।। ९ ।।
शारदेव कलाभिज्ञा लक्ष्मीरिव महागुणा ।
सुप्रजा देवमातेव सती कृष्णे धृतव्रता ।। 1.448.१ ०।।
माणिक्येव हरौ लग्ना प्रभेव कृष्णमाश्रिता ।
दशवर्षसहस्राणि सह भर्त्रा प्रमोदिनी ।। ११ ।।
अष्टतनयमातेयं भविष्यति सुखान्विता ।
अथाऽन्योऽपि द्विजः प्राह रेखाभिर्निर्भयस्तदा ।। १ २।।
एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति ।
अथ कायाकल्परूपं पतिं पुनरवाप्स्यति ।। १ ३।।
राजा वज्रसमं वाक्यं श्रुत्वा शुशोच सा त्वपि ।
किन्तु दैवकृतं सर्वं मत्वा तत्याज शोचनम् ।। १४।।
बाला सीमन्तिनीनाम्नी भाविवैधव्यशंकिता ।
याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत ।। १५।।
मातस्त्वं ब्रह्मवेदित्री कृष्णात्मार्पणवैष्णवी ।
ज्ञानाधिशेवधिश्रेणी सर्वापन्नाशिनी ह्यसि ।।१६।।
मातस्त्वच्चरणाम्भोजं प्रपन्नाऽस्मि भयार्दिता ।
वैधव्यं ब्राह्मणाश्चाहुर्मेऽत्र किं भावि तद् वद ।। १७।।
पुनस्तस्यैव पत्युश्च प्राप्तिर्मेऽस्तीत्यप्यूचिरे ।
अतः सौभाग्यवृद्ध्यर्थं सुकृतं वद मेऽनघे! ।। १८।।
इत्युक्ता तां तु मैत्रेयी प्राह श्रीपार्वतीव्रतम् ।
सोमवारे पूजयस्व शिवं गौरीं श्रियाः पतिम् ।। १ ९।।
उपोषिता च सुस्नाता विरजोऽम्बरधारिणी ।
कृष्णपातिव्रत्यपरा प्रातः पूजां प्रकल्पय ।।1.448.२०।।
पापक्षयोऽभिषेकेण साम्राज्यं पादपूजनात् ।
सौभाग्यमखिलं सौख्यं गन्धमाल्याऽक्षताऽर्पणात् ।।२१ ।।
धूपदानेन सौगन्ध्यं कान्तिर्दीपप्रदानतः ।
नैवेद्यैस्तु महाभोगा लक्ष्मीस्ताम्बूलदानतः ।।२२।।
धर्मार्थकाममोक्षाश्च पुष्पांजलिनमोऽर्पणात् ।
अष्टैश्वर्याणि सिद्ध्याद्याः श्रीकृष्णात्मसमर्पणात् ।।२३।।
होमेन सर्वकामाश्च सफलाः संभवन्ति हि ।
सर्वे देवाः प्रतुष्यन्ति विप्राणां भोजनात् सताम् ।।।२४।।
इत्थमाराधय कृष्णयुतां शिवशिवां सुते ।
घोराद्धोरं भयं पुत्रि! तरिष्यसि न संशयः ।।२५।।
इत्युक्ता कन्यका तां मैत्रेयीं सम्पूज्य वस्तुभिः ।
गृहं गत्वा चकारैतद् व्रतं सौभाग्यवर्धनम् ।।२६ ।।
सा तेनाऽभूत् सिद्धियुक्ता पार्वतीश्रीसमा सती ।
अथ कन्यापिता चित्रवर्मा चन्द्रांगदाय ताम् ।।२७।।
ददौ नलस्य पुत्राय इन्द्रसेनसुताय वै ।
तदुद्वाहे महीपानां समवायो महानभूत् ।।२८।।
महोत्सवे सुनिर्वृत्ते जामाता श्वशुरगृहे ।
उवास कतिचिन्मासान् कन्यायाः स्नेहकारणात् ।।२९।।
एकदा यमुनां तर्तुं तरीमारुह्य बालकाः ।
ययुर्मध्ये दैवयोगादावर्त्ताभिहता तरी ।।1.448.३०।।
ममज्जुः सलिले ते तु मम्रिरे सुकुमारकाः ।
नाऽदृश्यन्त कुमारास्ते मज्जिता हि महाजले ।।३ १ ।।
हाहाकारो महानासीद् राजा राज्ञी प्रजास्तथा ।
सीमन्तिनी तथा सख्यो नायकाश्च पुरोहिताः ।।३२।।
विलेपुर्मन्त्रिणश्चेन्द्रसेनोऽपि विललाप ह ।
यमुनाया महापूरे शवा अपि लयं गताः ।।३३।।
चित्रवर्मा प्रकारयामासौर्ध्वदैहिकं विधिम् ।
सा तु सीमन्तिनी साध्वी योगिनी योगिवत्तदा ।।३४।।
विदधे संयमं सौधे स्थित्वा पत्यर्थमेव सा ।
समाधौ संगता तूर्णं जलान्तरे तले सती ।।३५।।
बहुरूपधरा साध्वी बहुसामर्थ्ययोगिनी ।
यमुनां तां तदा पीतवती स्वांजलिभिः सती ।।३६।।
शुष्काऽभवत्तदा त्वेषा यमुना क्षेत्रसदृशी ।
मृताः शवा अदृश्यन्त सा निनाय तटं तु तान् ।।३७।।
ब्रह्मरन्ध्रगतान् याँश्च यमलोकगताँस्तथा ।
आजुहाव मुहुः सत्यपरास्तेऽत्र समाययुः ।।३८।।
जीविता एव ये सर्वे पतितत्र भू दृश्यते ।
चन्द्रांगदः पन्नगीभिः कन्याभिर्दृष्ट एव यत् ।।३९।।
सकामाभिः सुजाताभिः पातालं प्रापितोऽभवत् ।
तक्षकस्य पुरं नीतश्चेन्द्रस्वर्गाऽधिकं शुभम् ।।1.448.४०।।
रूपयौवनमाधुर्यविलासगतिशोभिना ।
नागकन्यासहस्रेण समन्तात्परिवारितः ।।४१ ।।
तक्षकस्तं राजपुत्रं ददर्श कन्यकायुतम्।
पप्रच्छ सर्ववृत्तान्तं कन्यास्त्वाहुर्यथातथम् ।।४२।।
अथ चन्द्रांगदश्चापि शिवकृष्णेति संजपन् ।
तक्षकेण श्रुतो दृष्टः प्रेष्णोक्तश्च सुमानतः ।।४३ ।।
परितुष्टोऽस्मि भद्रं स्तात् तव भक्तियुतस्य वै ।
बालोऽपि यं शिवं कृष्णं जपस्येव निरन्तरम् ।।४४।।
एष रत्नमयो लोक एताश्चारुदृशोऽबलाः ।
एते कल्पद्रुमाः सर्वे वाप्योऽमृतरसांभसः ।।४५।।
यथेष्टं- विहरेतेषु भुङ्क्ष्व भोगान् यथोचितान् ।
इति श्रुत्वा राजपुत्रः प्रोवाचाऽहं विवाहितः ।।४६ ।।
पतिव्रता मम कान्ता सती साध्वी शिवव्रता ।
कृष्णपातिव्रत्यपरा मत्वा मां तु मृतं ततः ।।४७।।
वैधव्यं सर्वचिह्नैस्तु ग्रहीष्यति ततोऽथवा ।
अग्नौ प्रवेक्ष्यति साध्वी सती सा विद्यते यतः ।।४८।।
अतो मया बहुतिथं नात्र स्थेयं कथञ्चन ।
तमेव लोकं कृपया मां प्रापयितुमर्हसि ।।४९ ।।
इत्युक्तवन्तं चन्द्रांगं तक्षको नागकन्यकाः ।
भवनानि सुभोग्यानि वाहनान्यमृतानि च ।।1.448.५ ०।।
ददौ कन्याप्रतुष्ट्यर्थं रमणार्थं समस्तकम् ।
अथाऽत्र तत्सती भार्याऽनवलोक्य प्रियं पतिम् ।।५ १ ।।
समुद्रं त्वाह्वयामास सत्येन च व्रतेन वै ।
यद्यहं श्रीकृष्णनारायणभक्ताऽस्मि सर्वथा ।।५२।।
यद्यहं स्वपतिप्राणा पतिव्रताऽस्मि सर्वथा ।
यद्यहं च शिवायुक्तशिवतुष्ट्यै व्रतान्विता ।।५३।।
तदा समुद्रस्त्वत्रैव समायातु समीपतः ।
इत्युक्त्वा स्वहस्तगतं जलं मुमोच सा भुवि ।।५४।।
तावत् समुद्रः सभयः सुमूर्तो वै समाययौ ।
ननाम तु सतीं रत्नप्रदानैः समतोषयत् ।।५५।।
उवाचैनां मया नैव पतिस्तेऽपहृतोऽस्ति वै ।
पाताले तक्षककन्या निन्युस्ते सुन्दरं वरम् ।।५६।।
आगमिष्यति शीघ्रं सः तोषयित्वा सुपन्नगीः ।
एवमुक्त्वा ययौ त्वब्धिः सीमन्तिनी सुहर्षिता ।।५७।।
किन्त्वज्ञैः राजमुख्यैः सा पुरोहितादिभिस्तथा ।
वैधव्यचिह्नयुक्तैव तत्र प्रसह्य कारिता ।।।५८।।
अथ कन्यास्तोषयित्वा रथं रत्नानि भूरिशः ।
नागकन्याः शुभाः सर्वाऽऽभूषावस्त्रादिशोभिताः ।।५९।।
तक्षकेनाऽर्पिता नीत्वा यमुनायां समाययौ ।
सती सीमन्तिनी स्वप्ने त्वागतं यमुनाजले ।।1.448.६०।।
दृष्ट्वोत्थाय ययौ पूजापात्रं नीत्वा सखीयुता ।
सा ददर्श नदीतीरे विहरन्तं पतिं प्रियम् ।।६१ ।।
दिव्यरत्नसमाकीर्णं दिव्यमालावतंसकम् ।
दिव्यगन्धेन देहेनाऽपूर्वाकृतिं समुज्ज्वलम् ।।६२।।
विलोक्य जडवद् राज्ञीं तस्थौ तन्न्यस्तलोचना ।
तां च चन्द्रांगदो वीक्ष्य मुमोह क्षणमेव तु ।।६३।।
निर्मुक्तकण्ठाभरणां कण्ठसूत्रविवर्जिताम् ।
असंयोजितधम्मिलामंगरागविवर्जिताम् ।।६४।।
किञ्चिद्वैधव्यधर्माक्तां तामाहूयाऽब्रवीदिदम् ।
किमिदं दृश्यते साध्वि! शोकस्याऽऽवेदकं तव ।।६५।।
इति स्नेहेन संपृष्टा नाऽब्रवीदश्रुलोचना ।
सखी प्राह प्रसह्यैनां वैधव्यं कारितं जनैः ।।६६ ।।
विना पतिं हि क्षन्तव्यमनाथायास्तु सा गतिः ।
सोमवारव्रतं नैव त्यक्तं न च पतिव्रतम् ।।६७।।
कृष्णसेवा न वा त्यक्ता सर्वं तथैव विद्यते ।
मुनिपत्नीदर्शितस्य व्रतस्य फलमेव तु ।।६८।।
प्राप्तं ते प्रियया राजन्! गृहाणैनामनिन्दिताम् ।
इत्युक्तः स निजां पत्नीं चक्रे वक्षसि पीडिताम् ।।६ ९।।
अथ पौरजनास्तत्र दृष्ट्वाऽऽगतं नृपात्मजम् ।
गत्वा राज्ञे द्रुतं प्रोचुः राजा राज्ञी च नागराः ।।1.448.७० ।।
प्रत्युद्गम्य परिष्वज्य तमानिन्युर्निजालयम् ।
राजपुत्रः श्वशुरौ तु ववन्दे बाष्पमुत्सृजन् ।।७१ ।।
प्रजास्तं मानयामासुर्वर्धयामासुराशिषा ।
तेषां मध्ये समासीनः स्ववृत्तान्तमशेषतः ।।७२।।
राज्ञे निवेदयामास तक्षकस्य सुमित्रताम् ।
दत्तं रत्नादिकं सर्वं दिव्यं राज्ञे न्यवेदयत् ।।७३।।
सौमांगल्यमयी वार्ता पत्नीराष्ट्रेऽभवत्तदा ।
तथा स्वस्य पितुः राष्ट्रे मानवैः कथिता कथा ।।७४।।
पितरौ च प्रजाः सर्वा निषधस्याऽतिहर्षिताः ।
तदुत्सवो महानासीद् राष्ट्रग्रामपुरादिषु ।।७५।।
सीमन्तिनी पतिं प्राप्य त्यक्तवैधव्यलक्षणा ।
वह्निं प्रदक्षिणीकृत्य सौभाग्यमंगलाऽभवत् ।।७६।।
चन्द्रांगदः स्वहस्तेन सिन्दूरादि समार्पयत् ।
बिन्दुं परस्परं तौ तु चक्राते साक्षतं शुभम् ।।७७।।
मालां परस्परं तौ चार्पयामासतुरैश्वरीम् ।
ताम्बूलकं ददतुश्च दानानि विविधान्यपि ।।७८।।
अथाऽयं श्वशुरौ नत्वा पत्नीयुतो निजं गृहम् ।
निषधं संययौ पित्रोः पादयोरपतत् ततः ।।७९।।
दशवर्षसहस्राणि सीमन्तिन्या स्वभार्यया ।
सार्धं चन्द्रांगदो राजा बुभुजे विषयान् बहून् ।।1.448.८ ०।।
प्रासूत तनयानष्टौ कन्यामेकां वराननाम् ।
रेमे सीमन्तिनी भर्त्रा ध्यायमाना हरिं हरम् ।।८ १ ।।
दिने दिने तु सौभाग्यं प्राप चैवेन्दुवासरात् ।
एवं लक्ष्मि सदा पातिव्रत्यं विजयते भुवि ।।८२।।
स्वर्गे सत्ये ब्रह्मलोके पाताले प्रमदाजने ।
पातिव्रत्यं रक्षितं चेत् सर्वसिद्धिकरं भवेत् ।।८३ ।।
पतिं कृष्णस्वरूपं तु मत्वा ध्यात्वा सदा सती ।
कल्पवृक्षसमं धर्मं पातिव्रत्यं समाचरेत् ।।८४।।
पराधीनाऽबलानां वै कामप्रतिमयोषिताम् ।
देहाः पापाश्रयाः सन्ति ततोऽप्यधिकपुण्यदाः ।।८५।।
पापं तु कामातिशयः, पुण्यं सेवा पदे पदे ।
पतिसेवा कृष्णसेवा व्रतदानादिसेवनम् ।।८६ ।।
अतिथेश्च सतां सेवा गवां सेवा पदे पदे ।
निष्पापानामपत्यानां सेवा ब्रह्मस्वरूपिणाम् ।।८७।।
गृहसंरक्षणं सेवा वह्नावन्नादिपाचनम् ।
वैश्वदेवात्मिका सेवा ह्यनाथश्वादिभोजनम् ।।८८।।
अन्नसत्रात्मिका सेवा बालस्य कलभाषणम् ।
विद्यादानात्मिका सेवा सहनं साधुभूषणम् ।।८९।।
पत्यधीना निरीहा च सद्गणादिसुशोभनम् ।
इत्येव सेवया पुण्यमनन्तकं स्त्रियाः सदा ।।1.448.९० ।।
भुक्तिमुक्तिप्रदं तस्मात् पातिव्रत्यं समाचरेत् ।
पठनाच्छ्रवणाच्चास्य स्वर्गो मोक्षः करे स्थितौ ।।९१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्रांगदस्य कृष्णपतिव्रतया सीमन्तिनीनाम्न्या पत्न्या पातिव्रत्यबलचमत्कारैर्यमुनामग्नः पतिः पाताले नागकन्याभिर्नीतोऽपि पुनः प्राप्त इत्यादिनिरूपणनामाऽष्टचत्वारिंशदधिकचतुश्शततमोऽध्यायः ।। ४४८ ।।