लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४७
[[लेखकः :|]]
अध्यायः ४४८ →

श्रीनारायण उवाच-
गुरवो निर्मलाः शान्ताः साधवो हितकारिणः ।
एभिः कारुण्यतो दत्तो नाममन्त्रः प्रसिद्ध्यति ।। १ ।।
पातिव्रत्यं परो धर्मः कृष्णनाम्ना दृढीकृतः ।
सिद्धीरैश्वर्यसर्वार्थचमत्कारप्रदो भवेत् ।। २ ।।
शृणु लक्ष्मि! कथां राजवत्या वैष्णविकास्त्रियाः ।
यथा सिद्धिस्तया प्राप्ता दिव्या भक्त्या च सेवया ।। ३ ।।
आसीद् राजा मथुरायां दाशार्हो नाम धैर्यवान् ।
वदान्यश्चाऽप्रधृष्यश्च नयवान् शास्त्रकोविदः ।। ४ ।।
स वै कलावती काशीराजकन्यां पतिव्रताम् ।
उपयेमे सतीं साध्वीं वैष्णवीं धर्मसंयुताम् ।। ५ ।।
कलावती सदाऽऽबाल्यात् कृष्णं भेजे सनातनम् ।
कृष्णनारायणस्वामिन् मामुद्धर भवार्णवात् ।। ६ ।।
कृष्णनारायणविष्णो श्रीपते कमलापते ।
इत्येवं प्रार्थनां चक्रे नित्यं भक्तिपरायणा ।। ७ ।।
पतिः कृष्णः पतिर्नारायणः श्रीराधिकापतिः ।
अहं राधा ह्यहं लक्ष्मीरहं श्रीरनपायिनी ।। ८ ।।
इत्यैकात्म्यं हरौ चात्मन्यवाप्ता योगदर्शिनी ।
पत्यौ कृष्णं दिव्यदृष्ट्या पश्यत्येव दिवानिशम् ।। ९ ।।
एवं स्थितिं समापन्नां युवतीं योगिनीं सतीम् ।
कृतोद्वाहस्तु दाशार्हः प्रापयित्वा स्वमन्दिरम् ।। 1.447.१ ०।।
शृंगारशयने पत्नीं संगमाय समाह्वयत् ।
सा चाऽऽगत्यनमश्चक्रे शीघ्रं भयाद् विनिर्गता ।। ११ ।।
युवतीषु च वृद्धासु मध्ये शिष्ये सुखेन सा ।
राजाऽयं चिन्तयामास किमत्र कारणं भवेत् ।। १२ ।।
युवत्यपि न सा कान्तं युवानं मां समिच्छति ।
यद्वा तद्वा भवत्वत्र शनैर्वै ज्ञास्यते ऋतम् ।। १३।।
क्षमां कृत्वा च दाशार्हः शान्तो निन्ये निशां तु ताम् ।
एवं नित्यं स दाशार्हः समाह्वयति कामुकः ।।१४।।
सा त्वागत्य नमस्कृत्य निनिर्याति तु सत्वरम् ।
कृष्णनारायणविष्णो स्वामिँस्तेऽस्तु नमो मुहुः ।। १५।।
इत्युच्चार्य विनिर्याति योषित्सु प्रतितिष्ठति ।
नैकला तु क्वचित्तत्र पतिव्रता सा तिष्ठति ।। १६।।
नैकान्तं रोचते तस्यै राजा त्वेकान्तमिच्छति ।
रत्यर्थं युवती राज्ञा बहुवारं निवेदिता ।। १७।।
ततः स्वस्या मनश्चक्रे दृढं निष्कामवर्तने ।
सा स्वभर्त्रा समाहूता बहुशः प्रार्थिता सती ।। १८।।
न बबन्ध मनस्तस्मिन्न चागच्छत्तदन्तिकम् ।
संगमाय यदाऽऽहूता नाऽऽगता सा विवाहिता ।। १९।।
बलादाहर्तुकामस्तामुदतिष्ठन्महीपतिः ।
तदा सा प्राह राजानं मा मां स्पृश महीपते ।।1.447.२०।।
मा साहसं मयि कार्षीर्व्रतेऽस्मि हेतुगर्भिते ।
दर्शयिष्ये तु तं हेतुं येनाऽहं व्रतमास्थिता ।।२१ ।।
त्वं च धर्मं विजानासि गूढाद्गूढतरं नृप ।
भुक्तस्य परिणामश्चेदप्रियः कष्टवर्धनः ।।२२।।
दम्पत्योः प्रीतियोगेन संगमः सुखवर्धनः ।
प्रीतिर्यदा मे जायेत तदा संगोऽस्तु ते मयि ।।२३।।
का प्रीतिः किं सुखं पुंसां बलाद् भोगेन योषिताम् ।
अप्रीतां रोगिणीं कन्यामन्तर्वत्नीं धृतव्रताम् ।।२४।।
रजस्वलामकामां च न काम्येत बलात्पुमान् ।
प्रीणनं लालनं पुष्टिं रञ्जनं मार्दवं दयाम् ।।२५।।
आकर्षणं मनऐक्य श्रेयोभावं च भावनाम् ।
कृत्वा वधूमुपगच्छेद् युवतीं प्रेमवान् पतिः ।।२६।।।
तत्रापि धार्मिकः स्वामी व्यर्थं भोगं न चाचरेत् ।
भ्रूणहत्यात्मकं पापं व्यर्थबीजस्य मेहने ।।२७।।
नार्यामृतु समालक्ष्य भोगेन बीजमर्पयेत् ।
व्यर्थं कामाऽऽग्रहं राजन् मा कुर्वत्र वृषं चर ।।।२८ ।।
इत्युक्तोऽपि तया साध्व्या दाशार्हः स्मरवेगवान् ।
बलादाकृष्य युवतीं परिरेभे रिरंसया ।।।९।।
सा च ओं श्रीकृष्णनारायणाय पतये नमः ।
इत्युक्त्वा च पतिं नत्वा कृष्णकृष्णेति चावदत् ।।1.447.३ ०।।
तावत् तस्याः शरीरे वै निगूढोऽग्निर्बभूव ह ।
चक्षुषा दृश्यते यो न दहत्येव तु केवलम् ।।३ १।।
तां स्पृष्टमात्रां सहसा तप्ताऽयःपिण्डसन्निभाम् ।
निर्दहन्तीमिवाऽऽत्मानं तत्याज भयविह्वलः ।।३२।।
राजा विवेद तां देवीं चमत्कारमयीं सतीम् ।
प्राहाऽहो महदाश्चर्यमिदं दृष्टं त्वयि प्रिये ।।३३।।
कथमग्निमयं जातं वपुः कुसुमकोमलम् ।
क्षमस्व साहसं मेऽत्र करिष्ये न पुनस्तथा ।।३४।।
एवं जगाद भीतः सः तमुवाच पतिव्रता ।
राजन् सती धर्मवती ऋताविच्छति संगमम् ।।३५।।
नाऽन्येव कामकारेण क्षुद्रेव विषयार्थिनी ।
प्राग्भवेऽपि ब्रह्मचर्यं मया तथैव पालितम् ।।३६।।
अस्मिन् जन्मन्यपि तथा समीहे व्रतमुत्तमम् ।
अग्निः साक्षान्मम रक्षां करोति धर्मयोषितः ।।३७।।
अकाले स्पृशसि चेन्मां त्वां स भस्मीकरिष्यति ।
पूर्वपालितसौशील्यबलेनैतज्जनौ मम ।।३८।।
दुर्वासा मुनिराट् कृष्णभक्तः परमवैष्णवः ।
दत्तवान् श्रीकृष्णमन्त्रं पावनं मे सुरक्षकम् ।।३९।।
आबाल्यादहमेवैनं श्रीकृष्णाय नमः सदा ।
जपामि सततं चाथ द्वितीयं तु महामनुम् ।।1.447.४०।।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।
षोडशर्णं च तेनाऽहं गुप्तास्म्यनलशालिना ।।४१ ।।
तेन मन्त्रानुभावेन ममांगे कलुषोज्झितम् ।
स्प्रष्टुं न शक्यते पुम्भिः सपापैदैववर्जितैः ।।४२।।
त्वया राजन् सदा दास्यः किंकर्यः कुलटास्तथा ।
गणिकाद्या निषेव्यन्ते मदिराऽऽमिषभोजनाः ।।४३ ।।
तेन पापेन निस्तेजा वर्तसे क्षत्रियोऽपि सन् ।
प्राप्ताया अपि योग्यो न दुष्कृतं किमतः परम् ।।४४।।
विवाहिताऽपि या पत्नी निर्भोक्तुं नैव शक्यते ।
व्यर्थं वै जीवनं तस्य पूर्वपापाद्रिभोगिनः ।।४५।।
न स्नानं क्रियते नित्यं न मन्त्रो जप्यते त्वया ।
नाऽऽराध्यते पतिः कृष्णः कथं मां स्प्रष्टुमर्हति ।।४६।।
पत्नीव्रतं त्वया राजन् कदाचिन्नहि पालितम् ।
तेन पापेन ते राजन् सामर्थ्यं विलयं गतम् ।।४७।।
कामभोगेन किं राजन् सुखं यन्न सह व्रजेत् ।
आत्मना सह नित्यं यत्सुखं तत् समुपार्जयेत् ।।४८।।
योनिलुब्धो योनिजन्म लभते नाऽत्र संशयः ।
कृष्णलुब्धो हरेर्धाम प्राप्नोति नात्र संशयः ।।४९।।
अहं विवाहिता कृष्णधर्मसक्ताऽस्मि सर्वथा ।
न चाऽऽसक्ता कामधर्मे तस्मात् कामं सदा त्यज ।।1.447.५०।।
कामो निरयरूपोऽत्र योनौ लिंगे च तिष्ठति ।
कथं तस्मिंस्तु निरये लुब्धव्यं वै विजानता ।।५१ ।।
योनिकुण्डं सदा भ्रष्टं मूत्रदुर्गन्धसंभृतम् ।
शुद्धः कथं प्रसज्जेत तत्र विट्मात्रके स्थले ।।५२।।
तत्र पक्तास्तत्र यान्ति पुनः पाचनहेतवे ।
अज्ञास्तत्र प्रसह्यैव यान्ति पतनहेतवे ।।५२।।
विज्ञैः कथं नु गन्तव्यं मृत्युकुण्डे पुनः पुनः ।
त्यज लोभं योनिकुण्डे ब्रह्मकुण्डे निमज्ज वै ।।५४।।
आत्मकुण्डं परे कृष्णे समर्पय विमुक्तये ।
बह्व्यो दास्यस्त्वया भुक्ताः सर्वाः समा विलोकिताः ।।५५।।
अपि त्वां बाधते तृष्णा किं पापं स्यादतः परम् ।
जिह्वया भोजनं ग्रस्तं तदान्त्रानलभर्जितम् ।।५६।।
रसात्मकं ह्यधोयातं चोष्णं स्निग्धं जलात्मकम् ।
खर्जनं जायते तेन स्मर्यते मूत्रकुण्डकम् ।।५७।।
धिक् तदिदं भोजनं च यत् कृष्णस्मारकं न वै ।
धिक् तमिमं कामभावं यस्तु न कृष्णदास्यदः ।।५८।।
धिक् तं तां च पतिं पत्नी यौ न कृष्णाय कल्पितौ ।
भज राजन् कृष्णनारायणं विचार्य चेति वै ।।।५९।।
पत्नीव्रतं हि तत्प्रोक्तं येन कृष्णो ह्यवाप्यते ।
पातिव्रत्यं च स धर्मो येन कृष्णो ह्यवाप्यते ।।1.447.६ ०।।
इत्युक्तः स तदा राजाऽवाप्य ज्ञानं स्वयोषितः ।
विरागः सन् सतीं प्राह वद मन्त्रं ममापि तम् ।।६ १ ।।
जपविध्वस्तपापोऽहं त्वयेच्छामि सुसंगतिम् ।
ममाऽज्ञानकपाटं तु त्वया चोत्पाटितं प्रिये ।।६२।।
राज्ञी प्राह पतिं पूज्य नाऽहं योग्योऽस्मि तत्कृते ।
नाऽहं तवोपदेशं वै कुर्यां मम गुरुर्भवान् ।।६ ३।।
उपातिष्ठ गुरुं राजन् गर्गं मन्त्रविदां वरम् ।
इतिसंभाषमाणौ तौ दम्पती गर्गसन्निधिम् ।।६४।।
प्राप्य तच्चरणौ मूर्ध्ना ववन्दाते कृताञ्जली ।
अथ राजा गुरुं प्रीतमभिपूज्य पुनः पुनः ।।६५।।
संजगाद विनीतात्मा रहस्यात्ममनोरथम् ।
कृतार्थं मां कुरु गुरो सम्प्राप्तं शरणागतम् ।।६६।।
मोक्षदात्रीं परां विद्यामुपदेष्टुं त्वमर्हसि ।
अनाज्ञातं यदज्ञातं यत्कृतं राजकर्मणा ।।६७।।
शुष्कं चार्द्रं महत् स्वल्पं पापं मायाबलोद्भवम् ।
तत्सर्वं येन शुद्ध्येत तन्मन्त्रं देहि मे गुरो! ।।६८।।
विना सतां प्रसंगेन पापिनां पापनाशनम् ।
आत्मनः शोधनं चापि नैव स्याद्धि कदाचन ।।६९।।
नरा नार्यः सदा पापविशुद्ध्यर्थं युगे युगे ।
सेवन्ते साधुपुरुषान् यतो मोक्षो यतो हरिः ।।1.447.७०।।
भोजिता वन्दिता दृष्टाः स्पृष्टाश्चरणे मर्दिताः ।
शरीरे सेविताः सम्यक् प्रपुनन्ति प्रसेविनः ।।७१ ।।
यद्यत्प्रियं भवेत् स्वस्य देयं तत्साधवे सदा ।
साधवो निर्गुणाश्चतुरर्थाः श्रीकृष्णमूर्तयः ।।७२।।
कृष्णसेवाफलं साधुसेवया लभ्यतेऽधिकम् ।
कृष्णनारायणप्राप्तिप्रदास्ते साधवोऽनघाः ।।७३ ।।
यथा कामेन कामिन्यां कान्ते स्नेहः प्रजायते ।
यथा जले तृषितस्य यथाऽन्ने क्षुधितस्य च ।।७४।।
यथा शैत्याभिभूतस्य वह्नौ स्नेहः प्रजायते ।
यथा चेष्टौ सतृष्णस्य पुत्रे पितुश्च सद्गुणे ।।७५।।
यथौषधेऽतिरुग्णस्याऽपत्ये मातुर्यथा तथा ।
साधुजने कृतः स्नेहस्तारयत्येव निश्चितम् ।।७६।।
यथा शिलाद्याः प्रतिमा जडा अपि सचेतनाः ।
साधुरूपास्तथा दिव्यचेतनाः प्रतिमा हरेः ।।७७।।
तत्र दत्तं हुतं क्षिप्तं समर्पितं शुभाऽशुभम् ।
सर्वं मोक्षप्रदं सम्पत्प्रदं स्वेष्टप्रदं नृणाम् ।।७८।।
येषां यासां न चाधारः कश्चित्तस्य तु साधवः ।
आधारास्तारकाश्चात्मरक्षका भगवज्जनाः ।।७९।।
तस्माद्वै गर्ग मे शुद्धिं कुरु मन्त्रप्रदानतः ।
एवमभ्यर्थितो राज्ञा गर्गो वैष्णवपुंगवः ।।1.447.८०।।
तौ निनाय महापुण्यं यमुनायास्तटं शुभम् ।
तत्र वृन्दातरोः पार्श्वे निषण्णोऽथ गुरुः स्वयम् ।।८ १ ।।
यमीतीर्थजलस्नातं दाशार्हं समुपोषितम् ।
प्राङ्मुखं चोपवेश्यैव नत्वा कृष्णपदाम्बुजम् ।।८२।।
तन्मस्तके करं न्यस्य मन्त्रं कृष्णात्मकं ददौ ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।।८३।।
श्रीकृष्णाय नमश्चेति मन्त्रं दधार कर्णतः ।
तन्मन्वधारणादेव तद्गुरोर्हस्तसंगमात् ।।८४।।
निर्ययुस्तस्य वपुषो वायसाः शतकोटयः ।
ते दग्धपक्षाः क्रोशन्तो निपतन्तो महीतले ।।८५।।
भस्मीभूतास्ततः सर्वे दृश्यन्ते स्म सहस्रशः ।
राजा राज्ञी च तद् दृष्ट्वा गर्गं गुरुमपृच्छताम् ।।८६।।
भगवन्निदमाश्चर्यं किमेतन्मे शरीरतः ।
निर्गतं वायसव्रातं दग्धं चेति वद स्फुटम् ।।८७।।
गर्गः प्राह त्वया जन्मसहस्रेषु प्रधावता ।
सञ्चितानि हि पापानि दुरन्तान्यप्यनेकशः ।।८८।।
पुण्यवशान्नरराजा संभूतोऽसि च तत्र वै ।
क्रियन्ते चातिपापानि तानीमान्यधुना तव ।।८९।।
मन्त्रग्रहणमात्रेण निर्गतानि शरीरतः ।
त इमे वायसाः सर्वे तमःपापस्वरूपिणः ।।1.447.९०।।
दृश्यन्ते स्म दह्यमानास्तव पातककोटयः ।
इति शुद्धोऽसि राजेन्द्र भज कृष्णं सनातनम् ।।९१ ।।
तदा कृष्णस्य तेजोभिर्युक्तस्त्वं वै भविष्यसि ।
ततस्त्वं चाऽनया तेजस्विन्या सार्धं सदार्तवे ।।९२।।
काले योग्ये मिते पुण्ये रन्तुं योग्यो भविष्यसि ।
अन्यथा ते सतीवह्निः काकवत् प्रदहिष्यति ।। ९३।।
इत्युक्त्वा स मुनिर्गर्गो लब्ध्वा सत्कारमर्चनम् ।
ययौ निजाश्रमं राजा राज्ञ्या स्वभवनं ययौ ।।९४।।
वैष्णवौ दम्पती तौ च रेजतुः स्म महाद्युती ।
अथ मन्त्रप्रतापेन लक्षजापोत्तरं नृपः ।।९५।।
पत्नीस्पर्शस्य सत्पात्रमभूद् दिव्यशरीरवान् ।
तदा दृढं समाश्लिष्य पत्नीं चन्दनशीतलाम् ।। ९६।।
सन्तोषं परमं लेभे चार्तवे समये तथा ।
श्रीकृष्णस्य व्रतं सत्या पुण्यदं वर्षमेव तु ।।९७।।
पालितं वै तया राज्ञ्या ब्रह्मचर्यं ह्यखण्डितम् ।
राजाऽपि वत्सरान्ते संशुद्धोऽभूद् वह्निसन्निभः ।।९८।।
ततो ददावृत्तौ बीजं पुत्रप्राप्तिफलात्मकम् ।
गतेषु नवमासेषु पुत्रं प्राप सुवैष्णवम् ।।९९।।
इति लक्ष्मि! चमत्कारः कृष्णपतिव्रतोद्भवः ।
कथितस्ते श्रवात् पाठात् तादृशं लभते फलम् ।। 1.447.१ ००।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दाशार्हराज्ञः पापमय्यवस्थायां कृष्णपातिव्रत्यपरायणपत्न्याः स्पर्शे वह्निदाहस्ततः कृष्णमन्त्रग्रहणे पापदाहे शुद्ध्युत्तरस्पर्शयोग्यतेत्यादिचमत्कारनिरूणनामासप्तचत्वारिंशदधिकचतुश्शततमोऽध्यायः ।।४४७।।