लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४४
[[लेखकः :|]]
अध्यायः ४४५ →

श्रीलक्ष्मीरुवाच-
सुयज्ञः स कथं जप्त्वा स्तोत्रं पत्नीव्रतो नृपः ।
किमात्मकं तपः कृत्वा मोक्षमवाप तद्वद्! ।। १ ।।
श्रीनारायण उवाच-
पत्नीव्रतः सुयज्ञः स राधिका मन्त्रमाप यम् ।
जजाप स पुष्करे गत्वा पत्नीयुक्तस्तपःप्रियः ।। २ ।।
 'ओं राधायै स्वाहा' मन्त्रं सदा जजाप भूपतिः ।
ध्यानं चकार राधायाः पूजां चक्रे समादरात् ।। ३ ।।
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ।
शरत्पार्वणचन्द्रास्यां शरत्पंकजलोचनाम् ।। ४ ।।
पक्वबिम्बाऽधरां मुक्तादन्तपंक्तिविराजिताम् ।
ईषद्धास्यप्रसन्नास्यां रत्नमालादिभूषिताम् ।। ५ ।।
वह्निशुक्लांशुकाधाना भक्तानुग्रहमण्डिताम् ।
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ।। ६ ।।
रत्नकुण्डलसंशोभाराजत्कर्णसुभूषणाम् ।
सूर्यप्रभाभगण्डाभां तेजःपरिधिराजिताम् ।। ७ ।।
रत्नग्रैवेयकैर्युक्तां किरीटमुकुटोज्ज्वलाम् ।
रत्नांगुलीयकशोभां रत्नपाशकशोभिताम् ।। ८ ।।
मालतीमाल्यग्रथितकबरीभारशोभिताम् ।
रूपानुरूपावयवां सर्वोत्तमांगराजिताम् ।। ९ ।।
बिन्दुतिलकभालां च पूजितां चन्दनादिभिः ।
कृष्णसौभाग्यसंशोभां कृष्णप्राणस्वरूपिणीम् ।। 1.444.१ ०।।
कृष्णभक्तिप्रदां शान्तां वैष्णवीं कृष्णस्नेहिताम् ।
रत्नसिंहासने रासे स्थितां रासेश्वरीं भजे ।। ११ ।।
इति ध्यात्वा ददौ तां वै चोपचाराणि षोडश ।
आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ।। १२।।
धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम् ।
षट्पञ्चाशत्सुनैवेद्यं ताम्बूलं वासितं जलम् ।। १ ३।।
मधुपर्कं रत्नतुल्यमुपचाराणि षोडश ।
तथा ददावष्टोत्तरशतं भावेन भक्तराट् ।। १४।।
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ।
एवं चक्रे परीहारं ननाम परमेश्वरीम् ।। १५।।
कार्तिकीपूर्णिमायां तु तां सम्पूज्य परेश्वरीम् ।
अचलां श्रियमाप्नोति राजसूयफलं लभेत् ।। १६।।
नारी तां चिन्तयेद् भक्त्या स्वामिसौभाग्यगा भवेत् ।
सा प्रयाति च गोलोकं मुच्येत भवबन्धनात् ।। १७।।
एवं नित्यं सुयज्ञो वै जजाप च पुपूज च ।
तुष्टाव दध्यौ नामानि तदर्थांश्चिन्तयन्मुहुः ।।१८।।
रां तु स्मृद्धिं ददात्येव धां धृतिं पादयोर्व्रजेत् ।
भुक्तिमुक्तिप्रदां कृष्णां नमामीत्यभ्यचिन्तयत् ।। १ ९।।
पत्रं पुष्पं फलं भुक्त्वा तेपे तपः सुदुष्करम् ।
सर्वं राधामयं चक्रे शतवर्षं नराधिपः ।।1.444.२०।।
राधा तुष्टा नृपतेश्च प्रत्यक्षा संबभूव ह ।
प्राह तं तु तदा रासेश्वरीयुक्तं सुयज्ञकम् ।।२१ ।।
पत्नीव्रतं त्वया राजन् कृष्णवत् पालितं सदा ।
मम सेवा कृता नित्यं भक्त्या चातीव तोषिता ।।२२।।
पूजिता वन्दिता नित्यं ध्याता रासेश्वरी सदा ।
पत्नीव्रतमखण्डं संपालितं कृष्णवत्त्वया ।।२३।।
सौकुमार्ये सदा पुष्पसमां मत्वा ह्यपालयः ।
वस्त्राभूषणशृंगारद्रव्यादिभिः सुतोषिता ।।२४।।
भोज्यपेयसुभोग्यादिदानैः शश्वत्प्रपोषिता ।
गुर्विण्यवस्थामालक्ष्य स्वेष्टदानैः प्रपालिता ।।२५।।
सूतकादिष्ववस्थासु निर्विघ्नेन निभालिता ।
राजसादौ तु भावेषु सर्वभावैः सुरञ्जिता ।।२६।।
तमोवृत्तौ क्षमां धृत्वा क्रोडे कृत्वा प्रसादिता ।
ज्वराद्यवस्थासान्निध्ये क्षणं नैव वियोजिता ।।२७।।
आपत्स्वपि त्वया राजन् दूरीकृता न पार्श्वतः ।
सोढ्वा वै सर्वमत्युग्रं न चापदा सुयोजिता ।।२८।।
आशौचादौ त्वया धर्माच्च्याविता न कदाचन ।
सगर्भायां त्वया नैव व्यर्थकामेन योजिता ।।२९।।
सबालायां कदाचिन्न विना वस्तु त्वया कृता ।
क्षुधिते तृषिते कान्ते न प्रयासे निपातिता ।।1.444.३०।।
विभ्रमे बहुचिन्तायां न समुद्वेजिता क्वचित् ।
यथाकालं यथाद्रव्यं सर्वभावेन पूजिता ।।३ १ ।।
वन्दिता तोषिता विश्वक् सुखदानैः प्रसादिता ।
ममैवं सेवया राजन् तुष्टः कृष्णनरायणः ।।३२।।
तेनैव प्रेषिता चाहं राधा त्वां नेतुमागता ।
अहं रासेश्वरी राधा पन्नीव्रतफलप्रदा ।।३३ ।।
मदर्थं कारितं यद्यत् कृतं वा तत्फलप्रदा ।
सत्त्वेन रजसा यद्वा तमसाऽपि मदर्पितम् ।।३४।।
सर्वं तन्निर्गुणं विधापयामि कृष्णयोगतः ।
कामो रोषस्तथा स्वादः स्नेहो लोभो मदादयः ।।३५।।
मदर्थं त्वर्पिता जाताः कृता अपि तु निर्गुणाः ।
यतोऽहं निर्गुणा पत्नी कृष्णनारायणस्य वै ।।३६।।
ततो मद्योगमापन्नं पत्नीव्रतस्य निर्गुणम् ।
कृष्णस्य क्रीडया सर्वं जगत् सक्रियमेव तु ।।३७।।
यदि कृष्णो नैव कुर्यात् क्रियाहीनं जगद्भवेत् ।
दम्पत्योस्तु क्रियाः सर्वा राधाकृष्णोद्भवा यतः ।।३८।।
सदृश्योऽपि भवन्त्येव निर्गुणा बन्धनाशिकाः ।
ब्रह्म ब्राह्म्यायुतं पूर्वं करोत्येव जगत्तथा ।।३९।।
दिवा रात्रिं विना नास्ति चात्मा बुद्धिं विना न वै ।
ब्रह्म ब्राह्मीं विना नास्ति कृष्णः कृष्णां विना न वै ।।1.444.४०।।
शब्दः शक्तिं विना नास्ति धर्मां भक्तिं विना न वै ।
कृष्णो राधां विना नास्ति सत् चित् नाऽऽनन्दमन्तरा ।।४१ ।।
मम व्रतेन राजेन्द्र पूतस्त्वं सर्वथा यतः ।
आगच्छ कृष्णगोलोकं विमानेन सभार्यकः ।।४२।।
त्वया प्रसादिता चाहं सर्वैर्व्रतैर्नृपोत्तम ।
यदा रासेश्वरी चेयं ज्वरेणाऽभिभवं गता ।।४३।।
पुरा मासं जलं चान्नं गृहीतं न तया तदा ।
त्वयाऽपि मासमेकं तु जलान्नं भुक्तमेव न ।।४४।।
स्वस्थेनापि त्वया पत्नीव्रतेन रक्षितं व्रतम् ।
प्रसवादौ यदा यद्यत् पत्न्या त्यक्तं सुभोजनम् ।।४५।।
अन्यच्चापि सुभोग्यादि त्वयाऽपि त्यक्तमेव तत् ।
समायां विषमायां वा स्थितौ क्वापि त्वया नृप ।।४६।।
पत्नीं विहायाऽनर्पित्वा किंचन नोपयुक्तवान् ।
साधुवद् वर्तसे राजन् सर्वं पत्न्यां निधाय च ।।४७।।
अक्षयं दानपुण्यादि पत्नीद्वारा कृतं त्वया ।
मया तत् शाश्वतफलं कृतं त्वदर्थमेव हि ।।४८।।
चातुर्मास्यव्रतं पत्न्या रासेश्वर्या कृतं यदा ।
तदा तस्यै न निवेद्य त्वया भुक्तं न वै क्वचित् ।।४९।।
कार्तिके श्रावणे माघे वैशाखे च व्रतानि वै ।
यानि यानि तव पत्न्या कृतानि कृच्छ्रकाणि वै ।।1.444.५० ।।
तत्र तत्र च यत् त्यक्तं रासेश्वर्या त्वयाऽपि तत् ।
कदाचिन्न गृहीतं वै पत्नीव्रतेन सर्वथा ।।५१ ।।
यमाश्च नियमा ये ये तव पत्न्या ह्यनुष्ठिताः ।
ते ते त्वयाऽपि तावन्तस्तावत्कालमनुष्ठिताः ।।५२।।
स्नानदानजपहोमास्तया कृतास्त्वया कृताः ।
तया संकल्पितं यद्यत् सर्वं त्वयाऽपि निश्चितम् ।।५ ३ ।।
नान्या नारी त्वया स्पृष्टा कामतो न विलोकिता ।
दास्यश्च कर्मचारिण्यः पुत्रीवद् रक्षितास्त्वया ।।५४।।
प्रजाः कन्या युवत्यश्च शिष्या इव विलोकिताः ।
स्नुषा पत्न्यो मातरश्च देव्य इव प्रपूजिताः ।।५५।।
साध्व्यः सत्यो योगवत्यः शिवावद् वन्दितास्त्वया ।
भिक्षुक्यो विधवा निराश्रयाः पित्रेव पालिताः ।।५६।।
नर्तक्यो नायिका बहुरूपिण्यो धर्मतः स्मृताः ।
वैष्णव्यः सांख्ययोगिन्यो गुरुपत्न्य इवाऽर्चिताः ।।५७।।
विद्यार्थिन्यः सदा सरस्वतीतुल्या विलोकिताः ।
दृष्टा वै ब्रह्मचारिण्यो गंगावत् तीर्थपाविताः ।।५८।।
एवं सुयज्ञ सर्वास्ता ब्रह्मात्मभावभाविताः ।
त्वया विलोकिता राजन् पत्नीव्रतेन भूभृता ।।१९।।
ऋणमुक्ताः कृताश्चान्या आपत्तिभ्यः सुतारिताः ।
कष्टाद् दूरीकृताश्चान्या नार्यश्च वैष्णवीकृताः ।।1.444.६० ।।
धन्योऽसि त्वं सदा राजन् धन्या रासेश्वरी प्रिया ।
धन्यं चांशस्वरूपं मे यत्प्राप्त्या मुक्ततां गतम् ।।६१ ।।
विश्वासं वरणं न्यासं कार्पण्यं मतिस्थिरताम् ।
आनुकूल्यं प्रातिकुल्यवर्जितं कृतवान् मयि ।।६२।।
नैतादृशं परः कश्चिन्मद्व्रतं पालयिष्यति ।
पत्नीव्रतं व्रतं मे तन्मोक्षदं पालितं त्वया ।।६३।।
पितरस्तारिता राजन् प्रजाश्च तारितास्त्वया ।
सर्वं वै तारितं राज्येऽरण्येऽपि जडचेतनम् ।।६४।।
इत्युक्त्वा राधिका देवी रासेश्वरीं सुयज्ञकम् ।
विमाने दिव्यदेहौ तौ नीत्वा गोलोकमाययौ ।।६५।।
इति पत्नीव्रतं लक्ष्मि! कथितं स्फुटमेव ते ।
पठनाच्छ्रवणाच्चास्य गोलोकमाप्नुयाद् व्रती ।।६६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सुयज्ञं पत्नीव्रतधर्मपालकं राजानं रासेश्वरीं पत्नीं च विमाने नीत्वा राधा गोलोकं ययावित्यादिपत्नीव्रतमाहात्म्यकथननामा चतुश्चत्वारिंशदधिकचतुश्शततमोऽध्यायः ।।४४४।।