लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४३
[[लेखकः :|]]
अध्यायः ४४४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सुयज्ञः सुतपसं प्राह यत्तदा ।
हे मुने! नश्वरं सर्वं कदा कथं वदाऽत्र मे ।। १ ।।
साधनं च तथा तीव्रं मोक्षस्य वद् तत्परम् ।
इति राज्ञो वचः श्रुत्वा सुतपाः प्राह तत्त्ववित् ।। २ ।।
शृणु राजन् प्रकृतिजं सर्वं नश्वरमेव यत् ।
पात्रं षट्पलसंभूतं गभीरं चतुरङ्गुलम् ।। ३ ।।
स्वर्णमाषकृतच्छिद्रं दण्डैश्च चतुरंगुलैः ।
यावज्जलप्लुतं पात्रं तत्कालं दण्ड इत्ययम् ।। ४ ।।
दण्डद्वयं मुहूर्तं च यामस्तस्य चतुष्टयम् ।
वासरस्त्वष्टभिर्यामैः पक्षस्तैर्दशपञ्चभिः ।। ५ ।।
मासो द्वाभ्यां च पक्षाभ्यां वर्षं द्वादशमासकैः ।
मासेन वै नराणां तु पितॄणां तदहर्निशम् ।। ६ ।।
कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्तिता ।
वत्सरेण नराणां वै देवानां तु दिवानिशम् ।। ७ ।।
अयनमुत्तरमहो रात्रिर्वै दक्षिणायनम् ।
युगक्रमानुरूपं च नरादीनां वयो नृप ।। ८ ।।
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
चत्वारि त्रीणि द्वे चैकं सहस्राणि कृतादिकम् ।। ९ ।।
अष्टषट्चतुर्द्विशतान्येषां सन्ध्यांशकानि वै ।
वर्षाणि द्वे सहस्रे ते द्वादशाब्दसहस्रकम् ।। 1.443.१ ०।।
चतुर्युगं ततो मन्वन्तरं युगैकसप्ततिः ।
दिवसे ब्रह्मणस्ते तु मनवः स्युश्चतुर्दश ।। ११ ।।
यथा दिवा तथा रात्रौ समयो व्येति वेधसः ।
अष्टाविंशतिमनवोऽहर्निशं ब्रह्मणो यतः ।। १२।।
आद्यो मनुर्ब्रह्मपुत्रः स्वायंभुवोऽभवन्नृप ।
संप्राप्य शंकराद् ज्ञानं कृष्णमन्त्रं सुदुर्लभम् ।। १ ३।।
सम्प्राप्य कृष्णदास्यं च गोलोकं वै जगाम सः ।
स्वारोचिषो मनुश्चापि द्वितीयो वह्निनन्दनः ।। १४।।
प्रियव्रतसुतौ मनू तौ तृतीयचतुर्थकौ ।
पञ्चमो रैवतो जातश्चाक्षुषः षष्ठ ईरितः ।। १५।।
श्राद्धदेवः सूर्यसुतो वैष्णवः सप्तमो मनुः ।
सावर्णिः सूर्यतनयो वैष्णवो मनुरष्टमः ।। १६।।
नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः ।
दशमो ब्रह्मसावर्णिर्ब्रह्मज्ञानविशारदः ।। १७।।
ततश्च धर्मसावर्णिर्मनुरेकादशः स्मृतः ।
ज्ञानी च रुद्रसावर्णिर्मनुस्तु द्वादशः स्मृतः ।। १८।।
धर्मात्मा देवसावर्णिर्मनुरेषस्त्रयोदशः ।
चतुर्दशो महाज्ञानी चन्द्रसावर्णिरन्तिमः ।। १ ९।।
यावदायुर्मनूनां स्यादिन्द्राणां तावदेव तु ।
चतुर्दशेन्द्रावच्छिन्नं ब्रह्मणो दिनमेककम् ।।1.443.२० ।।
तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा नृप ।
तस्यां ब्रह्मनिशायां तु क्षुद्रः प्रलय उच्यते ।।२१ ।।
देवाश्च मनवश्चात्र लोका नश्यन्ति वै दश ।
एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव तु ।।२२।।
वर्षं कल्पसहस्रं तु ब्रह्मणो जायते नृप ।
एवं शताब्दपर्यंतं परमायुः प्रजापतेः ।।२३।।
ब्रह्मणस्तु निपाते स्याद् वैराजकल्प एककः ।
वैराजस्य शतवर्षमायुस्ततोऽस्य नाशनम् ।।२४।।
दिनं तत्तु महाविष्णोः सोपि वर्षशतस्थितिः ।
ततो नश्यति प्रधानपुरुषस्य दिनं त्विदम् ।।२५।।
तस्य वर्षशते याते प्रकृतिपुरुषस्य वै ।
दिनं भवति वापि शतवर्षोत्तरं लयः ।।२६ ।।
अक्षरे ब्रह्मणि लीनो जायते मायया सह ।
प्राकृतिको लयः सोऽयं राधा प्रकृतिरुच्यते ।।२७।।
आत्यन्तिको लयो मोक्षः स चातिदुर्लभो नृप ।
एतच्छ्रुत्वा सुयज्ञश्च पप्रच्छ साधनं द्रुतम् ।।२८।।
मोक्षदं किं येन यामि गोलोकं धाम शाश्वतम् ।
सुतपाः प्राह सुयज्ञ! भज राधां हरिप्रियाम् ।।२९।।
कृष्णप्रेममयीं यस्या वचः कृष्णोऽपि मन्यते ।
शीघ्रं यास्यसि गोलोकं तदनुग्रहसेवया ।।1.443.३०।।
श्रीकृष्णं तु समाराध्य चिरेण यान्ति गोदिवम् ।
कृपाराधां तु संसेव्य भक्ता यान्त्यचिरेण वै ।।३ १ ।।
राधांशा तव पत्नी च नाम्ना रासेश्वरीति या ।
पतिव्रता महाभागा गूढा राधाऽस्ति साऽत्र ते ।।३२।।
पत्नीव्रतं परं कृत्वा पालयित्वा तु तद्वृषान् ।
विजेष्यसि महामृत्युं राधांशायाः प्रतापतः ।।३३।।
राजन् कथयितुं चैतत् त्वागमो मे विशेषतः ।
रासेश्वरीं तव पत्नीं राधांशां धर्मतो भज ।।३४।।
सा ह्येषा वर्तते साध्वी पश्य दिव्येन चक्षुषा ।
इत्युक्त्वा नृपतेर्नेत्रे पस्पर्श तावदेव सः ।।३५।।
ददर्श राधिकारूपां सतीं पत्नीं पतिव्रताम् ।
आश्चर्यचकितो भूत्वा राधामन्त्रमवाप सः ।।३६।।
ओं श्रीं ह्रीं क्लीं रासेश्वर्यै राधिकायै स्वाहा इति ।
अथ पत्नीव्रतधर्मान् शुश्राव सुतपोमुखात् ।।३७।।
यथा कृष्णस्तथा राधा राधांशाः कृष्णमूर्तयः ।
पातिव्रत्यं यथा कृष्णे नारीदेहस्य सम्मतम् ।।३८।।
तथा पत्नीव्रतधर्मः कृष्णराधांशसंभवे ।
प्रातरुत्थाय सद्भक्तः संस्मरेद् राधिकां मुहुः ।।३९।।
संस्नापयेत्पूजयेच्च शृंगारयेत् सुभोजयेत् ।
सेवयेत्तोषयेदिष्टप्रदानैः रञ्जयेन्मुहुः ।।1.443.४०।।
नीराजयेत् संस्तुवीत स्वापयेत् समवाहयेत् ।
एव राधां सदा पत्नीव्रतः कृष्णात्मिकां भजेत् ।।४१ ।।
न गृहं गृहमित्युक्तं गृहिणी गृहमुच्यते ।
राधांशया तया स्मृद्धं सतेजस्कं प्रशोभते ।।४२।।
गृहिणी गृहलक्ष्मीर्वै तां विना गह्वरं गृहम् ।
गृहिण्या तु तमोव्याप्तमपि प्रकाशते गृहम् ।।४३।।
अपि श्वा गृहिणीयुक्तो ग्रामसिंहः प्रजायते ।
अपि रंकः सभार्यस्तु कुटुम्बित्वेन गण्यते ।।४४।।
अपि राजा प्रियाशून्यो निर्वास्यते स्त्रियाः गृहात् ।
किंकरोऽपि गृहमध्ये रक्ष्यते गृहिणीयुतः ।।
यस्य नास्ति सती भार्या गृहेषु प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।।४६ ।।
सुशीला सुन्दरी भार्या नास्ति यत्र गृहे ह्यहो ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।।४७।।
यस्य पतिव्रता नास्ति पतिसाध्या सुशासिता ।
प्रियाहीनं गृहं शुष्कं पूर्णं बंधुधनैरपि ।।४८।।
भार्याशून्या वनसमाः सभार्यास्ति गृहा गृहाः ।
गृहिणी तु गृहे दैवे पैत्र्ये कर्मणि पुण्यदा ।।४९।।
भार्यामूलः क्रियाः सर्वा भार्यामूला गृहास्तथा ।
भार्यामूलं सुखं सर्वं गृहस्थानां गृहे नृप! ।।1.443.५० ।।
भार्यामूलाः सदा हर्षो भार्यामूलं च मंगलम् ।
भार्यामूल च संसारो भार्यामूलं च सौरभम् ।।५१ ।।
सर्वरत्नप्रधानं तु स्त्रीरत्नं गृहमेधिनाम् ।
यथा जलं विना पद्मं, तथा भार्या विना गृहम् ।।५२।।
सा तु पत्नी तव सौधे राधांशा विद्यते नृप ।
पतिव्रता सुशीला च सती भोगवती प्रिया ।।५३ ।।
पत्नीव्रतेन धर्मेण राधा कृष्णेन पूजिता ।
स्तुता तथा भवाँश्चापि पूजां करोतु सादरम् ।।।५४।।
सा तुष्टा ह्यचिरात् स्वर्गं मोक्षं धाम प्रदास्यति ।
सुयज्ञः प्राह बहुधा श्रुतः पतिव्रतावृषः ।।५५।।
पत्नीव्रतवृषः कीदृक् श्रोतुमिच्छामि मे वद ।
सुतपाश्चाह राजेन्द्र पत्नीं विभाव्य चैश्वरीम् ।।५६ ।।
प्रातः पत्नीं स्मरेन्नित्यं ध्यायेत्पत्नीं हरिप्रियाम् ।
प्रातः पत्नीमुखं पश्येत् पश्चादन्यान् विलोकयेत् ।।५७।।
पत्न्याः स्नानं त्विष्टजलैः कारयेच्च सुवेषयेत् ।
केशप्रसाधनं तस्याः कारयेद् दासिकादिभिः ।।५८।।
यद्वा पतिः स्वयं तस्याः केशादीन् सम्प्रसाधयेत् ।
शृंगारयेत् सुगन्धाद्यैः सौभाग्यरूपमर्पयेत् ।।५९।।
सन्धारयेद् विभूषाश्च बिन्दुं कज्जलमर्पयेत् ।
भोजयेज्जलपानादि दद्यात्ताम्बूलमर्पयेत् ।।1.443.६०।।
यद्यदिष्टं तु तत्सर्वं प्रदद्याद् रञ्जयेत् सदा ।
शरीरमर्दनं कुर्यात् श्रमं निःसारयेत् स्त्रियाः ।।६ १ ।।
प्रक्षालयेत्तु मालिन्यं तथा गात्राणि वाहयेत् ।
मिष्टाऽऽख्यानकथाश्रावैर्ज्ञानं तस्यै प्रकाशयेत् ।।६२।।
कारयेन्नवधा भक्तिं श्रीकृष्णस्य परात्मनः ।
शय्यां सुखकरीं दद्याद् रत्या संसुखयेद् सतीम् ।।६३ ।।
अन्यया न प्रभाषेत नान्यां क्वचित् समस्पृशेत् ।
अन्यामुखं न वै पश्येन्नान्यावार्तां समाचरेत् ।।६४।।
नान्यां संचिन्तयेत् क्वापि नान्यासक्तमना भवेत् ।
गृह्णीयान्नाऽपरागन्धं शृणुयान्नाऽपरास्वरम् ।।६५।।
अन्याचरितनृत्यादि पत्नीव्रतो न लोकयेत् ।
अन्यादेहस्तनाद्यं तु न पश्येद्वै कदाचन ।।६६।।
अन्यादत्तं जलान्नादि गृह्णीयान्न कदाचन ।
अन्यास्पृष्टस्ववस्त्रादितैलादि नैव धारयेत् ।।६७।।
अन्याऽर्पितं सुपुष्पादि दुग्धाद्यपि न संग्रसेत् ।
अन्यया सह यानादौ निषीदेन्न कदाचन ।।६८।।
अन्यया सह मार्गादौ चलेत्सार्थतयाऽपि न ।
क्षेत्रोद्यानाऽऽपणादौ त्वन्यया साकं न संविशेत्। ।।६९।।
कार्यं नाऽप्यन्यया सार्धं कुर्यात् पत्नीव्रतो जनः ।
समाजोत्सवशालादौ परायोगं न वै चरेत् ।।1.443.७०।।
परादत्तं न वै किञ्चिदुपभुञ्ज्यात् कदाचन ।
पारक्यानां मण्डलेषु तिष्ठेन्नैव कदाचन ।।७१ ।।
पारक्यास्नानभूम्यादौ स्नानाद्यर्थं न सञ्चरेत् ।
पारक्यारूपसौन्दर्यं न पश्येन्न विचिन्तयेत्। ।।७२।।
परया रन्धितं भोज्यं न संग्रसेत् कदाचन ।
न च रात्रौ बहिर्गच्छेन्नाऽन्यागृहगतो भवेत् ।।७३।।
नारीमार्गादिषु राजन्न तिष्ठेच्चत्वरादिषु ।
वाद्यं नाकर्णयेन्नार्या वादितं परयोत्सवे ।।७४।।
नान्यां कटाक्षयेत् क्वापि संकेतं ज्ञापयेन्न च ।
नान्यां प्रशंसेत्तस्याश्च गुणगानं न चाचरेत् ।।७५।।
एवं वै सर्वथा त्यागं स्वीयाऽन्यायाः समाचरेत् ।
तद्वै पत्नीव्रतं पुष्टिप्राप्तं भवति मोक्षदम् ।।७६।।
स्वपत्नीं क्रूरयेन्नैव ताडयेन्न कदाचन ।
क्रूरं संश्रावयेन्नैव रुषाऽवमानं नाचरेत् ।।७७।।
परिश्रमेण यत्नेन व्यापारेणाऽन्यकर्मणा ।
कृष्या कैंकर्यकार्येण द्रव्यमुत्पाद्य नैतिकम् ।।७८।।
सम्पोषयेन्निजां पत्नीं भक्ष्ये भेदं न चाचरेत् ।
विलासे रंजने दास्ये क्रीडायां तां सुतोषयेत् ।।७९।।
पत्न्या दत्तं जलान्नादि प्रेम्णा प्रशंस्य भक्षयेत् ।
क्षाराधिक्यादिदोषाँस्तु गणयेन्न कदाचन ।।1.443.८०।।
अमृतं चेति मत्वैव गृह्णीयान्नाऽवमानयेत् ।
अकामां बलयेन्नैव चार्तवीं न परित्यजेत् ।।८१ ।।
सुप्तां प्रबोधयेन्नैव सकामां न तिरश्चरेत् ।
तृष्णया वा प्रसह्यापि नोद्वेजयेत्कदाचन ।।८२।।
यथा यथा प्रसन्ना स्यात्तथा तथा समाचरेत् ।
गृहवस्तु च निःशेषं पत्न्यै समर्पयेद् व्रती ।।८३।।
आत्मानं चार्पयेत्तस्यै सदा सम्मानमाचरेत् ।
मानं रक्षेत् सुष्ठु पत्न्यास्त्वंकारेण न वै वदेत् ।।८४।।
स्वभावैः पीडयेन्नैव नाऽन्यायेन ह्यधिक्षिपेत् ।
नाऽऽक्रोशेल्लंघयेन्नैव पत्नीवचः कदाचन ।।८५।।
नित्यं पत्नीं महादेवीं मत्वा कुर्यान्नमःकृतिम् ।
विषयान् सर्वतो दद्यान्नास्तीति संवदेन्न वै ।।८६ ।।
सेवाधर्मे चाक्रमादौ न निर्मनस्कतां व्रजेत् ।
यथा नारायणो लक्ष्मीं विना भुंक्ते न वै क्वचित् ।।८७।।
यथा कृष्णः सतीं राधां विना भुंक्ते न वै क्वचित् ।
तथा पत्नीं विना किञ्चित् क्वचिद् भुंज्यान्न वै व्रती ।।८८।।
स्वमेढ्रादि विना पत्नीं नान्ययाऽऽलोकितं भवेत् ।
अन्यया चुम्बितं न स्यात् स्वकपोलाऽऽननाद्यपि ।।८९।।
नाऽऽकृष्टं हृद् भवेत् क्वाऽप्यन्यया वर्तेत वै तथा ।
स्वप्नेऽपि न स्पृशेदन्यां तथाऽन्यां नाऽवलोकयेत् ।।1.443.९० ।।
धर्मकार्यादिकं दैवं पैत्र्यं पत्न्या सहाऽचरेत् ।
न गोपयेद् गृहकार्यं पत्न्यां पत्नीव्रतः क्वचित् ।।९१ ।।
पत्न्यै निवेद्य यावद्वै कार्यं कुर्यान्न चैकलः ।
पत्न्यास्तु सम्मतिं त्यक्त्वा धर्मव्रतादि नाचरेत् ।।९२।।
पत्नीतन्त्रो भवेन्नित्यं श्रेयोऽर्थं नरकाय न ।
मोक्षार्थं तदधीनः स्यान्नरकार्थं तु न क्वचित् ।।९३।।
सौख्यार्थं मानयेन्नित्यं न क्लेशार्थं कदाचन ।
विश्वासपात्रिकायां विश्वसेन्न कुलटादिषु ।। ९४।।
प्राणान् धनानि रत्नादि कुर्यात् तत्करसात् पतिः ।
पत्नीं त्वर्धं सदा पत्युः पत्न्यास्त्वर्धं तथा पतिः ।।९५।।
पतिस्तस्या दरीकुक्षौ पुत्ररूपः प्रजायते ।
भुक्ता पत्नी प्रसवित्री प्रसूः पोष्ट्री ततश्च मा ।।९६।।
सदा पाल्या सदा पोष्या सदा रक्ष्या सुवस्तुभिः ।
पत्न्यां कामस्य सन्तोषः शौचं तस्यां नु मेहतः ।।९७।।
पत्न्याः सेवा तपः श्रेष्ठं तया वार्ता कथाऽमृतम् ।
ईश्वरिण्या रूपमात्रे प्रणिधानं प्रियस्य वै ।।९८।।
अहिंसनं तदद्रोहः सत्यं तस्यामगोपनम् ।
पत्न्यामेकहृदय्यत्वमस्तेयं नैव वञ्चनम् ।।९९।।
पत्न्यां यथेष्टं कामार्थो ब्रह्मचर्यं गृहाश्रितम् ।
पत्न्यर्थं सर्ववस्तूनामादानं चाऽपरिग्रहः ।। 1.443.१ ००।।
सुप्तायां तु प्रसुप्तः स्याज्जागृतायां प्रबोधवान् ।
स्नातायां चाप्लवे तुष्टो भुक्तायां भोजनप्रियः ।। १० १।।
पीतायां पानरक्तश्च क्रीडितायां प्रक्रीडकः ।
शृंगारितायां शोभाढ्यो दुःखितायां सुदुःखवान् ।।१ ०२।।
अस्वच्छायां नातिशुभ्रः सुखितायां सुखान्वितः ।
रुग्णायां तु मनोमान्द्यः प्रोत्फुल्लाया प्रफुल्लितः ।। १०३ ।।
सस्मितायां सुस्मितश्च तृप्तायां तृप्तिमान् पतिः ।
चिन्तितायां भग्नमना व्रतस्थायां व्रतान्वितः ।। १ ०४।।
तपःस्थायां तपोयुक्तः सुकृतायां सुसुकृती ।
मृतायां चानुमरणश्चितायां त्वनुसंज्वलेत् ।। १ ०५।।
एवं पत्नीव्रतव्याप्तः पतिः सन्तारयेत् कुलम् ।
एकोत्तरं शतं स्वस्य पत्न्याश्चोद्धरते तथा ।। १ ०६।।
भज रासेश्वरीं पत्नीं राधिकांशां सदा नृप ।
ओंनमः श्रीकृष्णनारायण्यै पत्न्यै नमोऽस्तु ते ।। १ ०७।।
एवं नमन् महासार्वभौमपत्नीव्रतं चरन् ।
जगदुद्धारयन् सर्वं यात्यन्ते ब्रह्म चाक्षरम् ।। १ ०८।।
पत्नीहस्तजलं पीत्वा स्वर्गलोके महीयते ।
पत्नीपात्रगतं पुत्रं प्राप्य पितॄणवर्जितः ।। १ ०९।।
पत्नीयानं परं प्राप्य परं पदमवाप्यते ।
यावन्ति जलतीर्थानि भूम्यरण्याद्रिजानि वै ।। 1.443.११ ०।।
तानि सर्वाणि पत्न्यां वै पतिव्रतायां शेरते ।
धर्मो व्रतं तपो होमो जपः स्वाध्याय आनतिः ।। १११ ।।
दानं पुण्यं चोपकृतिः सेवा चाशिषः इत्यपि ।
सर्वं पत्नीशरीरेऽस्ति सेविता भावतो यदि ।। ११ २।।
सा पत्युस्तारिका प्रोक्ता पतिस्तस्याश्च तारकः ।
द्वौ तौ कुलस्य सर्वस्य तारकौ भवबन्धनात्। ।। ११३ ।।
तस्मात् पत्नीव्रतं पाल्यं ब्रह्मचर्यं तदेव यत् ।
ब्रह्मप्राप्तिकरं शश्वत्सुखधामप्रदं यतः ।। १ १४।।
सर्वे देवाः समुनयो देव्यः साध्व्यः पतिव्रताः ।
पत्नीदेहे वसन्त्येव ब्रह्म वसति तत्र च ।। १ १५।।
पत्नीव्रतश्च पुरुषो विष्णुरूपो न संशयः ।
यथा कृष्णो निर्गुणश्च सर्वजीवाधिदेवता ।। ११६ ।।
सर्वेषां तारको निर्लेपश्च कर्मभिरेव सः ।
तथा पत्नीव्रतस्त्वन्योद्धारकः परमेश्वरः ।। १ १७।।
अग्नयस्तं विलोक्यैव प्रत्युत्तिष्ठन्ति भावतः ।
सिद्धयो योगसामर्थ्यमैश्वर्याणि ह्यशेषतः ।। १ १८।।
तत्संकल्पे सफलानि जायन्ते कृष्णवत्सदा ।
पत्नीव्रतः स्वयं कृष्णो वसत्येव सतीव्रते ।। ११९ ।।
रासेश्वरीं सतीं राजन् भज राधांशजां प्रियाम् ।
यथाऽभजद् धर्मदेवः पत्नीं मूर्तिं प्रियाव्रतः ।। 1.443.१२०।।
शतरूपां मनुर्यद्वत् पत्नीव्रतस्तथा भज ।
इत्युक्त्वा विररामासौ सुतपाः कमले! प्रिये! ।। १२१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सुयज्ञस्य नृपतेः सुतपःऋषिकृतपत्नीव्रतधर्मोपदेशादि निरूपणनामा त्रिचत्वारिंशदधिकचतुश्शततमोऽध्यायः ।। ४४३ ।।