लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४५
[[लेखकः :|]]
अध्यायः ४४६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! गुरुपत्नीं तारां पतिपरायणाम् ।
अप्यकामा चन्द्रभुक्ता पातिव्रत्यान् पपात न ।। १ ।।
अत्रिस्तु ब्रह्मणः पुत्रस्तस्य पुत्रो निशाकरः ।
स च कृत्वा राजसूयं चन्द्रमाः संबभूव ह ।। २ ।।
एकदा चन्द्रमाः सम्पन्मत्तोऽगाज्जाह्नवीतटे ।
ददर्श स गुरोर्भार्यां तारां धर्मपतिव्रताम् ।। ३ ।।
सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम् ।
तनुमध्यां सुरूपां सुदतीं कोमलविग्रहाम् ।। ४ ।।
सूक्ष्मवस्त्रपरीधानां युवतीं स्वर्णभूषणाम् ।
कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना ।। ५ ।।
सिन्दूरबिन्दुना चारुफालमध्यस्थलोज्ज्वलाम् ।
चन्द्रश्वेतां कनकाभां रक्ताक्षीं कामसंभृताम् ।। ६ ।।
शरत्पार्वणचन्द्रास्यां पक्वबिम्बाऽधरां सतीम् ।
गच्छन्तीं स्वगृहं स्नात्वा मत्तवारणगामिनीम् ।। ७ ।।
निर्जने तां विलोक्यैव शश्यभून्मन्मथाऽर्दितः ।
लज्जां विहाय संरुद्ध्य मार्गे तां समुवाच ह ।। ८ ।।
नमस्ते सुन्दरि विप्रे सुरूपे ब्रह्मरूपिणि! ।
क्षणं तिष्ठ वरिष्ठे! ते पादयोः प्रणमाम्यहम् ।। ९ ।।
त्वादृशीनां सतीनां वै योगात्पातकनाशनम् ।
भाग्योदयो भवेच्चापि जानीह्यन्तर्गतं मनः ।। 1.445.१ ०।।
कर्तुं सखीं समिच्छामि रजन्यां शयनस्थिताम् ।
यदि मे मानसं साध्वि! कामोद्वेलत्वमागतम् ।। ११ ।।
रतिदानेन शान्तं त्वं कर्तुं शक्ताऽसि वै सकृत् ।
तदा त्वां संपरित्यज्य गमिष्यामि तथा कुरु ।। १ २।।
यदि चेन्न रतेर्दानं ददासि त्वां नयाम्यहम् ।
प्रसह्याऽपहरणं वै कृत्वा यामीति निश्चितम् ।। १ ३।।
अहो तपस्विना देवगुरुणा त्वं नियोजिता ।
किं सुखं सौरतं तेन तव शान्तिकरं भवेत् ।। १४।।
अहं चन्द्रो मम राज्यं स्वर्गे साक्षाद् विलोक्यते ।
आगच्छ वा भव तत्र शप्तविंशतिमानिता ।। १५।।
निष्फलं यौवनं याति वृद्धेन स्वामिना तव ।
स्वप्ने जागरणे चापि ध्यायन्नास्ते बृहस्पतिः ।। १६।।
अन्यश्च त्वन्मनःकामो गुरोरन्यच्चिकीर्षितम् ।
ययोस्तु भिन्नौ विषयौ का प्रीतिः संगमे तयोः ।। १७।।
वासन्तीपुष्पतल्पे वा गन्धचन्दनचर्चिते ।
भवती युवती भाग्यवती तत्रैव मोदताम् ।। १८।।
इत्युक्त्वा मदनोन्मत्तः पपात चरणे पुनः ।
निरुद्धमार्गा चन्द्रेण प्रोवाच तं पतिव्रता ।। १ ९।।
शिष्यस्त्वं गुरुपत्नी ते तारा भवामि मातृवत् ।
वक्तुं न लज्जसे कामिन् कथमन्धो विजायसे ।।1.445.२०।।
नाऽस्म्यहं कामिनी चन्द्र! सती चाहं तपस्विनी ।
पवित्रा पावनी माता ते भवामि कुपुत्रक ।।२१ ।।
सप्तविंशतिनार्यस्ते सन्ति किम्वधिकं मयि ।
मनो यच्छ सुखं गच्छ किं साध्व्या ते प्रयोजनम् ।।२२।।
अत्रेरभाग्यात्त्वं जातो व्यर्थं ते जन्म जीवनम् ।
धिक् त्वां परप्रियातृष्णं व्यर्थं ते सर्वसुकृतम् ।।२३।।
अहं तपस्विनी दुष्ट! तपस्विनां समाश्रिता ।
योग्यः स योगिराड् बृहस्पतिर्मे मुक्तिदायकः ।।२४।।
त्वादृशो जारकर्मा च क्षुद्रकामजितो यदि ।
सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि ।।२५।।
दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति ।
त्यज मां प्रति संकल्प सत्यं ते शं भविष्यति ।।२६।।।
इत्युक्त्वा पार्श्वतस्तारा यावद् याति शशी तु ताम् ।
प्रसह्य च करे धृत्वा रथे नीत्वा ययौ दिवम् ।।२७।।
रुरोदाऽऽक्रन्दनं तारा चकार साक्षिणं रविम् ।
धर्मं वायुं धरां वह्निं व्योमाऽजं जलमच्युतम् ।।२८।।
कलशस्थं जलं तारा करे कृत्वा पतिव्रता ।
सती चन्द्रं भस्म कर्तुं यावद् यतते रोषतः ।।।२९।।।
तावद् व्योमगिरा रुद्धा मा भस्मीकर्तुमर्हसि ।
सर्वः कर्मफलं भुंक्ते तथा ते फलमागतम् ।।1.445.३०।।
शृणु साध्वि सति बाले कृतं चाऽज्ञातया त्वया ।
यदा त्वं दशवर्षीया पितृगेहस्थिता तदा ।।३ १।।
श्वदम्पतीमिथुनस्थौ चालिङ्गितौ तवाऽऽश्रमे ।
त्वया दृष्टौ तदा यष्ट्या पाषाणेनापि ताडितौ ।।३२।।
अप्राप्तौ कामनिर्वृत्तिं वियोजितौ विद्रावितौ ।
कामाऽतृप्त्या तदा शुन्या शप्ता त्वं तद्विभाषया ।।३३।।
अहो दुष्टे! यथा पत्युर्वियोगं त्वं करोषि मे ।
तथा तवापि पत्युश्च वियोगस्ते भविष्यति ।।३४।।
अन्यः श्वा च यथा मयि फलिष्यति तथा त्वयि ।
अन्यश्वावद् अपतिस्ते फलिष्यति त्वयि ध्रुवम् ।।३५।।
कामासक्तौ क्षुद्रकीटौ यद्वा पशू पतत्रिणौ ।
मानवौ वाऽन्यजातीयौ वियोक्तव्यौ न कर्हिचित् ।।३६।।
कामतृप्तिमनालब्धौ धार्मिकौ वाऽप्यधार्मिकौ ।
कामतृप्तिप्रविद्वद्भिर्वियोक्तव्यौ न कर्हिचित् ।।३७।।
रतिविघ्नकृतां भार्यानाशो वां भर्तृनाशनम् ।
वियोगो वा महारोगो जायते नात्र संशयः ।।३८।।
कामाऽतृप्तौ समुत्थोऽग्निर्भस्मीकरोति विघ्नदम् ।
तथा त्वया कृतं कर्म तारे! भुंक्ष्व फलं हि तत् ।।३९।।
अन्यथा ते च तत्कर्म भविष्यति न सुकृतम् ।
यो ददाति परस्मै च दुःखमेव तु सर्वतः ।।1.445.४० ।।
तस्मै ददाति दुःखं तु शास्ता नारायणः स्वयम् ।
अन्यच्छृणु तथा तारे! स्वामिना ते कृतं पुरा ।।४१ ।।
बुहस्पतिरुतथ्यश्च संवर्तश्च त्रयोऽपि ते ।
पुत्राश्चांगिरसः सर्वे वेदवेदांगपारगाः ।।४२।।
संवर्ताय कनिष्ठाय दायभागं बृहस्पतिः ।
किंचिदपि ददौ नैव संवर्तो भिक्षुकोऽस्ति यत् ।।४३।।
तस्य निःश्वासदग्धेयं गृहलक्ष्मीर्बृहस्पते ।
त्वत्स्वरूपा परेणापि नीयते मा शुचोऽत्र वै ।।४४।।
मध्यमस्योतथ्यकस्य सतीं भार्यां च गुर्विणीम् ।
जहार कामतस्तां स भ्रातृजायां बृहस्पतिः ।।।४५।।।
यो हरेद् भ्रातृजायां तु कामी कामादकामुकीम् ।
ब्रह्महत्यासहस्रं स लभते मरणादनु ।।।४६।।
कुंभीपाकं स यात्येव यावत्कल्पं ततः पुनः ।
वर्षकोटिसहस्राणि विष्ठाकृमिः प्रजायते ।।४७।।
योनिकीटस्ततो गृध्रः शतजन्मानि कुक्कुरः ।
ततश्च सूकरो भूत्वा मानवः स्त्रीविहीनकः ।।४८।।
नाऽभुक्तं क्षीयते प्राप्तं कर्म सोढव्यमेव यत् ।
बृहस्पतेरुतथ्यस्य पत्नीहरणपातकम् ।।४९।।
कारणं ते हरणेऽस्ति मा भस्मीकुरु चन्द्रकम् ।
एवं कृते द्वितीयं ते ब्रह्महननपातकम् ।।1.445.५०।।
भविष्यति ततस्तारे! यथाभाग्यं शमं कुरु ।
इत्युक्ताऽऽकाशवाण्या सा विरराम शशाप न ।।५१ ।।
सती पतिव्रता साध्वी चन्द्रं प्रसह्य शिश्रिये ।
अकामिन्यां प्रसह्यैव रेमे निशापतिर्मुहुः ।।।५२।।।
स्वर्गे सुखमये रम्ये पुष्करे पुष्पकानने ।
पृथ्व्यां मेरौ नदे नद्यां शृंगारं कुर्वतोस्तयोः ।।।५३ ।।
गतं वर्षशतं हर्षान्मानवं स्वर्मुहूर्तकम् ।
गर्भं दधार सा तारा चन्द्रादमोघमुत्तमम् ।।५४।।
अथ चन्द्रश्चातिभीतो दैत्येषु शरणं गतः ।
शुक्राचार्यगृहे तस्थौ तारया सह सत्कृतः ।।५५।।
अभयं तु ददौ तस्यै शुक्राचार्योऽतिगर्वितः ।
गुरुं जहास देवानां सुविपक्षं बृहस्पतिम् ।।५६।।
सभायां जहसुर्दैत्या भीताया चाभयं ददुः ।
सतीसतीत्वध्वंसेन पापिष्ठचन्द्रमण्डले ।।५७।।
बभूव शशरूपं च कलंकं निर्मले मलम् ।
शुक्रश्चन्द्रमसं प्राह त्वया योग्यं न वै कृतम् ।।५८।।
त्वमहो ब्रह्मणः पौत्रोऽप्यत्रेर्भगवतः सुतः ।
दुर्नीतं कर्म ते पुत्र नीचवन्न यशस्करम् ।।५९।।
राजसूयफले स्वच्छेऽमृतसागरके दिवि ।
कलंकरूपो मदिराबिन्दुस्त्वया समर्जितः ।।1.445.६०।।
त्यज देवगुरोः पत्नीं प्रसूमिव महासतीम् ।
तथ्यं वाच्यं रिपौ मित्रे सत्यं विजयते सदा ।।६१ ।।
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।
सः शत्रुर्मे सुरगुरुर्धर्मो वाच्यो हि संसदि ।।६२।।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।
गौरेकं पञ्च च व्याघ्री सिंही सप्तप्रसूयते ।।६३।।
हिंसकाः प्रलयं यान्ति धर्मो रक्षति धार्मिकम् ।
देवाश्च गुरवो विप्राः शक्ता यद्यपि रक्षितुम् ।।६४।।
तथापि नहि रक्षन्ति धर्मघ्नं पापिनं जनम् ।
धर्मं चर महाभाग ब्राह्मणीं त्यज साम्प्रतम् ।।६५।।
उपायेन तु ते पापं तूर्णं दूरीभविष्यति ।
भीतो दीनः शरणार्थी रक्षणीयः सुधार्मिकः ।।६६।।
अधार्मिकस्य रक्षायां विनिपातः समन्ततः ।
आगच्छ चन्द्र गंगायां भूतशुद्धिं समाचर ।।६७।।
इत्युक्त्वा तं दैत्यगुरुर्मन्दाकिन्यां निनाय च ।
स्नापयामास च हरेः कारयामास पूजनम् ।।६८।।
कृष्णपादाब्जयुक्तं च तन्नैवेद्यं सुपावनम् ।
तुलसीदलमिश्रं स भोजयामास चन्द्रकम् ।।६९।।
पापं प्रक्षालयामास कुशहस्तो हरिं स्मरन् ।
शुक्राचार्यः कृपां कृत्वा समुवाच पुनः पुनः ।।1.445.७०।।
यद्यस्ति मे तपः सत्यं सत्यं पूजाफलं हरेः ।
सत्यं व्रतफलं चापि सत्यं सत्यवचःफलम् ।।७१ ।।
तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि ।
उपवासफलं सत्यं शिष्यभक्तोऽस्म्यहं यदि ।।७२।।
वैष्णवः कृष्णभक्तश्च पापान्मुक्तः शशी भवेत् ।
विप्रं विप्रकर्महीनं पतिं स्वस्त्रीप्रवञ्चकम् ।।७३।।
पतिवञ्चनशीलां च देवप्रसादवर्जितम् ।
स्वीयश्लाघाप्रकर्तारं परस्य निन्दकं तथा ।।७४।।
पोष्यवर्गाऽपोषकं च कुलटासंगतं तथा ।
व्रताऽपालनकं पापं सतीशीलविनाशकम् ।।७५।।
अश्वत्थतुलसीबिल्वच्छेत्तारं विष्णुनिन्दकम् ।
साधूनां द्रोहकर्तारं साध्वीनां द्वेषिणं तथा ।।७६।।
मातापितृदुःखदं च देवादिवृत्तिनाशकम् ।
गोविप्रादिप्रहन्तारं यातु तान् चन्द्रपातकम् ।।७७।।
चन्द्रपापेन ते यान्तु दारुणां घोरयातनाम् ।
स्वपापेन सह ते वै सहन्तां यमयातनाम् ।।७८ ।।
इति चन्द्रं शुचिं कृत्वा समुवाच पुनश्च तम् ।
तारा गर्भवती जाता तव योगेन चन्द्रक ।।७९।।
त्वं तु शुद्धीकृतश्चात्र मा तारां स्पृश वै पुनः ।
अकामेन च कामेन मातरं मा स्पृश क्वचित् ।।1.445.८०।।
इति चन्द्रं शुचिं कृत्वा समुवाच तु तारकाम् ।
त्यक्त्वा चन्द्रं महासाध्वि गच्छ कान्तं बृहस्पतिम् ।।८१ ।।
प्रायश्चित्तं विना पूता त्वमेव शुद्धमानसा ।
अकामाऽपि बलिष्ठेन भुक्ता स्त्री नैव दुष्यति ।।८२।।
प्राप्ते तु मासिके राजस्वल्ये नारी प्रशुद्ध्यति ।
इत्येव मुक्त्वा शुक्रस्तु चन्द्रं च तारकां सतीम् ।।८३ ।।
आशिषः प्रददौ सम्यक् सत्कारं मानमाचरत् ।
अथैतस्मिन्नवसरे बृहस्पतिस्तपोनिधिः ।।८४।।
शिष्यं पप्रच्छ मातस्ते कथं स्नाने विलम्बते ।
पश्य याहि कथं स्नात्वा यथाकालं न चागता ।।८५।।
शिष्योऽन्विष्य न संप्राप्य श्रुत्वाऽपहरणं शुकान् ।
रुदन्नागत्य ताराऽपहरणं प्राह गीष्पतिम् ।।८६ ।।
श्रुत्वा बुहस्पतिस्तारा चन्द्रेणाऽपहृतां प्रियाम् ।
रुरोदोच्चैर्विललाप सशिष्यो दूयता हृदा ।।८७।।
प्रोवाच प्राक्कृतं कर्म काले पक्वेऽभिबाधते ।
उतथ्यभार्याहर्तुर्मे भार्या चन्द्रेण वै हृता ।।८८।।
संवर्ताय धनाऽदातुः सर्वस्वं मे हृतं गृहम् ।
दुःखं धर्मविरुद्धो यः स प्राप्नोति न संशयः ।।८९।।
भावानुरक्ता सुशीला सुशासिता पतिव्रता ।
गृहाधिष्ठातृदेवी च गता यस्य गृहादहो ।।1.445.९०।।
भार्यामूलं सुखं सर्वं स्वर्गो मोक्षश्च निर्गताः ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ।।९१ ।।
इति विलप्य बहुधा पुरन्दरगृहं ययौ ।
स गुरुः पूजितस्तेन त्वाथित्येन मरुत्वता ।।९२ ।।
तमुवाच स्ववृत्तान्तं हृदि शल्यमिवाऽपरम् ।
बृहस्पतिवचः श्रुत्वा रुषा प्रज्वलितान्तरः ।।९३ ।।
महेन्द्रः प्रेषयामास चारकर्मणि देवताः ।
प्राह गुरुं त्यज चिन्तां कस्य श्रीर्विपदं विना ।।९४।।
दूताश्चन्द्रं शक्रसौधे तं प्रपन्नं निरामयम् ।
दृष्ट्वा सतारकं भीतं कथयामासुरिन्द्रकम् ।।९५।।
श्रुत्वेन्द्रः शोकमापन्नो हृदयेन विदूयता ।
प्राह चन्द्रो बलिष्ठस्याऽऽश्रयेऽजय्यो हि वर्तते ।।९६।।
अस्माभिः रचनीयं वै चक्रं तस्मान्महत्तमम् ।
गच्छ शीघ्रं ब्रह्मलोकमस्माभिः सार्धमेव हि ।।९७।।
ब्रह्मणा सह यास्यामः कैलासे शंकरं वयम् ।
इत्येयं ते गताः सत्यं प्रणेमुर्वेधसं तथा ।।९८।।
प्रोचुस्ते सर्ववृत्तान्तं श्रुत्वा ब्रह्माऽप्युवाच तान् ।
यो ददाति परस्मै तु दुःखं वृथा हि सर्वतः ।।९९।।
तस्य दुःखं समायाति न्यायालयाद्धि शासितुः ।
संवर्तोतिथ्यगुरव आत्रेयास्त्रय एव ते ।। 1.445.१० ०।।
संवर्ताय कनिष्ठाय न दायं प्रददौ गुरुः ।
मध्योतथ्यस्य गुर्विणी भार्या तु गुरुणा हृता ।। १०१ ।।
तत्फलं तु गुरुः प्राप्तः कृतं भोगेन नश्यति ।
तथाप्यत्र यतिष्यामो गत्वा श्रीशंकरं शिवम् ।। १ ०२।।
शंकरः कृष्णपुत्रोऽस्ति गुरुः कृष्णवरोद्भवः ।
अंगिरसो मुनेः पत्न्यामतो भ्राता हि गण्यते ।। १ ०३।।
दक्षयज्ञे सती दग्धा शंभुर्विचित्ततां गतः ।
आंगिरास्तं ददौ ज्ञानं शिष्यश्चांगिरसः शिवः ।। १ ०४।।
एवंरीत्याऽपि स भ्राता शिवो बृहस्पतेर्भवेत् ।
शुक्रो मृत्युञ्जयमात्राद् बिभेति नान्यतः क्वचित् ।। १ ०५।।
शिवस्तस्मै नीतिमुक्त्वा तारां प्रदापयिष्यति ।
इति सर्वे गताः श्रेष्ठाः कैलासं शंकरालयम् ।। १ ०६।।
दृष्ट्वा बृहस्पतिं शंभुरुदतिष्ठत् कुशासनात् ।
ब्रह्मादिभ्यो ददौ सिंहासनान्युवाच गीष्पतिम् ।। १ ०७।।
कथमेवं विधो भ्रातर्म्लानास्यो लक्ष्यसे वद ।
किं वा तपस्या नष्टा ते किं वा सन्ध्याविवर्जितः ।। १ ०८।।
किं वा श्रीमत्कृष्णनारायणसेवाविवर्जितः ।
किं वा पित्रोरिष्टदेवे भक्तिहीनो गुरौ च किम् ।। १ ०९।।
किं वा शरणमापन्नं रक्षितुं शक्यते न वै ।
किं वाऽतिथयो विमुखाः पोष्यास्ते किं बुभुक्षिताः ।। 1.445.११ ०।।
किमु वा ते चाऽवशा स्त्री पुत्रो नाऽऽज्ञाकरश्च किम् ।
शिष्यभृत्यादयः कि ते प्रत्त्युत्तरप्रदा ननु ।। १११ ।।
किं वा लक्ष्मीर्हासजुषा किं वा रुष्टो गुरुस्तव ।
वैष्णवा वाडवाश्चान्ये रुष्टाः किं प्रबलो रिपुः ।। ११ २।।
किं वा कुटुम्बविच्छिन्नो निर्धनो वा प्रशोचसि ।
किंवा खलैः कृतः क्लिष्टस्त्यक्तोऽसि बान्धवैश्च किम् ।। १ १३।।
किं वा तीर्थं व्रतं दानं पुण्यं नीतं हि राक्षसैः ।
किं वा निन्दा श्रुता साक्षाद् गुरोर्निन्दाऽधिका मृतेः ।। १ १४।।
किं वा ते पापकृत्कर्म बभूव म्लानकारकम् ।
वद विपद्गतं तेजस्त्यजत्यपि दिवाकरम् ।। ११५।।
इत्यापृष्टो गुरुः शंभुं वृत्तान्तमाह दुःखदम् ।
तारापहरणं श्रुत्वा नम्रास्योऽभूत् क्षणं शिवः ।। १ १६।।
उवाच तु क्षणं ध्यात्वा कृतकर्मफलं त्विदम् ।
यदा गुरो फलं स्वस्य कर्मणः प्राप्यते तदा ।। १ १७।।
निष्कासितं ताडितं च दूरं भवति नैव तत् ।
कार्ये पराक्रमे स्मृद्धौ कीर्तौ वंशे कुटुम्बके ।। १ १८।।
जले पुत्रे प्रतापे च भूमौ धने सुते हरौ ।
स्वभावे वचने बुद्धौ चाश्रमे चावलम्बने ।। ११ ९।।
व्यवहारे तथाऽऽचारे चरित्रे दानकर्मणि ।
प्राक्कृतस्याऽनुरूपं वै जायते हृदयं नृणाम् ।। 1.445.१२० ।।
चन्द्रस्य हृदयं तादृक् तव कर्मप्रपेरितम् ।
यादृग् येषां पूर्वकृत्यं तादृक् तेषां तु मानसम् ।। १२१ ।।
स्वयं तु कर्मजनकः कर्म दैवस्य कारणम् ।
दैवं स्वभावहेतुश्च स्वभावात् प्रतिजन्मनि ।। १ २२।।
सुखं दुःखं भयं शोकः कालुष्यं स्वस्य जायते ।
अहोऽनिष्टं कृतं मातृगामित्वं शशिना त्विदम् ।। १ २३।।
शिवमस्तु तु साधूनां वैष्णवानां सतां सदा ।
असतां पापनिष्ठानामशिवं स्यात् पदे पदे ।। १ २४।।
अन्येषां दुःखकर्ता यो विघ्नस्तस्य पदे पदे ।
कृष्णनारायणस्मृतिमनोनैर्मल्यकारणम् ।। १ २५।।
अहो श्रीकृष्ण भक्तस्य कीदृक् हृदयं निर्मलम् ।
हृतभार्यमपि चन्द्रं न शशाप बृहस्पतिः ।। १ २६।।
गुरुर्यस्य वशिष्ठोऽपि धार्मिकः सात्त्विकः सदा ।
शतपुत्रप्रहन्तारं विश्वामित्रं शशाप न ।। १२७।।
निःश्वासाद्वै बृहस्पतेर्भस्मीभूतो भवेच्छशी ।
ताराया अपि शापेन कृष्णलौहो भवेच्छशी ।। १ २८।।
तथापि तं क्षेपतुर्न तपोध्वसो न यद् भवेत् ।
वर्णेषु ब्राह्मणाः श्रैष्ठ्यं प्राप्ता वै क्षमया किल ।। १२९ ।।
विप्णुभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो वरः ।
परिपक्वा अपक्वा वा वैष्णवाः साधवश्च ते ।। 1.445.१३० ।।
सततं पाति ताँश्चोग्रं विष्णुचक्रं सुदर्शनम् ।
वायुश्च पवनो वह्निः सूर्यो ब्रह्माऽप्यहं हरः ।। १३१ ।।
शेषो धर्मः सर्वसाक्षी वाञ्च्छामो वैष्णवाश्रयम् ।
चन्द्रोऽपि दुर्बलो भीतः सुदर्शनाभिरक्षितम् ।। १ ३२।।
दैत्यगुरुं भागवतं तं शुक्रं शरणं ययौ ।
तं जेतुं केऽपि शक्ता न यतिष्ये तत्तथापि वै ।। १३३ ।।
भज सत्यं परं ब्रह्म पत्नीं प्राप्स्यसि लीलया ।
तावद् भवेत्तु भोगेच्छा स्त्रीसुखेच्छा नृणामिह ।। १ ३४।।
यावद् गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः ।
संप्राप्य दुर्लभं मन्त्रं वितृष्णो हि भवेन्नरः ।। १ ३५।।
ततो नेच्छति विषयान् मोक्षं वा दास्यमन्तरा ।
यदीच्छति चेद् विषयान् विषमत्ति न संशयः ।। १३६।।
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः ।
कपिलश्च कुमारश्च नरनारायणावृषी ।। १ ३७।।
स्वायम्भुवो मनुश्चापि प्रह्लादश्च पराशरः ।
भृगुः शुक्रश्च दुर्वासा वशिष्ठः क्रतुरंगिराः ।। १ ३८।।
बलिश्च वालखिल्याश्च वरुणश्च हुताशनः ।
वायुः सूर्यश्च गरुडो दक्षो गणपतिर्धरा ।। १३९।।
सर्वे कृष्णस्य दासाः स्मः कलांशा गर्ववर्जिताः ।
भज ओं श्रीकृष्णनारायणाय स्वामिने नमः ।। 1.445.१४०।।
पठ-ओं श्रीं ह्रीं क्लीं श्रीकृष्णाय श्रीपतये नमः ।
वयं यामो यत्र शुक्रश्चन्द्रस्तारा वसन्ति वै ।। १४१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चन्द्रकृतबृहस्पतिपत्नीपतिव्रताताराऽपहरणं, भयाच्चन्द्रस्य शुक्राचार्यशरणगमनम्, शुद्धता द्वयोर्दर्शिता, बृहस्पतेरुतथ्याख्यानुजस्त्रीहरणस्य फलमिदम्, ताराप्राप्त्यर्थं ब्रह्मविष्णुमहेशेन्द्रबृहस्पतीनां मन्त्रणा चेतिनिरूपणनामा पञ्चचत्वारिंशदधिकचतुश्शततमोऽध्यायः ।।४४५।।