लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३५
[[लेखकः :|]]
अध्यायः ४३६ →

श्रीनारायण उवाच-
शृणु त्वं मनसा सार्धं ब्रवीम्यत्यद्भुतां कथाम् ।
अज्ञा अपि प्रमोदन्ते यां श्रुत्वा पद्मजे प्रिये ।। १ ।।
मरुभूमौ गिरौ देशे पुरा वै गालवो मुनिः ।
परब्रह्म हरिकृष्णनारायणं स्मरन् सदा ।। २ ।।
तपस्तेपे गिरौ स्वस्याश्रमे वृक्षजलान्विते ।
पुत्री तस्याऽतिसौभाग्या नाम्ना कान्तिमती सती ।। ३ ।।
कृष्णपतिव्रता भक्ता साध्वी पूताऽतिवैष्णवी ।
तुलसीमालिकां कृष्णां कण्ठे धारयति ध्रुवाम् ।। ४ ।।
करे च मालिकां धृत्वा कृष्णकृष्णेति सर्वदा ।
जपं करोति सा साध्वी रूपयौवनशालिनी ।। ५ ।।
कृष्णनारायणं हित्वा पतिं नान्यं हि वाञ्छति ।
पतिं सत्यं परं कृष्णं ज्ञात्वा कृष्णपतिव्रता ।। ६ ।।
शयने भोजने याने भ्रमणे चाश्रमे द्रुमे ।
पाने देहादिकार्येऽपि न विस्मरति तं पतिम् ।। ७ ।।
श्रीकृष्णस्तां रहस्ये वै प्रत्यक्षो ह्यभवत् क्वचित् ।
अथैकदा परीक्षां वै कृतवान् भगवान् स्वयम् ।। ८ ।।
यथा नित्यं च सा बाला वेदिसम्मार्जनादिकम् ।
बल्यर्थं च मुनेः पुष्पाहरणं समिधां तथा ।। ९ ।।
आनयनं करोत्येव तथा सा दिवसे सती ।
पूजायां कृष्णबल्यर्थं पुष्पाण्याहर्तुमुद्यता ।। 1.435.१० ।।
आश्रमस्य समीपे सा पुष्पस्तम्बके कन्यका ।
गत्वा पुष्पाणि रम्याणि समाहृत्य च पेटके ।। ११ ।।
कृत्वा निववृते यावत् तावत्ता पुष्टयौवनाम् ।
व्योमयानेन निर्गच्छन् विद्याधरकुमारकः ।। १ २।।
सुदर्शनाभिधो दृष्ट्वा काममोहवशंगतः ।
तया रिरंसुकामः स विमानाग्रादवातरत् ।। १ ३।।
कन्यां प्राह निजस्नेहं दर्शयन् स्निग्धया गिरा ।
यदि कन्ये! परकीया नासि चेत् त्वां प्रकामये ।। १४।।
गान्धर्वेण विधिनाऽत्र यदि योग्यं हि मन्यसे ।
सुकण्ठनामधेयस्य विद्याधरसुतोऽस्म्यहम् ।। १५।।
सुदर्शनाभिधस्त्वं च वद स्वस्या मनोगतम् ।
परिगृह्णीष्व मां भद्रे भजमानमुपस्थितम् ।। १६ ।।
तदा कान्तिमती प्राह कन्याऽहं गालवस्य वै ।
अनूढा वैष्णवी शुद्धा पितृसेवापरायणा ।। १७।।
कृष्णनारायणकान्तशुश्रूषणपरायणा ।
नान्यं पतिं समिच्छेऽहं पिता कोपं विधास्यति ।। १८।।
कुसुमानां विलम्बेन विद्याध्र गच्छ मा चिरम् ।
कन्या तु पितुरधीना न स्वतन्त्रा कदाचन ।। १ ९।।
नाऽहं कांक्षे पतिं चापि विष्णुभक्ता तपस्विनी ।
इत्युक्तः स तु विद्याध्रो गत्वा पार्श्वे प्रकामतः ।।1.435.२०।।।
जग्राह तां तु केशेषु तावद् बाला समुच्चकैः ।
चक्रन्द सहसा विद्याधराज्जनक त्राहि माम् ।।२१ ।।
तावदेव क्षणात्तत्र पार्श्वस्था गालवादयः ।
श्रुत्वा तूर्णं समाजग्मुर्ददृशुस्तं सुदर्शनम् ।।२२।।
सुतां त्यक्त्वा भयाच्छीघ्रं पलायमानं चाम्बरे ।
गालवस्तां शशापैवं दुष्टस्त्वं मानुषो भव ।। २३।।
व्योममार्गात्पतत्वत्र धर्षणस्य फलं व्रज ।
चिरं कालं याहि निन्दां ततो वेतालतां व्रज ।।२४।।
मांसशोणितभोक्ता त्वं भव दुःखी महावने ।
इत्युक्तस्य तदा तद्वै विमानं पतितं क्षितौ ।।२५।।।
विद्याध्रः पतितस्तस्माद् विमानं तु दिवं गतम् ।
कर्मवशाद् यमुनायास्तटे चिरनिवासिनः ।।२६।।
गोविन्दस्वामिनः पत्न्यां विद्याध्रो बालकोऽभवत् ।
विजयदत्तसंज्ञां च तस्य चक्रे पिता द्विजः ।।२७।।।
जातिस्मरो ह्यभूत् सोऽपि पूर्वकर्म स्मरत्यपि ।
युवा पुत्रोऽभवद् यावद् यात्रार्थं काशिकां पुरीम् ।।२८।।
सपुत्रभार्यो गोविन्दस्वामी ययौ शनैः शनैः ।
मार्गाऽऽगते प्रयागे च कृत्वा तीर्थं ततश्च सः ।।२९।।
तत्रत्यं योगिनं कंचित् कपालमालिनं श्रुतम् ।
दृष्ट्वा श्रुत्वा तदुक्तं यत् पुत्रध्वंसोऽचिरात्तव ।।1.435.३ ०।।
एवमाकर्ण्य गोविन्दस्वामी काशीं प्रति द्रुतम् ।
ययौ मार्गे ह्यकस्माच्च हिमवायुः समुत्कटः ।।३ १ ।।
ववौ पुत्रश्च शैत्येनाऽऽवृतो वह्निर्न चाप्यते ।
ग्रामीणास्तु जनास्तत्राऽन्तिके गंगातटे शवम् ।।३२।।
दग्धुं समागतास्त्वन्यमृतस्य ग्रामवासिनः ।
तस्य चिताग्निना शैत्यं दूरीकर्तुं सुतो ययौ ।।३३।।
पार्श्वे विजयदत्तः स स्थित्वा गृह्णाति तापकम् ।
अस्मिन्नवसरे वंशं गृहीत्वा दाहकः शवम् ।।३४।।
शिरोभागं च दाहार्थं वंशेनाऽग्नौ समाक्षिपत् ।
तावद्वंशेन तु द्वेधा शिरस्तत् समभूत्ततः ।।३५।।
वह्नियोगेन च वेगाद् रक्तं विजयदात्तिके ।
मुखे चागत्य संलग्नं तावदेवातिभ्रष्टताम् ।।३६।।
प्राप्तो विजयदत्तः स वेतालः समजायत ।
तीक्ष्णदंष्ट्रो महाकायो बभूवाऽतिभयंकरः ।।।३७।।
शववसां लेलिहानश्चापिबत्तत्र तां मुहुः ।
तस्याऽट्टहासघोषेण वेतालनर्तनेन च ।।३८।।
दिशः प्रदिशो विदिशः स्फुटिता ह्यभवन्निव ।
अथ स्वपितरं चान्यान् हन्तुं दधाव चाम्बरात् ।।३९।।
भीताः सर्वे श्मशानाद्वै पलायिताः समन्ततः ।
वेतालः स शवं जग्ध्वा बभूव बलवाँस्ततः ।।1.435.४०।।
श्माशानिकैस्तु वेतालैर्मिलित्वा वासमाचरत् ।
वेतालानां कदाचिद्वै गन्धर्वैः सह योधनम् ।।४१ ।।
विन्ध्याचले ह्यभूद् घोरं तत्राऽयं जयमाप्तवान् ।
वेतालराजा सम्पन्नो राज्यवान् विन्ध्यपर्वते ।।४२।।
अथ वेतालरूपं तं त्यक्त्वा पुत्रं द्विजस्ततः ।
प्रववृते सभार्यश्च जगाम काशिकापुरीम् ।।४३ ।।
तत्राऽभवत्सुतस्तस्य द्वितीयो वज्रवद्वपुः ।
काश्यां वासं सपुत्रः सः चक्रे कृष्णपरायणः ।।४४।।
अत्रान्तरे नरपतिं प्रतापमुकुटाभिधम् ।
काशिदेशाभिधं मल्लः कश्चिदभ्याययौ बली ।।४५।।
काशीराजोपदेशेन वज्रदेहो द्विजस्तु तम् ।
मल्लयुद्धे महामल्लमहनत् प्राणतस्तदा ।।४६।।
काशीराजेन विप्राय ग्रामाः पञ्च समर्पिताः ।
कदाचित् काशिकाराजो द्विजपुत्रेण संयुतः ।।४७।।
सन्ध्यायां विजने देशे चचार तावदेव तु ।
संशुश्राव कष्टमयीं दीनां वाणीं तु दूरतः ।।४८।।
अहो कष्टमहो कष्टं काशीराजस्य शासने ।
स्वल्पापराधे शूले वै समारोषोऽतिदारुणः ।।४९।।
अहो प्राणा न वियन्ति तृषा मां बाधते त्वति ।
इति श्रुत्वा काशिकेशस्तूर्णं ययौ सभूसुरः ।।1.435.५०।।
जलमादाय तं पातुं वज्रांगो याति यावता ।
तत्र तस्य गृहपत्नी स्थिता दृष्टा द्विजेन वै ।।५१ ।।
सापि पतिव्रता मृतं चानुयातुं तदा स्थिता ।
प्राहैनं च जलं दातुं ह्रस्वाऽहं पारयामि न ।।५२।।
वज्रांगश्च दयायुक्तस्तां वधूमब्रवीत्तदा ।
मातर्मत्स्कन्धमारुह्य देह्यस्मै शीतलं जलम् ।।५३।।
इत्युक्ता सा तु वेताली वज्रांगस्कन्धमास्थिता ।
जलं गृहीत्वा वेतालं शूलस्थं मायिकाकृतिम् ।।५४।।
मृषाशूलस्थितं पत्नी जलं तं समपाययत् ।
अथाऽपृच्छद् द्विजपुत्रः कासि कोऽयं च तेऽस्ति वै ।।५५।।
कथं दण्डं समापन्नः सत्यं ब्रूहि शुभानने ।
वैताली प्राह मे स्वामी भवत्ययं पुरा द्विजः ।।५६।।
गोविन्दस्वामिनः पुत्रो विजयदत्तसंज्ञकः ।
ततः पूर्वं ह्यभूच्चायं विद्याधरः सुदर्शनः ।।५७।।
गालवस्य सतीं पुत्रीं त्वधर्षयत् क्षणं वने ।
तावद् गालवमुनिना शप्तोऽयमीदृशीं गतिम् ।।५८।।
गतोऽस्ति तस्य भार्याऽहं वैताली नौ समुद्धर ।
उद्धारार्थं कृतं त्वेतच्छूल्यादिकं मृषात्मकम् ।।५९।।
जलं प्राप्तं तव हस्ताच्छूलीमिषेण पावनम् ।
तेनाऽयं पावितो भूतः भूताऽहं पाविता तथा ।।1.435.६ ०।।
कुरु नौ मोक्षणं विप्र सर्वदानफलं भवेत् ।
राजसूये वाजपेये गोमेधे नरमेधके ।।६१ ।।
अश्वमेधे लांगले च विष्णुयज्ञे यशःक्रतौ ।
धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके ।।६२।।
लोहयज्ञे स्वर्णयज्ञे पटलव्याधिखण्डने ।
शनुयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धके ।।६३।।
इष्टौ वरुणयज्ञे च कन्दुके वैरिमर्दने ।
शुचियागे धर्मयागे रेचने पापमोचने ।।६४।।
बन्धने कर्मयोगे च मणियागे सुभद्रके ।
श्येनयागे वाजपेये सावित्रे कमलक्रतौ ।।६९।।
जपयज्ञे ज्ञानयज्ञे कथायज्ञे च यत्फलम् ।
तत्फलं ते ध्रुवं भावि वैतालानां विमोक्षणात् ।।६६।।
श्रुत्वा द्विजः स्वराजानं प्राहैते प्रेतरूपिणः ।
तव राज्ये काशिराज्ये वर्तन्ते नृप दुखिनः ।।६७।।
गंगातोयप्रदानेन कर्तव्यं तद्विमोक्षणम् ।
राजा प्राह तव भ्राता वेतालोऽयमभूत् पुरा ।।६८।।
त्वया जलं पायितं च पापनाशोऽस्य विद्यते ।
तस्य मोक्षकरं त्वन्यत्कर्तव्यं यद्भवेद्धि तत् ।।६९।।
इत्युक्त्वा भूपतिस्तस्मै पृष्ठवान् शूलवर्तिने ।
वद् प्रमोक्षणं केन कर्मणा ते भवेदिह ।।1.435.७०।।
प्रेतः प्राह ऋषेः शापान्मोक्षणं नान्यतो भवेत् ।
ऋषेरेव प्रसादेन मोक्षणं मे भविष्यति ।।७१ ।।
काशिराजस्तथा गोविन्दस्वामी मे पिताऽनुजः ।
माता चेति भवन्तो वै गच्छन्तु गालवं मुनिम् ।।७२।।
मम दुःखस्य निस्तारस्तदुक्तविधिना भवेत् ।
अथ श्रुत्वा तु ते सर्वे गता यत्र स गालवः ।।७३ ।।
कन्यायुतं मुनिं नत्वा ववन्दिरे पुनः पुनः ।
सत्कृता गावलेनाथ प्रोचुर्वृत्तान्तमेव तम् ।।७४।।
ऋषिः प्राह सती साध्वी कन्या मे पारमेश्वरी ।
सर्वसिद्धिमयी महाभागवती च वैष्णवी सती ।।७५।।
शरणागतजीवानां रक्षयित्री दयावती ।
कृष्णनारायणभक्तिमती त्वैश्वर्यशालिनी ।।७६।।
दिव्या नारायणलग्ना नारायणपरायणा ।
ब्रह्मचर्यव्रतयुक्ता कृष्णात्मकपतिव्रता ।।७७।।
क्षणेन दग्धुं शक्ता सा पापानां मेरुशालिनाम् ।
कोटिवेतालभूतानां मुक्तिं दातुं तथेश्वरी ।।७८।।
अनन्तब्रह्मणां सृष्टिं कर्तुं प्रकृतिरीश्वरी ।
वैष्णवी कमलांऽशाऽस्ति प्रसादयन्तु तां सतीम् ।।७९।।
सा वै तुष्टा महालक्ष्मीः कृष्णकान्ता सुकान्तिनी ।
तारयिष्यति वेतालान् कृष्णमन्त्रप्रदानतः ।।1.435.८०।।
इत्युक्तास्ते काशिराजादयः सर्वे कुमारिकाम् ।
मातरं जगतां लक्ष्मीं कान्तिमतीं हरिप्रियाम् ।।८ १ ।।
नेमुस्तुष्टुवुः शरणं निपेतुश्च ववन्दिरे ।
तेभ्यो वृत्तान्तमाज्ञाय वेतालमोक्षणकृते ।।८२।।
कन्या कृष्णव्रतधर्मान् प्राह सर्वसुखप्रदान् ।
सुख दुःखं भयं शोकं हर्षं मंगलमित्यपि ।।८३ ।।
सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मभिः ।
कर्मणा ब्रह्मपुत्री च वंशहीनश्च कर्मणा ।।८४।।
कर्मणा रूपवांश्चैव रोगी शश्वत्स्वकर्मणा ।
कर्मणा सूतपुत्रश्च कर्मणा चिरजीविनः ।।८५।।
कर्मणा गुणवन्तश्च कर्मणा त्वंगहीनता ।
कर्मणा भूतवेताला देवताः कर्मणा नराः ।।८६।।
कृते शुभे शुभा लोका अशुभे न्यक्कृता जनाः ।
शुभेन तेन संप्राप्तं विद्याधरत्वमित्यपि ।।८७।।
अशुभत्वं च तेनैव दुष्टभावकृतेन वै ।
सत्यां पतिव्रतायां च कन्यायां शुद्धयोषिति ।।८८।।
दुष्टचक्षुःप्रयोक्तारो जात्यन्धाः संभवन्ति वै ।
कुष्ठाः काणास्तथा खञ्जा वृक्णाः कुण्ठा भवन्ति च ।।८९।।
दुष्टभावनया दुष्टाः कर्मफलैश्च दुःखिनः ।
सतीभावनया सत्त्वगुणिनः सुखभागिनः ।।1.435.९०।।
नियमानां तु यो भङ्गो धर्मभंगो हि निश्चितः ।
अनियमेन यातारो दण्ड्या राज्ञो भवन्ति वै ।।९१ ।।
त एव यमदण्ड्याश्च कृष्णदण्ड्या भवन्ति च ।
सर्वदण्ड्याश्च ते लोके नान्यः पन्थास्तदन्यकः ।।९२।।
पत्नीव्रतं परो धर्मः सुखदः शान्तिदः सदा ।
श्रीकृष्णेन पुरा पत्नीव्रतश्चोत्पादितो द्विजः ।।९३।।
तद्वंशीयाः सर्वविप्राः ऋषयो मुनयस्तथा ।
पत्नीव्रतपराः सर्वे गृहब्रह्मव्रतान्विताः ।।९४।।
तरन्ति तारयन्त्यन्यान् नियमार्पितवर्तनाः ।
धातवो भोजनोत्पन्ना देहिनां देहसंस्थिताः ।।९५।।
नियमिता ब्रह्मचर्यं धर्मरूपाः सुखावहाः ।
अनियमे धर्मलोपो गर्भवासादिदुःखदः ।।९६।।
आत्मानन्दं परित्यज्य खर्जनानन्दमाश्रितः ।
भुंक्ते स खर्जनं दुःखं ब्रह्मानन्देन वञ्चितः ।।९७।।
दद्रुचन्द्रे खर्जनं वै पश्चात्तु ज्वलनं सदा ।
अन्यायकामभोगे च याम्ये प्रज्वलनं ध्रुवम् ।।९८।।
तस्मान्नियमितः कामो विवाहेन विमर्शितः ।
स्पर्शो नियमितश्चापि दृश्यं वाच्यं नियामितम् ।।९९।।
कस्याः कस्य तु किं भोग्यं सर्वं पूर्वैर्नियामितम् ।
नियमो धर्म एवाऽस्ति पत्नीव्रतः स यौवने ।। 1.435.१ ००।।
पतिव्रतश्च तद्वत् सः सर्वदा सुखदः खलु ।
अनेन लोपितः सो यत् कन्याया धर्षणं कृतम् ।। १०१ ।।
अनिच्छन्त्या अपि स्पर्शो विवर्ततेऽनलात्मकः ।
स तु शान्तो भवेत्तस्य कृष्णर्पणेन कल्पित ।। १ ०२।।
यूयं चेत् तस्य भूतस्य मुक्तिमिच्छथ सत्वरम् ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।। १ ०३।।
इति मन्त्रं गृहीत्वा च धृत्वा तुलसीमालिकाम् ।
कृष्णपूजाप्रसादं च जलं स्वन्नं दलादिकम् ।। १ ०४।।
मत्तो नीत्वा तत्र यान्तु यत्र वेतालपुंगवः ।
तं च वेतालसाहस्रयुतं नयत वारिधिम् ।। १ ०५।।
दक्षिणस्योदधेस्तीरे चक्रतीर्थस्य सन्निधौ ।
वेतालमुक्तिकृत्तीर्थे वेतालोद्धारकं परम् ।। १ ०६।।
स्नापयध्वं जले तत्र वेतालान् वै सहस्रशः ।
ततस्तान् वै मयोक्तं च मन्त्रं संत्रिः पुनः पुनः ।। १ ०७।।
प्रसादजं जलं चान्नं पत्रं समर्प्य भोजने ।
कुरुतैषां मोक्षणं च नान्यः पन्थाः सुखप्रदः ।। १ ०८।।
इति श्रुत्वा तु ते सर्वे कान्तिमत्यास्तदैव हि ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।। १ ०९।।
इति मन्त्रं गृहीत्वा च गृहीत्वाऽन्नं जलादिकम् ।
तया दत्तं दलं चापि नीत्वा स्तुत्वा ययुश्च तम् ।। 1.435.११ ०।।
वेतालं प्रति गत्वैते वेतालांश्च सहस्रशः ।
नीत्वा ययुश्चक्रतीर्थाद् दक्षिणे तूदधेस्तटे ।। ११ १।।
वेतालोद्धारके तीर्थे स्नपयित्वा च तास्तदा ।
जलमन्नं कृष्णप्रासादिकं च तुलसीं ददुः ।। ११ २।।
घोरां वेतालतां त्यक्त्वा दिव्यरूपाण्यवाप्य च ।
प्रसादपुण्यतो लब्ध्वा चतुर्भुजस्वरूपताम् ।। ११ ३।।
विमानेषु समारूढा वैष्णवास्ते सहस्रशः ।
विष्णोर्वै पार्षदा भूत्वा वैकुण्ठं प्रययुस्तु ते ।। १ १४।।
एवं वेतालजातीनां कृत्वा मोक्षं नृपादयः ।
ययुः काशीं यमीं चापि यथास्थानं तु ते पुनः ।। ११ ५।।
इत्येतत्कथितं लक्ष्मि! सुताया गालवस्य वै ।
कृष्णनारायणपातिव्रत्यैश्वर्यं परं महत् ।। १ १६।।
श्रुत्वा स्मृत्वा पठित्वाऽपि पातिव्रत्यफलं लभेत् ।
पत्नीव्रतफलं लब्ध्वा नरो मुक्तिमवाप्नुयात् ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गालवर्षिकन्यायाः कृतावहेलनेन सुदर्शनविद्याधरस्य मानुषजन्मोत्तरं वेतालत्वं काशीराजद्वारा गालव-
कन्यायाः कृष्णपातिव्रत्यबलेन मोक्षणं चेत्यादिनिरूपणनामा पञ्चत्रिंशदधिकचतुश्शततमोऽध्यायः ।। ४३५ ।।