लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३४
[[लेखकः :|]]
अध्यायः ४३५ →

श्रीनारायण उवाच-
पुनर्लक्ष्म्यद्भुतं किञ्चित् प्रब्रवीमि निशामय ।
वसुर्विधूमनामा चाऽत्सरोवर्या त्वलम्बुषा ।। १ ।।
ब्रह्मशापात्पुरा प्राप्तौ पृथिव्यां वै मनुष्यताम् ।
श्रीकृष्णपातिव्रत्येन ब्रह्मशापाद्विमोचितौ ।। २ ।।
पुरा सुधर्मसंज्ञायां सभायां सत्यलोकगः ।
ब्रह्मा समाजं महतां चक्रे विष्णुदिनोत्सवे ।। ३ ।।
तत्र मध्यासने रम्ये निषसाद चतुर्भुजः ।
सावित्र्या च सरस्वत्या पार्श्वयोः संविराजितः ।।४।।
गायत्र्या च चतुर्वेदैर्मोहिन्या चापि शोभितः ।
सनत्सनन्दनसनातनसनकनारदैः ।। ५ ।।
दक्षाद्यैर्वालखिल्यैश्च धर्माद्यैः पितृभिस्तथा ।
मेघैर्मुनिभिर्देवीभिः सहितः प्रपितामहः ।। ६ ।।
इन्द्रादिभिर्लोकपालैर्दिक्पालैर्ग्रहतारकैः ।
सिद्धिभिश्च वसुभिश्च निधिभिः ऋषिभिस्तथा ।। ७ ।।
दिशाभिः रुद्रदेवैश्चाऽऽदित्यैः कामस्य मण्डलैः ।
मनुभिस्तिथिभिश्चापि कलाभिः सेवितस्तथा ।। ८ ।।
तत्त्वैर्नक्षत्रवर्यैश्च सुराऽसुरगणैरपि ।
गुणैर्मरुद्भिर्वर्णैश्च भोगैस्तीर्थेः सुसेवितः ।। ९ ।।
कामाभिर्नाडिकाभिश्च खनिभिर्वन्दितो ह्यजः ।
वायवीयैः पार्थिवैश्च पातालिकैश्च देहिभिः ।। 1.434.१ ०।।
व्योमगैर्जलजैश्चापि वन्दितो वै पितामहः ।
किन्नरैः किम्पुरुषैश्च साध्यैर्गन्धर्वभूषणैः ।। ११ ।।
उर्वशीभिर्महानृत्यकलाविद्भिश्च वन्दितः ।
अप्सरसां मनोहारि नृत्यं वादित्रसंयुतम् ।। १ २।।
वीक्षमाणः स्वयं ब्रह्मा राजते तत्र संसदि ।
क्रमशश्च सुरनार्यो ननृतुर्नन्दयन् सभाम् ।। १३।।
वीणावेणुमृदंगानां ध्वनिश्च मधुरोऽभवत् ।
स्वराश्च विविधा मिष्टा निरगच्छन् द्युयोषिताम् ।। १४।।
अलम्बुषा मदयन्ती ननर्तातीव सुन्दरम् ।
मुख्याऽङ्गानि मुहुश्चित्ताऽऽकर्षकाणि समक्षिपत् ।। १५।।
मन्दं मन्दं स्मितं तत्राऽकरोत् व्यलोकयन्मुहुः ।
प्रेमनिभृतनेत्राभ्यां कटाक्षे चाऽप्यमोचयत् ।। १६।।
व्यकम्पयत् स्तनमात्रं मन्दं नितम्बमात्रकम् ।
कपोलमात्रकं चापि सक्थिमात्रकमेव च ।। १७।।
एवं वै नर्तनं तस्या विलोक्य तु मुहुर्मुहुः ।
विधूमाख्यो वसुस्तस्यां कामनावान् मुमोह तु ।। १८।।
दर्शयन् कामनां तस्यै प्रजहास पुनर्मुहुः ।
नेत्राभ्यां चोन्निमेषाभ्यां वारंवारं प्रकामनाम् ।। १ ९।।
पारिषदेषु पश्यत्सु दर्शयामास वै वसुः ।
ब्रह्मा विज्ञाय चाञ्चल्यं विधूमस्य तु तत्र वै ।।1.434.२०।।
प्राह वसो न ते युक्तं चाञ्चल्यं नर्तनस्थले ।
सभायां नैव योग्यं त्वं कृतवानसि सर्वथा ।।२१ ।।
नृत्यभंगो रंगभंगो विक्षेपो जायते यतः ।
तेन दोषेण गच्छ त्वं मानुषो भव भूतले ।।२२।।
चञ्चला मनुषाः पृथ्व्यां पाशरज्जुविवर्जिताः ।
तेषु वासोऽस्तु ते मर्त्यलोके गच्छ ततः परम् ।। २३।।
अलम्बुषा तु ते भार्या भविता गच्छ मा चिरम् ।
इत्याज्ञप्तो विधूमस्तु ब्रह्मणश्चरणेऽपतत् ।।२४।।
प्रार्थयच्छापनाशार्थं रक्षार्थं स्वस्य वै मुहुः ।
ततो ब्रह्माऽऽह सत्यं ते सर्वं भावि न संशयः ।।२५।।।
त्वं कौशाम्बीनगर्यां वै शतानीकस्य भूभृतः ।
पतिव्रतायां भार्यायां विष्णुमत्यां कुमारकः ।।२६।।
भूत्वा राजा ततो भूत्वाऽलम्बुषायां सुपुत्रकम् ।
जनयित्वा च तं राज्येऽभिषिच्य दक्षिणोदधेः ।।२७।।
चक्रतीर्थे पत्नीयुक् त्वं स्नास्यसि तावदेव तु ।
पत्नीयुक् त्वं देवरूपः स्वं लोकं प्रतिपत्स्यसे ।।२८।।
इत्युक्तो वसुरेवाऽयं पृथ्व्यां पपात सत्यतः ।
शतानीकगृहे जातः कुमारोऽतिविचक्षणः ।।।२९।।
शाण्डिल्यो नाम चक्रेऽस्य सहस्रानीकमित्यमुम् ।
अलम्बुषा ह्ययोध्यायां भूभृतः कृतवर्मणः ।। 1.434.३ ०।।
गृहे मृगावती कन्या जज्ञे देवीगुणान्विता ।
जन्मतः सा वैष्णवी च कृष्णभक्तिपरायणा ।।३ १ ।।
युवत्यपि ज्ञानवती पातिव्रत्यपरायणा ।
करोति श्रीकृष्णनारायणनाम्नो जपं मुहुः ।।।३२।।
अथेन्द्रेण शतानीको दैत्यैर्योद्धुं निमन्त्रितः ।
दिवंगतो मृतो युद्धे तत्पुत्राय शवोऽर्पितः ।। ३३।।
सहस्रानीक एवाऽस्य शवसंस्कारमाचरत् ।
विष्णुमती शवं लब्ध्वा विललाप जगाद च ।।३४।।
हे नाथ हे प्राणनाथाऽऽगच्छ प्राणाऽधिकप्रिय! ।
प्राणाधिष्ठातृदेवेह प्राणा यान्ति त्वया विना ।। ३५।।
स्त्रीगर्वः पतिसौभाग्याद् वर्धते तु दिने दिने ।
सुखी चेद् विभवो यस्मात् तं संभजेत धर्मतः ।। ३६।।
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदा गति ।
परं सम्पत्स्वरूपश्च सुखरूपश्च मूर्तिमान् ।।३७।।
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा ।
सम्मानदो मानदश्च मान्यो वै मानखण्डनः ।।३८।।
सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः ।
न वै भर्तुः समो बन्धुः सर्वबन्धुषु दृश्यते ।।३९।।
भरणादेव भर्ताऽयं पालनात्पतिरुच्यते ।
शरीरेशाच्च स स्वामी कामदः कान्त एव सः ।।1.434.४०।।
बन्धुश्च सुखबन्धाद्वै प्रीतिदानात् प्रियः परः ।
ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ।।४१।।
रतिदानात्स रमणः प्रियो नास्ति प्रियात्परः ।
पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ।।४२।।
शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा ।
असत्कुलप्रसूता वै कान्तं विज्ञातुमक्षमा ।। ४३।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।
प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि वै ।।४४।।
सर्वाण्येव व्रतादीनि महादानानि यानि च ।
उपोषणानि पुण्यानि यान्यन्यानि च सर्वशः ।।४५।।
गुरुसेवाविप्रसेवादेवसेवादिकं च यत् ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ।।४६।।
गुरुविप्रेष्टदेवेषु सर्वेभ्यश्च पतिर्गुरुः ।
विद्यादाता यथा पुंसां कुलजानां तथा प्रियः ।।४७।।
मम भाग्यं गतं सर्वं शिरश्छत्रं गतं मम ।
इत्युक्त्वा सा पतिं देहं तत्र दध्यौ सुभक्तितः ।।४८।।
सती पतिव्रता भार्या विष्णुमती सतीत्वतः ।
पादाङ्गुष्ठात् समुत्पाद्य वह्निं नत्वा महाजनान् ।।४९।।
तेनैव वह्निना दग्धा सहैवानुममार सा ।
पुत्रः सहस्रानीकस्तत्प्रेतकार्यं व्यवर्तयत् ।।1.434.५०।।
राज्यं चकार विधिवत् सहस्रानीकको वसुः ।
एकदेन्द्रेण वै स्वर्गे नन्दनस्य महोत्सवे ।।५१।।
निमन्त्रितः सहस्रानीकः कुमारो ययौ दिवम् ।
तत्रेन्द्रभवने स्वस्य वसुत्वं चाऽशृणोत् तथा ।।।५२।।
अलम्बुषायाः स्वपत्नीत्वं वसुश्चाऽशृणोत् ततः ।
पृथ्व्यामागत्य चायोध्यानृपपुत्रीमलम्बुषाम् ।।५३।।
मृगावतीं परिणीय मुमुदे तु तया सह ।
सा तस्माद् गर्भमाधत्त पीयूषक्षालिता बभौ ।।५४।।
पुष्पदोलोत्सवे राज्ञी राजा च कुंकुमान्विते ।
केसरादियुते रक्ते रङ्गाढ्ये सलिले ह्रदे ।।५५।।
सस्नतुस्तु परिश्रान्तौ पार्श्वे पार्श्वे हि तस्थतुः ।
रक्तवर्णौ स्वर्णवर्णौ सुन्दरौ चातिरञ्जितौ ।।५६।।
राजा श्रमेण सुष्वाप क्षणनिद्रां गतस्तदा ।
राज्ञी स्नानाय तु पुनः पार्श्वे रङ्गस्य कुण्डके ।।५७।।
जले स्नानस्य तृप्त्यर्थं सुखायाऽवातरत् सती ।
रक्तवर्णा रंगजले स्नानं सादरमातनोत् ।।५८।।
ततस्तां रंगतोयार्द्रां सञ्चारिणीं जलान्तरे ।
मत्स्यां महत्तमां ज्ञात्वाऽऽमिषबुद्ध्या तदाम्बरात् ।।५९।।
पपात वेगतः कश्चित् सुपर्णकुलसंभवः ।
महारविकटः पक्षी चञ्च्वा धृत्वाऽम्बरं ययौ ।।1.434.६०।।
ज्ञात्वेयं मानुषी काचिदिति तामुदयाचले ।
कन्दरे संविहायैव गतोऽन्यत्र विहायसा ।।६१ ।।
सा तु रुरोद भीता वै मुहुरश्रूण्यवर्तयत् ।
हा नाथ मन्दभाग्याऽहं स्नानं चक्रे पतिं विना ।।६२।।
तेन पापेन तूर्णं वै त्वद्वियोगेन पीडिता ।
का गतिः क्व नु गच्छामि द्रक्ष्यामि त्वन्मुखं कदा ।।६३।।
इत्युक्त्वा गजसिंहानां पुरोऽभून्मृत्युकांक्षिणी ।
सर्वैः क्रूरैः परित्यक्ता तत्र नो निधनं गता ।।६४।।
आपत्काले न वै नॠणां मरणं मैत्र्यमिच्छति ।
रुदतीं वनवृक्षेषु जमदग्नेः सुपुत्रकः ।।६५।।
कारुणिकस्तु तां नीत्वा मुनये तां न्यवेदयत् ।
मुनिनाऽऽश्वासिता राज्ञी पोषिता रक्षिताऽऽश्रमे ।।६६।।
सुषुवे बालकं काले नाम्ना ह्युदयनाऽभिधम् ।
ववृधे स जमदग्नेः शिष्यो बभूव वेदवित् ।।६७।।
एकदा वनवासी वै व्याधः कश्चित्समागतः ।
आश्रमे जमदग्नेश्च पेटिकायां भुजंगमम् ।।६८।।
धरन् भिक्षार्थमेवासौ रमयामास सर्पकम् ।
भिक्षां दत्वा कंकणं सा दत्वा सर्पं व्यमोचयत् ।।६९।।
रा्ज्ञ्यास्तत्कंकणं विक्रेतुं तु व्याधो ययौ नृपम् ।
सहस्रानीकमेवाऽथ राजा स्वनामकंकणम् ।।1.434.७०।।
दृष्ट्वा पप्रच्छ वृत्तान्तं व्याधः सर्वं न्यवेदयत् ।
व्याधाय तु धनं दत्वा ययौ राजा तदाश्रमम् ।।७१ ।।
तपस्यन्तं मुनिं दृष्ट्वा शिरसा प्रणनाम सः ।
आशीर्वादेन स मुनिः प्रतिजग्राह तं नृपम् ।।७२।।
विधिवत्पूजयामास पाद्यार्घ्याचमनीयकैः ।
समुवाच महीपालं धर्मार्थसहितं वचः ।।७३।।
नरनाथ! मृगावत्यां जातोऽयं तनयस्तव ।
भविष्यति दिशां जेता नाम्ना ह्युदयनः कृतः ।।७४।।
इयं मृगावती भार्या पातिव्रत्यपरायणा ।
कृष्णनारायणभक्तिमती भागवती सती ।।७५।।
सेहे त्वदर्थं दुःखानि शुद्धा सा रेणुका यथा ।
सपुत्रां तां महाराज! प्रतिगृह्णीष्व मा चिरम् ।।७६।।
श्रुत्वा राजा मुनिं नत्वा तां गृहीत्वाऽऽर्पयद् धनम् ।
प्रियासहायो नृपतिराययौ स्वपुरीं प्रति ।।७७।।
स्मरन् शक्रस्य वचनं मानुषं जन्म कुत्सयन् ।
महीमुदयनायैव ददौ पुत्राय धीमते ।।७८।।
मृगावत्या समं राजा चक्रतीर्थं ययौ ततः ।
उदधेस्तु तटे स्थित्वा स्नानं चक्रे यथाविधि ।।७९।।
वनवृक्षेषु वासं च वन्यैर्निर्वाहमेव च ।
चक्रे राजा विधूमः सहस्रानीको मुनिर्भवन् ।।1.434.८०।।
मृगावती च साऽरण्ये पतिसेवापरायणा ।
एकभुक्ता फलभुक्ता नान्यद्भक्ता कदाचन ।।८१ ।।
पतिपादोदकपाना नान्यत्पाना कदाचन ।
पतिपार्श्वे कृताऽऽवासा नान्यद्वासा कथंचन ।।८२।।
पतिपादोदकस्नाना नान्यत्स्नाना कदाचन ।
पतिरूपहरिध्याना नान्यद्ध्याना हि सा सती ।।८३।।
पत्यंगमर्दना साध्वी नान्यस्पर्शा पतिव्रता ।
पतिकृष्णकृतानन्दा नाऽन्याऽऽनन्दा भ्रमादपि ।।८४।।
पतिपूजापरा नित्यं स्वामिसेवापरायणा ।
स्वयं वैराग्यमापन्ना पत्यर्थं मंगलप्रिया ।।८५।।
मत्वा वेदकृतां वाणीं पत्याज्ञां पारमेश्वरीम् ।
वचोवद् वर्तते साध्वी ह्यप्सरो नाऽप्सरो यथा ।।८६।।
चाञ्चल्यं मोक्षविषयं तदन्यल्लीनतां गतम् ।
सकामत्वं तु नैष्काम्ये पर्यवर्तत मोक्षकृत् ।।८७।।
सदेहत्वं विदेहत्वे राज्ञ्याश्च परिवर्तितम् ।
चर्मचक्षुर्दिव्यचक्षुर्ब्रह्मरूपं बभूव ह ।।८८।।
विषयाश्च निराहारा यात्रामात्रा अविकृताः ।
समभवन् मृगावत्याः पतिकृष्णसुखावहाः ।।८९।।
नित्यं सा भजते कृष्णं यथा पतिं तथा हरिम् ।
सर्वं कृष्णमयं कृत्वा पत्यौ जुहोति सत्क्रियाः ।।1.434.९०।।
कर्मकाण्डं जपकाण्डं ध्यानकाण्डं हरौ हि सा ।
देहकाण्डं चेन्द्रियाणां वृत्तिकाण्डं जनार्दने ।। ९१ ।।
नारायणे हरौ नित्यं स्वामिन्येव जुहोति सा ।
एवं ध्यात्वा हरिं नारायणं पतिं प्रसेव्य च ।।।९२।।
चक्रतीर्थे हरेस्तीर्थे स्नात्वा च पतितीर्थके ।
पतिं तु स्नानमात्रेण दिव्यं कृत्वा स्वयं तथा ।।।९३।।
दिव्या भूत्वा शतचन्द्रसमा रूपे मनोहरा ।
देवयानेन च स्वर्गं पतियुक्ता ययौ हि सा ।।९४।।
तत्राऽयुतसमाः स्थित्वा श्रीकृष्णं पुरुषोत्तमम् ।
स्वामिनं श्रीकृष्णनारायणं त्वाराध्य सर्वदा ।।९५।।
चक्रतीर्थे तु ये तीर्थयात्रार्थं वै समागताः ।
नरा नारीजना येऽपि भगवद्भक्तिकर्मकाः ।।९६।।
तेभ्यः सर्वेभ्य एवेयं महाभागवती सती ।
शुश्राव श्रीकृष्णनारायणाय स्वामिने नमः ।।९७।।
कण्ठरवेण च तालीवादनेन मुहुर्मुहुः ।
अतिहर्षेण संयुता श्रावयामास कीर्तनम् ।।९८।।
एवं भागवतान् कृत्वा जनानसंख्यदेहिनः ।
ययौ सा पतिना सार्ध सत्यं वै वेधसः पुरम् ।।९९।।
इति ते कथितं लक्ष्मि! दिव्याख्यानं सुपुण्यदम् ।
पठनाच्छ्रवणाच्चास्य ब्रह्मलोकफलं भवेत् ।। 1.434.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विधूमवसोरलम्बुषाऽप्सरसश्च ब्रह्मणो वचनात् पृथिव्यां सहस्रानीकाभिधनृपत्वं राज्ञीमृगावतीत्वं च, जमदग्नेः शिष्यतोत्तरं पातिव्रत्येन धर्मेण पुनः स्वर्गादिप्राप्तिरित्यादिनिरूपणनामा चतुस्त्रिंशदधिकचतुश्शततमोऽध्यायः।।४३४।।