लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३३
[[लेखकः :|]]
अध्यायः ४३४ →

श्रीनारायण उवाच-
आकर्णय महालक्ष्मि! नरनारायणात्प्रभोः ।
उर्वशी या समुत्पन्ना पातिव्रत्यप्रभावतः ।। १ ।।
पूर्वं साऽभूत् शुनी ततः पूर्वतरा तु ब्राह्मणी ।
दुष्टा काश्मीरदेशीया पतिद्वेषकरी शठा ।। २ ।।
देवव्रतसुता नाम्ना मालिनीति सुरूपिणी ।
सत्यशीलाऽभिधविप्रपत्नी पतिप्रिया न वै । । ३ ।।
तया सह पतिर्देशं यावनं तु ययौ क्वचित् ।
सा तु पत्यौ क्रोधयुक्ता वशीकरणलम्पटा ।। ४ ।।
यवनीभ्यस्तु बह्वीभ्यः पप्रच्छ वश्यभेषजम् ।
ताभिस्तु दर्शिता धूर्ता काचिदोषधकारिणी ।। ५ ।।
दास्यति भेषजं येन भविता दासवत् पतिः ।
ब्राह्मणी चापि धूर्ताया गृहं ययौ सलालसा ।। ६ ।।
दृष्टवती कुटीं तस्याः खप्परादिसमन्विताम् ।
बहूनामोषधानां च सुपात्रैश्चुल्लिकादिभिः ।। ७ ।।
शोभितां मन्त्रविद्यानां साधनाऽऽसनराजिताम् ।
यन्त्रैर्मन्त्रैर्भस्मग्रन्थिनीलवस्त्रैः सुशोभिताम् ।। ८ ।।
अस्थिभिर्वेदिकाभिश्च योगसाधनगर्भिताम् ।
सजटाभिश्च दीर्घाभिः शिष्याभिः शुभदीपिताम् ।। ९ ।।
धूपकुण्डयुतां वीक्ष्य कुटीं सदण्डधूर्तिकाम् ।
बह्वीभिर्दुःखिताभिश्चाराधितां कार्यलब्धये ।। 1.433.१ ०।।
भस्मावगुण्ठितां देहे योगिवत् तिलकान्विताम् ।
ननाम परया भक्त्या ब्राह्मणी शठयोगिनीम् ।। १ १।।
दुःखं निवेदयामास ततः सा शठधूर्तिका ।
मयूरपत्रमार्जन्या चक्रे तस्याः प्रमार्जनम् ।। १२।।
संस्करणं तच्छरीरे फुत्कृतेन च भस्मना ।
चन्द्रकं भस्मना चक्रे भाले करे जलं ददौ ।। १ ३।।
कृष्णडोरकरुद्राक्षमालां स्कन्धे प्रदाय च ।
श्रावयामास विप्राण्यै वश्यमन्त्रं त्रिवारकम् ।। १४ ।।
नमः कामाक्षिकादेव्यै पतिं वशं कुरु स्वाहा ।
इति मन्त्रं ददौ तस्यै ददौ द्रव्यांगुलीयकम् ।। १५।।
रक्तं माणिक्यखचितं कानकं वश्यकारकम् ।
और्णं रक्तं चापि सूत्रं भुजाबन्धनकं ददौ ।। १६।।
ददावोषधमेवापि चूर्णं रक्षान्वितं शुभम् ।
प्राह चैतन्महावश्यकरं चूर्णं हि वर्तते ।। १७।।
अस्य प्रयोगतो वायुसदृशा बलिनो ह्यपि ।
वश्या भवन्ति सततं स्वामिनो वानरा इव ।। १८।।
चूर्णं भर्तरि भोज्यादौ भोक्तव्यं स्वल्पकं सदा ।
रक्षां च दोरकं चापि गले त्वं स्वीकुरु ध्रुवम् ।। १९।।
रक्तं तु दोरकं त्वं स्वभुजे बन्धय भामिनि! ।
भविष्यति पतिर्वश्यो मन्त्रं स्वशयने जप ।।1.433.२०।।
मन्त्रितं भोजनं देहि मन्त्रितं जलमित्यपि ।
मन्त्रितं शयनं देहि सर्वं देहि सुमन्त्रितम् ।।२१ ।।
स्वल्पकालेन ते स्वामी तव वश्यो भविष्यति ।
यदि किञ्चिद् भवेत् कार्यं समागच्छ द्रुतं तु माम् ।।२२।।
इत्युक्ता दक्षिणां दत्वा विप्राणी स्वगृहं ययौ ।
ओषधं योजितं दुग्धे भोजने पतयेऽर्पितम् ।।२३।।
मन्त्रितं च जलं वस्त्रं शयनं स्वामिने ददौ ।
एवं दिने दिने चूर्णं ददौ यथा यथा तथा ।।२४।।
पतिः श्वासेन कासेन कफेन च क्षयेण च ।
पीडितोऽभवदत्यन्तं मूत्रादावुष्णताऽधिका ।।२५।।
देहे प्रफुल्लिका रक्ता प्रावर्तन्ताऽतिखर्जनाः ।
दिनैः कतिपयैः स्वामी पराधीन इवाऽभवत् ।।२६।।
अशक्तो रोगदुःखी च मृत्युशंकासमन्वितः ।
हततेजास्ततो भर्ता विप्राणीं प्राह विह्वलः ।।२७।।
तवास्मि दासवत्त्वत्र त्राहि मां रक्ष शोभने ।
नान्यां वै कामये कांचिन्नारीं त्वामन्तरा प्रिये।।२८।।
वर्तिष्येऽपि तवाऽऽज्ञायां तव दासोऽधुना सदा ।
तव कार्ये प्रकर्तव्ये न करिष्ये विरोधनम् ।।२९।।
ततः सा कामिनी पत्युर्जीवने स्वार्थशालिनी ।
सति पत्यौ भूषणादि धार्यं भोग्यं निःसंशयम् ।।1.433.३ ०।।
इति तूर्णं गता शाठ्ययोगिनीं भीतवत्तदा ।
पतिर्मे वशमापन्नः किन्तु ध्रुवं मरिष्यति ।।३ १ ।।
मम स्वार्थविनाशः स्यात्तस्माज्जीवय तं शुभे ।
इति न्यवेदयत्सर्वं धूर्ता विज्ञाय चापरम् ।।३२।।
ददावोषधमेवाऽस्यै दुःखदाहादिनाशकम् ।
दत्ते तु भेषजे तस्मिन् स्वस्थोऽभूत् तत्क्षणात्पतिः ।।३३ ।।
साऽभूत्प्रसन्ना त्वत्यर्थं वश्येऽपि वर्तते पतिः ।
अन्येषां संगमे त्वस्यै न च वक्ति मनागपि ।।३४।।
तिष्ठत्युपपतिर्गेहे गृहकार्यापदेशतः ।
भर्ता नैव वदत्येव किञ्चिदपि कथञ्चन ।।३५।।
अथ सा ब्राह्मणी दुष्टा पतिद्वेषकरी शनैः ।
रोगव्याप्ताऽभवद् देहे कृमयः संप्रजज्ञिरे ।।३६ ।।
तेन पञ्चत्वमापन्ना गता नरकयातनाः ।
प्रतप्ते ताम्रकुण्डे सा निक्षिप्ता बहुवत्सरम् ।।३७।।
ततः शुनी शतवारं दद्रुरोगप्रपीडिता ।
क्लिनावयवा खञ्जा च ताडिताऽपि गृहे गृहे ।।३८।।
अन्तिमे पद्मबन्ध्वाख्यद्विजस्य भवने तु सा ।
जाता सौवीरदेशे वै दास्याः शुनी सुरोगिणी ।।३९।।
कृमिपूर्णाऽवयवा सा द्विजगृहांगणे यदा ।
पादप्रक्षालनशिलामधिरुह्य स्थिताऽभवत् ।।1.433.४०।।
तदा दैवाद् द्विजपुत्रः कृष्णनारायणं स्मरन् ।
गायत्रीं प्रजपन् कृष्णपूजां कृत्वा कमण्डलौ ।।४१ ।।
प्रसादजं जलं विष्णुस्नापितं तुलसीयुतम् ।
नीत्वा गृहे समायातः सोपानैर्यावदेव हि ।।४२।।
गृहांगणं तूच्छ्रितं वै पञ्चसोपानमात्रकम् ।
समारुरोह तावत्त्वन्तिमे सोपानके पदा ।।४३।।
स्खलितः पतितो हस्तात्कमण्डलुर्जलान्वितः ।
पार्श्वे निम्ने शिलाभागे स्थितायां दैवयोगतः ।।४४।।
कमण्डलुजलं शुन्यां पतितं सर्वमेव यत् ।
शुनी स्नातवती पीतवती भाग्यवशात्तदा ।।४५।।
मिष्टं प्रसादं पतितं भाग्याद् भुक्तवती तदा ।
तेन पुण्येन सा लक्ष्मि! ध्वस्तपापा बभूव ह ।।४६।।
जातिस्मरा जनवाचा समुवाच द्विजं क्षणात् ।
भो भूदेव! महापापां त्राहि मां त्राहि मां द्विज ।।४७।।
अहमासं पुरा विप्रा पतिद्वेषकरी सदा ।
पत्युर्विषप्रदात्री च वश्यमन्त्रकरी तथा ।।४८।।
दुःखदात्री महादुष्टा परप्रसंगकारिणी ।
तेन पापेन ताम्राणां कुण्डेषु पातिता यमैः ।।४९।।
शतवारं तु जाताऽस्मि शुनी दद्रुमयी द्विज ।
अन्तिमोऽयं मम देहस्त्वया जलेन संस्कृतः ।।1.433.५० ।।
दैवाज्जातिस्मरा जाता स्मर्यते शतजन्मजम् ।
अतिदुःखं मया भुक्तं वर्णने पार्यते न वै ।।५१ ।।
पतिद्वेषकरी नारी पच्यते तप्तताम्रके ।
दुराचारा तप्तसूर्म्याऽऽश्लिष्यते कामिभिस्तदा ।।५२।।
भर्ता नाथो गुरुर्भर्ता भर्ता दैवतमुत्तमम् ।
तस्य द्रोहं विधायैव कथं सा सुखिनी भवेत् ।।।५३।।
तिर्यग्योनिशतं याति कृमिव्याप्तं भयंकरम् ।
तस्मान्नार्या सदा कार्या भर्तुः सेवा वचोऽन्विता ।।५४।।
पातिव्रत्यं परो धर्मः पुण्यं वै पतिसेवनम् ।
पत्यौ हरिः स्वयं त्वास्ते स्त्रीनिस्तारणहेतवे ।।।५५।।
खञ्जः काणस्तथा वृक्णः केकराक्षोऽष्टवक्रकः ।
कज्जलसुन्दरो देहे बधिरो वामनः कृशः ।।५६।।
रुग्णः कुष्ठी विचित्तश्च क्रूरः कामातिवेगवान् ।
विषयी व्यसनी वावदूकोऽनृतपरोऽपि वा ।।।५७।।
पत्न्यर्थं निर्मितस्तादृक् कृष्णांशो ब्रह्मणा स्वयम् ।
तेनैव पत्न्या उद्धारो नान्येन सूर्यवर्चसा ।।५८।।
यादृशस्तादृशो नीलः कृष्णः कज्जलरूपवान् ।
कामेन कार्यमासाद्य सेवनीयः पतिः प्रभुः ।।।५९।।
पतिः कामेन सन्तृप्तो रतिदानेन चेद् यदि ।
कृष्णनारायणः साक्षात् तृप्तस्तस्या इति वृषः ।।1.433.६०।।
एवं तस्य सदा भूत्वा सेवनीयः स्त्रिया पतिः ।
रुग्णे सेवा सुखे शान्ता विपत्तौ धैर्यदा तथा ।।६१ ।।
क्षुधिते भोज्यदा तृष्णे तृप्तिदा शयने प्रिया ।
कार्ये सहायदा याने सहगा भवने सती ।।६२।।
व्यवहारे सखी संरक्षणे मातेव वर्तते ।
या स्त्री सा स्वर्गमयुतं भुंक्ते नास्त्यत्र संशयः ।।६३।।
यद्यप्यस्मिन्भवे नास्ति सुरूपश्चेत्पतिस्तदा ।
पतिभक्त्या देवतुल्यं कर्तुं शक्ता सती भवेत् ।।६४।।
काली हिमगिरेः पुत्री गौरी सा तपसा ह्यभूत् ।
कुब्जा कृष्णप्रसंगेन राधातुल्याऽभवत् पुरा ।।६५ ।।
शबरी रामयोगेन चतुर्भुजाऽभवत्तथा ।
यवनी स्वामियोगेन मुक्ता दिव्याऽभवत्पुरा ।।६६।।
जटायूः रामयोगेन चतुर्भुजोऽभवच्छुभः ।
गजग्राहौ विष्णुयोगान्मुक्तौ दिव्यौ बभूवतुः ।।६७।।
अरुन्धती श्वपची तु ऋषिपत्नी गवाश्रयात् ।
सरमा देवशुनिका मुक्ता सुरभिसेवनात् ।।६८।।
वृन्दा तुलसी वृक्षाश्च कृष्णयोगात् तदात्मकाः ।
जडाः श्रीकृष्णसम्बन्धाद् भवन्ति चेतना इव ।।६ ९।।
सूतः पौराणिको दिव्यो ब्रह्मपूज्यो बभूव ह ।
इन्द्रतिरस्कृतं पुष्पं लक्ष्मीनाशकरं ह्यभूत् ।।1.433.७०।।
पुनस्तदर्पितं तस्य स्मृद्धिदं क्षीरसागरे ।
एवं वस्तु नरो नारी यद्यमनोहरं भवेत् ।।७१ ।।
तपसा रमणीयं तज्जायते नात्र संशयः ।
दुर्गुणं सद्गुणं चापि जायते तपसा सदा ।।७२।।
कुब्जा कुब्जोऽथवा पाल्या पाल्यश्च भगवद्धिया ।
सेवनीयौ स्वतपसा स्वामिभक्त्या सतीधिया ।।७३ ।।
एवं कृत्वा हरिं मत्वा सतीं मत्वा च दम्पती ।
सेवेयातां सुखप्राप्त्या सहनं च क्षमां गतौ ।।७४।।
मया विप्र! सेवितो न तिरस्कृतो वशीकृतः ।
दुःखितः पीडितस्तेन दुःखिता भवसागरे ।।७५।।
समुद्धराऽधुना ब्रह्मन् कृष्णपूजाफलार्पणैः ।
अन्यथा मे पुनर्जन्म दुष्टयोनिषु दृश्यते ।।७६ ।।
इत्युक्तश्च तदा विप्रः करुणां प्रविधाय च ।
एकादश्याः फलं चापि द्वादश्याः पूजनादिकम् ।।७७।।
सर्वं पुण्यं ददावस्यै यदक्षयफलं मतम् ।
तप्तं दत्तं हुतं यच्च कृतं देवार्चनादिकम् ।।७८ ।।
कृष्णपातिव्रत्यरूपं सर्वं त्वस्यै ददौ द्विजः ।
उवाच तां महादुष्टे दयापात्रं न विद्यसे ।।७९।।
पतिद्वेषकरी साधु द्वेषिणी देवनिन्दिका ।
कृपापात्रं न वै प्रोक्तं तथापि स्वाश्रिता यतः ।।1.433.८०।।
कृपा मया कृता तेऽस्ति दीना ज्ञात्वा तु किंकरीम् ।
स्वपोष्या ये हि वर्तन्ते गृहस्थस्य महात्मनः ।।८१ ।।
तेषामुद्धरणं कार्यमिति कृत्वा समुद्धृता ।
चण्डाला वायसाश्चापि सारमेयाश्च किंकराः ।।८२।।
दासा दास्यस्तथा भृत्या नकुलाः शुकसारिकाः ।
शशका हरिणो हंसा ये चान्ये बलिभोजिनः ।।८३।।
गृहस्थानां दयापात्रं ह्यनाथा बालबालिकाः ।
अधवास्तु स्त्रियस्तद्वद् रुग्णा निराश्रयाः सदा ।।८४।।
पोष्या भवन्ति ते सर्वे समुद्धार्याः प्रयत्नतः ।
गृहस्थो नोद्धरेत्पोष्यं सोऽधःपतेन्न संशयः ।।८५।।
पातिव्रत्यं परं पत्युराज्ञा पतिः परेश्वरः ।
कृष्णनारायणः स्वामी तदाज्ञा पोष्यरक्षणम् ।।८६।।
पोष्यरक्षां परित्यज्य परक्लृप्त्यां प्रवर्तते ।
पतिद्रोग्धा भवेत् सोऽत्र कीनाशगृहमृच्छति ।।८७।।
परोपकारो धर्मोऽस्ति वृषः किंकरमोक्षणम् ।
मोक्षदानं महद्दानं कृष्णप्राप्तिपरायणम् ।।८८।।
प्रसन्नता हरेस्तत्र जायते स्वामिनः सदा ।
परो मोक्षस्तस्य सम्यगुपादानं पतिव्रतम् ।।८९।।
परोपकारो मोक्षोऽत्र ज्ञानिना देय एव सः ।
भक्तिमता तथा देयश्चान्यस्मै पत्युराज्ञया ।।1.433.९०।।
शशी सूर्योऽथ पवनो दिवा रात्रिर्जलं क्षितिः ।
चन्दनं पादपाः सन्तः परोपकरणे स्थिताः ।।९१ ।।
दधीचिना कृतं त्वस्थिदानं देवेभ्य एव यत् ।
शिबिना त्वर्पितं मांसं कपोताय स्वदेहजम् ।।।९२।।
जीमूतवाहनेनापि राज्ञा पूर्वं दयालुना ।
गरुडायाऽर्पितं स्वस्य जीवितं चिरजीवनम् ।।९३।।
धर्मांगदेन मोहिन्यै व्रतार्थं तु शिरोऽर्पितम् ।
सृष्ट्यर्थं वेधसा देहाः पुनः पुनः समर्पिताः ।।९४।।
लोकानां मोक्षणार्थाय गंगाद्याः सरितोऽभवन् ।
विष्णुः शालग्रामशिला शंकरो लिंगरूपकः ।।।९५।।
लक्ष्मीस्तु तुलसीरूपा लोकमोक्षणहेतवे ।
कृष्णो गोपालतां प्राप्तस्तथा मत्स्यादिरूपवान् ।।९६ ।।
परोपकृतये सर्वं पूर्वैः पूर्वतरैः कृतम् ।
पर्जन्यश्चन्द्रमाः सूर्यः समाः सर्वेषु जन्तुषु ।।९७।।
तथा त्वया तु किंकर्या शुन्यां पुण्यं दयालुना ।
समभावयुजा दत्तं निर्धूताऽखिलकल्मषा ।।९८।।
जातेदानीं गुरो सन्तु त्वादृशा मोक्षदा भुवि ।
परोपकारशीलाश्च साधवो हि पतिव्रताः ।।९९।।
देह्याज्ञां मे हरेर्धाम गन्तुं यामि सुखालयम् ।
इत्युक्तो ब्राह्मणः प्राह तस्यै मन्त्रं हरेर्मुहुः ।। 1.433.१ ००।।
ओं नमः श्रीकृष्णनारायणोद्धर कुक्कुरीम् ।
गच्छ कृष्णस्य गोलोकं शुनि! पुण्यवती भव ।। १०१ ।।
एवं श्रुत्वा तु सा पूर्णं जाता दिव्या सुरूपिणी ।
श्वदेहं तु परित्यज्य शुभाऽऽदित्यसमाऽभवत् ।। १०२ ।।
तावत्तत्रागतं दिव्यं विमानं सूर्यलौकिकम् ।
तत्रारूढा द्योतयन्ती व्योममण्डलमूर्ध्वतः ।। १०३ ।।
दिव्या देव्यभवच्चन्द्राननाऽऽभरणभूषिता ।
कल्पं वासं दिवि कृत्वा भुक्त्वा भोगान् महीतले ।।१ ०४।।
नरनारायणाद्देवादुर्वशीनाम नामतः ।
वरांगना समुत्पन्ना वैष्णवी देवताप्रिया ।। १ ०९।।
अप्सरोधर्मयुक्ताऽपि सदा कृष्णपतिव्रता ।
पातिव्रत्यपरा जाताऽऽश्रितमोक्षप्रदायिनी ।। १ ०६।।
आम्रपुष्पाणि संगृह्य नरेणोरौ प्रमर्दने ।
उद्भाविता महादिव्या महेन्द्रसैन्यमोहिनी ।।१ ०७।।
यदाऽऽगतो नरनारायणतपःसु विघ्नकृत् ।
इन्द्रो नारायणदेशादिन्द्रभवनं सा स्थिता ।। १ ०८।।
वैष्णवी सा महाभाग्यवती तत्र प्रवर्तते ।
नित्यं सा श्रीकृष्णनारायणं पतिं प्रसेवते ।। १ ०९।।
इति ते कथितं लक्ष्मि! पापतापप्रणाशनम् ।
पातिव्रत्यपरं सर्वं मोक्षदं तारकं शुभम् ।। 1.433.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिद्वेष्ट्र्याः काश्मीरीयब्राह्मण्याः शतजन्मशुनीत्वं ततः श्रीकृष्णनारायणपातिव्रत्यपरेण सौवीरदेशीयविप्रेण शुन्याः प्रमोक्षणं देवीत्वं, ततो नरनारायणस्योरोरुर्वशीत्वमिति निरूपणनामा त्रयस्त्रिंशदधिकचतुश्शततमोऽध्यायः ।।४३३।।