लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३६
[[लेखकः :|]]
अध्यायः ४३७ →

श्रीनारायण उवाच-
सर्वमंगलमांगल्यं त्वयि लक्ष्मि! सुवर्तते ।
त्वं यथाऽसि मम स्वामिव्रता नान्यास्ति तादृशी ।। १ ।।
या मद्वक्षःस्थले नित्यं वर्तसे त्वं मम प्रिया ।
त्वां विना तु मम मूर्तिर्निःश्रीका शुष्ककाष्ठवत् ।। २ ।।
भवत्येव न सन्देहस्त्वया रम्या प्रकाशते ।
परेऽक्षरे मम धाम्नि पुमुत्तमस्य तत्र मे ।। ३ ।।
जयाख्या ललिताख्या त्वं वर्तसे मम कामिनी ।
गोलोके मे कृष्णनाम्नो राधा दुर्गा सरस्वती ।। ४ ।।
गंगा पद्मा पञ्चरूपा ततः कोटिस्वरूपिणी ।
वर्तसे त्वं मम पत्नी पातिव्रत्यपरायणा ।। ५ ।।
वैकुण्ठे मे वर्तसे त्वं नारायणस्य कामिनी ।
लक्ष्मीरूपा मम साध्वी कोटिस्वरूपधारिणी ।। ६ ।।
अमृताख्ये पदे भूम्नो नारायणस्य मे प्रिया ।
चतुर्विधे च वैकुण्ठे महालक्ष्मीस्त्वमीश्वरी ।। ७ ।।
सीता प्रभा माणिकी त्वं पार्वती मंगला सती ।
वर्तसे मे पातिव्रत्यपरायणा महासती ।। ८ ।।
वह्नेः पत्नी मम स्वाहा वह्न्यात्मके मयि स्थिता ।
त्वां विना भोजनं नैव हुतं गृह्णामि वै क्वचित् ।। ९ ।।
देवानामपि त्वद्धस्तात्प्राप्यते हुतमन्वहम् ।
पितणां मम रूपाणां स्वधा त्वं वर्तसे सती ।।1.436.१ ०।।
हव्ये कव्ये तर्पणे च त्वां विना नाऽऽप्यतेऽर्पितम् ।
यज्ञस्य मे सदा पातिव्रत्यधर्माऽसि दक्षिणा ।।१ १ ।।
विना तु दक्षिणां नाऽहं पूर्णो भवामि वै क्रतुः ।
यज्ञे विना दक्षिणां तु फलं पुत्रो न जन्यते ।।१ २।।
फलं विना कृतं सर्वे श्रममात्रं व्ययात्मकम् ।
मम कार्तिकरूपस्य देवसेनाऽभिधानिका ।। १३ ।।
त्वमेवाऽसि महालक्ष्मि! त्वां विना विजयो न वै ।
त्वं सा मातृस्वरूपाऽसि षष्ठीदेवी दयावती ।। १४।।
धात्री त्वं बालकानां तु रक्षिणी षष्ठिका सदा ।
सा त्वं चापत्यदात्री चापत्यरक्षाविधायिनी ।।१५।।
अपत्यपुष्टिदात्री च रता विघ्ननिवारणे ।
सा त्वं वै मानसी देवी जरत्कार्वीस्वरूपिणी ।। १६।।
नागमाताऽऽस्तीकमाता विषाद् रक्षाकरी सदा ।
जरत्कारुस्वरूपस्य मम पत्नी पतिव्रता ।। १७।।
मनसा नागिनी सर्पजातीनां परमेश्वरी ।
कन्या भगवती सा त्वं कश्यपस्य हि मानसी ।। १८।।
त्रियुगं तु तपस्तप्त्वा कृष्णस्य परमात्मनः ।
जरत्कारुशरीरं च दृष्ट्वा श्रीपुष्करे हरिः ।। १ ९।।
गोपीपतिरहं नाम जरत्कारुर्दधे तव ।
जरद्गौरी विष्णुभक्ता पातिव्रत्यपरायणा ।।1.436.२० ।।
जरत्कारुर्जरद्गौरी मनसा सिद्धयोगिनी ।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।।२ १ ।।
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च ।
महाज्ञानयुता चापि त्वं देवी सर्वपूजिता ।।२२।।
तव नाम्नां पाठकस्य नागभीतिर्न विद्यते ।
जरत्कारुमुनीन्द्राय कश्यपस्त्वां ददौ पुरा ।।२३।।
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ।।२४। ।
सुष्वाप देव्या जघने वटमूले तु पुष्करे ।
जगामाऽस्तं दिनकरः सन्ध्याकालश्च गच्छति ।।।२५।।
विना सन्ध्यां मम पत्युर्ब्रह्महत्यावलेपनम् ।
भवेदतः सुधर्मिष्ठा बोधयामास तं पतिम् ।।२६।।
किन्तु बुद्ध्वाऽभवद् रुष्टो जगाद कोपगर्भितम् ।
निद्राभंगो मम साध्वि! कथं वद कृतस्त्वया ।।२७।।
व्यर्थं व्रतादिकं तस्या या भर्तुस्त्वपकारिणी ।
तपस्त्वनशनं चापि व्यर्थं दानादिकं व्रतम् ।।२८।।
यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तथा ।
पतिव्रताव्रतार्थं च पतिरूपी हरिः स्वयम् ।।२९।।
सर्वदानानि यज्ञाश्च यावत्तीर्थानि दक्षिणाः ।
तपांसि चोपवासाश्च व्रतानि देवपूजनम् ।।1.436.३ ० ।।
स्वामिसेवाकलांशस्य न यान्ति समतामपि ।
पतिसेवापरा पत्नी वैकुण्ठे स्वामिना सह ।।३ १ ।।
मोदते श्रीकृष्णनारायणभक्तिपरायणा ।
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ।।३२।।
कुम्भीपाकं व्रजेत्सा तु चाण्डाली जायते ततः ।
इति श्रुत्वा सती पत्युः पादयोः पतिताऽऽह च ।।३३।।
सन्ध्यालोपभयेनैव निद्रालोपः कृतस्तव ।
कुरु क्षमां प्रियाऽज्ञायां दुष्टायां मयि सुव्रत ।।३४।।
शृंगाराऽऽहारनिद्राणां या तु भंगं करोति सा ।
प्रव्रजेत् कालसूत्राख्यं निरयं सेविका ह्यपि ।।३९।।
इत्युक्त्वा पादयोः पत्युः पपात तावदेव तु ।
सूर्यः स्वं शप्तुमुद्यन्तं जरत्कारुं विलोक्य वै ।।३६।।
सन्ध्यया सह भगवान् भास्करस्त्वाजगाम ह ।
सूर्यं दृष्ट्वा जरत्कारुरध्यक्षिपत् कथं रवे! ।।३७।।
मम सन्ध्यां विना देव चाऽस्तं गन्तुं समिच्छसि ।
विना सन्ध्यां मम निद्राभंगो जातः प्रपश्यसि ।।३८।।
सूर्यः प्राह शृणु विप्र! नाऽहमस्तंगतस्तदा ।
तव सन्ध्यां विना चाहं कथं गच्छामि चास्तताम् ।।३९।।
क्षमस्व भगवन् ब्रह्मन् मां शप्तुं नोचितं मुने! ।
विप्रक्रोधे जगन्नाशो विप्रे तुष्टे जगत् स्थिरम् ।।1.436.४०।।
ब्राह्मणः सः कृष्णभक्तो भावयेल्लोकमंगलम् ।
एवं श्रुत्वा द्विजः शान्तो ददावाशिषमेव च ।।४१ ।।
सूर्यो ययौ निजस्थाने जरत्कारुस्ततः परम् ।
पत्नीं तु बन्धनं मत्वा वृद्धस्य तरुणी विषम् ।।४२।।
विचार्य मनसां भार्यां तत्याज शोकदुःखिताम् ।
सा सस्मार गुरुं शंभुमिष्टदेवं हरिं विधिम् ।।४३।।
कश्यपं जन्मदातारं समाजग्मुस्तु ते द्रुतम् ।
पातिव्रत्येन धर्मेण भक्त्या ते तु समाययुः ।।४४।।
जरत्कारुस्तदाऽऽश्चर्यपरो भूत्वा ननाम तान् ।
कथमागमनं त्वत्रेत्येवं प्रश्नं चकार सः ।।४५।।
ब्रह्मा प्राह महासर्प! नेयं साधारणी प्रिया ।
पातिव्रत्येन धर्मेण शक्ता सृष्टिं सुरक्षितुम् ।।४६ ।।
इयं चास्ति महालक्ष्मीकला धर्मपरायणा ।
वृथा सा कथयेत् तद्वत् त्वया कार्यं न चाऽन्यथा ।।४७।।
न त्यक्तव्या धर्मपत्नी धर्मिष्ठा पतिधर्मिणी ।
अस्यास्त्यागे तव धर्मलोपः शश्वद्भविष्यति ।।४८।।
तेन त्वं नरकं गन्ता परलोकं विचारय ।
कुरुष्वाऽस्यां सुतोत्पत्तिं धर्मरक्षणहेतवे ।।४९ ।।
यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा ।
जायायां सुसुतोत्पत्तिं कृत्वा पश्चाद् भवेन्मुनिः ।।1.436.५० ।।
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत् प्रियाम् ।
स्रवेत् तपस्तत्पुण्यं च चालिन्यां तु यथा जलम् ।।५१ ।।
वृक्षोऽपि वल्लिकां स्तम्बे लग्नां दूरीकरोति न ।
नाऽऽत्मा बुद्धिं स्वीयपत्नीं दूरीकरोति वै क्वचित्। ।।।५२।।।
दिवा रात्रिं न त्यजति शब्दः शक्ति क्षिणोति न ।
भास्करो द्यां न त्यजति जरत्कारुः कथं प्रियाम् ।।५३।।
इत्युक्तः स जरत्कारुर्जग्राह ब्रह्मणो वचः ।
न तत्याज प्रियां पश्चाद् देवास्ते प्रययुर्दिवम् ।।५४।।
अथ प्राह जरत्कार्वी स्वपतिं ज्ञानशालिनम् ।
वरं त्यागो विषयाणां दम्पत्योरपि सर्वथा ।।५५।।
पत्युः पत्न्या न वै श्लाघ्यस्त्यागस्तयोः परस्परम् ।
यदि नेच्छेद् विषयाँश्च सह स्थित्वा सुखं वसेत् ।।।५६।।
स्वामिना यस्तिरस्कारः पत्न्याः स्यान्मरणाय सः ।
स्वामिना या परित्यक्ता मानहीना तु सा भुवि ।।।५७।।
सर्वतिरकृतिपात्रभूता सर्वसौभाग्यवर्जिता ।
बिन्दुकज्जलकबरीयोग्याऽपि न भवेत्ततः ।।।५८।।
तिरस्कृताया नार्यास्तु जीवनं व्यर्थमेव यत् ।
तस्मान्नाथ जरत्कारो! यदिच्छसि तपः परम् ।।।५९।।
तदा संकल्पमात्रेण देहि मे मानसं सुतम् ।
तवाऽऽज्ञया सदाऽहं च तपः करोमि सन्निधौ ।।1.436.६० ।।
सेवां करिष्ये कान्तस्य विषयान् परिहाय च ।
यद्वा कान्ताऽऽज्ञया यत्र वासो मे योग्य इष्यते ।।६ १ ।।
तत्र वसामि कान्तस्याऽऽज्ञयाऽरण्येऽन्तिकेऽथवा ।
यत्र वर्तामि तत्रैव तवैव सत्तया प्रभो ।।६२।।
कान्तसत्ताविहीना न वस्तुमिच्छामि प्राणद ।
त्वदीयाऽहं न चान्यस्य त्वां विना क्व वसाम्यहम् ।।६३।।
दूरे त्वां हृदये कृत्वा वसिष्ये पर्वते वने ।
निकटे त्वां हृदि क्रोडे कृत्वा स्थास्ये कृपां कुरु ।।६४।।
इत्युक्तः स जरत्कारुः शुद्धां पत्नीं विचार्य च ।
चक्रे तन्नाभिसंस्पर्शं योगाद्वै पुत्रलब्धये ।।६५।।
मुनेः करस्पर्शमात्रात् सद्यो गर्भो बभूव ह ।
पतिः प्राह मनसे! ते श्रेष्ठः पुत्रो भविष्यति ।।६६ ।।
जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः ।
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ।।६७।।
वरो वेदविदां चापि योगिनां ज्ञानिनां वरः ।
विष्णुभक्तो धार्मिकश्च कुलोद्धारकरः परः ।।६८।।
पतिव्रता सुशीला त्वं सुप्रिया प्रियवादिनी ।
धर्मिष्ठा पुत्रमाता त्वं कुलजा कुलपालिका ।।६९।।
भव तादृशपुत्रस्य जननी लोकपूजिता ।
का माता? कृष्णसम्बन्धबोधिनी, नाऽपरा, सति! ।।1.436.७० ।।
कः पुत्रो? यो हरिप्राप्तिसहायो, नाऽपरः, प्रिये! ।
को बन्धुर्यो हरिभक्तिप्रदो न च परः शुभे ।।७१ ।।
यो बन्धछित् स स्यात् पिता हरेर्वर्त्मप्रदर्शकः ।
सा गर्भधारिणी या वै गर्भवासविमोचिनी ।।७२।।।
कृष्णधामप्रदाता यः स गुरुर्विष्णुभक्तिदः ।
पतिः स यो मुक्तिपालः कृष्णो वा वैष्णवोऽथवा ।।७३।।
स एव तु गुरुः साध्वि! ज्ञानदः कृष्ण एव सः ।
ज्ञानदो मोक्षदः कृष्णमन्त्रदश्च पतिर्गुरुः ।।७४।।
दत्तं ज्ञानं मया तुभ्यं त्वया दत्तो वृषो मयि ।
ज्ञानं धर्मः श्रीकृष्णस्य सेवातो न विशिष्यते ।।७५।।
ज्ञानदः सत्यदः स्वामी ज्ञानाद्बन्धो विशीर्यते ।
बन्धनाशाय कृष्णस्य भक्तिदो ज्ञानदो गुरुः ।।७६।।
स पतिः सः ऋतः स्वामी नाथः कान्तो नरायणः ।
स रिपुः शिष्यघाती च यो न बन्धाद् विमोचयेत् ।।७७।।
जननीगर्भजात् क्लेशाद् यमताडनदुःखतः ।
न मोचयेद् यः स कथं गुरुः पतिश्च बान्धवः ।।७८।।
मदाज्ञया भज साध्वि! श्रीकृष्णं व्रतशालिनी ।
परब्रह्माऽच्युतं कृष्णनारायणं सुमोक्षदम् ।।७९।।
मया छलेन त्वं त्यक्ता दोषो मे क्षम्यतां प्रिये ।
मत्तोऽप्यधिका धर्मे च सौशील्ये भजने जपे ।।1.436.८०।।
ज्ञाने भक्तौ विरागे च वर्तसे त्वं पतिव्रते ।
त्वया मे जन्मसाफल्यं मोक्षो मे करगस्तथा ।।८१ ।।
त्रिलोके विजयश्चापि त्वया सत्या ममाऽस्ति यत् ।
करिष्ये पुष्करे चाहं तपः परमदारुणम् ।।८२।।
श्रीकृष्णचरणाम्भोजे धृत्वा बुद्धीन्द्रियादिकम् ।
धननारीगृहेष्वास्था प्रवृत्तिपथगामिनाम् ।।८३।।
श्रीकृष्णचरणे त्वास्था निवृत्तिनिस्पृहार्थिनाम् ।
वद देवि! सहवासे क्वचिन्मे मानसं चलम् ।।८४।।
संक्षोभं प्राप्स्यते तस्माद् दम्पत्योरेकभूतले ।
सदाऽऽवासो बन्धनं स्याद् वियोगौ गुणतां व्रजेत् ।।८५।।
तस्माद् वियोगो योग्यो वै यद्वै श्रेष्ठं तदाचर ।
सहवासे दूरवासे प्रसन्नोऽस्मि सदा त्वयि ।।८६।।
आर्ये कुरु यथाऽऽत्मनोर्बन्धच्छेदश्च मोक्षणम् ।
जरत्कारुवचः श्रुत्वा मानसी कमलाकला ।।८७।।
योग्यं मेने वियोगं वौ संयोगं विषबन्धनम् ।
अपि पत्नी सदा पार्श्वे ऋतुधर्मं समाश्रिता ।।८८।।
पतिं संयोजयेत् कामे पतिर्वा वेगतः क्वचित् ।
तस्मात्ज्ञानवतोश्चात्र दम्पत्योर्मोक्षकांक्षिणोः ।।८९।।
ज्ञात्वा वियोजनं युक्तं भयं यत्र न विद्यते ।
पातिव्रत्यं पत्युराज्ञा दूरे वा निकटेऽपि वा ।।1.436.९० ।।
पत्नीव्रतं तु पत्यर्थं श्रेयस्कामः सदा पतिः ।
कामो दोषो न वै श्रेयःप्रदो भवति नारकः ।।९१ ।।
तस्मान्मोक्षेच्छुकयोर्दम्पत्योर्वियोजनं वरम् ।
मया गन्तव्यमेवाऽद्य सतीपार्वतीसन्निधौ ।।९२।।
कैलासे कान्तवचसा प्राप्तव्यो मोक्ष एव हि ।
इति विचार्य तु सती मानसी नागनन्दिनी ।।९३ ।।
शोकाऽश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ।
श्रेयोऽर्थं वै त्वया नाथ वियोगो मन्यते सुखः ।।९४।।
यथा प्रसन्नो भगवान् तच्चिकीर्षामि नान्यथा ।
गच्छाम्यहं तु कैलासं पार्वतीचरणेऽनिशम् ।।९५।।
करिष्ये भजनं तत्र कृष्णनारायणस्य वै ।
यदा स्मरामि बन्धो त्वां तदा मामागमिष्यसि ।। ९६।।
बन्धुभेदः क्लेशतश्च पुत्रभेदस्ततः परः ।
प्राणेशभेदः प्राणानां विच्छेदकस्ततोऽधिकः ।।९७।।
पतिः पतिव्रतानां तु शतपुत्राधिकः प्रियः ।
सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते सुरैः ।। ९८।।
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ।
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।।९९।।
यथा परस्वे चौराणां कामुकानां यथा स्त्रियाम् ।
विदुषां च यथाशास्त्रे वाणिज्ये वणिजां यथा ।। 1.436.१० ०।।
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।
किं करोमि यथा कान्तः प्रसन्नो वृष एव मे ।। १०१ ।।
इत्युक्त्वा साजरत्कार्वी पपात स्वामिनः पदे ।
उवाच मां तु कैलासं सम्प्रापय कृपानिधे ।। १ ०२।।
शंकराय च पार्वत्यै निवेदय तपः परम् ।
कारणं येन निःशंका मान्या स्यां तत्र सादरा ।। १ ०३।।
इत्युक्तस्तु जरत्कारुस्तथास्त्वित्यभिधाय ताम् ।
क्षणं चकार क्रोडे तां प्रेम्णा ददर्श तन्मुखम् ।। १ ०४।।
पस्पर्श पाणिना कान्तां वियोगाय कृपानिधिः ।
नेत्रोदकेन मनसां स्नपयामास तां सतीम् ।। १ ०५।।
साऽश्रुभिश्च मुनेः क्रोडं सिषेध भेदकातरा ।
ततो ज्ञानेन तौ द्वौ च विशोकौ संबभूवतुः ।। १ ०६।।
जग्मतुस्तौ तु कैलासं नेमतुः पार्वतीं शिवम् ।
जरत्कारुः स्ववृत्तान्तं कथयामास शंभवे ।। १ ०७।।
शंभुश्चापि प्रसन्नोऽभूत् पार्वती च ततोऽधिका ।
वियोगदुःखं नैवाऽस्ति योगिनामीदृशी गतिः ।। १ ०८।।
शंभुं च पार्वतीं दत्वा जरत्कार्वीं स्वयोषितम् ।
जगाम तपसे विप्रः पुष्करं त्वर्बुदाचले ।। १ ०९।।
मानसी तु गुरुं शंभुं गुर्वीं प्राप्य च पार्वतीम् ।
मुमुदे तपसा नित्यं ववृधे मन्दिरे गुरोः ।। 1.436.११ ०।।
अथ काले गते साध्वी सुषुवे बालकं शुभम् ।
नारायणांशं च महाज्ञानिनां योगिनां गुरुम् ।। १११ ।।
संस्कारान् कारयामास शंकरोऽस्य ततः परम् ।
वेदादीन् पाठयामास ज्ञान ब्रह्मपरं तथा ।। ११ २।।
भक्तिरास्ते स्वकान्ते चाऽभीष्टे देवे हरौ गुरौ ।
यस्यास्तेन च तत्पुत्रः श्रीहरेणाऽऽस्तिकः कृतः ।। ११ ३।।
तदा स्मृतो जरत्कारुः पुत्रदर्शनहेतवे ।
समागत्य सुतं दृष्ट्वा चाशीर्भिः संप्रयुज्य च ।। १ १४।।
शंभुं नत्वा प्रियां दत्वा मानसं पुष्करं ययौ ।
आस्तिकोऽपि ययौ पित्रा समं श्रीपुष्करं तदा ।। १ १५।।
दिव्यं वर्षत्रिलक्षं तु तपस्तप्त्वा शिवं प्रभुम् ।
जननीं स्वां नमस्कर्तुं कैलासं त्वाययौ ततः ।। ११६ ।।
आस्तीकः स्वजनन्याऽनुगतो हि कश्यपं ययौ ।
तां सपुत्रां सुतां दृष्ट्वा कश्यपो मुदमाप्तवान् ।। १ १७।।
सा सपुत्रा च सुचिरं तस्थौ तातालये सती ।
कृष्णभक्तिपरा साध्वी मोक्षमार्गपरायणा ।। १ १८।।
पुत्रयुक्ता मानसा सा सर्पसत्रे ह्युपस्थिता ।
पातिव्रत्येन धर्मेण तथाऽऽस्तीकबलेन च ।। ११ ९।।
कृष्णनारायणभक्त्या ररक्ष भोगिनोऽखिलान् ।
सेयं लक्ष्मि! मानसी त्वं नागिनी मनसा ह्यभूः ।। 1.436.१२० ।।
त्वमेव त्रिपुरदीनां नाशे मंगलचण्डिका ।
सुराणां मंगलदा च दैत्यानां चण्डनाशिका ।। १२१ ।।
ह्यभूस्त्वं सुरभिर्जाता दुग्धदात्री च देहिनाम् ।
नारायणी जगन्माता कम्भरा त्वमभूर्भुवि ।। १ २२।।
पद्मिनी तुलसी वृन्दा प्रभा पार्वती भार्गवी ।
माधवी त्वमभूर्नैका मत्पतिव्रतपालिका ।। १ २३।।
त्वं हंसा मंजुला चम्पा दया मुक्ता च देविका ।
शान्तिः शान्ता च सविता रुक्मिणी श्रीर्जयाऽनिला ।। १ २४।।
हेम्नी च मौक्तिका स्वर्णा सीता पद्मावती प्रथा ।
राधा गौरी कस्तुरिका नलिनी विजया मुदा ।। १ २५।।
हरिणी ललिता चन्द्रा कुमुदा च सरोजिनी ।
बहुधा वर्तमाना त्वं युगे युगे प्रसेवसे ।। १ २६।।
इति ते कथितं लक्ष्मि! पापतापप्रणाशनम् ।
कृष्णपतिव्रतं श्रावात्पाठान्मुक्तिर्भवेत्सुखम् ।। १ २७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने लक्ष्म्या अनेकावतारेषु जरत्कार्वीपतिव्रतायां स्वपतिजरत्कारोस्तपःप्रस्थाने कैलासे वास आस्तीकाख्यपुत्रप्राप्तिश्चेत्यादिनिरूपणनामा षड्त्रिंशदधिकचतुश्शततमोऽध्यायः ।। ४३६ ।।