लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३०
[[लेखकः :|]]
अध्यायः ४३१ →

श्रीनारायण उवाच-
यदा विष्णुरहं वक्ता लक्ष्मीस्त्वं श्रवणे रता ।
संहितायास्तदा श्रावो द्विमासाभ्यां प्रमोक्षदः ।। १ ।।
यदा लक्ष्मीर्हि संवक्त्री विष्णुः श्रोता भवामि च ।
संहितायास्तदा श्रावो वेदमासैः प्रमोक्षदः ।। २ ।।
प्राप्यते श्रीलक्ष्मीनारायणसंहितया ध्रुवः ।
आत्मपातिव्रत्यधर्मः प्राप्तस्त्वया मुखान्मम ।। ३ ।।
राधया श्रीकृष्णमुखात् संहिताश्रवणेन वै ।
तथाऽन्याभिर्गोपिकाभिः कृष्णनारायणाननात् ।। ४ ।।
काश्यां कुंकुमवाप्यां च बदर्यां दिव्यधामसु ।
सर्वसृष्टौ यथायोग्यमस्या भागेन वै ध्रुवम् ।। ५ ।।
पातिव्रत्यं परं प्राप्ता नरा नार्यो नरायणे ।
मुक्तिं च शाश्वतीं जग्मुर्मम धाम्नि च शाश्वतीम् ।। ६ ।।
शृणु लक्ष्मि! कथां रम्यां भवबन्धननाशिनीम् ।
पाञ्चालदेशे राजाऽभूद् वैष्णवो धार्मिकः शुचिः ।। ७ ।।
निर्भयवर्मा नृपतिर्नारायणपरायणः ।
तुलसीमालया नित्यं भजते श्रीनरायणम् ।। ८ ।।
ध्यानं पूजां क्रियाकाण्डं मुदा नारायणार्पणम् ।
चक्रे सर्वं हरौ नित्यं सर्वस्वार्पणपूर्वकम् ।। ९ ।।
एको दानकसंज्ञश्च कुमारस्तस्य धार्मिकः ।
नवधा भक्तिमान् कृष्णे गोपीनाथपरायणः ।। 1.430.१० ।।
निर्भयस्तु तपस्तेपे भक्तियुक्तं सुदारुणम् ।
तद्गृहे तु सुते जाते राधालक्ष्मीकलान्विते ।। ११ ।।
जीवन्ती लावण्यवती ब्रह्मचर्यपरायणे ।
नारायणं स्वामिनं ते सेवाते पातिव्रत्यतः ।। १२।।
साक्षाद्भक्त्या हरिः कृष्णः सेवां गृह्णाति तत्कृताम् ।
ते ह्युभे श्रीकृष्णनारायणस्वामिपरायणे ।। १३।।
व्रतस्थे तपसा युक्ते देवकार्यपरायणे ।
यद्गृहे भगवान् कृष्णो विराजते निरन्तरम् ।। १४।।
उन्मत्ता च सविद् यत्र कृष्णदासी विराजते ।
कुमारः पश्चिमे व्याघ्रारण्ये तलस्य रक्षसः ।। १५।।
वनं संप्राविशत् तीर्थं कर्तुं श्यामस्य दर्शनम् ।
तत्रारण्यं योगिनश्च रैवताचलवासिनः ।। १६।।
व्याघ्रसिंहादिरूपैः संविचरन्ति स्म च क्वचित् ।
कुमारेण पथि दृष्टाः सिंहा व्याघ्राः शतं परम् ।। १७।।
भयेन त्रस्तो वृक्षं स समारुरोह सत्वरम् ।
सिंहास्तु द्रुमसान्निध्ये निषेदुर्निर्भया यथा ।। १८।।
तान् दृष्ट्वा निश्चलान् सिंहान् क्रुद्धो हन्तुं मनो दधे ।
क्रोधेन तेजसा दानी व्यमुञ्चद् दारुणान् शरान् ।। १ ९।।
एको बाणेन विद्धश्च प्राप मृत्युं तदाऽपरे ।
ऋषिरूपास्तापसास्ते बभूवुर्मानवा द्रुतम् ।।1.430.२० ।।
राजानमाहुः ऋषयो वयं रैवतवासिनः ।
योगिनः स्म समायाता यात्रार्थं श्यामशार्ङ्गिणः ।।२१ ।।
मा हिन्धि क्रूररूपांश्च पशून् ज्ञात्वा नृपोत्तम ।
इति श्रुत्वा मुनीन् दृष्ट्वा कुमारः शोकमाप्तवान् ।।२२।।
अहो मया हतो योगी विप्रो ह्यजानता वने ।
तीर्थपुण्यस्थले पापं कृतं हत्यात्मकं मया ।।२३।।
कथं वै निष्कृतिस्त्वस्य भवेन्मे हननस्य वै ।
विचार्यावततार द्रोः पपात चरणे तदा ।।२४।।
प्राहर्षीन् पापनाशार्थं विध्यन्तु मां शरैर्मुहुः ।
हत्यात्मकं पापं मम नश्येन्महर्षयः! ।।२५।।
दयालवस्तु ऋषयः शरणागतमेव तम् ।
वैष्णवं छत्रधर्माणं प्रोचुः कृपापरं वचः ।।२६।।
वयं तु साधवो द्वन्द्वसहा रैवतयोगिनः ।
सिद्धा दिव्या दिव्यदेहाः संकल्पाधीनचारिणः ।।२७।।
जीवयितुं मृतं सर्वं समर्थाः स्म च मा शुचः ।
इत्युक्त्वा तलश्यामस्य तीर्थस्योष्णोदकं शवे ।।२८।।
धारया संददुः सर्वे सजीवो भव चोचिरे ।
तावदृषिः समुत्थाय ननाम तान् गुरून्मुहु_ ।।२९।।
दानी चातिप्रसन्नोऽभूत् पुपूज तान् हृदा मुहुः ।
ऋषयस्तु तदाऽदृश्यभावं प्राप्तो वनान्तरे ।।1.430.३० ।।
किन्तु हत्योद्भवं पापं ववल्गे दानिनं तु यत् ।
तेनातिविह्वलस्तत्र हत्यया पीडितो वने ।।३ १ ।।
बभ्राम हत्यया लग्नो व्याधधर्ममुपाश्रितः ।
न क्वापि स्थितिमापेदे हत्ययाऽभिद्रुतो भृशम् ।।३२।।
स वै भ्रमन् ययौ सिंहारण्यं यत्र सरस्वती ।
वडवाग्निं समुद्रे सा प्रचिक्षेप पुरा कृते ।।३३।।
ततः सः सोमनाथं सत्क्षेत्रं प्राप कुमारकः ।
प्राचीं सरस्वतीं चापि ययौ यत्र महामुनिः ।।३४।।
त्रितोनामा दिव्यदेहः पर्णकुट्यां विराजते ।
तेनाऽयं सत्कृतस्तस्य पादयोः पतितो भुवि ।। ३५।।
पादावनेजनं चक्रे पादसंवाहनादिकम् ।
जलाहरणं दास्यं च फलाहारादिकं तथा ।।३६।।
कुट्याश्रमस्य मार्जन्या मार्जनं निर्विकच्चरम् ।
पत्रावलीकरणं च ब्रह्मवृक्षदलादिभिः ।। ३७।।
चकार सेवनं तस्य त्रितस्य योगिनः स वै ।
योग्यं लक्ष्मि! साधुसेवा पापं दहति जन्मनः ।।३८।।
साधूनां दर्शनं पुण्यं वन्दनं पापनाशनम् ।
प्रसन्नता भाग्यदा च तृप्तिः पुत्रादिवंशदा ।।३ ९।।
पादसेवा श्रीप्रदा च मोक्षदा तु प्रपन्नता ।
सन्तोषणं सर्वदं हि सन्तोषणीयाः साधवः ।।1.430.४० ।।
येषां चरणवार्यत्र ब्रह्महत्यादिनाशकम् ।
योषां पादरजः पापिपापप्रध्वंसनं शुभम् ।।४१ ।।
येषां पूजा भोजनादि सर्वं रक्षति सर्वदा ।
यदाशिषः सुमूर्ताश्च रक्षन्ति देशकालयोः ।।४२।।
यथाशक्ति यथाद्रव्यं यथाभावस्तथा तथा ।
सेवनीयाः सदा सन्तो दिव्यास्ते हरिमूर्तयः ।।४३ ।।
निर्गुणा बन्धनैर्हीनाः सेवकाँस्तारयन्ति वै ।
त्रितस्य सेवया लक्ष्मि! ब्रह्महत्या लयं गता ।।४४।।
ततो विस्मयमापन्नः कुमारो दानको मुहुः ।
साधुसमागमस्तस्या विनाशे वेद कारणम् ।।४५।।
तावत्तत्र समायाता नेतुमेनं यमानुगाः ।
यमदूतान्महाघोरान् ददर्श दानकस्तदा ।।४६ ।।
सेवापुण्येन सस्मार कृष्णनारायणं प्रभुम् ।
गोपीनाथं हरिं कृष्णं स्वामिनं जगतां पतिम् ।।४७।।
नारायणः स्वयं स्वस्य पार्षदानाह सत्वरम् ।
गच्छन्तु दानिरक्षार्थं वारयन्तु यमानुगान् ।।४८।।
इत्यादिष्टाः पार्षदास्ते समाययुस्त्रिताश्रमम् ।
दूरं वै वृक्षमध्ये तान् दृष्ट्वा दूतान् हि दारुणान् ।।४९।।
आक्रोशेन पराभाव्य विद्राव्य भक्तसेवकम् ।
दानिनं निन्युरेते वैमानिकेन पथा हरिम् ।।1.430.५० ।।
हरिः प्राह मुनेः सेवा कृताऽनेन सुपुण्यदा ।
भक्तोऽस्ति मे महाशान्तो दान्तश्चापि चिरायुषः ।।५१ ।।
तस्मादेनं राज्यभारे स्थापयन्तु महाबलम् ।
साधूनां सेवको भावी वर्तते वैष्णवो महान् ।।५२।।
महाभागवतो भावी मदर्थाऽर्पितनैजकः ।
इत्युक्तश्च तदा दानी प्राह तं परमेश्वरम् ।।५३।।
न कांक्ष्यते भुवो राज्यं न जन्म न च वै दिवम् ।
कांक्ष्यते ते सदा सेवा राधालक्ष्म्यन्वितस्य वै ।।५४।।
हरिः प्राह तथाऽस्त्वेतद् गच्छ वत्स यथासुखम् ।
तव स्वस्रोर्मम राधालक्ष्म्यौ निवत्स्यतः शुभे ।।५५।।
अहं नारायणः स्वामी निवत्स्यामि तव गृहे ।
सुखयिष्ये मोक्षयिष्ये गच्छ त्वं पार्षदैः सह ।।५६।।
तव दूर्गे निवत्स्यामि स्वस्त्यस्तु तेऽनु सेवक! ।
इत्यादिष्टो भगवता ययौ स्वनगरं प्रति ।।५७।।
कृष्णपातिव्रत्यपरान् धर्मांश्चकार दादकः ।
साधुसेवापरः कृष्णनारायणप्रसेवकः ।।५८।।
सर्वोत्सवकरः कृष्णार्पितसर्वस्वदक्षिणः ।
प्रवृद्धः सर्वसम्पद्भिर्गोलोकसदृशं गृहम् ।।५९।।
कारयित्वा गोपिकायुक्कृष्णं संस्थाप्य तत्र च ।
भुक्त्वा भोगान् समस्तांश्च जीवन्मुक्तोऽभवत्सदा ।।1.430.६ ०।।
सतां पतिः प्रभुर्नारायणः स्वामी जनार्दनः ।
तस्य गृहे यथोक्तं च निवासं प्रचकार ह ।।६ १ ।।
तदुत्तरं हरेः पातिव्रत्ययुक्ते सती ह्युभे ।
जीवन्ती लावण्यवती दिव्यैश्वर्ये बभूवतुः ।।६२।।
जीवन्त्यां श्रीराधिकायाः कलाऽऽवेशो बभूव ह ।
लावण्यवत्यां लक्ष्म्याश्च कलाऽऽवेशो बभूव ह ।।६३।।
जीवन्त्या लावण्यवत्या दादकेन निरन्तरम् ।
पातिव्रत्यं कृष्णनारायणे गोपीश्वरे कृतम् ।।६४।।
त्रयस्य भगवान् धार्मिः प्रत्यक्षो वर्ततेऽन्वहम् ।
भोजने शयने वाट्यां विहारे च समुत्सवे ।।६५।।
विमानेन सदा याति लोकान्तरेषु तैः सह ।
मुक्तैर्देवैः पूजितश्च समायात्यनु तद्गृहम् ।।६६।।
जीवन्त्या लावण्यवत्यार्पितं भुंक्ते हरिः स्वयम् ।
श्रीहरिणा तु जीवन्त्यै लावण्यायै च दानिने ।।६७।।
स्वस्य मन्त्रः प्रदत्तश्च संसारभवनाशकः ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।।६८।।
इति मन्त्रं समासाद्य चक्रुस्तत्कीर्तनं मुहुः ।
तच्छ्रुत्वा प्राणिनः सर्वे वैकुण्ठं परमं ययुः ।।६९।।
एकदा दादको गत्वा यममार्गेऽतिदारुणे ।
मन्त्रं जपन् स्थितो द्वारि श्रावयामास नारकान् ।।1.430.७० ।।
सर्वेऽपि नारकाः पूता ययुर्धामाऽक्षरं हरेः ।
यमक्षेत्रमभूद् रिक्तं कृष्णकीर्तनसंश्रवात् ।।७१ ।।
गच्छद्भिर्वैष्णवं धाम स्वकर्मस्थैर्जनैः क्षणात् ।
शून्यास्तु नरकाः सर्वे पापिप्राणिविवर्जिताः ।।७२।।
वैकुण्ठे नारदो दृष्ट्वा ह्यकस्माद्वैष्णवाऽऽगमम् ।
पप्रच्छ तान् कुतः सर्वे समायान्ति हि वैष्णवाः ।।७३ ।।
ते प्राहुर्यमलोकाद्वै तत्र दादकनामकः ।
श्रावयित्वा हरेर्मन्त्रं पाययामास नारकान् ।।७४।।
आययुस्ते नारका ये वयं स्म एव ते मुने! ।
श्रुत्वैतन्नारदस्तूर्णं यमक्षेत्रं तु वीक्षितुम् ।।७५।।।
समाययौ धर्मलोकं यमेन पूजितो मुनिः ।
पप्रच्छ धर्मराजं स रिक्तं क्षेत्रं हि ते कथम् ।।७६ ।।
धर्मराजस्तदा प्राह दादको भक्तराडयम् ।
अतिभक्तो हृषीकेशे पुराणपुरुषोत्तमे ।।७७।।
प्रबोधयति कृष्णस्य नाममन्त्रं हि नारकान् ।
ते सर्वे तु गता विष्णोर्लोकं ब्रह्म तु शाश्वतम् ।।७८।।
अयं भक्तो मया यद्वा त्वया यमस्य मण्डलात् ।
विनयेन च सत्कृत्या दूरयितव्य एव यत् ।।७९।।
इति विचार्य देवर्षियमर्षी प्रोचतुस्तु तम् ।
भो भक्तराट् पापिनो वै तव कीर्तनसंश्रवात् ।।1.430.८०।।
दण्ड्यां स्थलीं विहायैव गच्छन्ति विष्णुधाम ते ।
अन्यायो भवते त्वत्र मा कर्तव्यं तथाऽनघ! ।।८१ ।।
धर्मलोपो भवेन्नैव कर्मलोपो भवेन्न च ।
तथा कार्यं त्वया भक्त! याहि स्वनगरं प्रति ।।८२।।
दानकः सः तदा प्राह मुक्तिर्देया व्रतं मम ।
पातिव्रत्यं परो धर्मः कृष्णसर्वस्वमेव यत् ।।८३।।
तत्प्राप्त्यर्थं हि जीवानां पापिनां पापनाशनम् ।
तन्नामस्मरणं चात्र करोमि धर्ममेव मे ।।८४।।
न गमिष्ये मम स्थानं वासोऽत्र रोचते मम ।
नारकाणां प्रदुःखानां दुःखमोचनहेतवे ।।८५।।
इत्युक्तौ निश्चयं नायं गमिष्यति गृहे स्वकम् ।
विचार्य तौ विमानेन ययतुर्यमनारदौ ।।८६।।
ब्रह्माख्यं श्रीहरेर्धाम लेभाते स्वागतं हरेः ।
पुपूजतुर्नेमतुश्च निषेदतुर्हरेः पुरः ।।८७।।
तदा यमो जगादैनं नारायणं जगत्पतिम् ।
नाथ! पापमये क्षेत्रे तव भक्तो हि दानकः ।।८८।।
समागत्य तव नाम्नां करोति कीर्तनं मुहुः ।
यमक्षेत्रं तेन जातं रिक्तं सर्वं हि निर्जनम् ।।८९ ।।
अधिकारो निरर्थो मे कृतस्तेनाऽतिकीर्तनात् ।
कर्मदण्डस्य पट्टस्ते जायते स्म निरर्थकः ।।1.430.९०।।
नियोगि न नियोगं हि करोति कार्ययोजितः ।
प्रभोर्वित्तं समश्नाति स भवेत् काष्ठकीटकः ।। ९१ ।।
लोभाद् वित्तस्य हर्ता च कार्यस्याऽविनिवर्तकः ।
तिर्यग्योनिमवाप्नोति कल्पपर्यन्तमेव सः।।९२।।
वेतनं त्वर्जयन् कार्यमालस्येन करोति न ।
स जायते वनमध्ये वायसः शतवत्सरान् ।।९३ ।।
स्वार्थी स्वामिकार्यलोप्ता मूषको जायते वने ।
सोऽहं निरर्थकश्चाऽस्मि दानी यावन्मम स्थले ।।९४।।
तं त्व तस्मान्मम क्षेत्राद् दूरीकुरु जनार्दन ।
निग्राह्यो जगतां नाथ! भवता दानकः शुचिः ।। ९५।।
अन्यथा ते दण्डपटस्तव पद्भ्यां निवेद्यते ।
किं वृथा धारणेनाऽस्य वृथा वै वेतनेन च ।।९६।।
इत्युक्त्वा विररामाऽसौ हरिः प्राह यमं तदा ।
किमाश्चर्यं भवेदत्र मन्नाम्नामनुकीर्तनम् ।। ९७।।
पापिनां सर्वपापघ्नं स्वर्गदं मोक्षदं तथा ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।।९८।।
कर्णयो पतितं यस्य कृष्णनारायणेति च ।
प्रयाति कृष्णसायुज्यं पाप्युद्धारकरो हरिः ।।९९।।
भक्ता मे पापिजीवानामुद्धारार्थं स्थले स्थले ।
विचरन्ति यथेष्टं ते तारयन्ति प्रपत्तितः ।। 1.430.१० ०।।
तेषामहं सदा तुष्टो ये गृणन्ति ममाऽभिधाम् ।
तारयन्ति पापिनश्च कीर्तयन्ति कथां मम ।। १०१ ।।
पातिव्रत्यं पालयन्ति धारयन्ति च मां हृदि ।
वर्तयन्ति मदर्थे च नरा नार्यश्च मे मताः ।। १ ०२।।
मत्कार्यं ते हि कुर्वन्ति मदर्थे त्यक्तजीवनाः ।
तेषां चाहं प्रसन्नात्मा सहाये सर्वदा स्थितः ।। १ ०३।।
यत्करोति करोत्येव श्रेष्ठं तन्मुक्तिकृद् यम! ।
नियोगी स्वामिकार्येषु यावच्छक्ति समीहते ।। १ ०४।।
तावता स कृतार्थः स्यान्नरकान्नैव गच्छति ।
कार्ये शक्तिविनिष्कान्ते स्वामिने वै निवेदयेत् ।। १ ०५।।
अनृणस्तावता भृत्यो नियोगी सुखमश्नुते ।
स्मान्निवेदितार्थस्य न ऋणं न च पातकम् ।। १ ०६।।
यत्ने कृते स्वकर्तव्ये नाऽपराधोऽस्ति देहिनः ।
तस्मादशक्यकार्येस्मिन्न विशोचितुमर्हसि ।। १ ०७।।
लक्ष्मीं वापि परित्यक्ष्ये प्राणान् देहमथापि वां ।
श्रीवत्सं कौस्तुभं मालां वैजयन्तीमथापि वा ।। १ ०८।।
 .श्वेतद्वीपं च वैकुण्ठं क्षीरसागरमेव च ।
शोषं च गरुडं चैव न भक्त त्यक्तुमुत्सहे ।। १ ०९।।
विसृज्य सकलान् भोगान् मदर्थे त्यक्तजीवितान् ।
मदात्मकान् महाभागान् कथं तोस्त्यक्तुमुत्सहे ।। 1.430.११ ०।।
तस्माद् राजन् दानकं ते भक्तवर्ये स्वयं हरिः ।
दातुं वै दर्शनं यामि नेतुं यानेन वै पुनः ।। १११ ।।
गच्छ त्वं यमलोकं च पश्चादायाम्यहं यम! ।
वद तस्मै ममाऽऽयं त्वं स मत्प्रेष्णाऽऽप्लुतस्तदा ।। ११ २।।
कीर्तनं मे विहायैव हास्यनृत्ये करिष्यति ।
तावत्तस्मै दर्शनं मे दत्वा धृत्वा विमानके ।। ११ ३।।
गमिष्यामि तव कार्य कृत्वा याम्यस्य मण्डलात् ।
इत्युक्तश्च यमस्तत्र प्रजगामाऽतिहर्षितः ।। १ १४।।
श्रावयामास कृष्णस्याऽऽगमं तस्मै हिं दानिने ।
सोऽपि चकार नृत्यादि भगवत्प्रेमपूरितः ।। १ १५।।
तावद् दिव्यं विमानं वै नारायणहरेरियात् ।
चतुर्भुजं कृष्णनारायणं दृष्ट्वा तु दानकः ।। १ १६।।
कृष्णाज्ञया विमानं तु समारुह्य रटन् मुहुः ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।। १ १७।।
नृत्यन् ध्यायन्नमन कृष्णं प्रेममग्नोऽभवत्तदा ।
धर्मराजकृतां पूजां संगृह्य भगवान् हरिः ।। १ १८।।
राधारमासमायुक्तो दुर्गे दानिगृहं ययौ ।
अवतार्य परं भक्तं स्वयं स्थित्वा निशां प्रभुः ।। १ १९।।
जीवन्त्या लावण्यवत्याः सेवां पतिव्रतामयीम् ।
स्वीकृत्य भोजनं लब्ध्वा दत्वा दिव्यं स्वदर्शनम् ।। 1.430.१ २०।।
अभयस्य कुटुम्बाय पातिव्रत्याऽयनाय च ।
जीवन्त्यां कलया राधां लावण्यायां श्रियं तथा ।। १२१ ।।
कलया वसितुं त्वाज्ञां दत्वा छायात्मके यथा ।
तथा ते कन्यके कृत्वा पावयित्वा गृहाणि च ।। १ २२।।
उन्मत्ताया जले स्नात्वा पीत्वाऽम्भस्तत्र पावनम् ।
वैहायसेन दिव्येन यानेन स्वपदं ययौ ।।१ २३।।
गोप्यो ज्ञात्वा तु तद्व्रत्तं मथुरामण्डलात्तथा ।
द्वारिकातः कृष्णपलयो जग्मुश्च दिव्यविग्रहाः ।। १२४।।
राधालक्ष्मीनिवासेन गोपीनां कृष्णयोषिताम् ।
वासरूपं बभूवैतत् क्षेत्रं दुर्गात्मकं पुरम् । । १ २५।।
श्रीहरेस्तत्र वासेन गोलोकसदृशं हि तत् ।
ब्रह्मधामसमं दिव्यं मोक्षदं जातमुत्तमम् ।। १ २६।।
दर्शनात्स्पर्शनान्नद्या जलपानाऽवगाहनात् ।
धूल्यास्तु धारणाद् देहे पापक्षयश्च मोक्षणम् ।। १ २७।।
राधालक्ष्मीप्रतापेन प्रातिव्रत्यवृषेण च ।
असंख्यानां तु दासीनां सांख्ययोगव्रतेन च ।। १ २८।।
कोटियज्ञफलदातृ कृष्णनारायणाश्रितम् ।
श्रोतुर्वक्तुस्तीर्थयातुः पराऽक्षरपदप्रदम् ।। १ २९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये सौराष्ट्रपञ्चालदेशीयदादक ( दानक) नृपतेस्तलश्यामयात्रायां सिंहरूपर्षिघाते जातब्रह्महत्यायास्त्रितमुनिसेवया नाशोत्तरमागतयमदूतानां भगवत्पार्षदैर्निवारणं, हरिभजनेन यमनारकाणां मोक्षणं, दान ( द) कस्य राधालक्ष्मी-
नारायणाऽऽशीर्वादो दुर्गे जीवन्तीलावण्यवत्योरंशतया राधालक्ष्म्योर्निवासो हरेरपि दुर्गक्षेत्रे निवासश्चेत्यादिनिरूपणनामा त्रिंशत्यधिकचतुश्शततमोऽध्यायः ।।४३० ।।