लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२९
[[लेखकः :|]]
अध्यायः ४३० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सूर्यपुत्र्या मम पत्न्याः कथानकम् ।
याऽभूद् गोलोकमध्यस्था सखीश्रेष्ठाऽतिहासिनी ।। १ ।।
यदा यदा सखीनां वै समुद्याने सुक्रीडनम् ।
मिलित्वा जायते तत्र हसतीयं मुहुर्मुहुः ।। २ ।।
एकदा राधिकायुक्ता गोप्यश्च कोटिशः स्त्रियः ।
जग्मुः स्नानाय सरसि दिव्ये मदर्थनिर्मिते ।। ३ ।।
शैवाले राधिका पद्भ्यां संसृप्य पतिता तदा ।
यमुना राधिकां धर्तुं प्रदुद्राव जहास च ।। ४ ।।
राधा प्राह यमुने! किं स्थाने हससि नर्मणि ।
अस्थाने हसने नैव शोभते हास्यसंभृते ।। ५ ।।
पतिताऽहं कर्दमेन व्याप्ता पृष्ठो शिलाहता ।
जलं नसि मुखे नेत्रे प्रविष्टं नर्म मा कुरु ।। ६ ।।
एवं प्रबोधिता साऽपि धृत्वा राधां प्रगृह्य च ।
वस्त्रादीनि तदाऽन्यानि ददौ सन्धारणाय वै ।। ७ ।।
मुखं केशाः पृष्ठभागः प्रक्षालिताः सुसंस्कृताः ।
तदा राधां पुनर्दृष्ट्वा पजहासाऽति सा मुहुः ।। ८ ।।
राधा रुष्टा तु यमुनां प्रायशः सेविकां प्रति ।
प्राह शैवालकेशा त्वं भव कर्दमशालिनी ।। ९ ।।
यमुना तु तदा रुष्टा राधां प्राह पुनः पुनः ।
त्वं प्रिये कर्दमे शैवालेऽपि विहर मद्युता ।। 1.429.१ ०।।
त्वां परित्यज्य नैवाहं विहरामि कदाचन ।
कृष्णो ज्ञात्वा ह्युभे प्राह मैवं मैवं प्रिये मम ।। ११ ।।
युवाभ्यां तु विहीनोऽहं कथं स्थास्यामि शोभने ।
आगमिष्याम्यहं तत्र यत्र यमुनाराधिके ।। १ २।।
यमुना सूर्यपुत्री संभूत्वा नदी तु भूतले ।
हिमाद्रिं प्रथमं सृष्ट्वा ययौ वृन्दावनं सती ।। १३ ।।
राधापि गोपिका भूत्वा रापाणस्य सुताऽनिशम् ।
यमुनायास्तटे तच्छैवालकर्दमचारिणी ।। १४।।
जाता कृष्णप्रिया कृष्णसंकेतानुप्रसारतः ।
यमुना कन्यकारूपा सेवते तु पतिं हरिम् ।। १५।।
एकदा कृष्णपत्न्यो वै कृष्णेन सह तद्वने ।
कुमारिकाः प्रक्रीडन्ति यमुना तद् ददर्श ह ।।१६।।
सा कृष्णं संविलोक्यैव चकमे कान्तकामिनी ।
कृष्णस्तां प्राह यमुने! भव कन्या ततः परम् ।। १७।।
करिष्येऽहं विवाहं ते कलिन्दराजकन्यका ।
भव शीघ्रं मम पत्नी भविष्यसि न संशयः ।। १८।।
सा तु कलिन्दराजस्य द्वितीयेन स्ववर्ष्मणा ।
जाता वै कन्यका श्रीकृष्णेन साऽपि विवाहिता ।। १ ९।।
एकदा कृष्णपत्न्यस्तु श्रीकृष्णविरहातुराः ।
कालिन्दीं मुदितां वीक्ष्य पप्रच्छुर्गतमत्सराः ।।1.429.२०।।
यथा वयं कृष्णपत्न्यस्तथा त्वमपि सूर्यजे ।
वयं विरहदग्धाः स्म कथं त्वं विरहं विना ।।२१ ।।
तच्छ्रुत्वाऽऽह रवेः पुत्री कालिन्दी कृष्णसेविका ।
दिव्यं वै श्रीकृष्णनारायणं प्राप्नोमि सर्वदा ।।।२२।।
न मां विहाय भगवान् कदाचिद् याति दूरतः ।
राधिकाऽस्ति महाराज्ञी कृष्णात्मा कृष्णरूपिणी ।। २३ ।।
अस्म्यहं राधिकांशा वै न भिद्ये कृष्णरूपतः ।
राधां विना न वै कृष्णो नाऽहं च राधिकां विना ।।२४।।
कृष्णश्च मां विना नैव जानीतैकात्म्यमेव यत् ।
एवं सत्यपि दास्यं वै राधायास्तु विशिष्यते ।। २५।।
तदानन्देन मुदिता विन्दामि विरहं न वै ।
पतिव्रता सती नारी पतिं गर्भे हृदि व्रते ।।२६ ।।
पार्श्वे चात्मनि विज्ञाने रक्षत्येव न संशयः ।
स्वप्ने जाग्रति निद्रायां रमते स्वामिना सह ।। २७।।
भेदो न देहयोरस्ति व्यवस्था पतिमिश्रिता ।
यदेच्छति तदा सत्याः पतिर्नारायणात्मकः ।।२८।।
आगत्याऽऽनन्ददाताऽस्ति वियोगो नास्ति कर्हिचित् ।
सती पतिव्रता पत्नी यद्यत् सुखं प्रवाञ्च्छति ।। २९।।
तत्तत्सुखप्रदानार्थं पतिरूपं दधन् हरिः ।
पतिव्रतामनःकामान् पूरयत्येव सर्वथा ।।1.429.३ ० ।।
तस्मात्पतिव्रतानार्या वियोगः स्वामिनो न वै ।
स एवाऽयं कृष्णनारायणश्चास्मत्पतिः प्रभुः ।।३ १ ।।
सर्वकामपूरकोऽस्ति वियोगो नास्ति मे क्वचित् ।
श्रुत्वा ता योषितः प्राहुर्यदि कालिन्दि! वै त्वया ।। ३२।।
साकं कृष्णः सदा त्वास्ते नः प्रदर्शय साम्प्रतम् ।
इत्युक्ता सा प्रहस्यैव शाटिकां स्वां करेण वै ।। ३३ ।।
दक्षपार्श्वाद्धस्तमात्रं वियुक्तां प्रचकार ह ।
तावत्तत्र स्थितः पार्श्वे समाश्लिष्य यमीं हसन् ।। ३४।।
ताभिश्च लोकितः कृष्णः कालिन्दीं रमयन् मुहुः ।
मुग्धाः सर्वास्तदा जाताः क्षणं दृष्ट्वा पतिं हरिम् ।।३५।।
शशंसुः सूर्यपुत्र्यास्तु पातिव्रत्यं हि तास्तदा ।
तदेव पातिव्रत्यं यत् पतिर्नारायणः स्वयम् ।। ३६ ।।
नारायणस्वरूपोऽस्ति चान्तरात्माऽस्ति सर्वथा ।
न विमुक्तः कदाचित्स यथाऽऽत्मा न वियुज्यते ।। ३७।।
इति भक्तिमती नारी पण्डिता वै पतिव्रता ।
कर्मणा विद्यते काचित् सती न मनसा हि सा ।।३८।।
मनसा विद्यते काचित् सती न कर्मणा हि सा ।
बुद्ध्या काचित् सती सा न मनसा न च कर्मणा ।। ३ ९।।
त्रीभिर्या विद्यते काचित्सा चेन्नैवाऽऽत्मना सती ।
सर्वं तद्विरहायैव जायते चात्मवर्जितम् ।।1.429.४० ।।
पातिव्रत्यं त्वात्मना यत् तत्पातिव्रत्यमुत्तमम् ।
मया तादृक् सदा प्राप्तं राधायाः कृपया ध्रुवम् ।।।४१ ।।
दास्यं स्वाम्यं पातिव्रत्यं तस्मात् कृष्णो मयि स्थितः ।
राधाकृष्णस्यांऽशरूपा वयं श्रीकृष्णनायिकाः ।।४२।।
तस्याऽन्वयेन चास्मासु नित्यभोगोऽपि विद्यते ।
स एव सा सैव सोऽस्ति राधा वै प्रेमशेवधिः ।।४३।।
तयोः प्रेम सुमूर्ते सद् वंशीरूपं दधार ह ।
रुक्मिण्यादिसमावेशो राधायां लोकितो मया ।।४४।।
यूयं सर्वाश्च राधायां श्रीकृष्णे स्थ समन्विताः ।
नित्यानन्दमहावार्धियोजिता न वियोजिताः ।।४५।।
किन्तु ह्येवं न जानीथ तस्माद् व्याकुलतां गताः ।
आत्मनां पातिव्रत्ये तु नैवं व्याकुलता भवेत् ।।४६।।
पातिव्रत्येऽपि गोपीनां भवतीनामिव भ्रमः ।
विरहाभासरूपः स आसीदुद्धवनाशितः ।।४७।।
उद्धवस्य भवतीनां भवेच्चेत् सुसमागमः ।
विरहाभासनाशः स्यात् कान्ताऽऽनन्दं सुलप्स्यथ ।।४८।।
गोवर्धनगिरेर्भूमौ गोपीनां पादरेणुभिः ।
पवित्रतां सदा वाञ्च्छन्नुद्धवो वल्लिकात्मकः ।।४९।।
वर्तते तु सदानन्दः पातिव्रत्यपरायणः ।
यदि सुमूर्तः प्राप्तव्यस्तदा संभूय तत्स्थले ।।1.429.५ ०।।
पत्नीभिः कीर्तनगीतिसंगीतैरुत्सवो महान् ।
आरब्धव्यस्तत्र तस्य दर्शनं भविता ध्रुवम् ।।।५१ ।।
तथा चात्मसमीहानां सिद्धिरवश्यभाविनी ।
इत्युक्तास्ताः कृष्णपत्न्यो गत्वा वल्लीवने द्रुतम् ।।५२।।
गोवर्धनाददूरेणाऽऽरेभिरे कीर्तनोत्सवम् ।
कृष्णनारायणगीतिरसेऽनन्यधियोऽभवन् ।।।५३ ।।
तावत्प्रेमभरो भक्तस्तृणगुल्मलताचयात् ।
आजगामोद्धवः स्रग्वी दिव्यः पीताम्बरान्वितः ।।५४।।
प्रगायन् श्रीकृष्णनारायणं नृत्यन् नमन् हसन् ।
कृष्णरूपं दधत् तं तु दृष्ट्वा नार्यः सुविस्मिताः ।।५५।।
उद्धवं पूजयांचक्रुस्ताः श्रीकृष्णस्वरूपिणम् ।
श्रीकृष्णरूपिणं दृष्ट्वा मुमुहुः रुरुदुः स्त्रियः ।।५६।।
उद्धवेन तदा ज्ञात्वा विरहाग्निं तु योषिताम् ।
निष्कास्य स्वहृदः कृष्णं ताभ्यश्चार्पितवान् क्षणम् ।।५७।।
कृष्णः सहस्रधा तत्र संभूतो योगमायया ।
कान्तः कामप्रपूरोऽभूत् प्रतिकुंजं प्रतिप्रियाम् ।।५८।।
आश्लेषणं चूम्बनं च रमणं स्नेहपूरितम् ।
ददौ प्रतिप्रियायै स निर्वृत्तिं परमां ददौ ।।५९।।
शान्तं चकार वै तासां विरहानलमुल्बणम् ।
आत्मशान्तिं ददौ ताभ्यः कृष्णश्चोद्धववत् तथाः ।।1.429.६ ० ।।
पातिव्रत्यं ददौ ताभ्यः कालिन्द्या इव सर्वदा ।
तासां पार्श्वे विलीनश्च शाश्वतात्मसुखप्रदः ।।६ १ ।।
वर्तते स्म यथाकान्तस्त्र्यवस्थात्मव्रतार्थितः ।
एवं कृष्णं शाटिकासु पार्श्वे नीत्वा ययुर्गृहम् ।।६२।।
उद्धवोऽपि हरिं नीत्वा वल्लीषु संजगाम ह ।
एतदात्मकृतं पातिव्रत्यं प्रोक्तं हि पद्मजे! ।।६३ ।।
श्रवणात्पठनाश्चास्य तादृशं तद्व्रतं लभेत् ।
कृष्णं पार्श्वे लभेन्नित्यं शाट्यां हृदि न संशयः ।।६४। ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये कालिन्द्याः उद्धवस्य पातिव्रत्येनाऽन्यासां कृष्णपत्नीनामात्मपातिव्रत्यदार्ढ्यप्राप्तिरित्यादिनिरूपणनामा एकोनत्रिंशदधिकचतुश्शततमोऽध्यायः ।।४२९ ।।