लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२८
[[लेखकः :|]]
अध्यायः ४२९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां रम्यां वीरबाहोः सतीस्त्रियाः ।
काम्पिल्यनगरस्यासीद् वीरबाहुरिति प्रधीः ।। १ ।।
सत्यवादी च नृपतिर्ब्राह्मणो मम भक्तराट ।
भक्तो भागवतानां च मत्कथायां रुचिंगतः २ ।।
दाताऽनाथाऽऽश्रयप्रदः पत्नीव्रतश्च पुत्रवान् ।
तस्य कान्ता कान्तिमती महासाध्वी पतिव्रता ।। ३ ।।
मुक्त्वैकं मां वीरबाहुर्नान्यज्जानाति दैवतम् ।
एकदा तद्गृहं यातो भारद्वाजो महामुनिः ।। ४ ।।
राजा चकार चातिथ्यं स्वागतं चार्घ्यमासनम् ।
प्रणनाम च तं भक्त्या ह्युवाच सुप्रमोदितः ।। ५ ।।
अद्य मे सफलं जन्म त्वद्य मे सफलं दिनम् ।
अद्य मे सफलं राज्यमद्य मे सफलं गृहम् ।। ६ ।।
सफलश्चाश्रमश्चापि सफला धनबान्धवाः ।
यस्य मे ब्रह्मविज्ञस्य दर्शनं चरणं गृहे ।। ७ ।।
यस्य हरिः प्रसन्नोऽस्ति तद्गृहं यान्ति साधवः ।
हरेर्भक्ता गृहे यस्य तस्य कोट्यघसंक्षयः ।। ८ ।।
तीर्थं भवति भवनं यत्पादरजसा दिवम् ।
राज्यं लक्ष्मीर्गजाश्वादि सर्वं मुने! त्वदर्थकम् ।। ९ ।।
भवद्दर्शनलाभेन जीवन्मुक्तोऽस्मि वर्तितः ।
महाभागवतश्चासि नाऽदेयं ते ममास्ति यत् ।। 1.428.१ ०।।
वैष्णवायाऽर्पितं स्वल्पं मेरुतुल्यं फलं भवेत् ।
यद्गृहे नास्ति चरणं सतां कृष्णस्य योगिनः ।। ११ ।।
तद्गृहं शववासार्हॆ दिनॆ च विफलं भवेत् ।
यद्गृहं च दिनं चापि सतां प्राप्तिविवर्जितम् ।। १२।।
वद मे सर्वधर्मज्ञ! गार्हस्थ्यवर्तिनां च यत् ।
तारकं साधनॆ श्रेष्ठं बन्धनं हरिधामदम् ।। १३ ।।
भारद्वाजः प्रसन्नः सन् स्मृत्वा कृष्णनरायणम् ।
उवाच राजन् भद्रं ते योऽसि भक्तजनप्रियः ।। १४।।
स्मृद्धिस्तु सुलभा राजन् हृद्भावो दुर्लभः खलु ।
या त्वयि भावना भक्ते नैकजन्माऽर्जिता हि सा ।। १५।।
यस्य कृपालुः श्रीकृष्णनारायणः श्रियः पतिः ।
तस्य वै भावना सत्सु सुदिव्या मोक्षदा हि सा ।। १६।।
श्रीहरिर्हि सदा सेव्यः सेव्याश्च साधवः सदा ।
साध्व्यः सेव्याश्च नारीभिर्याश्च कृष्णपतिव्रताः ।। १७।।
धनं धान्यं सुतः कीर्तिः राज्यं सौभाग्यमर्हणम् ।
आरोग्यं कान्तिरैश्वर्यं त्वाशीर्भिर्लभ्यते सताम् ।। १८।।
साधवस्तोषिता येन तेन कृष्णः प्रतोषितः ।
कृष्णे तुष्टे जगत् तुष्टं सदेवमुनिमानवम् ।। १ ९।।
अतुष्टे तु हरौ सर्वं तुष्टं चापि निरर्थकम् ।
धन्योऽसि त्वं महाराज! राजसे वैष्णवो महान् ।।1.428.२०।।
धन्योऽस्यधिको राजसे यत्ते पत्नी पतिव्रता ।
पातिव्रत्यं द्वयं यस्याश्चोभयं साधितं तया ।। २१ ।।
स्वामिनि श्रीहरौ कृष्णो तथा कान्ते विवाहिते ।
एतल्लोकं सुखं प्राप्तं प्राप्स्यते धाम वै तथा ।। २२।।
नेदृशं साधनं लोके गार्हस्थ्यस्य तु तारकम् ।
गृहे पतिव्रतानारी कृष्णे भक्तिश्च शाश्वती ।।२३।।
राज्ये प्रजा भागवती वैष्णवी धार्मिकी सती ।
तत्र सदा प्रवस्तव्यं न त्ववैष्णवराजके ।।२४।।
वरं वासो वने तीर्थे न तु राष्ट्रे ह्यवैष्णवे ।
यत्र भागवतो राजा प्रशास्ति च वसुन्धराम् ।।२५।।
वैकुण्ठं तद्धि मन्तव्यं फलं वैकुण्ठमेव यत् ।
राजा भक्तो यथार्थोऽस्ति सतां पात्रं स आशिषाम् ।। २६ ।।
तद्राज्यं वर्धते नित्यं दम्पत्योः पातिव्रत्यतः ।
राजन्नेत्रं सफलं मे पश्यामि त्वां हि वैष्णवम् ।। २७।।
सफलौ च तथा कर्णौ यच्छृणोमि पतिव्रताम् ।
पतिव्रता स्वयं लक्ष्मीस्वरूपा ब्रह्मणा कृता ।।२८।।
पत्नीव्रतो वैष्णवश्चोद्धारको ब्रह्मणा कृतः ।
वैष्णवानां दर्शनं वै शान्तिदं मोक्षदं तथा ।। २९।।
लब्धं च दर्शनं तेऽत्र तव श्रीसमयोषितः ।
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव जनाधिप! ।।1.428.३ ०।।
अवैधव्यं च ते पत्न्याः कान्तिमत्याः सदा शुभम् ।
पत्यौ भक्तिः केशवे च निश्चला भक्तिरस्तु वाम् ।। ३१ ।।
पत्यौ कृष्णे त्वैक्यबुद्धिः कान्तिमति! सदाऽस्तु ते ।
पूर्वं त्वया पातिव्रत्यं पालितं त्वतियत्नतः ।। ३२।।
पतिस्तवाऽयं पूर्वस्मिन् जन्मन्यासीत् प्रहिंसकः ।
नास्तिको दुष्टचारित्रः शूद्रः परप्रियारतः ।।३३ ।।
कृतघ्नो दुर्विनीतश्च सदाचारविवर्जितः ।
कर्मणा मनसा वाचा त्वया नित्यं हि देववत् ।।३४।।
सेवितः कृष्णबुद्ध्या च पातिव्रत्यवृषेण च ।
शूद्रीत्वेऽपि त्वया कश्चिन्नान्यो नरः प्रकल्पितः ।। ३५।।
पतिव्रता महासाध्वी परस्पर्शविवर्जिता ।
दुष्टभावादिहीना च सिषेविषे पतिं हरिम् ।। ३६ ।।
कदाचिद् द्रव्यहीनोऽयं पतिस्तेऽरण्यमागतः ।
क्षीयमाणाऽपि भार्या त्वं नाऽत्यजः स्वं पतिं हरिम् ।। ३७।।
शशादिभिर्वर्तयन्तौ दम्पती वनवासिनौ ।
ददृशथुः कदाचिद्वै वने भ्रष्टपथं मुनिम् ।। ३८।।
ब्राह्मणं श्रीकृष्णनारायणभक्तं सुवैष्णवम् ।
मध्याह्ने तृषितं चापि पतितं मूर्च्छितं तथा ।। ३९।।
हृदि कृष्णं स्मरन्तं च देवशर्माभिधानकम् ।
ब्राह्मणं तं सिषेवाथे जलेन पवनेन च ।।1.428.४०।।
पादयोर्मर्दनेनापि फलादिभोजनेन च ।
विष्णुं कृष्णं हरिं मत्वा वैष्णवं तारकं द्विजम् ।। ४१ ।।
आश्रमे छायया व्याप्ते रम्ये निन्यथुरादरात् ।
युवाभ्यां सेवितः सम्यक् स्नापितो भोजितस्तथा ।। ४२।।
साष्टांगः सन्नतश्चोक्तो भावभक्त्या स वैष्णवः ।
आवयोस्तारणार्थायाऽतिथिर्विष्णुस्त्वमागतः ।। ४३ ।।
दर्शनात्तव विप्रर्षे जातोऽस्मत्पापसंक्षयः ।
वद विप्र वने किञ्चित्साहाय्यं चेदपेक्ष्यते ।। ४४।।
ब्राह्मणस्तु तदा प्राह पुण्ययोगेन वै वने ।
भवद्योगो मम जातो जीवितो वै वनान्तरे ।। ४५।।
करवाणि युवयोः किं ब्रूत किञ्चिदभीप्सितम् ।
शूद्रः प्राह यथा सौरिलोकदर्शनं मा भवेत् ।। ४६।।
पत्न्या सह प्रगच्छामि कृष्णधाम हि शाश्वतम् ।
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ।।४७।।
देवशर्मा तदा प्राह शृणु प्राक्चरितं तव ।
पूर्वजन्मनि विप्रस्त्वमवन्त्यां धार्मिको ह्यभूः ।।४८।।
तव पत्नी तदा चेयं पातिव्रत्यपरा सती ।
आसीद्धर्मपरा नित्यं ह्यतिथीनां प्रसेविका ।।४९।।
तवाऽऽज्ञयाऽनया त्वन्नं ह्येकादश्यां सुपाचितम् ।
ब्राह्मणेभ्यश्चातिथिभ्यो भोजनार्थं समर्पितम् ।।1.428.५०।।
जातं पुण्यं त्वन्नदानाद् भोजनात्पापमित्यपि ।
पुण्यपापप्रतापेन यमादिष्टेन वै पथा ।।५१ ।।
युवां शूद्रकुले जन्माऽवापथुः पुण्यमिश्रितम् ।
यावत्पुण्यमभूत् तावद्धनधान्याद्यभूच्च वाम् ।।५२।।
पुण्यं नष्टं ततो वन्यो वासोऽयं समुपागतः ।
किन्तु विदर्भनगरे वर्तते ते सुतासुतः ।।।५३।।
कृतं तेन विधानेन हरेरेकादशीव्रतम् ।
प्रदत्तं तेन तत्पुण्यं युवाभ्यां यद्बलाच्च वाम् ।।५४।।
धर्मोपरि गतिर्नित्यं वर्तते युवयोः शुभा ।
कान्तिमत्याः पातिव्रत्ये सदा त्वासीन्मतिस्तदा ।।५५।।
तेन पुण्यप्रभावेण युवयोः संगतिः सदा ।
वियोगो जायते नैव न भूतो न भविष्यति ।।५६।।
स्वल्पेनैव प्रकालेन यूयं स्वर्गं गमिष्यथः ।
तत्र पतिव्रताधर्मबलेन सुचिरं सुखम् ।।५७।।
समनुभूय भूलोके शूद्रजन्म ह्यवाप्स्यथः ।
तावुभौ च युवां जातौ विष्णुभक्तिपरायणौ ।।५८।।
अथोत्तरं शुभं जन्म मम सेवाप्रभावतः ।
पातिव्रत्यप्रभावेण दीर्घं राज्यमवाप्स्यथः ।।५९।।
इत्युक्त्वा स ययौ विप्रस्तीर्थार्थं च युवामुभौ ।
कालधर्मं समापन्नौ राज्ञी राजा च वैष्णवौ ।।1.428.६०।।
जातौ स्थः पुनरेवात्र सती भार्या तवाऽस्ति च ।
त्वं तु पत्नीव्रतश्चासि सेवसे मादृशान् सदा ।।६१ ।।
विष्णुं नारायणं कृष्णं श्रीपतिं कमलापतिम् ।
लक्ष्मीपतिं सतां नाथं सेवसे पातिव्रत्यतः ।।६२।।
इयं साध्वी तव भार्या कृष्णं त्वां सेवते सदा ।
तत्फलं दीर्घराज्यं च पुत्रस्तेऽस्ति सुवैष्णवः ।।६३।।
प्रजास्ते सर्वदा नारायणे पतिव्रतास्तथा ।
वैष्णव्यः सन्ति तेनाऽत्र जयसे मोक्षणं प्रति ।।६४।।
कुरु भक्तिर्हरेर्नित्यं प्रसेवय गुरून् यतीन् ।
पत्नीव्रतं सदा रक्ष पातिव्रत्यं सति! ह्यव ।।६५।।
एवं वै वर्तने स्वर्गं शाश्वतं त्वत्र तेऽस्ति हि ।
अन्ते धाम परं दिव्यं गोलोकं यास्यथो घ्रुवम् ।।६६।।
सम्प्राप्तैकादशीपुण्याद् विप्रस्याऽऽतिथ्यसेवनात् ।
पातिव्रत्याच्च भार्यायाः प्राप्तं राज्यादिकं त्वया ।।६७।।
भज विष्णुं सदा त्वं श्रीकृष्णनारायणं प्रभुम् ।
भज साध्वि स्वामिनं श्रीकृष्णनारायणं पतिम् ।।६८।।
इत्युक्त्वा प्रययौ बद्रीं भारद्वाजो महामुनिः ।
चक्राते तावुभौ भक्तिं ययतुर्धाम मे ह्युभौ ।।६९।।
शृणु लक्ष्मि! कृष्णपातिव्रत्येन नाम मे जपेत् ।
तस्मै ददामि वैकुण्ठं गोलोकं वाऽक्षरं पदम् ।।1.428.७०।।
मम नाम प्रवक्तव्यं क्षणे क्षणे विशेषतः ।
राधाकृष्णेति वक्तव्यं प्रभाकृष्णेति प्रीतिदम् ।।७१ ।।
हरिकृष्णेति वक्तव्यं दुःखहृन् मोक्षदं परम् ।
प्रतिज्ञैषा तु मे लक्ष्मि! सर्वथा शरणागतः ।।७२।।
सर्वेच्छां समवाप्नोति वैकुण्ठं कमलामपि ।
मद्भक्ताय ददाम्येव तत्सर्वं यन्ममाऽस्ति वै ।।७३ ।।
वदति श्रीकृष्णनारायणेति संस्मरत्यपि ।
यथाकथंचिद्भजते तमहं तारयामि ह ।।७४।।
लक्ष्मीनारायणं ये तु वदन्ति मृत्युसन्निधौ ।
मृत्युर्यमश्च तद्दूतास्त्यक्त्वा यान्ति हि तं प्रिये ।।७५।।
अन्तकाले यस्य कर्णे रामरामेति चागतम् ।
वैकुण्ठे नीयते रामपार्षदैः स न संशयः ।।७६ ।।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।
इत्येवं गृणतो मन्त्रं नयामि मम चाक्षरम् ।।७७।।
पातिव्रत्यपरा पत्नी यत्रास्ति तुलसीदलम् ।
महाभागवतः साधुर्यत्रास्ति तत्र चास्म्यहम् ।।७८।।
अहं कृष्णः पतिः कृष्णः स्वामी कृष्णः प्रियः स हि ।
रमाप्रभामाणिकीपार्वतीनाथः स्त्रियाः पतिः ।।७९।।
जयाललिताकान्तः स नारीणां कान्त एव सः ।
पतिव्रता यतः सर्वा लक्षांशसंभवाः सति! ।।1.428.८० ।।
इति ते कथितं सेवाकरणं त्वैक्यभावतः ।
पठनाच्छ्रवणाच्चास्य पातिव्रत्यफलं लभेत् ।।८१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये वीरबाहोः कान्तिमत्याश्च दम्पत्योर्भारद्वाजेन विप्रशूद्रनृपजन्मत्रयोत्तरं मुक्तिः
कृतेत्यादिनिरूपणनामाऽष्टाविंशत्यधिकचतुश्शततमोऽध्यायः ।।४२८।।