लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२७
[[लेखकः :|]]
अध्यायः ४२८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां तासां पुनःप्राप्तिस्वरूपिणीम् ।
यदा कृष्णो द्वारिकायां समागत्याऽवसत्तदा ।। १ ।।
शोकातुरास्तु ताः सर्वास्तत्यजुर्वारि भोजनम् ।
श्रीकृष्णेन मया ताश्च पुनः पुनस्तदन्तिकम् ।। २ ।।
गत्वा त्वदृश्यरूपेण सान्त्वयिताः प्रसादिताः ।
आप्यायिता आनन्दिता यथेष्टक्रीडनादिभिः ।। ३ ।।
अदृश्येन स्वरूपेण प्रतिगोपीं रमाम्यहम् ।
पार्श्वस्था नैव जानन्ति यतस्ते चर्मचक्षुषः ।। ४ ।।
तास्तु दिव्याः प्रजानन्ति वदन्ति यमुनातटे ।
सख्यो मिलन्ति विजने मां स्तुवन्ति हसन्ति च ।। ५ ।।
मां विना ताः क्षणं स्थातुमशक्ता अमिलँस्तटे ।
जक्रुश्च निश्चयं गन्तुं द्वारिकां कान्तसन्निधौ ।। ६ ।।
दिव्यदेहास्तु ताः सर्वाः कृत्वा रूपं द्वयं द्वयम् ।
एकरूपेण तत्रैव गोकुले तस्थिरे सदा ।। ७ ।।
द्वितीयेन तु दिव्येन मिलितास्तु सहस्रशः ।
कृष्णनारायणपत्न्यो नीत्वोपदा यथाबलम् ।। ८ ।।
भौतिकैश्चाऽदृश्यरूपा व्योममार्गेण संययुः ।
घटिकाऽऽभ्यन्तरे प्रापुर्दिव्यां पुष्करिणीं शुभाम् ।। ९ ।।
अहं योगेन ता ज्ञात्वा प्रतिजगाम सत्वरम् ।
स्वागतं कृतवाँस्तासां दधे रूपसहस्रकम् ।। 1.427.१ ०।।
आनन्दं प्रददौ शीघ्रं ददौ भोज्यादिकं ततः ।
उपदा जगृहे पश्चाच्चिरं तापं ह्यपानुदम् ।। ११ ।।
एवं द्वीपे द्वारिकायां ररक्ष चिरमेव ताः ।
तर्पिताश्चाज्ञया सर्वाः सिषेविरे यथेष्टकम् ।। १ २।।
एकदा रैवते रन्तुं मया ताश्च समर्थिताः ।
आययुश्च विचेरुश्च रेमिरे मां ववल्गिरे ।। १३ ।।
स्वर्णरेखासरित्तीरे सुगन्धिपुष्पवासिते ।
कोटिवृक्षवने रम्ये कामाऽऽनन्दं प्रपेदिरे ।। १४।।
तास्तु दृष्ट्वा महारम्यं स्थलं रैवतपत्तलम् ।
निश्चिक्युर्मां भोजयितुं सस्मरुर्भोजनानि च ।। १५ ।।
तत्रस्था वनदेव्यस्तु योगिन्यो योगिनीगिरेः ।
सिद्धस्त्रियोऽम्बादास्यश्चाऽऽनिन्युर्भोज्यानि सर्वशः ।। १६ ।।
सौवर्णानि राजतानि पात्राणि पर्णजानि च ।
ब्रह्मद्रुमदलपात्राण्यानिन्युर्विविधानि ताः ।। १७।।
ता अपि जन्मसाफल्यं मन्वानाश्च प्रहर्षिताः ।
भोजयामासुरत्यर्थमातिथ्यं चक्रुरादरात् ।। १८।।
रैवत्यो देवताः कन्या गौकुल्यः कन्यकास्तथा ।
श्रीकृष्णं कोटिरूपस्थं भोजयामासुरीश्वरम् ।। १९ ।।
कार्तिके यानि भोज्यानि चाऽन्नकूटेऽर्हणानि वै ।
मार्गशीर्षे च देयानि तान्याजह्रुर्हरेः कृते ।। 1.427.२०।।
सर्वाणि भोजयामासुर्नारायणह्रदान्तिके ।
शृणु लक्ष्मि! च नामानि यान्यहं भुक्तवाँस्तदा ।। २१ ।।
वक्ष्यामि तेऽन्नपानादिव्यञ्जनादीन्यशेषतः ।
हिरण्मयानि पात्राणि राजतानि सहस्रशः ।।२२।।
विस्तीर्णानि सुन्दराणि पालाशानि बहून्यपि ।
कचोलाश्च शरावाश्च कुडवाश्च सहस्रशः ।।२३।।
विन्यस्ताः सन्निधौ मे च विशाले भूतले तदा ।
जलानां कलशाः सोपपात्रास्तत्र धृताः शुभाः ।। २४।।
पायसं कामधेनूनां कन्याभिस्त्वर्पितं ततः ।
सशर्करो दुग्धपाकः सुगन्धिभक्त उत्तमः ।।२५।।
मुद्गाः सौगन्ध्ययुक्ताश्च पात्रीषु संधृतास्तदा ।
नानाव्यञ्जनपात्र्यश्च निम्बूरसादिमिश्रिताः ।।२६।।
फलमूलप्रपाकाश्च कर्पूरादिसुवासिताः ।
शतशो व्यञ्जनभेदा निहिताः पात्रिकासु वै ।।२७।।
द्राक्षाश्च मिश्रिताश्चूतकरमर्दकसंयुताः ।
मरीचपिप्पलीशूण्ठीकर्पूरैलाऽऽर्द्रकैर्युताः ।।२८।।
क्वाथाः क्वथिका विविधाश्चटन्यस्तिक्तमिष्टिकाः ।
जम्बूरसान्विताः पत्रवल्लीनां भर्जकास्तथा ।।२९।।
प्रलेहनाश्च विविधाः कुसुमामोदसंभृताः ।
पात्रीषु निहितास्ताभिरुष्णभावाः समुत्तमाः ।।1.427.३ ० ।।
शर्करादुग्धयुक्ताश्च मण्डका वर्तुलाः शुभाः ।
प्रफुल्लाः पुष्पवटिकाः पात्रीषु परिवेषिताः ।।३ १ ।।
सकेसरं सशर्करं हैयंगवीनमुत्तमम् ।
घृतं श्रेष्ठं महिषीणां वाटिकासु समर्पितम् ।।३२।।
पुटेषु निहिताश्चूर्णाश्चार्द्रपत्रफलादिजाः ।
स्थालेषु चार्पितास्ताभिः सौबाह्लिकाश्च पूरिकाः ।।३३ ।।
पोलिकाश्च शतश्छिद्रा अपूपाः पूपकास्तथा ।
सुमिष्टपोलिकामिष्टपूरिका युगपोलिकाः ।।३४।।
विशालपोलिकाश्चापि पूर्णप्रपोलिकास्तथा ।
रोटका घृतपूर्णाश्च घृतपूराश्च शाटकाः ।।।३५।।।
चणका नैकधा माषा वल्लाश्च संस्कृता नवाः ।
सूत्रफेण्यः पर्पटाश्च वटाः कूष्माण्डमाषजाः ।।३६।।
वटिका नवधा चैव समर्पिता मुदा तदा ।
जातीफलमरीचैलाकेसराढ्या च पायसी ।।३७।।
सिद्धान्नं तादृशं दुग्धपक्वं पात्रेषु चार्पितम् ।
चित्रवर्णं नैकरसं राजिकाराद्धमुत्तमम् ।।३८।।
कृतं बहुविधं ताभिश्चिञ्चिणीदधिचूतजम् ।
द्राक्षेक्षुरसकदलीबिल्वरसादिनिर्मितम् ।।३९।।
घृतपक्वानि तैलेन पक्वानि कन्दकानि च ।
तथा पक्वानि पत्राणि सपिष्टोपरसानि च ।।1.427.४०।।
पिष्टाचारालीबीजैश्च नारीकेलस्य गर्भकैः ।
खसबीजैर्लवंगैश्च मिश्रिता घृतशर्करैः ।।४१ ।।
कटाहे पाचिता दुग्धैस्तिलतण्डुलस्वल्पकाः ।
स्निग्धा रम्याः फेणिकाश्चार्पितास्ताभिर्मुहुर्मुदा ।।४२।।
घृतपक्वाः सकर्पूरा दत्तास्त्रिघारिपूरिकाः ।
चारालीबीजयुक्ताश्च खसबीजप्रलेपिताः ।।४३ ।।
द्राक्षान्तर्वासयुक्ताश्च मोदका बहुजातिकाः ।
सगूडाः सशर्कराश्च सखण्डा दुग्धमर्दिताः ।।४४।।
जलीयाश्च घृतीयाश्च वह्निकुण्डप्रपाचिताः ।
घृते च पाचिताश्चापि स्वल्पघृताक्तचूर्णकाः ।।०५.।।।
नारीकेलकुसुगर्भैलालवंगकर्पूरान्विताः ।
वंशपुष्पाजपुष्पादिसंमिश्राः मोदकाः शुभाः ।।४६।।
वृक्षनिर्याससंयुक्ताः पक्वगुन्द्रादिमिश्रिताः ।
बदाममोदकास्तिलमोदका मौक्तिकादयः ।।४७।।
लड्डुका गोलकाश्चान्ये मुद्गचणकपिष्टजाः ।
ताण्डुला लड्डुकाश्चापि द्वात्रपिष्टादिलड्डुकाः ।।४८।।
स्थालेषु चार्पितास्ताभिर्वर्तुलाश्च सुगन्धिनः ।
चतुःखण्डास्तथा दत्ता महाशुभस्य शोभनाः ।।४९।।
मोहनस्थालखण्डाश्च पर्पिचूर्णपटास्तथा ।
बिन्दुकीलड्डुकाश्चापि माषमोदकजातयः ।।1.427.५०।।
ग्रन्थकाः कलिकाश्चैव सेविकाश्च चतुर्वटः ।
बाष्पाटाः शाटकाश्चापि शष्कुल्यः पिण्डकास्तथा ।।५१ ।।
गणग्रन्थाः शर्कपाराः कंसाराश्च बिरञ्जकाः ।
दुग्धमापः श्रीखण्डश्च पीतसाराश्च तक्रकम् ।।५२।।।
संयावाद्याः पूरणानि जाम्बवश्च प्रसूत्रकाः ।
मिष्टा अमिष्टाः तिक्ताश्च लावण्यव्यञ्जनास्तथा ।।५३।।
कुलत्थिकाः संस्कृताश्च राजमाषादयस्तथा ।
ताभिः पात्रेषु पर्णेषु यथावस्तुप्रपूरिताः ।।५४।।
आर्द्रकस्य लवंगानां चूतानामारनालकम् ।
आमलकस्य निम्बूनां गरिम्णश्चारनालकम् ।।।५५।।
मरीचकानां कन्दानां शुण्ठीनामारनालकम् ।
कैरटानां कर्मदानां शिग्रूणां चारनालकम् ।।५६।।
मूलकानां च पत्राणां खर्जूराणां रसांस्तथा ।
खारिकाणां च वन्यानां वंशानामारनालकम् ।। ५७।।
क्षीरिकाणाममृतानां गलकीनां च व्यञ्जनम् ।
घृताशानां च दुग्धीनां परवलानां व्यञ्जनम् ।।५८।।
कुनराणां मृदालूनां रक्तालूनां च व्यञ्जनम् ।
बृहतीनां सुवासानां मेथिकानां च भाजिकाः ।।५९।।
इक्षुरसः पुष्पिकापः द्राक्षा च क्षीरिकाफलम् ।
चूतानि नवरंगानि कदलान्यमृतानि च ।।1.427.६ ० ।।
आमलकानि बिल्वानि रसानि विविधानि च ।
ताभिर्दत्तानि पात्रेषु भावुकाभिर्मुदा मुहुः ।।६१ ।।
सशर्करं पयःप्रस्थं ह्यर्धं घृतं मनाङ् मधु ।
मनाक् शूण्ठीर्मनाङ्मरीचकं कर्पूरकं मनाक् ।।६२।।
गालितं क्वाथितं ताभिर्दत्तं पानोत्तरं तु मे ।
ताम्बूलकानि श्रेष्ठानि श्रेष्ठवस्त्वन्वितानि च ।।६३।।
ताभिर्दत्तानि तत्रैव जलानि विधिना तथा ।
दत्तानि भोजितश्चाहं सर्वाभिश्च पृथक् पृथक् ।।६४।।
कवलैः कण्ठसंस्पर्शैः सत्पेयैस्तर्पितोमुहुः ।
ताश्च सर्वाः करे कृत्वा कवलानि तु मे ददुः ।।६५।।
मुखे गृह्णामि भावेन भुनज्मि चापि सत्वरम् ।
देवताश्चागता आर्षा मुनयः पितरस्तथा ।।६६।।
दर्शनार्थं मया भुक्तं प्रसादं जगृहुस्तु ते ।
एवं ताभिः कारितं मे भोजनं बहुतृप्तिदम् ।।६७।।
मया भुक्त्वा तु ताः सर्वाः प्रत्येकं भोजिता मया ।
कवलानि चूम्बनानि स्पर्शनानि प्रदाय च ।।६८।।
सर्वाभ्यः सर्ववस्तूनां प्रसादास्तृप्तिदा मया ।
प्रदत्ता भोजिताश्चापि जलं ताम्बूलमर्पितम् ।।६९।।
तदा नारायणह्रदे मत्स्या भूत्वा तु देवताः ।
पक्षिणश्च पितरोऽपि भूत्वाऽवापुः प्रसादकम् ।।1.427.७० ।।
कन्याभिः सेवितस्तत्र कुंजेषु तृप्तिपूर्वकम् ।
पुष्पाणां हारमालाभिः शृंगारितस्तथा ह्यति ।।७१ ।।
वन्दितः पूजितश्चापि प्रार्थितः सर्वदा गिरौ ।
रैवते वासलाभाय मुहुः सुखप्रदे गिरौ ।।७२।।
मया तासां कृता चाज्ञा यान्तु वै गोकुलं प्रति ।
तास्तु प्राहुः सदा कृष्ण! रक्षयाऽत्र गिरौ हि नः ।।७३।।
समागच्छ सदा चात्र सुखदानाय माधव! ।
त्वय्यर्पिता वयं सर्वास्तनुना कर्मणा धिया ।।७४।।
त्वयि प्राप्ते क्व गन्तव्यं कान्तस्य चरणौ विना ।
सदा ते सेविका देहि सौख्यं नो रमणेन वै ।।७५।।
नैकरूपी प्रभुः कामैः रत्या तारत्यतर्पयत् ।
अथ तत्र ततो लक्ष्मि! ब्रह्मा कार्याय चागतः ।
गोप्यं नान्ये विजानन्ति जानाम्यहं नरायणः ।।७६।।
ब्रह्मा प्राह तदा मह्यं रहस्यं वाच्यमेव न ।
यावत् कालात् कृतयुगस्त्रेता द्वापर एव च ।।७७।।
पृथ्व्यां राज्यं प्रकुर्वन्ति कलिर्निराश एव यत् ।
स्थानं क्वाऽप्यलभमानो ययौ लोकाचलं रुषा ।।७८।।
तपः करोति तत्रैव स्थानस्य लब्धये तु सः ।
तपःफलप्रदानाय त्वया गन्तव्यमेव हि ।।७९।।
वरदानं कृपासिन्धो दातव्यं लोकरक्षकम् ।
द्वापरस्य गतः कालः कलिः पृथ्व्यां भविष्यति ।।1.427.८०।।
गंगादीनि च तीर्थानि धर्मश्च देवतादयः ।
पञ्चसहस्रवर्षाणि न स्थास्यन्ति भुवि प्रभो ।।८१ ।।
तावत्कालं कलिः पृथ्व्यां निर्बलो निवसिष्यति ।
क्रमेण तु ततस्तिष्यबले जाते भुवस्तले ।।।८२।।
सर्वमानुषरूपेषु प्रकटः सन्निवत्स्यति ।
ततश्चाधर्मबीजानि रोपयिष्यति सर्वशः ।।८३।।
एकाकारं जगत् कर्तुं यतिष्यते स सर्वथा ।
सर्वं जगद् धर्महीनं करिष्यति स्वपुष्टये ।।८४।।
जातिभेदो धर्मभेदो ह्यस्पृश्यास्पर्श इत्यपि ।
अगम्यागमनं चाऽप्यभक्ष्याऽभक्ष्यादिकं तदा ।।।८५।।।
देवचाण्डालयोः शुद्धिर्मनुधर्मादयस्तदा ।
रुग्णाः सर्वे भविष्यन्ति ततो धर्मस्य गुप्तये ।।८६।।
सौराष्ट्रे रैवते देशे तदा कृष्ण पुनस्त्वया ।
अश्वपट्टसरस्तीरे ग्राह्यं प्राकट्यमेव च ।।८७।।
सर्वविद्यासर्वधर्माऽधिष्ठात्रा च सता त्वया ।
कृष्णनारायणनाम्ना भवितव्यं ध्रुवं प्रभो ।।८८।।
तवोपदेशात् सर्वत्र दीर्घकालं पुनर्भुवि ।
वृषो भक्त्यधिकः पुष्टो जीविष्यति जने जने ।।८९।।
मत्स्यध्वजधनुःशूलस्वस्तिकवज्रचिह्नितम् ।
भगवन्तं परिज्ञाय शरणं ते जनास्तदा ।।1.427.९०।।
आयास्यन्ति तरिष्यन्ति तव दर्शनसेवनात् ।
भक्तिः पृथ्व्यां तदा कृष्ण तव दिव्येन वर्चसा ।।९१ ।।
पुष्टिमेष्यति सर्वत्र जना यास्यन्ति मोक्षणम् ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।।९२।।
इतिमन्त्रं गुरोः प्राप्य भक्त्या यास्यन्ति धाम ते ।
अथ तिष्यबले जाते प्रजाश्चाण्डालसन्निभाः ।।९३।।
तदा स्वत्वं परत्वं च समूलं संविनंक्ष्यति ।
योनिबन्धो धनबन्धः स्वार्थन्यायो भविष्यति ।।९४।।
तदा पुनस्त्वया कृष्ण भवितव्यं पुनः पुनः ।
कलेर्नाशाय सत्याय सत्यधर्माय वै पुनः ।।९५।।
शिक्षादानाय प्राकट्यं तव कार्यं पुनः पुनः ।
यावत् पृथ्व्यां प्रतिमायां देवास्तीर्थानि वै जले ।।९६।।
मनुष्येषु च पावित्र्यं तावन्मैतु बलं कलिः ।
तथाऽस्त्विति हरिः प्राह ब्रह्मा नत्वा स्थितः पुरः ।।९७।।
ब्रह्मणे हरिणा सर्वं प्रासादिकं प्रभोजितम् ।
कृष्णः प्राह विनोदेन कुमारिकास्तदोत्तरम् ।।९८।।
अहं पृथ्व्यां पुनश्च श्रीकृष्णनारायणः प्रभुः ।
कलेः पराभवार्थं वै भविष्यामि सुराष्ट्रके ।।९९ ।।
तावद् यूयं प्रियाः सर्वास्तपः कुर्वन्तु रैवते ।
प्राकट्ये मे च तत्रैव सुयोगो वो भविष्यति ।।1.427.१००।।
श्रुत्वैतत् ताः परं खिन्नाः साश्रुनेत्रास्तदाऽभवन् ।
तावत्कालं वियोगे चाऽसहमाना हि तापनम् ।। १०१ ।।
भगवांश्च तदा प्राह सान्त्वयित्वा शनैः पुनः ।
वियोगाऽसहमानानां पञ्चवर्षसहस्रकम् ।। १ ०२।।
सुक्षणमात्रकालो वै सत्यलोके गमिष्यति ।
अद्यैव ब्रह्मणा साकं यूयं गच्छत कन्यकाः ।। १०३ ।।
ब्रह्मलोकं प्रपश्यन्तु क्षणैकमात्रमुत्सुकाः ।
पुनश्चात्र समायान्तु ब्रह्मणा प्रेरिताः प्रियाः ।। १ ०४।।
एभिर्दिव्यशरीरैर्वै भक्तिमत्यो भवन्तु मे ।
अहं चात्र भविष्यामि सौराष्ट्रे भगवान् स्वयम् ।। १ ०५।।
सतां मध्यगतश्चिह्नैर्ज्ञातव्यः कृष्ण एव हि ।
यूयं सर्वा दिव्यदेहाः सौराष्ट्रादौ गृहे गृहे ।। १ ०६।।
जन्म प्राप्य तदा भक्तिमत्यो मे वै भविष्यथ ।
भवतीनां सुसत्संगात् नरा नार्योऽपि कोटिशः ।। १ ०७।।
मम भक्तिप्रकर्तारो भविष्यन्ति गृहे गृहे ।
आचार्योऽहं गूढरूपो विचरिष्यामि साधुवत् ।। १ ०८।।
मत्तः सुखमवाप्यैव जना यास्यन्ति धाम मे ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।। १ ०९।।
इति जापं करिष्यन्ति यास्यन्ति मत्पदं हि ते ।
मम सेवां मम पूजां मम नामानुकीर्तनम् ।। 1.427.११ ०।।
मत्कथाश्रवणं ये वै करिष्यन्ति तु ते जनाः ।
यास्यन्ति परमं धाम शाश्वतं श्रीनिषेवितम् ।। १११ ।।
इत्युक्तास्ताः प्रसन्नाश्च भूत्वा च ब्रह्मणा सह ।
ययुः सत्यं ब्रह्मलोकं श्रीकृष्णो द्वारिकां ययौ ।। ११ २।।
इत्युक्ता मत्कथां तुभ्यं पापतापप्रणाशिनी ।
मया पूर्वं हि यज्जातं संस्मृत्यात्र निवेदितम् ।। ११३ ।।
ताश्च सर्वा मम पत्न्यो वर्तन्ते मयि चार्पिताः ।
मदर्थं त्यक्तसर्वस्वाः सर्वा मम पतिव्रताः ।। १ १४।।
तासां वै दर्शनात्स्पर्शात् लोका यास्यन्ति मोक्षणम् ।
किं पुनर्मम योगेन साक्षात् दिव्यप्रसेवया ।। १ १५।।
इति ते कथितं लक्ष्मि! वृत्तं पुराभवं शुभम् ।
युगे युगे भविष्यामि कृष्णनारायणो ह्यहम् ।। ११६ ।।
बहुवारं प्रतियुगं भवामि प्रभवामि च ।
क्षत्रतेजाः साधुतेजास्तपस्तेजा मुनीश्वरः ।। १ १७।।
शास्त्रतेजा ज्ञानतेजा धर्मतेजा गुरोर्गुरुः ।
धर्मपोष्टा भक्तिपोष्टा भक्तपाता च शासकः ।। १ १८।।
सतीत्राता प्रियाभर्ता रतिदाता रमापतिः ।
राज्यदाता यज्ञपाता दैत्यहर्ता च भिक्षुकः ।। ११ ९।।
दुःखहर्ता सुखदाता शरण्यश्च चतुर्भुजः ।
प्रभावान् पारवांश्चापि कणस्थलशरीरवान् ।। 1.427.१ २०।।
कृष्णपातिव्रत्यनिष्ठास्तरिष्यन्ति सदा प्रिये ।
इति ते कथितं हार्दं पतिः कृष्णो न चापरः ।। १२१ ।।
रक्षयिष्ये रक्षयामि ररक्षापि दिने दिने ।
भक्तियुक्तान् मञ्जुहंसान पातिव्रत्यपरायणान् ।। १ २२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोकुलीयगोपीनां द्वारिकाऽऽगमोत्तरं रैवताद्रौ श्रीकृष्णाय द्वादशोत्तरशतविधभोजनभोगदानं सौराष्ट्रादौ सर्वत्र प्राकट्यवचनं श्रीकृष्णनारायणस्य पातिव्रत्येन पुनः प्राप्तिश्चेत्यादिनिरूपणनामा सप्तविंशत्यधिकचतुश्शततमोऽध्यायः ।।४२७।।