लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२६
[[लेखकः :|]]
अध्यायः ४२७ →

श्रीनारायण उवाच-
आकर्णय महालक्ष्मि! गोकुले गोपकन्यकाः ।
चक्रुर्व्रतं पातिव्रत्यात्मकं कृष्णस्य लब्धये ।। १
कुमारिका महादिव्या देव्यो धामाधिविग्रहाः ।
दृश्यन्ते भूतले भूवद्विग्रहा वास्तवं न तत् ।। २
सर्वा राधासमा दिव्याः श्रीसमा ब्रह्ममूर्तिकाः ।
नाऽण्वपि कृष्णसारूप्याद् भेदस्तासु हि विद्यते ।। ३ ।।
गर्भो जन्म च बालात्वं गौरीत्वं च ततः पुनः ।
रोहिणीत्वं कन्यकात्वं कार्ष्णीनां दिव्यमेव तत् ।। ४ ।।
चर्मनेत्राः स्ववत् सर्वे लोकयन्ति न तत्तथा ।
तासां कृष्णपतिप्राप्तिकृद्विचेष्टनमेव यत् ।। ५ ।।
कृष्णपतिव्रताः सर्वाः कृष्णनारायणप्रियाः ।
कृष्णार्थकृतसर्वस्वाः किन्नु वै तासु वर्ण्यते ।। ६ ।।
ताभिर्जातिस्मराभिश्चार्थितः कृष्णो हि सर्वदा ।
कृष्णनारायणस्तासां स्वप्ने प्रातरदृश्यत ।। ७ ।।
विहसन् भावमाज्ञाय पातिव्रत्यक्रतुं ददौ ।
तास्तु कृष्णनिदेशेन चक्रुः पतिव्रताक्रतुम् ।। ८ ।।
मार्गशीर्षे वृषमासे कुर्वन्तु मत्प्रियं व्रतम् ।
अहं प्राप्तो भविष्यामि पूरयिष्ये मनोरथान् ।। ९ ।।
स्वात्मार्थं च यथा सर्वं मदर्थं सर्वमेव तत् ।
प्रियं सर्वं प्रकुर्वन्तु तूर्णं भवामि वः पतिः ।। 1.426.१ ०।।
इत्युक्तानां तु कन्यानां पातिव्रत्यस्य सर्वथा ।
कृष्णस्य कृपया प्रादुर्भूतं ज्ञानं तु तादृशम् ।। ११ ।।
चक्रुर्व्रतं तु ताः सर्वाः सहस्रशस्तु गोपिकाः ।
तासां मनांसि च मयि ह्यासन् कृष्णनारायणे ।। १२।।
तासां बुद्धिर्मया दत्ता मार्गशीर्षाऽवगाहने ।
प्रातःकाले ब्राह्मयोगे मिलित्वा संघशस्तु ताः ।। १ ३।।
यमुनायां कृतस्नाना गायन्ति कृष्णकीर्तनम् ।
कुर्वन्ति जलदानं मेऽक्षतदानं जले तथा ।। १४।।
द्रव्यदानं जले चापि गृह्णाम्यन्तःस्थितोऽप्यहम् ।
भोज्यदानं जले ताभिः कृष्णं स्मृत्वा कृतं प्रगे ।। १५।।
क्वचित् कृष्णः क्वचिन्मत्स्यो भूत्वा गृह्णामि तज्जले ।
पत्रं पुष्पं फलं यद्यज्जले दत्तं मदात्मनि ।। १६।।
मया सर्वं स्वीकृतं तत् तासां भावेन वारिणि ।
पूजा कृता मदर्थं च ताभिर्गत्वा गृहे गृहे ।। १७।।
हविष्यान्नं मदर्थं च भुक्तं ताभिर्मदर्पितम् ।
सर्वं मम प्रसादार्थं कृतं सम्यग् व्रतं ततः ।। १८।।
मया दत्तो वरश्चात्मा तासां तुष्टेन सत्पतिः ।
शृणु लक्ष्मि! कथयामि कृष्णपतिव्रताविधिम् ।। १ ९।।
प्रातर्ब्राह्मे समुत्थाय ताभिः श्रीगुरवो नताः ।
स्मृतश्चाहं क्षणं ध्यातः कृष्णेति कीर्तितो मुहुः ।।1.426.२० ।।
ततो यम्यास्तटं गत्वा कृत्वा शौचादिकं ततः ।
स्नाताश्च मुखशुद्ध्यादि कृत्वा यमीजले च ताः ।।२१ ।।
तुलसीमृत्तिकां लिप्त्वा तुलसीपत्रवारिणा ।
संप्रोक्ष्य स्वशरीराणि सस्नुर्नद्यां च मां हृदि ।।२२।।
स्मरन्त्यः श्रीकृष्णनारायणेति व्याहरन्त्यपि ।
ओंनमः श्रीकृष्णनारायणाय पतये नमः ।। २३।।
अथाऽक्षतान् कुसुमानि पत्राणि कुंकुमादिकम् ।
दीपं फलादिकं मह्यं ददुस्ताश्चार्द्रवस्त्रकाः ।।२४।।
ओं नमः श्रीकृष्णनारायणाय पतयेऽर्प्यते ।
इति समर्प्य तास्तीरं विनिर्गत्याऽम्बराणि च ।।२५।।
परिधाय तथाऽऽचम्याऽतर्पयन् पूर्वजाँस्ततः ।
ऋषीन्देवान्नमस्कृत्याऽकुर्वन् कुंकुमचन्द्रकम् ।।२६।।
भाले च कण्ठमध्ये च हृदये चन्दनादिना ।
बिन्द्वीं रेखां यथायोग्यं चक्रुः कृष्णरताश्च ताः ।।२७।।
ललाटे केशवो ध्यातो नारायणस्तथोदरे ।
वक्षसि माधवो ध्यातो गोविन्दः कण्ठकूबरे ।।२८।।
ध्यातो विष्णुर्दक्षकुक्षौ वामकुक्षौ तु वामनः ।
दक्षबाहौ च मधुहा वामबाहौ श्रियोधरः ।।२९।।
त्रिविक्रमः कर्णमूले हृषीकेशस्तु कर्णयोः ।
पृष्ठे ध्यातः पद्मनाभो दामोदरो ह्यधःस्थले ।।1.426.३ ०।।
सर्वांगे श्रीकृष्णनारायणः पतिः सुचिन्तितः ।
शंखं चक्रं गदां पद्मं चक्रिरे भुजयोश्च ताः ।।३ १ ।।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।
इति षोडशकृष्णानां मुद्रा दध्युश्च मानसे ।।३२।।
तुलसीमालिकाः सूक्ष्माः कण्ठे दध्युः करे तथा ।
धात्रीफलकृतां मालां दध्युः काश्चिद् गले करे ।।३३।।
एवंकृत्वा विधिं ताश्च नत्वा गुरून् गृहं गताः ।
तत आचम्य ताः सर्वाः प्रविविशुश्च मण्डपम् ।।३४।।
कुशासनस्थिताः पद्मासनाः पूर्वमुखाश्च ताः ।
चक्रुः प्राणस्य नियमं मध्ये तु मण्डपस्य ताः ।।३५।।
कर्णिकायां भास्करं च शशिनं वह्निमेव च ।
संस्थाप्योद्देशमात्रेण तण्डुलेषु दधुश्च तान् ।।३६।।
ततोऽष्टपत्रकं प तण्डुलैश्चक्रुरादरात् ।
तत्र दध्युश्च मां दिव्यं स्वस्वयोग्यं वरं पतिम् ।।३७।।
समासीनं हसन्तं च कोटिशीतांशुसन्निभम् ।
चतुर्भुजं सायुधं च काश्चिद् द्विभुजमच्युतम् ।।३८।।
पद्मपत्रविशालाक्षं महावीर्यबलान्वितम् ।
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रान्वितं च माम् ।।३९।।
दिव्याभरणसंशोभं दिव्यमण्डनमण्डितम् ।
दिव्यचन्दनलिप्तांगं दिव्यकुसुममालिकम् ।।1.426.४०।।
तुलसीमालिकायुक्तवनमालादिराजितम् ।
कोटिबालार्कसदृशं कान्तं कान्तमनोहरम् ।।।४१ ।।
युवत्या तु श्रियाऽऽश्लिष्टतनुं चुबन्तमेव माम् ।
ध्यात्वा ताः प्रजपुर्मुग्धाः कृष्णनारायणेति माम् ।।४२।।
ततस्ताः स्थापयामासुः शंखं गन्धोदपूरितम् ।
तथा सुगन्धपुष्पादिपात्रं न्यधुश्च दक्षिणे ।।४३।।।
वामे न्यधुर्वारिकुंभं वस्त्रपूतं सुवासितम् ।
घण्टां न्यधुः प्रदीपांश्च चक्रुर्धूपं समन्ततः ।।४४।।
अथ पात्राणि चत्वारि सन्न्यधुस्तत्र कन्यकाः ।
अर्घ्यपाद्याऽऽचमनीयमधुपर्कार्थकानि च ।।।४५।।।
सर्षपाऽक्षतपुष्पाणि कुशाग्रं तिलचन्दनम् ।
फलं यवानर्घ्यपात्रे ररक्षुस्तत्र कन्यकाः ।।४६।।
दूर्वां गंगां यमीं पद्मं पाद्यपात्रे न्यधुश्च ताः ।
कंकोलं च लवंगं च फलं मालतिसंभवम् ।।४७।।
आचमनीयपात्रे ता न्यधुस्तीर्थजलं तथा ।
गव्यं पयो दधि मधु घृतं च शर्करान्वितम् ।।४८।।
मधुपर्कस्य पात्रे ता न्यधुस्ततो हरेः पुर।
करन्यासान् प्रचक्रुश्च स्वांगेषु कृष्णकाम्यया ।।४९।।
मस्तके मस्तकं चास्तु कृष्णस्य मम सर्वथा ।
ललाटे श्रीकृष्णदेवललाटं चास्तु मे शुभम् ।।1.426.५०।।
नेत्रयोः श्रीकृष्णनारायणनेत्रेऽधितिष्ठताम् ।
कर्णयोर्मे कृष्णकर्णौ नासायां कृष्णनासिका ।।५१ ।।
कपोलयोः कपोलं मे गण्डयोः कृष्णगण्डकौ ।
कटाक्षयोः कटाक्षौ मे कृष्णस्य चाधितिष्ठताम् ।।५२।।
ओष्ठयोर्मे कृष्णकान्तोष्ठद्वयं वसतु प्रियम् ।
चिबुके कृष्णचिबुकं कण्ठे कण्ठोऽस्तु मे हरेः ।।५३ ।।
स्कन्धयोः श्रीकृष्णनारायणस्कन्धौ प्रतिष्ठताम् ।
भुजयोः श्रीहरेः स्तां सुभुजौ करौ करद्वये ।।।५४।।
हृदये कृष्णहृदयं नाभौ नाभिर्हरेर्मम ।
जघने कृष्णजघनं कट्यां चास्तु हरेः कटिः ।।५५।।
गोप्ये कृष्णस्य गोप्यं च सक्थ्नोर्मे सक्थिनी हरेः ।
जान्वोर्मे कृष्णजानूस्तां जंघे मे जंघयोर्हरेः ।।५६।।
पादयोर्मे कृष्णपादौ मयि कृष्णोऽस्तु सर्वथा ।
मदिन्द्रियेषु कृष्णस्येन्द्रियाणि सन्तु सर्वशः ।।५७।।
सन्तु मेऽन्तःकरणेष्वन्तःकरणानि वै हरेः ।
एवं ममाऽनुस्मरणं चक्रुस्ता हृदयंगमम् ।।५८।।
सस्मरुस्तास्तदात्मानं मत्समं मत्पतिव्रताः ।
मंगलं श्रीकृष्णनारायणः कान्तः प्रियः कुरु ।।५९।।
प्रपेठुः गोपकन्यानां पतिस्त्वं मंगलं कुरु ।
अथ शंखं पुपूजुश्च पुष्पचन्दनवारिभिः ।।1.426.६ ०।।
सुवासितेन तैलेन चक्रुरुद्वर्तनं तु ताः ।
कस्तूर्या चन्दनेनापि चक्रुरुद्वर्तनं तथा ।।६१ ।।
सुगन्धवासितैस्तोयैस्ततः संस्नापितोऽप्यहम् ।
शंखतोयं प्रजग्राह स्नानार्थं तु पुनः पुनः ।।६२।।
पञ्चामृतानि प्रददुः स्नापयामासुरादरात् ।
तीर्थजलैः सुखस्पर्शैरभिषेकं ददुश्च ताः ।।६३।।
चन्दनं गन्धसारादि मर्दयामासुरादरात् ।
वस्त्रेण मार्जयामासुः शरीरं मे पुनः पुनः ।।६४।।
ददुरर्घ्यं सफलं च पाद्यमाचमनीयकम् ।
मधुपर्कं ददुश्चाथ ददुर्दिव्याम्बराणि च ।।६५।।
दिव्यभूषारलंकारान् गन्धादीन् संददुर्मम ।
कज्जलं केशतैलादि पुण्ड्रार्थं चन्दनादिकम् ।।६६।।
कुंकुमादि ददुस्ताश्च द्रवसारान् ददुस्ततः ।
अलक्तरंगरागादि प्रददुस्ताश्च कन्यकाः ।।६७।।
सिंहासनं तथा छत्रं चामरे व्यजनं ददुः ।
दर्पणं केशदन्तं च शुक्लचूर्णं ददुश्च ताः ।।६८।।
तुलसीमालिकां पुष्पहाराँश्च शेखरान् ददुः ।
गुच्छान् स्वर्णविभूषाश्च पत्त्राणे संददुस्तदा ।।६ ९।।
वंशी ददुश्च ता मिष्टस्वरां चाहमवादयम् ।
दोलायां मां समस्थाप्य दोलयामासुरादरात् ।।1.426.७० ।।
नैवेद्यं चार्पयामासुः पायसाऽपूपमिश्रितम् ।
जलं फलं च ताम्बूलं शाकं पूगीफलादिकम् ।।७१ ।।
प्रददुस्ता व्यजनैश्च सेवयामासुरेव च ।
धूपं दीपं पुनश्चक्रुर्ददुः पुष्पाणि भक्तितः ।।७२ ।।
भोजयामासुरत्यर्थं प्रीत्या ताः कवलैर्मुहुः ।
तृप्तोऽहं चाऽपिबं वारि ताम्बूलकं समाददे ।।७३ ।।
ताश्च प्रणम्य संचक्रुर्नीराजनं पुनः पुनः ।
स्तुतिं चक्रुर्नमश्चक्रुः प्रदक्षिणं पुनस्तथा ।।७४।।
अपराधक्षमायाञ्चां पुष्पाञ्जलिं समादधुः ।
वरं च याचयामासुः पतिर्नो भव सर्वदा ।।७५।।
शाययित्वा च पर्यंके परितस्तस्थुरादरात् ।
पादसंवाहनं चक्रुर्यथेष्टं ताः सिषेविरे ।।७६ ।।
मया तासां मानसानि पूरितानि तदा प्रिये ।
स्पर्शनेनाऽऽश्लेषणेन भावेनाऽवर्ण्यकेन च ।।७७।।।
ततस्ताः सुखमापन्ना अभूतपूर्वमेव वै ।
आनन्देषु निमग्नस्ता मंगलार्घ्यं ददुस्ततः ।।७८।।
विसृज्य मां च ताश्चक्रुर्गृहकार्याणि वै ततः ।
प्रसादं भक्षयामासुर्ममपूजानिवेदितम् ।।७९।।
मया दत्तं महानन्दं स्मृत्वा स्मृत्वाऽतिहर्षिताः ।
चक्रुः स्वगृहकार्याणि श्रमं न विविदुश्च ताः ।।1.426.८०।।
जलाहरणकार्ये ता ददृशुर्मां घटे जले ।
कण्डनीधान्यघाते ता ददृशुर्मां कणेषु वै ।।८१ ।।
पिष्टार्थं पेषणीकार्ये पेषण्यां ददृशुर्हि माम् ।
मार्जनीकार्यकाले ता भूतले ददृशुश्च माम् ।।८२।।
पाककाले पाकपात्रे स्थाल्यां भोजनपात्रके ।
दृश्ये श्रव्ये तथा स्पृश्ये मामेव ददृशुश्च ताः ।।८३।।
आदर्शे स्वमुखे नेत्रे तैले वस्त्रे विभूषणे ।
हृदये सर्वकार्येषु मामेव ददृशुश्च ताः ।।८४।।
दिव्यदेहा बभूवुश्च भित्त्यावरणवर्जिताः ।
देहभानप्रहीणाश्च कृष्णरूपं दधुस्तु ताः ।।८५।।
एका कृष्णो द्वितीया तु कृष्णा भूत्वा च रेमतुः ।
एका पत्नी द्वितीया तु पतिर्भूत्वा ननन्दतुः ।।८६।।
एका सखी द्वितीया तु सखा भूत्वा चुचूम्बतुः ।
एका वधूद्वितीया तु वरो भूत्वा विरेजतुः ।।८७।।
एवं कृष्णमयं तासामान्तरं च मया कृतम् ।
कृष्णपातिव्रत्यरंगैः रक्तानां भिन्नता न मे ।।८८।।
एवंभावं प्रपन्नास्ताः स्नातुं याता यमीजले ।
कदम्बद्रुमनिकटे तास्वहं चाप्यलक्षितः ।।८९।।
ययौ कुमारिकारूपं धृत्वा स्नानाय वै सह ।
अवतेरुश्च तास्तीर्थे न्यस्य वस्त्राणि तत्तटे ।।1.426.९०।।
सस्मरुश्च सह स्नातुं रन्तुं मां कन्यका हृदि ।
यथा चान्या न जानाति तथा प्रत्येकया सह ।।९१ ।।
रेमे तत्र जले बाह्यकन्यश्चान्तरपूरुषः ।
प्रत्येकं सा विजानाति रमणं नाऽपरा तदा ।।९२।।
एवं मनांसि सम्पूर्य तृप्तास्ताश्च ततः परम् ।
जले कन्यास्वरूपोऽपि वनात् कृष्णोऽहमागतः ।।९३।।
तासां वस्त्राणि चादाय प्रारुरोह कदम्बकम् ।
ताभिः संकल्पितं तद्वन्मया मनः प्रपूरितम् ।।९४।।
कृष्णश्चास्मत्तनू पश्येदिति तद्वन्मया कृतम् ।
व्रतस्थानां वरुणस्याऽवधीरणा कृता यतः ।।९५।।
बहिर्निर्गत्य सूर्याय कुरुत प्रांजलिं प्रियाः ।
इति भावानुसारेण ताश्च मया विलोकिताः ।।९६।।
तास्तु तुष्टास्तदा जाता मेनिरे कृतकृत्यताम् ।
ददौ वस्त्राणि ताभ्यश्च वराँश्चापि ददौ मुहुः ।।९७।।
रामयिष्ये रमयिष्ये यथेष्टं मम वै प्रियाः ।
व्रतस्य तु फलं सर्वं चार्पयिष्ये नवं नवम् ।।९८।।
नित्यं ताः कान्तभावेन मया सत्यः प्रतर्पिताः ।
ता एव तु दिवारात्रौ मदात्मिकाः सदाऽभवन् ।।९९।।
कामो दिव्यो रतिर्दिव्या भावो दिव्यः कृतो मया ।
मदीयदिव्यभावेन तासां दिव्यमभूद्धि तत्। ।। 1.426.१ ००।।
निष्काम कर्म तत्प्रोक्तं यन्मयि त्वर्प्यते सदा ।
बन्धघ्नं शान्तिदं मोक्षकरं साक्षान्मदर्पणम् ।। १०१ ।।
यथा ताभिः कृतं तद्वन्नान्या काचित् करिष्यति ।
इत्यहं त्वभवं तासां प्रसन्नः कान्त एकलः ।। १ ०२।।
कान्तास्ताश्चाऽभजन् मां च प्रापुर्मां च परे पदे ।
ताश्च सर्वाः कृष्णकान्ताः कृष्णव्रता हरेः प्रियाः ।। १ ०३।।
कृष्णनारायणपत्न्यः कृष्णपतिव्रताः स्त्रियः ।
नित्यं मां पूजयामासुः रमयामासुरन्तिके ।। १ ०४।।
मिष्टान्नानि च ता नित्यं भोजयामासुरच्युतम् ।
दध्युर्मां हृदये नित्यं शाश्वतानन्ददायकम् ।। १ ०५।।
एवं या पातिव्रत्येन पतिसेवां करिष्यति ।
पतिं मां श्रीकृष्णनारायणं प्राप्य प्रमोक्ष्यते ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहि-तायां प्रथमे कृतयुगसन्ताने गोकुलकन्यानां श्रीकृष्णनारायणपातिव्रत्यपराणामष्टोत्तरशतोपचारैर्व्रतपूजादिभिः श्रीकृष्णपतिप्राप्तिरित्यादिनिरूपणनामा षड्विंशत्यधिकचतुश्शततमोऽध्यायः ।। ४२६ ।।