लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३१
[[लेखकः :|]]
अध्यायः ४३२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि श्रेष्ठं पतिव्रतावृषम् ।
पतिर्नारायणः कृष्णस्तद्व्रतं तत् पतिव्रतम् ।। १ ।।
पत्यर्थं वृत्यते यावद् बुद्धिसाधनकर्मभिः ।
पतिर्यथा प्रशस्येत तथा पत्न्या विधीयते ।। २ ।।
अगुणो वा सगुणो वा दुर्गुणोऽपि प्रशंस्यते ।
ईशवत् सर्वथा नार्या गीयते जिह्वया धिया ।। ३ ।।
तद्व्रतं प्रथमं लक्ष्मि! पातिव्रत्योत्तमं मतम् ।
प्रशंसा सर्वथा सर्वप्राणिनां शर्करासमा ।। ४ ।।
अतिमिष्टा मिष्टतमा सर्वत्राऽप्यनुभूयते ।
पुत्रप्रशंसया प्रमोदते तत्पितरौ यथा ।। ५ ।।
पितृप्रशंसया पुत्राः प्रमोदन्तेऽतिहर्षिताः ।
पत्नीप्रशंसया स्वामी प्रमोदतेऽति चान्तरे ।। ६ ।।
श्रेष्ठिप्रशंसया भृत्यो राज्ञः प्रशंसया प्रजाः ।
वृषप्रशंसया वृषवाहकोऽपि प्रमोदते ।। ७ ।।
शिष्यप्रशंसया गुरुर्गुरोः प्रशंसयाऽनुगः ।
देशप्रशंसया देशी शास्त्रप्रशंसयाऽऽस्तिकः ।। ८ ।।
यत्प्रति यस्य सद्भावस्तत्प्रशंसा तु भाविनः ।
मोदप्रमोदसंस्थानं समुत्साहोत्सवावहा ।। ९ ।।
भवत्येव सदा लक्ष्मि! पतिकीर्तिसुगर्भिता ।
विदेशस्थस्य कान्तस्य वार्ता श्रुत्वा पतिव्रता ।। 1.431.१ ०।।
पुत्रोत्सवाऽधिकाऽऽनन्दवती भवति तत्क्षणम् ।
तद्व्रतं मानसगम्यं पातिव्रत्यं मुदावहम् ।। ११ ।।
हार्दं स्नेहं न चान्ये वै प्रजानन्ति परात्मनः ।
परात्मनो गुणा नैव साक्षाद् भवन्ति सर्वथा ।। १२।।
स्वात्ममनःसंयोगस्य हेतोस्तत्राऽनुपस्थितेः ।
आवेशादिक्रियायोगे परम्पराभियोगतः ।। १३।
प्रत्यक्षमिव चान्येषामाभासन्ते न वास्तवम् ।
पातिव्रत्यं सदा स्निग्धं ह्यकारणं सकारणम् ।। १४।।
स्वार्थं यद्वा परार्थं वा स्वार्थमेवाऽनुभूयते ।
मम स्वामी कथं ख्यातो भवेदित्याग्रहः स्त्रियाः ।। १५।।
पातिव्रत्यान्वयित्वं वै सततं बोध्यमेव हि ।
पत्युः कथाश्रवे यद्वत् तेऽस्ति प्रमोद आग्रहः ।। १६।।
तद्वत् कृष्णकथाबोधे यस्याऽस्त्याग्रह उत्कटः ।
कथायाः श्रवणे वापि कीर्तने च प्रशंसने ।। १७।।
पुंसो भक्तस्य नार्याश्च भक्तिमत्याः सदा हरेः ।
सतः सत्यास्ततो नित्यं पातिव्रत्यं प्रकाशते ।। १८।।
दास्यं श्रेष्ठं पातिव्रत्यं शुभं प्रसन्नताप्रदम् ।
कथायाः श्रवणं पातिव्रत्यं ततोऽधिकं मतम् ।। १ ९।।
कथायाः कीर्तनं पातिव्रत्यं ततोऽपि चोत्तमम् ।
पत्युः स्वस्वामिनः कीर्तेर्गानं नित्यं हि दुर्लभम् ।।1.431.२०।।
पत्युश्च श्रीकृष्णनारायणस्याऽभेदभावतः ।
सर्वदा गुणगानं तत्पातिव्रत्यं परं स्त्रियाः ।।२१ ।।
हरेः कथात्मकं पातिव्रत्यं सत्पतिलोकदम् ।
श्रोतुर्वक्तुर्न सन्देहः सन्तुष्टोऽहं जनार्दनः ।।२२।।
नयामि तं महत्स्वर्गं सतीलोकं सतीं तथा ।
निष्कामानां च मद्धाम मत्पदं प्रेषयामि वै ।।२३।।
मत्कथाभिर्हि लोकानां हृदयेषु निरन्तरम् ।
मद्भक्तिर्निहिता येन लक्षाणां कोटिदेहिनाम् ।।२४।।
मम दास्यं कथाद्वाऽङ्कुरितं येन देहिषु ।
मम व्रतं मम सेवा मम पूजा ममाऽर्हणम् ।। २५।।
मम जापो मम भक्तिर्मम स्मृतिर्ममाऽऽश्रयः ।
ममेच्छा मम विज्ञानं मम ध्यानं ममेहनम् ।।२६।।
मम योगो मम वाञ्च्छा ममार्पणं मम ग्रहः ।
मद्धारणा मयि न्यासो मयि वासो ममार्थना ।।२७।।
मय्यभेदो मयि स्नेहो मयि कामो रतिर्मयि ।
मम सर्वस्वदानं च मदर्थं जीवनं मृतिः ।।२८।।
उपार्जनं मदर्थं च मदर्थमुपकारिता ।
परोपकारादि दानं व्रतं पुण्यं मदर्थकम् ।।२९।।
मत्पदे गमनं त्वन्ते मत्सेवाग्रहणं सदा ।
कथाभिः कारितं येन लोकानां हृदयेषु वै ।।1.431.३ ०।।
तादृशो मे कथावक्ता शास्त्रज्ञानप्रदश्च मे ।
मन्महिम्नः पुष्टिकर्ता मद्भक्तिपोषकश्च यः ।।३ १ ।।
तस्य लक्ष्मि! पातिव्रत्यं मयि कोटिगुणं मतम् ।
श्रेष्ठाच्छ्रेष्ठतमं पातिव्रत्यं वक्तुर्हि शाश्वतम् ।।३२।।
कथावाचनपुण्यस्य पारं प्राप्नोमि नाऽप्यहम् ।
असंख्यजीवजातानां कुलानां वैष्णवीधिया ।।३ ३ ।।
उद्धारको भवत्येव कथाया वाचको गुरुः ।
मत्स्यरूपो न सन्देहस्त्वत्तः श्रेष्ठः स पद्मजे ।। ३४।।
पितुर्दशगुणी माता मातुर्दशगुणो गुरुः ।
पिता बीजप्रदत्वेन जननी जन्मदत्वतः ।।३५।।
गुरुर्मोक्षप्रदत्वेन श्रेष्ठः सर्वेभ्य उच्यते ।
पतिः श्रेष्ठो गुरुः श्रेष्ठस्तयोः श्रेष्ठतरो गुरुः ।।३६।।
पिता पतिर्गुरुः श्रेष्ठास्तेषां श्रेष्ठतमो गुरुः ।
आत्मा श्रेष्ठो हरिः श्रेष्ठस्तयोः श्रेष्ठतमो हरिः ।।३७।।
आत्मा हरिर्गुरुः श्रेष्ठास्तेषां श्रेष्ठतमो गुरुः ।
यदाश्रयाद्धरेः प्राप्तिर्यं विना दुर्लभो हरिः ।।३८।।
पृथ्वीदाता वृत्तिदाता जीवदाता सदोत्तमाः ।
तेषामपेक्षया मोक्षदाता ज्ञानद् उत्तमः ।।३९।।
कृष्णज्ञानं पातिव्रत्यं तत्प्रदः सुपतिः स्मृतः ।
कृष्णभक्तिः स्वामिधर्मस्तत्प्रदः सुपतिः सदा ।।1.431.४०।।
नामधारः पतिस्त्वन्यो यथार्थो भक्तिदः पतिः ।
एवं ज्ञात्वा हरेः पातिव्रत्यं धार्यं सदा प्रिये ।।४१ ।।
हरेर्गुणानां गानं च हरेर्मूर्तेश्च चिन्तनम् ।
हरेः कथाया व्याख्यानं पातिव्रत्यं तदुत्तमम् ।।४२।।
यत्र कथा तत्र भक्ता देवास्तीर्थानि चाच्युतः ।
देव्यः ऋषयः पितरो मुक्तिर्भक्तिर्वृषादयः ।।४३।।
सिद्धा यतयः सत्यश्च साधवो योगिनस्तथा ।
युगाः शास्त्राणि वेदाश्च क्षेत्राणि च वनानि च ।।४४।।
व्यासास्तत्त्वानि मुक्ताश्च कथापात्राणि यानि च ।
आगत्य तां कथां भावप्लुताः शृण्वन्ति सर्वदा ।।४५।।।
केचिन्मूर्ता अमूर्ताश्चाऽदृश्या दृश्यास्तथाऽपरे ।
पातिव्रत्यपराः सर्वे कथां शृण्वन्ति वै हरेः ।।४६।।
स्वस्वयशो हरेः कीर्तिं भक्तानां च कथानकम् ।
श्रुत्वा श्रुत्वा प्रमोदन्ते ददत्याशिष एव ते ।।४७।।
वाचकाय गुरवे ते नमस्कुर्वन्ति वै तथा ।
श्रोतारः शिष्यवर्गा वै नमस्कुर्वन्ति वाचकम् ।।४८।।
तस्माच्छ्रावयिता श्रेष्ठः सर्वेभ्यो गुरुभक्तिदः ।
नारायणसमो बोध्यः पातिव्रत्यस्य बोधकः ।।४९।।
कृष्णनारायणं नत्वा कथां श्रुत्वा हरेः शुभाम् ।
सर्वपापविनिर्मुक्तो याति कृष्णपदं परम् ।।1.431.५०।।
पुरा गोदावरीतीरे सम्पन्नं सुकथानकम् ।
लक्ष्मीनारायणसंहितायाः पारायणं ह्यभूत्। ।।५१ ।।
पापघ्नं पावनं स्वर्गप्रदं ज्ञानदमोक्षदम् ।
दुर्वाससो मुनेः शिष्यो यतिः सत्यव्रताऽभिधः ।।५२।।
ब्रह्मनिष्ठो निरपेक्षो भिक्षामात्रप्रजीवनः ।
गुहावासकरस्तत्राऽपरिग्रहव्रतान्वितः ।।५३।।
तुलसीमालिकायुक्तः कृष्णनारायणं जपन् ।
करोतिस्म कथां नित्यं सायं प्रतिदिनं प्रिये! ।।५४।।
ध्यात्वा स्मृत्वा स्मारयित्वा कृष्णनारायणं पतिम् ।
नमः कृत्वा कारयित्वा कृष्णकथां करोति सः ।।५५।।
श्रोतॄणामप्यभावे च व्याख्यातृणामनागमे ।
सत्यव्रतस्तु सततं करोति श्रीहरेः कथाम् ।।५६।।
नित्यकर्म स्वकं कृत्वा करोत्येव हरेः कथाम् ।
श्रोता चेदस्ति यः कश्चित् तस्मै व्याख्यात्यहर्निशम् ।।।५७।।
यदि नास्ति स्थले श्रोता रिक्तेऽपि कुरुते कथाम् ।
अन्यो व्याख्याति कश्चिद्वा हरेः पुण्यां कथां तदा ।।५८।।
स्वकर्माणि परित्यज्य शृणोति श्रीहरेः कथाम् ।
हरेः पातिव्रत्यपरः कथायाः श्रवणे रतः ।।५९।।
तीर्थानि देवतानां चाऽगाराण्यपि विहाय सः ।
कथाविरोधकान्यन्यकर्माण्यपि विहाय सः ।।1.431.६ ०।।
कथां दिव्या संशृणोति सति वक्तरि- सर्वदा ।
वक्तर्यसति स्वयं च व्याख्याति कृष्णसत्कथाम् ।।६ १ ।।
कथां विना न जानाति पातिव्रत्यं परं वृषम् ।
चत्वरे च गृहे नैजे स्वयं व्याख्याति भावतः ।।६२।।
आवश्यकानि कार्याणि कथातो नाऽधिकानि वै ।
आवश्यकोत्तमं कार्य कथारूपं प्रधानकम् ।।६३।।
कथाया विरतौ चान्यकार्यप्राधान्यमेव ह ।
कथां लक्ष्मि! श्यावतस्तु कर्मबन्धो न विद्यते ।।६४।।
ज्ञानदीपः प्रदीप्तः स्याद् विरतिश्च विवर्धते ।
सत्त्वशुद्धिस्तथा शान्तिः शृण्वतः संप्रवर्तते ।।६५।।
हरौ प्रीतिः सदा शृण्वता कथां दार्ढ्यमाप्यते ।
कृष्णे प्रीत्या महारत्या कृष्णोहृद्यवरुध्यते ।।६६।।
येषु कृष्णस्तेषु चास्य सौहार्दं सत्सु जायते ।
साधुरूपो हरिस्त्वस्य प्रत्यक्षो भवति ध्रुवम् ।।६७।।
ततो दिव्यः स्वयं कृष्णनारायणः श्रियः पतिः ।
पातिव्रत्यं परं ज्ञात्वा दिव्यदर्शनदो भवेत् ।।६८।।
पुंसा नार्या ततः कृष्णकथा श्रव्या यथाबलम् ।
कथां विना न वै ज्ञानं तद्विना शान्तिरेव न ।।६९।।
दुःखावर्त्ते भवे त्वस्मिन् शान्तिकृत् कृष्णकीर्तनम् ।
कथायाः श्रवणं चैव कृष्णस्य स्मारकं परम् ।।1.431.७०।।
सत्त्वशुद्धिकरं चापि शुद्ध्या ध्यानं प्रजायते ।
बहुधा श्रवणं तस्य मननं ध्यानमुत्तमम् ।।७१।।
कृष्णनारायणस्वामिपतिप्राप्तिकरं मतम् ।
यत्र कृष्णकथा नैव यत्र सन्ति न साधवः ।।७२।।
गंगातटमपि त्याज्यं विना पतिं न तत् प्रियम् ।
यत्र वै तुलसी नास्ति न यत्र हरिमन्दिरम् ।।७३।।
यत्र हरे पातिव्रत्यपरो भक्तो न वर्तते ।
यत्र विष्णोः कथा नास्ति ग्रामः श्मशानसदृशः ।।७४।।
तत्र मृतो जनो याति यमराजतमःस्थलीम् ।
इति विचार्य मुनिराट् सत्यव्रतः स वैष्णवः ।।७५।।
ब्रह्मविद्यापरो विष्णुस्मृतिमात्रपरायणः ।
हरेः कथापरो नित्यं मनुते चात्मकर्म तत् ।।७६।।
न किञ्चिदधिकं जातु मनुते श्रवणात्परम् ।
कथायाः कथनाद्वापि परं धर्मो न तस्य वै ।।७७।।
नित्यं सायं निश्चिते वै समये व्यासपट्टिकाम् ।
समागत्य नियमेन कथां करोति यत्र वै ।।७८।।
एकदा तत्र राज्ञश्च सैन्यं वै पार्श्वतो गतम् ।
जनाः सर्वे निरुद्धाश्च व्यासोऽपि रुद्ध एव ह ।।७९।।
मार्गे केनापि नैवात्र गन्तव्यं सैन्यमध्यतः ।
इति मार्गे निरुद्धः स कथारोधोऽपि तेन वै ।।1.431.८०।।
देवाद्या ये श्रवणार्थंं त्वायातास्तत्स्थले च ते ।
प्रतीक्षन्ते स्म वक्तुश्चागमनं तद्दिशादृशः ।।८१।।
सत्यव्रतो न चायातो व्यत्येति समयस्तदा ।
सत्यव्रतस्वरूपं च धृत्वा कृष्णनरायणः ।।८२।।
स्वयं कथां श्रावयितुं निषसादाऽऽसने तदा ।
लक्ष्मीनारायणसंहिताकथामकरोद्धरिः ।।८३।।
देवाः शृण्वन्ति भावेन सैन्यं क्रान्तं पथस्तदा ।
सत्यव्रतः समायातो दृष्ट्वा व्यासं स्वरूपिणम् ।।८४।।
महदाश्चर्यमापन्नो विज्ञाय स्मरतो हरिम् ।
ननामाऽन्यैर्यथा दृश्यो न भवेद् विष्णुना कृतः ।।८५।।
आगत्य त्वासने विष्णोर्मूर्तौ लीनोऽभवत्तदा ।
कथा विच्छेदरहिता यथा तत्र प्रवर्तते ।।८६।।
विष्णुना सन्धितस्तत्र स्वस्मिन् सत्यव्रतः प्रियः ।
कृष्णस्त्वदृश्यतां प्राप्तः कथा तद्वत्प्रवर्तते ।।८७।।
सत्यव्रतः समुवाच श्लोकं विष्णुविरामितम् ।
तावत्स्वरस्य श्रवणे माधुर्यं भिन्नतां गतम् ।।८८।।
आकर्षणं दिव्यता च पूर्वतोऽन्यविधां गता ।
देवादिभिस्तदा ज्ञातं ध्यानिभिर्योगवृत्तिभिः ।।८९।।
स्वयं कृष्णः कथां चक्रे सत्यव्रताऽनुपस्थितौ ।
अहो धन्या वयं कृष्णमुखात्कथाश्रवं गताः ।।1.431.९०।।
इत्याश्चर्यं गताः सर्वे शृण्वन्ति च कथां पुनः ।
तावत् तत्र समायातः शिष्यो दुर्वाससोऽपरः ।।९१ ।।
तपोव्रताख्यः कर्मठः कथाऽनादरकृत् सदा ।
कथां मृषां मन्यमानः श्रोतॄन् वक्तृँश्च नर्मकृत् ।।९२।।
प्रजहास कथां श्रुत्वा वितण्डां प्रचकार ह ।
जल्पयित्वा कथञ्चिच्च व्याजहार दुराग्रही ।।९३।।
वक्ता प्रतारयतीमानिमे तु पशवो यथा ।
प्रतारणाजालबद्धाः कथया मृषया मुहुः ।।९४।।
इत्युक्त्वा प्रययौ हित्वा वाच्यमानां कथां तदा ।
न व्याख्याति स्वयं क्वापि न शृणोति कदापि च ।।९५।।
तपः कार्यं परं मत्वा गृहकार्यादिकं शुभम् ।
करोत्येव सदा तद्वै कथानिन्दां करोति वै ।।९६।।
एवं त्वायुःक्षये प्राप्ते निन्दापापेन वै वने ।
पिशाचोऽभूच्छमीवृक्षे निर्जले छिन्नकर्णकः ।।९७।।
निराहारो महादुःखी शुष्ककण्ठौष्ठतालुकः ।
स्वकृतं चिन्तयानः स मत्तोन्मत्त इवाऽभ्रमत् ।।९८।।
प्राप्तं जलं वह्नितुल्यं फलपुष्पादिकं विषम् ।
वायुर्वह्निसमस्त्वस्य जायते पापकर्मणः ।।९९।।
न निर्वृत्तिं न वा तृप्तिं लभते कर्मठो वने ।
साधुशून्ये कथाशून्येऽरण्ये क्षुधाऽऽकुलो रुदन् ।। 1.431.१ ००।।
सत्यव्रतेन दैवाद्वै दृष्टो मार्गेण गच्छता ।
पृष्ठः कोऽऽसीदृशीं कस्माद् दशां प्राप्तोऽसि मे वद ।। १०१ ।।
इति पृष्ठश्छिन्नकर्णस्तपोव्रत उवाच तम् ।
दुर्वाससः सुशिष्योऽहं तपोव्रतसुनामधृक् ।। १ ०२।।
कथानिन्दोत्थपापेन पिशाचोऽस्मि सुदुःखितः ।
अद्य ते दर्शनान्मोक्षो भविष्यति ममात्र वै ।। १०३ ।।
क्षमस्व त्वं चापराधान् मम वैतण्डिकादिकान् ।
इत्युक्त्वा स रुदन् मोक्षं समिच्छन् पृथिवीं स्पृशन् ।। १ ०४।।
पपात पादयोः सत्यव्रतस्य - त्राहि मां गृणन् ।
सत्यव्रतः सलिलं स्वकरे धृत्वा हरिं स्मरन् ।। १ ०५।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इति मन्त्रं ददौ कर्णे जलं चिक्षेप मस्तके ।। १ ०६।।
दत्वा पादं तस्य पृष्ठे पापं प्रज्वाल्य शक्तितः ।
समर्प्यैकदिवसीयकथायाः पुण्यमुत्तमम् ।। १ ०७।।
लक्ष्मीनारायणसंहिताध्यायस्य कथोद्भवम् ।
ज्ञानं प्रदाय च कृत्वा मुक्तं पिशाचदेहतः ।। १ ०८।।
दिव्यदेहधरं कृत्वा सस्मार श्रीहरिं प्रभुम् ।
तावत् कृष्णः समायातो राधालक्ष्मीप्रभान्वितः ।।१ ०९।।
पार्वतीमाणिकीनाथः पद्मारमाजयापतिः ।
ललिताश्रीपतिः कृष्णनारायणः सपार्षदः ।। 1.431.११ ०।।
कोटिसूर्यातिसंशोभिविमानवरसंस्थितः ।
सत्यव्रतेन भगवान् नतोऽर्चितः स्तुतो मुहुः ।। १११ ।।
तपोव्रतं विमाने स्वे नेतुं सम्प्रार्थितो मुहुः ।
प्रजहास हरिस्तत्र भक्तेच्छापूरकः प्रभुः ।। ११ २।।
प्राह गोलोकवासार्हं पुण्यं वै नास्य विद्यते ।
सत्यव्रतस्तदा प्राह गुरुमन्त्रेण दीक्षितः ।।१ १३।।
वैष्णवोऽस्ति मया त्वत्र कृतोऽयं पुण्यवान् कृतः ।
लक्ष्मीनारायणसंहितैकाध्यायस्य सुकृतम् ।। १ १४।।
दत्तमस्मै मया कृष्ण ददामि तुलसीस्रजम् ।
तव पादजलं चास्मै पुनर्ददामि केशव ।। १ १५।।
तव प्रसादं नैवेद्यं ददाम्यस्मै क्षणेन च ।
तेन पुण्येन भक्तोऽयं तवाऽनुग्रहमात्रतः ।।१ १६।।
गोलोकं ते यातु धाम भक्तेच्छापूरको भवान् ।
इत्युक्तः स हरिः सत्यव्रतं तथाऽस्तु चाह यत् ।। १ १७।।
तपोव्रतो मुनिं नत्वा विमानं त्वच्युताज्ञया ।
समारुरोह प्रययौ गोलोकं विष्णुना सह ।। १ १८।।
दुर्वासाश्च तदा तत्राऽऽजगाम दिव्यदृष्टिमान् ।
प्रशशंस स्वकं शिष्यं सत्यव्रतं कथाकरम् ।।१ १ ९।।
सतीर्थ्यमोक्षदं शान्तं वैष्णवं भवतारकम् ।
पुनः पुनस्तदोवाच दुर्वासा हृष्टमानसः ।।1.431.१ २०।।
अहो ह्येकेन शिष्येण तारितः कर्मठोऽपरः ।
अहो ह्येकेन शिष्येण तारितं सकलं जगत् ।। १२१।।
अहो ह्येकेन शिष्येण तारितोऽहं गुरुस्तथा ।
अयो ह्येकेन शिष्येण शिष्यवानस्मि साम्प्रतम् ।। १२२।।
सत्सु दशसहस्रेषु शिष्येष्वपि सुशिष्यवान् ।
सत्यव्रतेन जातोऽस्मि कृष्णकथाप्रसेविना ।। १ २३।।
यत्र कृष्णकथापूरप्रवाहो वहते सदा ।
तत्र वासकृतां मुक्तिर्दासीव करपात्रगा ।। १२४।।
इति ते श्रावितो लक्ष्मि! कथापतिव्रतावृषः ।
श्रवणात्पठनाच्चास्य कृष्णधामपदं लभेत् ।। १२५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वाससः शिष्यस्य पातिव्रत्यपरायणस्य सत्यव्रतनामकस्यैकदिवसीयकथापुण्यदानेन तपोव्रतस्य पिशाचत्वमोक्षणं धामप्राप्तिश्च, सत्यव्रतस्य कथाकालेऽनुपस्थितौ भगवान् सत्यव्रतरूपधृक् कथामवाचयदित्यादि-
निरूपणनामैकत्रिंशदधिकचतुश्शततमोऽध्यायः ।।४३ १ ।।