लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२३
[[लेखकः :|]]
अध्यायः ४२४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां चान्यां पातिव्रत्यपरायणाम् ।
गोलोकस्य कृष्णदास्याश्चित्रलेखात्वदायिनीम् ।। १ ।।
पुराऽहमृषभो जातोऽवतारः साधुतां चरन् ।
गार्हस्थ्यं च परित्यज्य भरते स्वात्मजे धुरम् ।। २ ।।
न्यस्याऽवधूततां गच्छन् वृषं पारमहंस्यकम् ।
समस्थापयदुर्व्यां चाऽऽययौ वैकुण्ठमेव तु ।। ३ ।।
भरतस्याऽभवत्पुत्रः शतशृंगः प्रतापवान् ।
तस्य पुत्राष्टकं चैका पुत्री चेति नवाऽभवन् ।। ४ ।।
इन्द्रद्वीपः कसेरुश्च ताम्रद्वीपो गभस्तिमान् ।
नागः सौम्यश्च गन्धर्वो वरुणश्च कुमारिका ।।५ ।।
कुमारिकाऽभवद् दासी गोलोके शाश्वती सखी ।
नाम्ना सा चित्रलेखेति राधाक्रोधाज्जनिं गता ।। ६ ।।
कुमारिकाऽत्र नाम्नैवाऽभवत् ख्याता हरिव्रता ।
जातिस्मरा जातमात्रा युवती ब्रह्मवादिनी ।। ७ ।।
स्नानसन्ध्यापरा वेदप्रसूजपा त्रिवर्षकम् ।
शालग्रामाऽर्हणाश्रद्धावती नित्यं प्रसेवते ।। ८ ।।
वैष्णवी तुलसी मालां रक्षति स्म गले सदा ।
करे वृन्दामालिकया जपति स्म हरिं पतिम् ।। ९ ।।
शयने जाग्रतौ कार्ये विश्रामे भोजनेऽर्जने ।
पाने वस्त्वानयने च स्नाने शृंगारके तनौ ।। 1.423.१ ०।।
जपे प्रसाधने विलेपने प्रक्षालनेऽर्थने ।
रन्धने मञ्जने शुद्धावालस्ये वादने स्तुतौ ।। ११ ।।
श्रवणे कीर्तने काष्ठासञ्चये मुदमानसे ।
रागे विलोकने वृत्तौ संचारे क्रमणे क्षुधि ।। १ २।।
पिपासायां ज्वरे ग्रीष्मे शीते समुत्सवे वने ।
वृक्षे वल्ल्यां भवनादौ सखीनां मण्डले गृहे ।। १३ ।।
स्वामिनं श्रीकृष्णनारायणं जपति ध्यायति ।
हसति नृत्यति रौति द्रवत्यश्रूणि मुञ्चति ।। १४।।
प्राप्नोति दिव्यभावं च व्योम्ना याति वनान्तरम् ।
गृहान्तरं कृष्णमनुप्रविशत्यहतक्रमा ।। १५।।
अन्नं वारि फलं पत्रं पुष्पं बीजं द्रवं पयः ।
मिष्टं रूक्षं वस्त्रमर्घ्यं धूपं दीपं समहर्णम् ।। १६ ।।
प्रदाय पतये कृष्णनारायणाय कन्यका ।
भुंक्ते प्रासादिकं कृत्वा तदन्यद्भोगवर्जिता ।। १७।।
कृष्णनारायणो दत्तं भुंक्ते साक्षाद्धि कन्यया ।
रमते तु तया सार्धं क्षणं द्यूतं मनोहरम् ।। १८।।
एवं नित्यं कृष्णपातिव्रत्यपरा कुमारिका ।
समाराधयति कृष्णनारायणं पतिं प्रभुम् ।। १ ९।।
तस्यास्तु वदनं चासीदजामुखसमाकृति ।
शृणु तत्कारणं लक्ष्मि! गोलोके राधिका यदा ।।1.423.२०।।
रोषं प्राप्ता तदा चित्रलेखया लम्बितं मुखम् ।
ओष्ठौ लम्बौ कृतौ चापि जिह्वा बाह्ये विलम्बिता ।।२१ ।।
विकृताननमेवेदं राधायै दर्शितं तदा ।
विकृतानुकरणस्थं दृष्ट्वा चित्रलिखाऽऽननम् ।।२२।।
राधाऽऽह तां बर्करिकामुखी लम्बाननी भव ।
दर्शयसे मुखं चापि स्वभावं बर्करी यथा ।।२३ ।।
तस्मात् त्वं बर्करी भूत्वा विहर क्षितिमण्डले ।
इत्युक्ता सा सखी राधासेविकाऽऽह नयान्विता ।।२४।।
सेवाफलं महतीनां दास्या प्राप्य महद् भवेत् ।
यदि राधेऽसि महती राजराजेश्वरीश्वरी ।।२५।।
प्रयच्छ च तदा स्वानुरूपं फलं महत्तमम् ।
यद्यसि क्षुद्रिके यच्छ किंकर्यै क्षुद्रकं फलम् ।। २६।।
पारितोषिकवस्त्वादि दातुः श्रैष्ठ्यकनिष्ठते ।
प्रख्यापयति लोकेषु स्वानुरूपं प्रदानकम् ।।२७।।
राधा श्रुत्वा महाराज्ञी प्रसन्नाऽभूत् प्रहस्य च ।
चित्रलेखां तदा प्राह भव राजेश्वरी भुवि ।। २८।।
क्षणं बर्करिका भूत्वा कृष्णर्षभस्य पुत्रिका ।
भव त्वं भूभृती वत्से ह्यत्राऽगमिष्यति क्षणात् ।। २९।।
इत्युक्ता सा चित्रलेखा महीसागरसंगमे ।
अवाततार वै व्योम्नो मार्गाद् दिव्या तु कन्यका ।।1.423.३ ०।।
तां दृष्ट्वा सागरः शुभ्रां चुक्षुभे मानसे क्षणम् ।
युवा रत्नधरो भूत्वा त्वाययौ संगमेच्छया ।।३ १ ।।
तावत् सा कन्यकाऽरण्येऽदृश्या बभूव बर्करी ।
समुद्रस्तां महासिद्धिं देवीं चाप्सरसं च वा ।।३२।।
वितर्क्य शान्तमनसा प्रष्टुं पृष्ठे ययौ यदा ।
तदा सा भयमापन्ना विदुद्राव वनान्तरे ।।३३।।।
जालिगुल्मलताकीर्णे स्तम्भतीर्थस्य सन्निधौ ।
भ्रान्ता विक्लवचित्ता सा प्रदेशे तत्र दुश्चरे ।।३४।।
इतस्ततो भ्रममाणा क्षुत्पिपासाऽर्दिता सती ।
विदुद्राव महीतीरे तदाभिमुखतः प्रिये ।।३५।।
जलस्य दशहस्ताद्यायतं खातं समागतम् ।
उल्लंघ्योत्प्लुत्य च यावत्पतत्यग्रे सुतीरके ।।३६।।
जालिवृक्षप्रशाखादिमण्डिते तत्तटे तु सा ।
पतिता जालिकाष्ठानां मध्ये गुप्तिसमीहया ।।३७।।
किन्तु तस्याः शिरस्तत्र शाखापाशवशं गतम् ।
पृष्ठतोऽपि भयं तस्या गलस्यापि भयं ह्यभूत् ।।३८।।
क्षुत्पिपासाभयं चापि संभोगभयमित्यपि ।
नूत्नदेशप्रपातस्य भयं पञ्चभयैर्हि सा ।।३९।।
मृता क्षणेन तत्रैव शरीरं पतितं जले ।
मस्तकं जालिशाखायां वितस्तिमात्रमूर्ध्वके ।।1.423.४०।।
तीरे चालम्बते तत्र न निमग्नं जलान्तरे ।
मस्तकं जलहीनं तु देहो महीजलान्तरे ।।४१ ।।
इति तीर्थप्रभावेण शरीरेण तु कन्यका ।
मानुषी सुन्दरी जाता मस्तकं बर्करीसमम् ।।४२।।
शतशृंगस्य वै राज्ञः सिंहलेष्वभवत् सुता ।
एवं सा बर्करीमुखी व्यजायत हरिप्रिया ।।४३।।
दिव्यनारी शुभाकारा शेषकायं बभौ शुभम् ।
ज्येष्ठा राज्ञोऽप्यपुत्रस्य स्निग्धा पुत्रशतोपमा ।।४४।।
पुत्री जाता प्रमोदेन स्वजनानन्दवर्धिनी ।
तां बर्करीमुखीं दृष्ट्वा राजानो विस्मयं ययुः ।।४५।।
विषादं परमापन्नो राजा स्वान्तःपुरान्वितः ।
खिन्नाः प्रजास्तथा लोका ये ये पश्यन्ति तां सतीम् ।।४६।।
तत् किमित्येतदाश्चर्यमूचुः सर्वत्र मानवाः ।
किन्तु सा दिव्यरूपाऽऽसीत् चन्द्राधिकप्रभावती ।।४७।।
अजामुखीं महामायां ज्ञात्वा पुपूजुरादरात् ।
अजामेकां रक्तशुक्लकृष्णां मूलस्वरूपिणीम् ।।४८।।
हरेः शक्तिं प्रकृतिं तां ज्ञात्वा पुपूजुरादरात् ।
अजोऽप्येनां कामभावे ह्यलब्ध्वा निवृत्तोऽभवत् ।।४९।।
ततः सा जातमात्रा च युवती वेदबोधिनी ।
यथा सरस्वती देवी तथाऽभूज्ज्ञानसत्स्वनिः ।। 1.423.५० ।।
स्वमुखं दर्पणे दृष्ट्वा स्मरति नित्यमेव सा ।
तीर्थं महीनदीरूपं महासागरसंगतम् ।।५१।।
गोलोकस्थं स्वकीयं च चित्रलेखास्वरूपकम् ।
मात्रे पित्रे प्रजाभ्यश्च प्राह सा ज्ञानगर्भिणी ।।५२।।
मा याताऽऽश्चर्यमेवाऽत्र पूर्वजन्मार्जिते फले ।
ममास्ति मस्तकं महीनद्यां जालिद्रुमान्तरे ।।५३।।
तदस्ति निपतेन्मह्यां मुखं मे मानवं भवेत् ।
इत्युक्त्वा सा तमुद्देशं प्रति यानाय निश्चिता ।।५४।।
पित्रा दत्ताः सेवकाश्च पोतानि भोज्यकानि च ।
रत्नानि दासिका द्रव्यं दानार्थं विविधं तदा ।।५५।।
स्तम्भतीर्थे ततः साऽपि प्राप्य पोतार्थसंयुता ।
भूरि दानं तत्र चक्रे दानं सर्वस्वदक्षिणम् ।।५६।।
जालिगुल्मान्तरेऽन्विष्य कपालं शिरसोऽस्थि यत् ।
दग्ध्वा संगमसान्निध्ये चिक्षेपाऽस्थ्यादि तीर्थके ।।५७।।
तेन तीर्थप्रभावेण पूर्णसामर्थ्यतेजसा ।
तेजःपरिधिसंव्याप्तं मुखं जातं हि मानवम् ।।५८।।
न तादृग्देवकन्यानां न तादृङ्नागयोषिताम् ।
न तादृङ्मर्त्यनारीणा सत्या यादृङ्मुखं शुभम् ।।५९।।
सुरासुरनराद्याश्च तस्या रूपेण मोहिताः ।
बहुधा प्रार्थयन्त्येनं न सा वरमभीप्सति ।।1.423.६ ०।।
श्रेष्ठं तपस्तया तत्राऽऽरब्धं चान्यप्रदुष्करम् ।
कृष्णनारायणो नाथः पूर्णे जाते हि वत्सरे ।। ६१ ।।
प्रत्यक्षतां गतस्तस्या वरदोऽस्मीति चाऽब्रवीत् ।
तं च पूर्वपतिं पूजयित्वाऽऽह कन्यका सती ।। ६२ ।।
परितुष्टोऽसि हे नाथ यदि देयो वरो मम ।
सान्निध्यं चर मे नाथ ततो गोलोकमाहर ।।६३।।
एवमस्त्विति कृष्णेन प्रोक्तो हृष्टा कुमारिका ।
ततः कृष्णं पूजयित्वा कुमार्याह जनार्दनम् ।।६४।।
तीर्थे त्वत्रास्तु वै स्वस्तिकरं गंगाजलात्मकम् ।
अत्र मृतानां दाहश्च बर्करीश्वरसन्निधौ ।।६५।।
प्रजायते ततस्तेषां मुक्तिर्भवतु माधव ।
स्नात्वाऽर्णवमहीतोये मुक्तिं यातु जनो हरे ।।६६।।
तथास्त्विति हरिः प्राह ययौ चादृश्यतां पुनः ।
अथाश्चर्यं परं श्रुत्वा पातालात्स्वस्तिकाऽभिधः ।।६७।।
नागराजो बिलात्तत्र दर्शनार्थं समागतः ।
स च कूपः स्वस्तिकाख्यस्तीर्थं ख्यातिं तदाऽगमत् ।।६८।।
नागेन तु बर्करीशं लिङ्गं संस्थापितं तथा ।
स्वस्तिकेश्वरसंज्ञं च लिंगं संस्थापितं शुभम् ।।६ ९।।
तया तु कन्यया तत्र कारयित्वा सुमन्दिरम् ।
अजाविष्णुः स्थापितो वै भगवान् स्वपतिः स्वयम् ।।1.423.७० ।।
सेवायां वर्तते मूर्त्या कृष्णनारायणस्य सा ।
कार्तिके तु चतुर्दश्यां यः स्नायात् तत्र कूपके ।।७१ ।।
तर्पयेत्पूर्वजांश्चैव स तारयति विंशतिम् ।
एवं सा कन्यका दिव्या तीर्थं कृत्वा ययौ गृहम् ।।७२।।
सिंहले शतशृंगाय पित्रे सर्वं न्यवेदयत् ।
श्रुत्वा प्रजायुतो राजा तीर्थार्थं तत्र चाययौ ।।७३ ।।
ददौ दानानि पुत्र्याश्च मन्दिरे जीविका ददौ ।
पुत्र्या ख्यातिं गतो राजा धन्यो यस्य सुता सती ।।७४।।
अथ स्वनगरं गत्वा समुत्सवं चकार सः ।
अनिच्छन्त्यां कुमार्या च वरं द्रव्यं च पद्मजे ।।७५।।
पिताऽजनाभखण्डं स्वं नवधैव विभज्य सः ।
ददावष्टौ स्वपुत्राणामजायै नवमं ददौ ।।७६ ।।
कन्याकुमारिकाखण्डो दक्षिणे राज्यमेव यत् ।
चकाराऽजा महासाध्वी कुमारिका हरिव्रता ।।७७।।
कुमारी सा महाभागा स्तम्भतीर्थे महीतटे ।
वर्तते दिव्यरूपेण राज्येऽपि वर्तते सदा ।।७८।।
नवखण्डस्थाऽऽजनाभे षण्णवतिप्रकोटयः ।
द्वासप्ततिस्तथा लक्षाः पत्तनानां भवन्ति वै ।।७९।।
एवं सा संविधायैव कुमारिक्षेत्रमुत्तमम् ।
तद्रक्षकं महाकालं विधाप्य च सती ततः ।।1.423.८०।।
बदरिकाश्रमं याता तपस्तप्तुं हरेर्गृहे ।
चित्रलेखा तापसी साऽभवद्बदरिकाश्रमे ।।८ १ ।।
अहं वृन्दावने कृष्णो भविष्यामि यदा रमे! ।
तदाऽनिरुद्धो मत्पुत्रस्तूषायाः पतिरुत्तमः ।।८२।।
यया चित्रे लेखयित्वा स्वाप्नदृश्यो भविष्यति ।
सा ततः पञ्चसाहस्रे वर्षाणां विगते भुवि ।।।८३ ।।
कृष्णनारायणपत्नी सौराष्ट्रे संभविष्यति ।
श्रीतुल्याऽदृश्यरूपेण सेवयित्वा हरिं पतिम् ८४।।
यास्यति श्रीकृष्णनारायणगोलोकमेव सा ।
इति ते कथिता लक्ष्मि! दिव्या चित्रलिखा सती ।।८५।।
पठनाच्छ्रवणाच्चास्य कन्यातीर्थफलं लभेत् ।
धनकन्यासुतदारसम्पद्वान् स्यान्न संशयः ।।८६ ।।
अदृश्या दृश्यतां प्राप्ता चित्रलेखा तु मञ्जुला ।
स्मर्यते मुक्तिदा सापि येन कृष्णसमा प्रिया ।।८७ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोलोकाद् ऋषभवंशे चित्रलेखादास्याः प्राविर्भावः, तत्र- बर्कररूपसमुद्रमोहोबर्करीमुखता, महीसागरसंगमे तीर्थे चमत्कारादिप्रदर्शनं कुमारिकाखण्डादिप्रसिद्धिः, तस्या मञ्जुलारूपायाः श्रीकृष्णनारायणप्राप्तिश्चेत्यादिनिरूपणनामा त्रयोविंशत्यधिकचतुश्शततमोऽध्यायः ।।।४२ ३ ।।