लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२४
[[लेखकः :|]]
अध्यायः ४२५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! रेवताद्रेश्छायायां वसतः पुरा ।
भिक्षुनामकविप्रस्य कलहायास्तु योषितः ।। १ ।।
कथां पतिविरोधिन्याः स्वामिमाहात्म्यबोधिनीम् ।
करवीरपुरे ह्यासीद् धर्मदत्ताख्यभूसुरः ।। २ ।।
स्नानसन्ध्यातपोहोमस्वाध्यायजपतत्परः ।
महाभागवतो नित्यं सेवते स्म सतो जनान् ।। ३ ।।
ग्रामस्थान् वै जनान् सर्वान् संगृह्य भूमिसत्तले ।
नामसंकीर्तनं नित्यं करोति गीतिपूर्वकम् । । ४ । ।
नृत्यं करोति कृष्णस्य सन्निधौ वक्ति सत्कथाम् ।
उत्सवाँश्च बहून् भक्तियुक्तान् करोति भावतः ।। ५ । ।
व्रताहादौ विशेषेण कारयत्येव श्रेष्ठिभिः ।
अतिथीन् स्वागतैः सन्तोषयत्यहनिशं द्विजः ।। ६ । ।
कृप्णनारायणं मालामणिभिर्जपमाचरत् ।
'ओं नमः श्रीकृष्णनारायणाय ओं जपन् सदा । । ७ । ।
याति नारायणपूजाकरणार्थं च मन्दिरम् ।
ब्राह्मे मुहूर्ते नद्यां सुस्नातेन वस्तु गृह्णता ।। ८ ।।
मन्दिरं व्रजता मार्गे दृष्टा तेन हि राक्षसी ।
भीषणा क्षुधिता क्रूरा बहिर्दंष्ट्रा दिगम्बरा ।। ९ ।।
कृष्णाद्रिसदृशी स्थूला ललज्जिह्वा सखर्परा ।
खादयामि भक्षयामि वदन्ती घर्घरस्वरा ।। 1.424.१० ।।
अतिवेगादुत्पतन्ती ग्रहीतुं लम्बदुष्करा ।
धर्मदत्तोऽपि तां दृष्ट्वा त्रस्तः क्रोशन् प्रधावितः ।। ११ ।।
सापि पृष्ठे प्रदुद्राव धर्तुं भक्षितुमुल्बणा ।
यावत्सा निकटं प्राप्ता धर्मदत्तस्तु विह्वलः ।। १ २।।
प्राणरक्षापरस्तस्या दूरीकरणहेतवे ।
हरे नारायण कृष्ण रक्ष गोविन्द माधव ।।।१ ३।।
श्रीपते माणिकीस्वामिन् रमानाथ प्रभापते [ ।
लक्ष्मीराधापते पार्वतीपते कमलापते ।। १४।।
जयादयारमाचम्पापतै मुक्तापतेऽव माम् ।
मञ्जुलाललितादेवीशान्तिहंसेश रक्ष माम् ।। १५।।
ओंश्रीकृष्णनारायणसुदर्शनाऽत्र मामव ।
इति गृणन् निचिक्षेप तुलसीदलयुग्जलम् ।। १६।।
राक्षस्यां श्रीकृष्णनारायण पूजनवस्तु च ।
कृष्णनारायणस्वामिन् रक्ष रक्षेति संवदन् ।। १७।।
यदि स्पृशसि मां विप्रं रामस्य शपथोऽस्तु ते ।
यदि स्पृशसि मां क्षुद्रे चण्डिकाशपथोऽस्तु ते ।। १८।।
यदि स्पृशसि मां नग्ने योगिनीशपथोऽस्तु ते ।
यदि स्पृशसि मां रण्डे दुर्गायाः शपथोऽस्तु ते ।। १ ९।।
यदि स्पृशसि मां कृत्ये रुद्रस्य शपथोऽस्तु ते ।
यदि स्पृशसि मां कृष्णे कृष्णस्य शपथोऽस्तु ते ।। 1.424.२० ।।
यदि स्पृशसि मां रात्रे मायायाः शपथोऽस्तु ते ।
यदि स्पृशसि मां दुष्टे कालस्य शपथोऽस्तु ते ।।।२१ ।।
एवं वदन् स पाषाणैः कृष्णनाम्नाऽहनद् रुषा ।
पूजातुलसीपत्रैश्च जलैः पापानि चाऽदहत् ।।२२।।।
मतिं प्राप्य शुभां पूर्वकृतं संस्मृत्य पातकम् ।
पापजालानि संस्मृत्य धर्मदत्ताय चाह सा ।।२३।।
पूर्वजन्मनि सौराष्ट्रे रैवताचलसन्निधौ ।
भद्रातटेऽवसद् भिक्षुनामा विप्रस्तु वैष्णवः ।।२४ ।।
तस्य भार्या निष्ठुराऽहमास विरुद्धवर्तना ।
किंशीला किंजल्पना किंवितण्डिकाऽतिकष्टदा ।।२५ ।।
कलिर्मे हृद्ये चास्ते गाली जिह्वाग्रनर्तिनी ।
क्रौर्यं च नेत्रयोः शश्वत्तामसीत्वं च मानसे ।।२६ ।।
चण्डभावो ललाटे मे महारुट् नासिकातटे ।
तिरस्कारश्चौष्ठयोर्मे वाण्यां तु कलहः स्थितः ।।२७।।
श्वासे त्वनिष्टतावासश्चोद्वेगः कर्मणि स्थितः ।
लज्जा पृष्ठे कृता नित्यं ह्यग्रे निर्लज्जता धृता ।।२८।।
अवमानं ताडनं च मम हस्ततले स्थितम् ।
एवं नित्यं वर्तमाना निवसामि द्विजगृहे ।।२९।।
सौराष्ट्रे सर्वतो देशे यत्र यत्र गृहे क्वचित्। ।
विवादो दम्पतीमध्ये जायते चेत् तदा मम ।।1.424.३ ० ।।
स्मर्यते नाम गृहिणा कलहा क्वाऽऽगताऽत्र फट् ।
एवं नाम्ना प्रसिद्धाऽहं पतिक्लेशकरी सदा ।।३१ ।।
मन्नाम स्मर्यते प्रातर्भोजनं नाऽऽप्यते तदा ।
एवं पापमयी चाऽहं भिक्षुभार्याऽभवं पुरा ।।३ २।।।
कारयामि स्वपतिना मम पादावमर्दनम् ।
वस्त्रप्रक्षालनं चापि गृहमार्जनमित्यपि ।।३३ ।।
भाण्डमञ्जनमेवापि कारयामि च भिक्षुणा ।
एवंविधा महापापपुञ्जात्मिकाऽभवँस्तदा ।। ३४।।
न ददामि स्वपतये भोजनं सुखदं जलम् ।
यदर्थयति तस्मात्तु विपरीतं ददामि वै ।।।३५।।
तदपि गालिकायुक्तं नष्ट भ्रष्टं ददामि च ।
खाद रसफल नार्या इत्येवं जल्पयामि च ।। ३६ ।।
नित्यं चोद्वेजित्ः कान्तो मधुरं चापि नाऽवदम् ।
शुभं किञ्चित् कृतं नैव मत्तो वेश्याऽपि सौख्यदा ।।३७।।
पुंश्चली चापि सन्तोषप्रदा न कलहा क्वचित् ।
इतिदुष्टाऽभवं विप्र मत्तः कृत्याऽपि सौख्यदा ।। ३८ ।।
उपपत्न्यपि सुखदा नाऽहं तथा विवाहिता ।
इत्यतिदुःखितो भिक्षुर्गतो वनं तु रैवतम् ।।३९।।
अहं क्रुद्धा दुःखदात्री तत्राऽगच्छं वनस्थले ।
शिखायां तं दृढं धृत्वाऽऽनीतवती गृहं निजम् ।।1.424.४० ।।
कामातुरा कामस्वार्था पाशवीं च क्रियां श्रिता ।
तदाऽपि न द्विजो मां वै हन्ति ताडयति क्वचित् ।।४१ ।।
अथ क्वचिद् दयायुक्ता रोदिमि कलहोत्तरम् ।
एकदा तु मया विप्राद् याचितं जलपानकम् ।।४२ ।।
पर्यंके दिवसे व्यर्थं शयानयाऽतिक्रुद्धया ।
तेन दत्तं जलं. मह्यं करोष्णं गर्गरीस्थितम् ।।४३ ।।
मृत्पात्रं तु ह्यभूद् रिक्तं शीतं जलं न विद्यते ।
तदा तु क्रुद्धया धृत्वोत्थाय मूशलमेव ह ।।४४।।
ताडितश्च महाशब्दः प्रश्रुतः पार्श्ववासिभिः ।
आगतास्तेऽवदन् विप्रं निद्दृकासय गृहादिमाम् ।।४५।।
कुरु त्वन्यां सुपत्नीं च भिक्षो कृत्यां परित्यज ।
दास्यामो द्रव्यमेवाऽपि सुखी संभव भूसुर ।।४६।।
विप्रोऽपि निश्चयं कृत्वा परिणेतुं गतोऽन्यतः ।
द्वितीयां कन्यकां पूर्वं तदर्थं वचनेऽर्थिताम् ।।४७।।
ततो मया विषं भुक्तं प्राणांस्त्यक्तास्तदैव तु ।
यमदूतैः पाशबद्धा नीता यमालयं प्रति ।।४८।।
बहुकष्टं ताडनेन वाग्बाणेनाऽध्वनि तदा ।
अनुभूतं मया वह्निवालुकागमनोद्भवम् ।।४९।।
क्षुत्तृषासहनं देहत्रोटनं मूर्छनादिकम् ।
एवं यमालयं प्राप्ता वध्यमाना पुनः पुनः ।।1.424.५०।।
विलोक्य धर्मराजो मां पप्रच्छ चित्रगुप्तकम् ।
अस्याः पापं चास्ति कीदृक् पश्य कर्म शुभाशुभम् ।।५१ ।।
कर्मफलं महादुष्टं दृश्यतेऽस्या विलोकने ।
चित्रगुप्तस्तदा शीघ्रं दृष्ट्वा कर्माऽतिदारुणम् ।।।५२।।
रण्डे कृत्ये महादुष्टे पापे सम्बोध्य चाह सः ।
पापया दुष्टयाऽनया नैव किञ्चिच्छुभं कृतम् ।।५३।।
गालीदानं ताडनं च कृतं भर्तरि सर्वदा ।
न तु मिष्टं भोजितं वै भुंजानयाऽनया क्वचित् ।।५४।।
काकी भवतु विष्ठादा तेन पापेन सा पुनः ।
वल्गुली भवतु स्वस्या विष्ठादाऽधोमुखी सदा ।।५५।।
ताडितस्तु पतिस्तेन पापेन गर्दभी तथा ।
पाकभाण्डे भोजिका विष्ठादा भवतु सूकरी ।।५६।।
सदा पत्युर्द्वेषकरी बिडाली चास्तु वै ततः ।
आत्मघातः कृतस्तस्मात् प्रेताऽस्तु मरुभूमिगा ।।५७।।
ततः पिशाची भूत्वा च बहुपिशाचकामिनी ।
भवत्वतः परं दुष्टा राक्षसी पापकारिणी ।।।५८।।
एवं न्यायं पर श्रुत्वा यमराजस्तु कर्मभि ।
योजयित्वा च मां तत्तज्जन्म प्रदत्तवान् मुहुः ।।५९।।
तत्सर्वं पारयित्वाऽहं राक्षसी दुःखिताऽभवम् ।
नास्ति मे कर्मनिस्तारो जायते पापकं पुनः ।।1.424.६० ।।
नित्यं पापेन संलिप्ता भवामि राक्षसी वने ।
भक्षयामि पशून् पक्षिवर्यांश्च मानवान् वने ।।६ १ ।।
किं करोमि क्व गच्छामि नान्तोऽस्ति मम कर्मणाम् ।
इति शोकान्विता क्षुधातृषाभ्यां चातिपीडिता ।।६ २ ।।
ववल्गेऽहं वणिजं वै तच्छरीरे विवेश ह ।
तेन सह समायाता देशं वै दक्षिणं शुभम् ।।६३ ।।
वणिक् स तु पपौ वारि कृष्णावेण्योस्तु संगमे ।
संस्थितस्तत्र वै श्रान्तस्तावद् देवास्तटस्थिताः ।।६४।।
अताडयन् मुहुर्मां ते दूरं चाहं पलायिता ।
क्षुत्तृड्युक्ता मार्गयामि पात्रं वणिक्समं पुनः ।।६५।।
तावद् दृष्टोऽसि पुष्टोऽसि क्षुन्निवृत्तिर्भवेन्मम ।
इत्यर्थं सत्वरं धर्तुं समागताऽस्मि हर्षिता ।।६६ ।।
तावत् त्वया श्रावितं वै हरेर्नामातिपावनम् ।
सिञ्चितं वारि तुलसीदलयुक्तं सुतीर्थकम् ।।६७।।
त्वादृशभक्तवर्यस्य दर्शनं पावनं मम ।
त्वत्पादपद्मरजसा पाविता च विशेषतः ।।६८।।
मेऽपि कर्माणि सर्वाणि मन्येऽन्तं प्रगतानि वै ।
पापं सर्वं गतं नाशं पुण्यं मे वर्धतेऽधुना ।।६ ९।।
शान्तिर्मे हृदये जाता तृप्तिश्च जलसेचनात् ।
भ्रान्तिः सर्वः प्रमादश्च वह्निरान्तरजो गताः ।।1.424.७ ० ।।
पतिदुःखप्रदं पापं तीर्थेऽत्र जडचेतने ।
नष्टं मन्ये तव योगात् कुरु मे मोक्षणं द्विज ।।७ १ ।।
याऽहं साऽहं किंकरी वा चाण्डाली श्वपची च वा ।
दुष्टा रण्डा निकृष्टा च कृपापात्रं तवास्मि वै । ।७२।।
कृपया तीर्यते जन्तुनाऽत्र पापं भयंकरम् ।
सतां कृपा परं पुण्यं तन्मूलं सर्वसुकृतम् ।।७ २ ।।
सतां कृपां विना त्वन्यत् सुकृतं तत्तु दुष्कृतम् ।
कृपा पुण्यं कृपा मोक्षः कृपा स्वर्गं सुखं धनम् । ।७४। ।
सतां कृपा पतिसेवा बहुपुण्येन लभ्यते ।
यस्या नास्ति कान्तसेवा सन्तः सेव्याः सदा तया । ।७५।।
यस्याः सेवा सतां नास्ति तया सर्वं विनाशितम् ।
स्वामी सेव्यः पतिः सेव्यः परमेश्वर एव सः ।।७६ ।।
अन्ततः प्रार्थनीयः क्षमापनीयः पुनः पुनः ।
पतिरेव परंब्रह्म शाश्वतं पुण्यमेव सः । । ७७।।
पतिः प्राणप्रदः पुत्रप्रदो लोकप्रदः सदा ।
स्वर्गदः सुखदश्चानन्दस्य प्रदः पतिर्हरिः ।।७८ ।।
दुःखं हरति नार्याश्च स्वयं सहते तत्स्थले ।
कष्टानि देहजातानि पुण्यं त्वर्धं ददाति च ।।७९ ।।
स्वार्जितं च धनं पुण्यं बलं बीजं ददाति च ।
कोऽन्यस्तस्मात्परो बोध्यः संसारे परमेश्वरः ।।1.424.८ ० ।।
पतिरेव हि नारीणां परमं दैवतं ततः ।
पतिः सेव्यः पतिः पूज्यः पतिः प्राप्यस्तपोऽधिकैः । ।८ १ ।।
अन्यथा राक्षसीभावो नारीणां स्यादिति स्थितिः ।
इत्युक्त्वाऽऽह पुनः कृत्या यथोद्धारो भवेन्मम ।।८२ ।।
अवशिष्टप्रपापानां विनाशोऽपि तथा भवेत् ।
तथा ब्रह्मन् कुरु मोक्षं कल्याणं ते भविष्यति । ।८ ३ ।।
अनाथायाः समुद्धर्तुः समुद्धारो भविष्यति ।
इत्युक्तो धर्मदत्तः स दयावान् प्रह्वमानसः ।।८४।।
प्रोवाच चिन्तयित्वा वै कलहायै सुखप्रदम् ।
शृणु रम्ये व्रततीर्थदानैः पापालयो भवेत् ।।८५।।।
प्रारब्धस्य सञ्चितानां सुकृतैर्विलयो भवेत् ।
त्वं चाऽसि राक्षसी प्रेता दीनादौ नाऽधिकारिणी ।।८६ ।।
प्रेतस्य नाऽधिकारोऽस्ति तीर्थदानव्रतादिषु ।
नैवाऽन्यै क्षीयते कर्म रक्षःप्रेतत्वसंप्रदम् ।।८७।।
किन्तु हरेः पातिव्रत्यपरं व्रतं कृतं मया ।
कार्तिकस्य जन्मतो वै तदर्धं ते ददाम्यहम् ।।८८।।
हरेः पातिव्रत्यपुण्यं त्वपातिव्रत्यपापहम् ।
इत्युक्त्वा जलमादाय धर्मदत्तस्तु वैष्णवः ।।८९।।
तुलसीजलमिश्रं तत् तस्या उपरि चाक्षिपत् ।
ओं नमः श्रीकृष्णनारायणाय ओमिति ब्रुवन् ।।1.424.९०।।
तावत् सा पुण्यमादाय प्रेतत्वरहिता ह्यभूत्। ।
कन्या दिव्या द्वादशाब्दा सर्वसौन्दर्यशोभिता ।।९१ ।।
वह्निवस्त्रा चन्द्रसमा कान्त्या शान्त्या विराजिता ।
भूत्वा ननाम विप्रं च समुवाच प्रहर्षिता ।।९२।।
तव विप्रकृपालेशात् प्रसादिता च संस्कृता ।
तारिता च त्वया क्लेशाद्गच्छामि भगवत्पदम् ।।।९३।।
इत्युक्तौ जायमानायां विमानं दिव्यमागतम् ।
पार्षदद्वयसंराजत्पार्षदाणीगणान्वितम् ।। ९४।।
पार्षदाभ्यां समाहूता कन्याऽऽरुरोह सत्वरम् ।
धर्मदत्तेन तौ कृष्णपार्षदौ वन्दितौ तदा ।।९५।।
पृष्ठौ काविति प्रत्युक्तिं श्रेष्ठस्तं प्रजगाद ह ।
पुण्यशीलः सुशीलेनानुमतः प्राग्भवादिकम् ।। ९६।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने सौराष्ट्रे भिक्षुपत्न्याः कलहाया अपातिव्रत्यपापेन वल्गुलीगर्दभीसूकरीबिडालीप्रेताराक्षसीत्वं धर्मदत्तविप्रद्वारा नामजपतुलसीजलादिना च पापनाशे मोक्षश्चेत्यादिनिरूपणनामा चतुर्विंशत्यधिकचतुश्शततमोऽध्यायः ।। ४२४ ।।