लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२२
[[लेखकः :|]]
अध्यायः ४२३ →

श्रीनारायण उवाच--
श्रूयतां च त्वया लक्ष्मि! शबरी लोकपावनी ।
याऽऽसीद् ब्रह्मप्रिया नाम्नी पत्नी कृष्णस्य धामनि ।। १ ।।
यदा वै राधया लक्ष्मीर्गंगा चापि सरस्वती ।
भुवं यातुं रुषा प्रोक्तास्तदा ब्रह्मप्रिया सखी ।। २ ।।
राधां तत्पादयोर्नत्वा प्राह कल्याणि मा वद ।
क्षमां कुरु सपत्नीषु मातर्योग्या क्षमा तव ।। ३ ।।
तदा राधा च तामाह गच्छ त्वं रमया सह ।
पृथ्व्यां दासीवर्गजन्म गृहीत्वा वस भूतले ।। ४ ।।
तदा तत्र सखी चान्या पम्पानाम्न्यभवद्धरेः ।
सा ननाम तदा राधां मा वदेत्याह तां च सा ।। ५ ।।
राधा प्राह प्रयाहि त्वं भुवि ब्रह्मप्रियायुता ।
वसाऽरण्ये महापम्पे जडे याहि समीपतः ।। ६ ।।
इत्युक्ते ते राधिकायाश्चक्राते पादमर्दनम् ।
प्रसन्नाऽभूत् तदा राधा प्रोवाच शापमोक्षणम् ।। ७ ।।
कृष्णेन साकं यां काचित् सखी राधां विना यदि ।
विहरिष्यति ताः सर्वाः प्रेषयिष्यामि भूतलम् ।। ८ ।।
ब्रह्मप्रिये च पम्पे च गोलोकघटिकाऽवधिम् ।
पृथ्व्यां बहुमनूनां वै कालं भुक्त्वा ततः परम् ।। ९ ।।
रामरूपं वरं कृष्णं प्राप्याऽत्राऽऽयास्यथः पुनः ।
करिष्यथो ब्रह्मवेत्र्यौ भक्तिं तावद्धरेर्भुवि ।। 1.422.१० ।।
ब्रह्मचारिधर्मवत्यौ लोककल्याणदे सदा ।
दिव्यचिरायुषां युक्ते देव्यौ भविष्यथौ भुवि ।। ११ ।।
इत्यनुग्रहमासाद्य कृष्णाज्ञया च ते ह्युभे ।
लक्ष्म्या समं समायाते भूतले दक्षिणे स्थले ।। १ २।।
लक्ष्मीर्वेदवती जाता कुशध्वजस्य कन्यका ।
सा च तप्त्वा तपश्चोग्रं बदर्याख्याश्रमे सती ।। १३ ।।
पृथ्व्यां च बालिका सीता जाता जनकनन्दिनी ।
कुशध्वजस्य दासश्चाटवीपालोऽभवत्तदा ।। १४।।
भीमाख्यो वै कुलालः श्रीवेंकटाद्रिनिवासकृत् ।
तस्य वै मानसी कन्ये पम्पा ब्रह्मप्रिया ह्युभे ।। १५।।
युगले जनिते दिव्ये जातिस्मरे हरेः प्रिये ।
जग्मतुस्ते तपोऽर्थं वै जातमात्रे वनान्तरम् ।। १६।।
क्रौचारण्यात् समारभ्य ऋष्यमूकाद्रिशोभितम् ।
महारण्यं विविशतुः कन्यके ते ह्युभे ततः ।। १७।।
चक्रतुस्तप उग्रं ते निर्जने दिव्यभावने ।
तत्राऽर्कवंशजाश्चासन् वानराः पशवश्च ये ।। १८।।
बलिनः क्रूरकर्माणो धर्माम्नायविवर्जिताः ।
क्वचित्क्वचिद्वने तत्र तापस्यौ कन्यके तु ते ।। १ ९।।
पीडयामासुरत्यर्थं पशुचेष्टितक्रोशनैः ।
तदा पम्पा विचार्यैव पुष्करिण्यभवज्जलम् ।।1.422.२० ।।
जलरूपा तपश्चर्यां करोति हरिलब्धये ।
ब्रह्मप्रियाऽभवत् तत्र जरठाऽतिकुरूपिणी ।। २१ ।।
अस्थिमात्र शरीरा च शुष्का धनुर्धरा सती ।
क्रूरवर्णाऽतिनिर्घृणा शबरी सा भयावहा ।।२२।।
यां दृष्ट्वा भयमापुस्ते वानरा राक्षसीमिव ।
एवं तपः प्रकुर्वन्त्यौ समासाते ह्युभे प्रिये ।।२३।।
पतिं कृष्णं च ते नित्यमाराधयत आदरात् ।
ऋष्यमूकगिर्यरण्ये फलिवृक्षातिसंकुले ।।२४।।
जम्बूप्रियालपनसैर्न्यग्रोधप्लक्षतिन्दुकैः ।
अश्वत्थकर्णिकारैश्च तिलकैर्नक्तमालकैः ।।२५।।
नागवृक्षैः सहकारैरशोकैः करवीरकैः ।
पारिभद्रैः कदम्बैश्चन्दनैर्नारंगखारिकैः ।।२६।।
खर्जूरश्रीफलनारीकेलैः फलिद्रुमैर्युते ।
सर्वकालफलास्तत्र पादपा मधुरस्रवाः ।।२७।।
सर्वे च ऋतवस्तत्र फलपुष्पप्रसूसमाः ।
शोभन्ते निर्झरा यत्राऽमृतकन्दादयस्तथा ।।२८।।
तादृशी पुष्करिणी सा पम्पा जलमयी ह्यभूत् ।
अशर्करा ह्यविभ्रंशा समतीर्था ह्यशैवला ।।२९।।
सूक्ष्मसंस्कृतवालूका कमलोत्पलशोभिता ।
हंसैः क्रौंचैर्मण्डुकैश्च कुररैश्चातकैः शुकैः ।।1.422.३ ०।।
मेनामयूरकुक्कुटैर्जलीयैः शब्दिताः मुहुः ।
रात्रौ कन्या स्वरूपा सा शबर्या सह मोदते ।।३ १ ।।
दिवा पम्पा जलरूपा शबरी यत्र मोदते ।
प्राणिनां निद्रिते काले कन्यके चक्रतुर्मुदम् ।।३२।।
कृष्णनारायणं लक्ष्म्या राधया सहितं वरम् ।
पार्वत्या प्रभया युक्तं श्रिया माणिक्यया युतम् ।।३३।।
पद्मावत्या च पद्मिन्या मालत्या जययाऽन्वितम् ।
मोहिन्या वृन्दया साकं तुलस्या पद्मया युतम् ।।३४।।
मालत्या दुर्गया युक्तं सरस्वत्या च गंगया ।
ललितयाऽन्वितं ते श्रीकृष्णनारायणं मुदा ।।३५।।
पुपूजतुः शुभैर्द्रव्यैः प्राण्यसम्बाधके क्षणे ।
पातिव्रत्येन धर्मेण प्रकृत्या सहितं पतिम् ।।।३६ ।।
सुगन्धश्चन्दनानां तु तत्र याति समन्ततः ।
वादित्राणां स्वरास्तत्र जायन्ते सुखदास्तदा ।।३७।।
वनदेवीभिरागत्य गीयन्ते गीतिकास्तदा ।
वृक्षा वल्लयस्तृणाः स्तम्बा मूर्ताश्चायान्ति पूजने ।।३८।।
फलपुष्पाण्यर्पयन्ति दुग्धानि कामधेनवः ।
देवगजाश्च धवला गरुडाः पाण्डुरास्तथा ।।३९।।
स्वर्गहंसाः स्वर्णमत्स्या मूर्ताश्चायान्ति पूजने ।
नदा नद्यः समुद्राश्च रत्नान्यायान्ति तत्र वै ।।1.422.४०।।
कम्भराख्या महालक्ष्मीर्गोपालकृष्ण ईश्वरः ।
आगत्य च तयोः पूजां संगृह्णीतो निशोत्तरे ।।४१ ।।
लक्ष्म्यादिविंशतिपत्नीयुक्श्रीकृष्णनरायणः ।
पूजां कन्याद्वयकृतां गृहीत्वाऽऽश्लिष्य वक्षसि ।।४२।।
रमयित्वा सुखं दत्वा दत्वा सर्वं प्रसादजम् ।
चुम्बयित्वा हरिर्नित्यमदृश्यो जायते ततः ।।४३।।
पम्पा जलमयी चान्या जरठा शबरी तदा ।
भवतीति तपस्तयोनिर्विघ्नं जायते सदा ।।४४।।
एवं पम्पां पुष्करिणीं नूतनामृषयः खलु ।
श्रुत्वा मतंगशिष्या ये पर्वतारण्यवासिनः ।।४५।।
आसन्निवसितास्तत्र द्रष्टुं समाययुस्तदा ।
ते च पुष्करिणीं दैवीं दृष्ट्वा मुदान्वितास्ततः ।।४६ ।।
पम्पातीरे न्युषुः पर्णकुटीर्विधाय नैकशः ।
तेषां तपःप्रकर्तॄणां शरीरात् स्वेदबिन्दवः ।।४७।।
ये प्रपेतुर्महीं तानि बभूवुः कुसुमानि वै ।
स्वेदबिन्दुसमुत्थानि नश्यन्ति कुसुमानि न ।।४८।।
तेषां वासार्हभूमौ सा शबरी पादचारिणी ।
श्रमणी शबरी नित्यं कृष्णभक्तिपरायणा ।।४९।।
प्रतीक्षते तं समयं कदा सीता मिलिष्यति ।
कदा रामो वनं यास्यन्नौ मोक्षं प्रापयिष्यति ।।1.422.५०।।
एतस्मिन्नन्तरे रामलक्ष्मणावुपतस्थतुः ।
तौ पुष्करिण्याः पंपायास्तीरमासाद्य पश्चिमम् ।।५१ ।।
वनवासे रावणेन हृतां मार्गयितुं प्रियाम् ।
समागतावपश्यतां शबर्या रम्यमाश्रमम् ।।५२।।
बहुद्रुमसमाकीर्णं पम्पाशोभितविग्रहम् ।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ।।५३ ।।
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः ।
पादौ जग्राह रामस्य लक्ष्मणं प्रणनाम च ।।५४।।
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि ।
तामुवाच ततो रामः श्रमणीं धर्मसंस्थिताम् ।।५५।।
स्मर्यते किं ब्रह्मप्रिये राधावाक्यं तपःप्रदम् ।
रामोऽहं श्रीकृष्णनारायणोऽस्मि मोक्षदस्तव ।।५६।।
पम्पा तावत् स्वरं श्रुत्वा भूत्वा कन्या समाययौ ।
रामस्य चरणे नत्वा पतित्वाऽमुञ्चदश्रुणी ।।५७।।
रामः पप्रच्छ कुशलं स्वास्थ्यं वृत्तान्तपूर्वकम् ।
कच्चिद् वां निर्जिता विघ्नाः कच्चिद् वां वर्धते तपः ।।५८।।
कच्चिद् वां नियतः कोप आहारश्च तपोधने ।
कच्चिद् वां नियमाः प्राप्ताः कच्चिद्वां मनसः सुखम् ।।५९।।।
कच्चिद्वां वृद्धशुश्रूषा सफलाऽत्र प्रवर्तते ।
रामेण पृष्टे तापस्यौ सिद्धे सिद्धाभिवन्दिते ।।1.422.६०।।
शशंसतुः शबरी वृद्धा पम्पा रामाय शोभनम् ।
अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनात् प्रभो ।।६ १ ।।
अद्य नौ सफलं जन्माऽतिथयश्चापि पूजिताः ।
अद्य नौ सफलं तप्त स्वर्गश्च पदशाश्वतम् ।।६२।।
त्वयि नाथे समापन्ने पूजिते चाभिवन्दिते ।
सेविते भोजिते कृष्णे सर्वं प्राप्तं फलं प्रभो ।।६ ३ ।।
ववाऽऽवां चक्षुषा नाथ पूते च दिव्यतां गते ।
यास्यावो नैजगोलोकं त्वत्प्रसादात् प्रियप्रभो ।।६४।।
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।
इतस्ते दिवमारूढा ह्यावाभ्यां येऽत्र सेविता ।।६५।।
उक्ते तैश्चातिधर्मज्ञैर्महाभागवतर्षिभिः ।
आगमिष्यति रामः स पुण्यं वामिममाश्रमम् ।।६६ ।।
स युवाभ्यां सेवनीयः श्रीकृष्णः साऽनुजोऽतिथिः ।
तं तु दृष्ट्वा स्वकं लोकं गोलोकं यास्यथो युवाम् ।।६७।।
एवमुक्ते महाभागैस्तदाऽऽवां कान्तकेशव ।
आवाभ्यां सञ्चितं वन्यं विविधं च फलादिकम् ।।६८।।
तवाऽर्थे कमलाकान्त पंपायास्तीरसंभवम् ।
पंपया च शबर्याऽर्घ्यं समर्पितं गृहाण तत् ।।६ ९।।
इत्युक्त्वा ते ददतुश्च निवेश्य कुशविष्टरे ।
पादप्रक्षालनं कृत्वा तत्तोयं पापनाशनम् ।।1.422.७० ।।
शिरसाऽऽधार्य पीत्वा च वन्यैः पुष्पैः पुपूजतुः ।
फलानि च सुपक्वानि मूलानि मधुराणि च ।।७१ ।।
स्वयमास्वाद्य माधुर्यं परीक्ष्य परिभक्ष्य च ।
पश्चान्निवेदयामास शबरी प्राणदायिने ।।७२।।
बदर्यादिप्रपक्वानि भक्षयामासतुश्च तौ ।
अथ रामः सतीं दासीं शबरीं प्राह संस्मरन् ।।७३ ।।
दानवाश्चात्र वै पूर्वे चक्रुर्यज्ञमहोत्सवम् ।
अद्यापि विद्यते वेदी वह्निस्तत्र प्रकाशते ।।७४।।
इत्याश्चर्यमयं स्थानं द्रष्टुमिच्छामि सुन्दरि ।
इत्युक्ता सा ययौ नीत्वा रामं दूरे वनान्तरम् ।।७५।।
शबरी दर्शयामास तावुभौ तद्वनं महत् ।
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।।७६।।
मतंगवनमेवैतद् विश्रुतं मुनिवासितम् ।
इह ते भावितात्मानो गुरवोऽत्र मम प्रिय ।।७७।।
जुहवांचक्रिरे नीडे मन्त्रवन्मन्त्रपूजितम् ।
इयं प्रत्यक्स्थली वेदी यत्र वै दानवाः सदा ।।७८।।
पुष्पोपहारं कुर्वन्ति देवताभ्यो दिने दिने ।
तेषां तपःप्रभावेण पश्याऽद्यापि जनार्दन ।।७९।।
द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा ।
अशक्नुवद्भिस्तैर्गन्तुमुपवासकृशैः सदा ।।1.422.८० ।।
स्नानार्थं चिन्तिताः सप्ताऽब्धयस्तिष्ठन्ति चात्र वै ।
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।।८१ ।।
अद्यापि न विशुष्यन्ति प्रदेशेऽत्र विलोकय ।
देवकार्याणि कुर्वद्भिर्यानीमानि धृतानि वै ।।।८२।।
मृदून्यपि च पुष्पाणि म्लानतां यान्ति नात्र वै ।
इत्येवं पश्यति रामस्तावत् ते तापसास्तदा ।।८३ ।।
दिव्यरूपधराः सर्वे दनुवंशसमुद्भवाः ।
वैष्णावास्ते मतंगस्य शिष्यास्तत्र समाययुः ।।८४।।
पतिताः पादयोस्तस्य रामस्याऽक्षालयन् पदम् ।
पीतवन्तश्च ते सर्वे मुनयः प्राग्भवे तु ते ।।८५।।
विहाय दानवीं योनिं विमानमधिरुह्य च ।
नीताश्च पार्षदैः सर्वे जग्मुर्वैकुण्ठमेव ते ।।८६ ।।
अथ दासी शबर्याह कान्तं कृष्णनरायणम् ।
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।।८७।।
तदिच्छाम्यभ्यनुज्ञाता त्यक्ष्याम्येतत्कलेवरम् ।
पम्पाऽपीच्छति गोलोकं गन्तुं पूर्णे युगे हरे ।।८८।।
क्वाऽस्ति लक्ष्मि स्वसुर्नौ श्रीः लक्ष्मीर्वद कृपां कुरु ।
श्रुत्वा रुरोद रामश्च ते धैर्यं ददतुस्तदा ।।८९।।
सीतावृत्तान्तमाज्ञाय चक्रिरे चिन्तनं च ते ।
अथ स्वास्थ्यं परं प्राप्य रामेणानुग्रहेण वै ।।1.422.९०।।
धैर्यमादाय च दृष्टा देहं त्याजयितुं तदा ।
पम्पा तत्र समायाता साप्ययाचत मोक्षणम् ।।९१ ।।
सापि रामेण तत्रैव कृपया चावलोकिता ।
उवाच शबरीं पम्पां नैष्ठिकीं वृत्तिमाश्रिताम् ।। ९२।।
आजीवनं ब्रह्मचर्यव्रतस्थां श्रीहरिप्रियाम् ।
अर्चितोऽहं त्वया पम्पे शबरि गच्छ मे गृहम् ।। ९३ ।।
तावत्तत्र समायातं विमानं कृष्णसंयुतम् ।
लक्ष्मीयुक्तं पार्षदैः सेवितं नारायणं प्रभुम् ।।९४।।
नत्वा ध्यात्वा हृदि कृत्वा पम्पा च शबरी तदा ।
अनुज्ञाता तु रामेण पादादुद्भाव्य चानलम् ।।९५।।
कृत्वा देहं भस्मसाच्च गोपी गोलोकवासिनी ।
कृष्णप्रिया यथा चासीत्पम्पा ब्रह्मप्रिया तथा ।।९६।।
ज्वलत्पावकसंकाशे राधालक्ष्मीसमे ह्युभे ।
भूत्वा तु कन्यके दिव्ये कृष्णपार्श्वे निषेदतुः ।।९७।।
दिव्याभरणसंयुक्ते दिव्यमालानुलेपने ।
दिव्याम्बरधरे तत्र बभूवतुः सुदर्शने ।।९८।।
विराजयन्त्यौ कृष्णस्य पार्श्वे विद्युल्लते यथा ।
ययतुर्नित्यगोलोकं कान्तयानेन ते ह्युभे ।।९९।।
इति ते कथितं लक्ष्मि! ब्रह्मप्रियाचरित्रकम् ।
श्रुत्वा पठित्वा यायाद्वै गोलोकं प्रमदा नरः ।। 1.422.१० ०।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये गोलोकाद् ब्रह्मप्रियापम्पयोः राधिकारोषादवतरणं रामचन्द्रयोगेन शबरीपम्पयोः पुनर्गोलोकप्राप्तिः पातिव्रत्यं चेतिनिरूपणनामा द्वाविंशत्यधिकचतुश्शततमोऽध्यायः ।।४२२।।