लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२१
[[लेखकः :|]]
अध्यायः ४२२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चमत्कारं तीर्थराजे प्रयागके ।
भरद्वाजस्य वसतस्त्रिवेण्या भार्यया सह ।। १ ।।
ब्रह्मपुत्री मानसी या जातमात्रा महासती ।
शतचन्द्रसमा रूपे युवती च पतिव्रता ।। २ ।।
ब्रह्मसरोऽग्रगण्याऽऽसीत् त्रिनद्यंशसमुद्भवा ।
भरद्वाजं लक्षवर्षतपस्विनं प्रयागके ।। ३ ।।
कुंभस्नाने ब्रहालोकादागता तं ददर्श सा ।
अहो दिव्यो वरयोग्यः ऋषिश्चात्र विराजते ।। ४ ।।
इति सञ्चिन्त्य सेवायां छायायां तस्य संस्थिता ।
ब्रह्मणा कुंभकालस्य कृत्वा स्नानं तदुत्तरम् ।। ५ ।।
त्रिवेण्या मानसं ज्ञात्वा भरद्वाजाय साऽर्पिता ।
गंगाया यमुनायाश्च सरस्वत्याश्च वै कलाः ।। ६ ।।
त्रिवेण्यै चार्पिता नाम्ना त्रिवेणीं तां च कन्यकाम् ।
प्रसंसमर्प्य ऋषये ब्रह्मा सत्यस्थलं ययौ ।। ७ ।।
त्रिवेणी पातिव्रत्येन भरद्वाजं तपस्विनम् ।
निषेवते सदा भक्त्या पातिव्रत्याऽभिवृद्धया ।। ८ ।।
प्रातःस्नानादिना नित्यं पादाऽवमर्दनेन च ।
पूजावस्तुप्रदानेन भोज्यार्पणेन सर्वदा ।। ९ ।।
ब्रह्मज्ञानेन च नित्यं सन्ध्यावन्दनकर्मभिः ।
शय्यायां सेवनैश्चापि सेवते सा पतिव्रता ।। 1.421.१० ।।
कामधेनुः सदा यत्र कल्पद्रुर्वर्तते सदा ।
सोमवल्ली सदा तत्र करे चिन्तामणिः स्थितः ।। ११ ।।
यत्र धर्मवती नारी पातिव्रत्यपरायणा ।
सर्वं तत्र च रत्नानामुपस्थानं प्रवर्तते ।। १ २।।
एकदा भरतस्तत्र साकेतकोसलेश्वरः ।
ससैन्येनाऽऽगमत् तीर्थविध्यर्थं माघतापसः ।। १३ ।।
सैन्यं संस्थाप्य वै दूरं जगाम दर्शनाय सः ।
भरद्वाजस्य ऋषिषु प्रवरस्य गुरोस्तदा ।। १४।।
ननाम भरतस्तस्य पादयोर्दण्डवन्मुदा ।
भरद्वाजस्य पत्न्याश्च पादयोः स ननाम ह ।। १५।।
भरताय तदाऽर्घ्यं च पाद्यं दत्वा फलानि च ।
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ।। १६।।
साकेतायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
भरतोऽपि भरद्वाजं पप्रच्छ कुशलादिकम् ।। १७।।
शरीरेऽग्निषु शिष्येषु वृक्षेषु मृगपक्षिषु ।
तथेति तु प्रतिज्ञाय भरद्वाजो महायशाः ।। १८।।
प्रसन्नः प्राह चात्रैव वसाऽऽश्रमेऽत्र पर्वणि ।
स्वागतं ते च सत्कारं सेवां यथागुणं तथा ।। १ ९।।
करिष्ये तीर्थवासोऽस्ति यावत्ते नृपपुंगव! ।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।।1.421.२० ।।
सन्ति त्वयि गुणाः सर्वे वसाऽत्र त्वाश्रमे मम ।
इत्युक्तः स च भरतस्तथेत्येवमुवाच तम् ।।२१ ।।
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं ऋषितुल्यं स आतिथ्येन न्यमन्त्रयत् ।।२२।।
अब्रवीद् भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यमथातिथ्यं वने यदुपपद्यते ।।२३ ।।
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तोषयिष्ये यथाधनम् ।।२४।।
सेनायास्तव सर्वस्याः कर्तुमिच्छामि सत्कृतिम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मुनिराड् यथा ।।२५।।
किमर्थं चापि निक्षिप्य दूरे सैन्यमिहाऽऽगतः ।
कस्मान्नेहोपयातोऽसि सबलः प्रियभक्तराट् ।।२६।।
भरतः प्रत्युवाचेदं प्रांजलिस्तं तपोधनम् ।
न सैन्येनोपयातोऽस्मि भगवन् भगवद्भयात् ।।२७।।
राज्ञा हि भगवन्नित्यं राज्याऽधिकारिणाऽथवा ।
यत्नतः परिहर्तव्या विषयेषु तपस्विनः ।।२८।।
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।।२९।।
ते वृक्षानुदकं भूमिमाश्रमेषूटजाँस्तथा ।
न हिंस्युरिति तेनाऽहमेक एवाऽऽगतस्ततः ।।1.421.३ ०।।
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
तथाऽनुचक्रे भरतः सेनायाः समुपागमम् ।।३ १ ।।
तावदृषिः सतीं भार्यां त्रिवेणीं प्राह शोभने! ।
पातिव्रत्येन धर्मेण विरचय्य सुपत्तनम् ।।३२।।
कुरु राज्यसमं चास्य स्वागतं सत्कृतिं प्रिये ।
इत्युक्ता सा सती पत्नी नत्वाऽनुग्रहकृत्पतिम् ।।३३।।
अग्निशालां प्रविश्याऽथ पीत्वाऽऽपः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। ३४।।
आह्वये विश्वकर्माणमहं त्वष्टारमत्र वै ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ३५
आह्वये लोकपालाँस्त्रीन् देवानिन्द्रपुरोगमान् ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।।३६।।
प्राक्स्रोतसश्च या नद्यस्तिर्यक्स्रोतस इत्यपि ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ।।३७।।
अन्याः स्रवन्तु दुग्धादि पेयानि मधुराणि च ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।।३८।।
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाऽप्सरसो देवगन्धर्वाश्चापि सर्वशः ।।३९।।
घृताचीमथ विश्वाचीं मिश्रकेशीमलंबुषाम् ।
नागदत्तां च हेमां च सोमामद्रिं कृतस्थलीम् ।।1.421.४० ।।
शक्रं याश्चोपतिष्ठन्ति ब्रह्माण याश्च भामिनीः ।
सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ।।४१ ।।
वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् ।
दिव्यनारीफलं शश्वत् तत्कौबेरमिहैव तु ।।४२।।
इह मे भगवन् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।।४३।।
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
रसादीनि च पेयानि खाद्यानि विविधानि च ।।४४।।
एवं समाधियुक्ता सा तेजस्विनी पतिव्रता ।
वह्निं ध्यात्वाऽस्मरत् सर्वान् समाजग्मुश्च ते पृथक् ।।४५।।
चन्दनपर्वतौ स्पृष्ट्वाऽनिलः स्वेदनुतः शिवः ।
सुप्रियात्मा सुखः शान्तो ववौ सौरभपूरितः ।।४६।।
देवैः कृताः स्वर्गपुष्पवृष्टयो दिव्यताप्रदाः ।
घनाश्चन्दनबिन्दुभिरभ्यवर्षन्त वै मनाक् ।।४७।।
देवदुन्दुभिघोषाश्च मंगलश्रवणास्तदा ।
शुश्रुविरे तथा भूमो ननृतुश्चाप्सरोगणाः ।।४८।।
प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ।
स्वागतार्थं च वाद्यानि ह्यवाद्यन्त यदा ततः ।।४९।।
भरतः सैन्यमादाय समायातः सकौतुकः ।
ददर्श तस्य तत्सैन्यं विधानं विश्वकर्मणः ।।1.421.५० ।।
कृता तत्र महाभूमिः समन्तात्पञ्चयोजनम् ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्यसन्निभैः ।। ५१ ।।
तत्र बिल्वा कपित्थाश्च पनसा सहकारकाः ।
आमलक्यः खर्जुराश्च बभूवुः फलभूषिताः ।।५२।।
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी वृक्षवल्लीफलसमन्विता ।।५३ ।।
चतुश्शालानि शुभ्राणि शालाश्च गजवाजिनः ।
हर्म्यप्रासादसंयुक्ततोरणानि शुभानि च ।।५४।।
सितमेघनिभं चापि राजवेश्म सुतोरणम् ।
शुक्लमाल्यकृताकारं दिव्यसुगन्धमिश्रितम् ।।५५।।
चतुरस्रमसंबाधं शयनासनयानवत् ।
दिव्यैः सर्वरतेर्युक्तं दिव्यभोजनवस्त्रवत् ।।५६।।
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।
क्लृप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ।।५७।।
प्रविवेश महाभक्तो भरतो रत्नवेश्म तत् ।
अनुजग्मुश्च सैन्यस्य मन्त्रिणः सपुरोहिताः ।।५८।।
बभूवुश्च वशिष्ठाद्या दृष्ट्वा वेश्ममुदान्विताः ।
तत्र राजासनं दिव्यं व्यजनं छत्रमित्यपि ।।५९।।
भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ।
आसनं शोभयामास दिव्यं देवार्हमेव तत् ।।1.421.६० ।।
आनुपूर्व्या निषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात्प्रशास्ता च न्यषीदत ।।६१ ।।
तावत्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं त्रिवेण्याश्चानुशासनात् ।।६२।।
आसामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा दिव्यास्त्रिवेण्याः सम्प्रसादजाः ।।६३।।
तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ।।६४।।
सुवर्णमणिमुक्तैश्च प्रवालैश्च सुभूषिताः ।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ।।६५।।
याभिरनुगृहीताश्च नराः स्युर्दिव्यवर्ष्मणः ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ।।६६।।
नारदाद्याश्च गन्धर्वाः कान्त्या सूर्यसमा ययुः ।
ते गान्धर्वकलाभिश्च भरतस्याऽग्रतो जगुः ।।६७।।
अलम्बुषा मिश्रकेशी पुण्डरीकाऽथ वामना ।
उपानृत्यन्त भरतं भरद्वाजस्य शासनात् ।।६८।।
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त त्रिवेण्यास्तेजसा तदा ।।६ ९।।
बिल्वा मार्दगिका आसन् शम्या ग्राहा विभीतकाः ।
अश्वत्था नर्तकाश्चासन् त्रिवेण्यास्तेजसा तदा ।।1.421.७० ।।
ततश्च सरलास्तालास्तिलकाश्च तमालकाः ।
प्रहृष्टास्तत्र चायाताः कुब्जा भूत्वाऽथ वामनाः ।।७१ ।।
शिंशपाऽऽमलकीजम्बूनवरंगादयो द्रुमाः ।
सेवकाः फलदा भूत्वा भरद्वाजाऽऽश्रमेऽवसन् ।।७२।।
द्राक्षाचिर्भटिकानागवल्लीसोमादिवल्लिकाः ।
शर्करावल्लिका मिष्टा याश्चान्याः कानने लताः ।।७३।।
प्रमदारूपधारिण्यो भरद्वाजाश्रमेऽवसन् ।
मिष्टान् पिबत भो भृत्या आसवान् वै यथेप्सितान् ।।७४।।
पायसं परमान्नानि भक्ष्यन्तां च बुभुक्षितैः ।
फलानि देह्यचोश्यानि भक्ष्यन्तां सैन्यपुंगवैः ।।७५।।
सकृत्वोद्वर्तनं नार्यो नदीतीरेषु वल्गुषु ।
स्नापयन्त्येकमेकं स्म नरं ताः सप्त चाष्ट च ।।७६।।
संवाहयन्त्या उत्पेतुर्नार्यो विपुललोचनाः ।
पाययन्ति करान् धृत्वा मध्वादिकं वरांगनाः ।।७७।।
हयान् गजान् खरानुष्ट्रान् वृषभान् घोटकान् वरान् ।
अभोजयन्वाहनपास्तेषां भोज्यं यथायथम् ।।७८।।
इक्षूंश्च मधुलाजाँश्च भोजयन्ति स्म वाहनान् ।
मत्तप्रमत्तमुदितास्तदा चमूः प्रसंबभौ ।।७९।।
तर्पिताः सर्वकामैश्च रक्तचन्दनपूजिताः ।
अप्सरोभिर्वर्धिताश्च सैन्या उदैरयँस्तदा ।।1.421.८०।।
अहो सौध्यान्यहो वस्तून्यहो दास्यश्च सेविकाः ।
अहो कल्पलताश्चात्र स्वर्गोऽयमिति चाब्रुवन् ।।८ १।।
नृत्यन्तश्च हसन्तश्च गायन्तश्चापि सैनिकाः ।
संप्रहृष्टा विनेदुश्च नरा नार्यः सहस्रशः ।।८२।।
भरतस्याऽनुयातारो माल्योपेताः सहस्रशः ।
तृप्ताश्चाश्चर्यसम्पूर्णा भरद्वाजं ववन्दिरे ।।८३।।
धन्योऽयं मुनिराजोऽस्ति त्रिवेणी यस्य कामिनी ।
सर्वसिद्धिकरा साध्वी यत्प्रतापादिदं शुभम् ।।८४ ।।
यद्यपि स्याद्वने वासो यस्य पत्नी पतिव्रता ।
स्वर्गं तस्य करे चास्ते किमस्य राज्यवैभवैः ।।८५।।
या पत्नी स्वपतेः पादोदकं पीत्वाऽनलाऽन्तिके ।
स्थित्वेच्छति महादिव्या विभूतीस्तास्तु तत्क्षणम् ।।८६।।
समायान्ति किमु स्वर्गं परं नास्मात् कदाचन ।
ततः सर्वत्र वै सन्तु साध्व्यो नार्यः पतिव्रताः ।।८७।।
तथा तासां स्वामिनश्च भरद्वाजोपमा नराः ।
पत्नीव्रतपराः सन्तु येषां स्वर्गं करे सदा ।।८८।।
इति वदन्तः सर्वे वै सहस्रशो हि सैनिकाः ।
लक्षाधिमानवाः साकेतस्य विषयवासिनः ।।८९।।
तैर्थिकाः कोटिशश्चान्ये कुंभपर्वणि चागताः ।
स्वर्गं दिव्यं भरद्वाजकृतं विलोक्य ते तदा ।।1.421.९० ।।
कंभरां च महालक्ष्मीं गोपालकृष्णमीश्वरम् ।
कृष्णनारायणं तत्र स्थितं पत्रासनं प्रभुम् ।।९ १ ।।
त्रिवेणीं च नदीरूपां तथा तीर्थानि कोटिशः ।
भरद्वाजप्रियां पत्नीं त्रिवेणीं युवतीं तथा ।।९२।।
विलोक्य दर्शनं कृत्वा पूतास्ते दिव्यतां ययुः ।
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।।९३ ।।
दिव्यानुद्वीक्ष्य भक्ष्याँश्चाऽभवत् तद्भक्षणे मतिः ।
प्रेष्याश्चेट्यश्च वध्वश्च बलस्था देशवासिनः ।।९४।।
यात्रालवश्च किंकर्यो दासा दास्यश्च नैकशः ।
बभूवुस्ते भृशं प्रीताः सर्वे नूत्नाम्बरास्तथा ।।९५।।
कुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः ।
तृप्ता बभूवुस्ते नान्यत् तृणाद्यं वै तदाऽऽर्थयन् ।।९६।।
नाऽशुक्लवासास्तत्राऽऽसीत् कश्चिद्वै क्षुधितस्तदा ।
फलादिसद्रसैः सूपैः क्वथिकाभिश्च पायसैः ।।९७।।
पूर्णा ह्यासन् ह्रदास्तत्रौदनानां पर्वतास्तथा ।
बभूवुश्चाश्रमे पार्श्वे कूपाः पायसकर्दमाः ।।९८।।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुच्युतः ।
वाप्यश्चासवपूर्णाश्च स्वर्णपात्राणि कोटिशः ।।९९।।
राजतानि च पात्राणि ताम्राणां कोटयस्तदा ।
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।। 1.421.१० ०।।
न्यर्बुदानि च पात्राणि शातकुंभमयानि च ।
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।। १०१ ।।
हैयंगवीनकूटानि तक्राणां कुण्डकानि च ।
ह्रदाः पूर्णरसालानां तिक्ताम्ब्लमिष्टचूर्णकाः ।। १ ०२।।
पर्पटानां समूहाश्च पोलिकानां तथाऽद्रयः ।
मिष्टान्नानां महाशृंगाण्यभवन् तत्र चाश्रमे ।। १ ०३।।
बभूवुर्व्यञ्जनानां च शर्कराणां च सञ्चयाः ।
चूर्णानि लेपयोग्यानि स्नानानि विविधानि च ।। १ ०४।।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां जनाः ।
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।। १ ०५।।
शुक्लाँश्चन्दनकल्काँश्च सम्पुटेष्ववतिष्ठतः ।
दर्पणानुत्तमाश्चित्रवाससां बहुसंचयान् ।। १ ०६।।
मुखवासान् बहुविधान् चूर्णताम्बुूलचर्वणान् ।
पादुकोपानहांचैव युग्मान्यत्र सहस्रशः ।। १ ०७।।
आंजनीः कंकतान् कूर्चान् दन्तकान् छत्रचामरान् ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। १ ०८।।
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।। १ ०९।।
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखाप्लवान् ।
नीलवैदूर्यवर्णाश्च मृदुप्राऽऽवाससंचयान् ।। 1.421.११० ।।
भक्षणार्क्षं पशूनां ते ददृशुस्तत्र सर्वशः ।
दोलाश्च विविधास्तत्र भवने भवने शुभाः ।। १११ ।।
वातयन्त्राणि रम्याणि विद्युद्दीपाः सहस्रशः ।
शीतोष्णजलकुण्डानि द्यूतगृहाणि वै तथा ११ २।।
विमानभवनान्येव स्वर्गयानानि तान्यपि ।
जलान्तर्यानवर्याणि दूरश्रवणयन्त्रिकाः ।। ११३ ।।
दूरदर्शनपेट्यश्चातीतक्रीडाप्रदशिकाः ।
नटनर्तकचाटादिक्रीडांगणानि भूरिशः ।। १ १४।।
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वाऽऽतिथ्यं कृतं तावन् महेन्द्रादधिकं तदा ।। १ १५।।
भरद्वाजत्रिवेणीभ्यां कृतं स्वर्गं नवं हि तत् ।
भरद्वाजाश्रमे कुंभदिनरात्रिर्गता सुखम् ।। १ १६।।
प्रातः स्नानं विधायैव भरताद्यास्तदा पुनः ।
भोजनादिविधिं कृत्वा सम्पूज्यर्षिं त्रिवेणिकाम् ।। १ १७।।
दत्वा दानान्यनेकानि ययुः साकेतधाम ते ।
प्रतिजग्मुश्च ते सर्वे गन्धर्वाश्च वरांगनाः ।। १ १८।।
सर्वे ये तत्र चाहूताः त्रिवेण्या पत्युराज्ञया ।
प्रतिजग्मुः कृत्रिमं तत् सर्वमदृश्यतां गतम् ।। ११ ९।।
इति लक्ष्मि! प्रतापस्ते पातिव्रत्यवृषस्य वै ।
कथितो यश्चतुर्दशलोकेषु प्रथितः प्रिये ।। 1.421.१२० ।।
इति श्रीलक्ष्मीनाराणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये भरतार्थं प्रयागे भरद्वाजपत्न्या त्रिवेण्या नवीन-स्वर्गं रचितमिति तन्निरूपणनामा एकविंशत्यधिकचतुश्शततमोऽध्यायः ।।४२ १ ।।