लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४२०
[[लेखकः :|]]
अध्यायः ४२१ →

श्रीलक्ष्मीरुवाच-
के ते धर्माः कथं प्रोक्ताः कालह्रासः कथं च वै ।
कदा कृष्णः कदा पुत्रो दिव्योऽदृश्योऽभवत्प्रभुः ।। १ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि यानहं चोक्तवाँस्तदा ।
कालभेदान् कालधर्मान् यथा रक्षा कृता मया ।। २ ।।
लक्ष्मि! कृतयुगे लोकाः सत्यादिधर्मसंश्रयाः ।
पृथ्वीरसोद्भवं नाम त्वाहारं चाहरन्ति वै ।। २ ।।
ताः प्रजाः कामचारिण्यो मानसीं सिद्धमास्थिताः ।
धर्माऽधर्मौ न तावास्तां निर्विशेषाः प्रजास्तु ताः ।। ४ ।।
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ।
धर्माऽधर्मौ न तावास्तां कल्पादौ तु कृते युगे ।। ५ ।।
स्वेना स्वेनाऽधिकारेण जज्ञिरे ते कृते युगे ।
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया ।। ६ ।।
आद्यं कृतयुगं प्राहुः सन्ध्यानां शतमष्टकम् ।
ततः सहस्रशस्तासु प्रजासु प्रथितास्वपि ।।७ ।।
न तासां प्रतिघातोऽस्ति न द्वन्द्वं नापि च क्लमः ।
पर्वतोदधिसेविन्यो ह्यनिकेताश्रयास्तु ताः ।। ८ ।।
विशोकाः सत्त्वबहुला एकान्तसुखितप्रजाः
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ।। ९ ।।
सर्वकामसुखः कालो नात्यर्थं ह्युष्णशीतता ।
मनोऽभिलषिताः कामास्तासां सर्वत्र सर्वदा ।। 1.420.१ ०।।
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसोल्लताः ।
बलवर्णकरी तासां सिद्धिः सा रोगनाशिनी ।। ११ ।।
असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः ।
तासां विशुद्धात्संकल्पाज्जायन्ते मिथुनाः प्रजाः ।। १ २।।
समं जन्म च रूपं च म्रियन्ते चैव ताः समम् ।
तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः ।। १३ ।।
निर्विशेषास्तु ताः सर्वा रूपायुःशीलचेष्टितैः ।
अबुद्धिपूर्वकं वृत्तं प्रजानां जायते स्वयम् ।। १४।।
अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः ।
वर्णाश्रमव्यवस्थाश्च न तदाऽऽसन्न संकरः ।। १7८६।।
अनिच्छाद्वेषयुक्तास्ते वर्तयन्ति परस्परम् ।
तुल्यरूपाऽऽयुषः सर्वा अधमोत्तमवर्जिताः ।। १६ ।।
सुखप्राया ह्यशोकाश्च तूत्पद्यन्ते कृते युगे ।
नित्यप्रहृष्टमनसो महासत्त्वा महाबलाः ।। १७।।
लाभाऽलाभौ न तास्वास्तां मित्रामित्रे प्रियाप्रिये ।
मनसा विषयस्तासां निरीहाणां प्रवर्तते ।। १८।।
न ता लिप्सन्ति चान्योन्यं नानुगृह्णन्ति चैव वै ।
ध्यानं त्वासीत् कृतयुगे त्रेतायां ज्ञानमूर्जितम् ।। १९।।
प्रवृत्ता द्वापरे यज्ञा दानं कलियुगे कृतम् ।
सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमः ।। 1.420.२० ।।
कलौ तमस्तु विज्ञेयं युगवृत्तवशेन वै ।
कृतस्य सिद्धयः सर्वाः पादेनोनास्तदाऽभवन् ।। २१ ।।
कृतसिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत ।
अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना भुवि ।।२२।।
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।
सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले ।।२३ ।।
प्रादुरासस्तदा तासां वृक्षास्तु गृहसंस्थिताः ।
सर्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते ।।२४।।
वर्तयन्ति हि तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ।
ततः कालेन महता तासामेव विपर्ययम् ।।२५।।
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ।
यत्तद् भवति नारीणां जीवितान्ते तदाऽऽर्त्तवम् ।।२६ ।।
ततस्तेनैव योगेन वर्ततां मिथुने तदा ।
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम् ।।२७।।
अकाले ह्यार्तवोत्पत्तिर्गर्भोत्पत्तिरजायत ।
विपर्ययेण तासां तु तेन कालेन भाविना ।।२८।।
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंस्थिताः ।
ततस्तेषु प्रणष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः ।।२९।।
अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ।
प्रादुर्बभूवुस्तासां च वृक्षास्ते गृहसंस्थिताः ।।1.420.३ ०।।
वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च ।
तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ।।३ १ ।।
अमाक्षिकं महावीर्यं पुटके पुटके मधु ।
तेन ता वर्तयन्ति स्म सुखे त्रेतायुगे तदा ।।३ २ ।।
हृष्टतुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ।
पुनः कालान्तरेणैव पुनर्लोभावृतास्तु ताः ।।३३ ।।
वृक्षाँस्तान् पर्यगृह्णन्त मधु वा माक्षिकं बलात् ।
तासां तेनाऽपचारेण पुनर्लोककृतेन वै ।।३४।।
प्रणष्टा मधुना सार्धं कल्पवृक्षाः क्वचित् क्वचित् ।
तस्यामेवाऽल्पशिष्टायां सन्ध्याकालवशात्तथा ।।३५।।
प्रावर्तन्त तदा तासां द्वन्द्वान्यभ्युत्थितानि तु ।
शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम् ।।३६।।
द्वन्द्वैस्ताः पीड्यमानास्तु चक्रुरावरणानि च ।
कृत्वा द्वन्द्वप्रतीकारं निकेतानि हि भेजिरे ।।३१७।।
यथायोग्यं यथाप्रीति निकेतेष्ववसँश्च ते ।
मरुधन्वसु निम्नेषु पर्वतेषु नदीषु च ।।३८।।
संश्रयन्ति च दुर्गाणि धन्वानं शाश्वतोदकम् ।
यथायोगं यथाकामं समेषु विषमेषु च ।।३९।।
आरब्धास्ते निकेता वै कर्तुं शीतोष्णवारणम् ।
ततः संस्थापयामासुः खेटानि च पुराणि च ।।1.420.४० ।।
ग्रामाँश्चैव यथाभागं तथैवाऽन्तः पुराणि च ।
तासामायामविष्कंभान् सन्निवेशान्तराणि च ।।४१ ।।
चक्रुस्तदा यथाप्रज्ञं मित्वा मित्वाऽऽत्मनोऽङ्गुलैः ।
मनोऽर्थानि प्रमाणानि तद्वा प्रभति चक्रिरे ।।४२।।
यथा ते पूर्वमासन् वै वृक्षास्तु गृहसंस्थिताः ।
तथा कर्तुं समारब्धाश्चिन्तयित्वा पुनः पुनः ।।४३।।
वृक्षशाखासु ताः शाला ह्यकुर्वंश्चापि शोभनाः ।
कृत्वा द्वन्द्वोपघाताँस्तान् वार्तोपायमचिन्तयन् ।।४४।।
नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ।
विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधात्मिकाः ।।४५।।
ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगेऽन्नदा ।
वार्ताऽर्थसाधिकाऽप्यन्या वृत्तिस्तासां हि कामतः ।।४६ ।।
वृष्ट्युदकानि निम्नानि स्रोतांसि सरितोऽभवन् ।
निम्नगानि सरस्तडागरूपाणि तदाऽभवन् ।।४७।।
सस्यपुष्टिकराण्येव जातानि तानि सर्वदा ।
अपां भूमेस्तदा योगादोषध्यस्तासु चाऽभवन् ।।४८।।
पुष्पमूलफलिन्यस्तु ओषध्यस्ताः प्रजज्ञिरे ।
अफालकृष्टाश्चाऽनुप्ता ऋतुपुष्पफलागमाः ।।४९।।
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा ।
ततः पुनरभूत् तासां रागो लोभश्च सर्वशः ।।1.420.५०।।
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ।
वृक्षान् गुल्मौषधींश्चैव प्रसह्य तु यथाबलम् ।।५१ ।।
गृह्णन्त्यन्यस्य ताँस्तत्र वर्तयन्ति च दुःखिनः ।
केचिच्छान्तास्तथा केचिद् रूक्षाः क्रूरास्तथाऽपरे ।।५२।।
द्रोहिजनाः कर्मभिश्च तेजस्विनश्च निर्बलाः ।
तेजस्विनां कर्मचारा अबलाश्च तदाऽभवन् ।।५३ ।।
एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् ।
प्रणष्टा ह्रियमाणास्ता ओषधयस्तदाऽभवन् ।।५४।।
ततस्तासु प्रणष्टासु प्रजा जग्मुः प्रजापतिम् ।
वृत्त्यर्थमभिलिप्सन्तस्त्रेताह्रासे ह्युपस्थिते ।।५५।।
ब्रह्मणा च तदा पृथ्व्यां बीजानि मानसानि वै ।
प्रक्षिप्तानि विनिर्माय तदौषध्यः प्रजज्ञिरे ।।।५६ ।।
कृष्टपच्या बभूवुश्च सस्यानि चापि सर्वथा ।
अथ च ब्राह्मणास्ताभिर्वर्तयामासुरीश्वराः ।।५७।।
इतरेषां कृतत्राणान् ररक्षुः क्षत्रियान्परान् ।
वृत्तिकरान् वैश्यवर्णान् सेवकान् युगसंक्षये ।।५८ । ।
कृतवन्तो ब्राह्मणास्ते ब्रह्मणा चानुमोदिताः ।
तेषां कर्माणि धर्माश्च ब्रह्मा तु व्यदधात्पुनः ।।५९ । ।
प्रजा अपि तथाधर्मान् पालयामासुरादरात् ।
वर्णधर्मैरजीवन्त्यो व्यरुध्यन्त परस्परम् । ।1.420.६ ० । ।
ब्रह्मा तमर्थं बुद्ध्वा च ब्राह्मणानां च वैदिकम् ।
याजनाध्यापने चक्रे तृतीयं च परिग्रहम् । ।६ १ । ।
क्षत्रियाणां बलं दण्डं युद्धमाजीवमादिशत् ।
पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ ।।६२ ।।
शिल्पाजीवं भृतिं चैव चतुर्थस्य व्यधात्प्रभुः ।
कर्माजीवं ततो दत्वा तेभ्यः स्थानानि वै ददौ ।।६३ ।।
स्वस्वकर्मरतानां वै लोकान्तरेषु तद्यथा ।
प्राजापत्यं ब्राह्मणानां माहेन्द्रं क्षत्रियस्य च ।।६४।।
वैश्यानां मारुतं स्थान गान्धर्वं सेवकस्य वै ।
अथाऽऽश्रमान् स्वयं ब्रह्मा स्थापयामास धर्मतः ।। ६५।।
चातुर्वर्ण्यात्मकः पूर्वं गृहस्थश्चाश्रमः स्मृतः ।
त्रयाणामाश्रमाणां च प्रतिष्ठा योनिरेव च ।।६६ ।।
दाराऽग्नयोऽथाऽऽतिथेयं इज्याश्राद्धक्रियाः प्रजाः ।
इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः ।।६७।।
दण्डी च मेखली चैव ह्यधःशायी तथा जटी ।
गुरुशुश्रूषणं भैक्ष्यं विद्यार्थे ब्रह्मचारिणः ।।६८ । ।
चीरपत्राजिनानि स्युर्धान्यमूलफलौषधम् ।
उभे सन्ध्येऽवगाहश्च होमश्चारण्यवासिनाम् । ।६ ९ । ।
मध्याह्नोत्तरभैक्षं च ह्यस्तेयं शौचमित्यपि ।
अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा । ।1.420.७ ० । ।
अक्रोधो गुरुशुश्रुषा सत्यं वृषो दशात्मकः ।
बहिः कर्माणि सर्वाणि न सिद्ध्यन्ति जनस्य वै । ।७ १ । ।
अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान् ।
सर्वस्वमपि यो दद्यात् कलुषेणाऽन्तरात्मना । ।७२ । ।
न तेन धर्मभाक् स स्याद् भाव एवात्र कारणम् ।
अथ त्रेतोत्तरे सर्वं सन्ध्याकाले वृषादिकम् । ।७३ । ।
पुनर्नष्टं प्रजाक्लेशात्परस्परं प्रसह्य च ।
ततो राजा च मनवः सम्राजो नियमास्तथा । ।७४। ।
सत्ता वस्तुषु लोकानां मनुष्यपशुपक्षिषु ।
क्षेत्रेषु व्यवसायेषु सर्वत्र जीविकासु च ।।७५।।
सर्वत्र चाऽभवन् लक्ष्मि! धर्माश्चापि यथाऽऽग्रहाः ।
सत्यं दानॆ दया यज्ञो जपः सर्वं तृतीयकम् ।।७६ ।।
वर्तते स्म च पादेन धर्मास्तदा तथाऽभवन् ।
अधार्मिका असुराश्च विशेषतोऽपि तामसाः ।।७७।।
द्वापरे चाऽभवन् लक्ष्मि! प्रजा यज्ञप्रधानिकाः ।
स्मृतयो नियमास्तत्रर्षिभिः संग्रथिताः सुखाः ।।७८।।
देवानां जीविका विप्रजीविका भृत्यजीविकाः ।
कार्वादिशिल्पिवर्याणां जीविकास्तत्र निर्मिताः ।।७९।।
नारीणां च विवाहादिसत्तास्तत्र विनिश्चिताः ।
पुत्राणां चौरसानां वै दायभाक्त्वं स्थिरीकृतम् ।।1.420.८०।।
शिष्याणां कन्यकानां च दायभाक्त्वं विभाजितम् ।
राज्ञां भुवः प्रजानां च सामान्यतो विशेषतः ।।८१ ।।
जीविकासाधनान्यत्र व्यापाराश्च विनिश्चिताः ।
पितृपुत्रादिशब्दानामर्था व्यक्तिषु योजिताः ।।८२।।
तद्यथा श्रूयतां लक्ष्मि! त्वया लोके प्रवर्तिताः ।
बीजप्रदः पिता प्रोक्तो माता गर्भस्य धारिणी ।।८३ ।।
अबीजदो मातृपतिश्चोपपिता प्रकीर्तितः ।
अगर्भध्रा पितृपत्नी चोपमाता प्रकीर्तिता ।।८४।।
पितामहः पितृपिता तत्पिता प्रपितामहः ।
मातामहः मातृपिता तत्पिता प्रमातामहः ।।८५ ।।
पितामही पितुर्माता तच्छ्रवश्रूः प्रपितामही ।
तच्छ्रवश्रश्च परिज्ञेया सा वृद्धप्रपितामही ।।८६ ।।
मातामहा मातुर्माता मातृतुल्या च पूजिता ।
प्रमातामहीतिज्ञेया प्रमातामहकामिनी ।।८७।।
वृद्धमातामही ज्ञेया तत्पितुः कामिनी तथा ।
पितृभ्राता पितृव्यश्च मातृभ्राता तु मातुलः ।।८८।।
पितृस्वसा पितुर्मातृष्वसा मातुस्स्वसा स्मृता ।
सूनुश्च तनयः पुत्रो दायादश्चात्मजस्तथा ।।८९।।
धनभाग्वीर्यजश्चैव पुंसि जन्ये च वर्तते ।
जन्यायां दुहिता कन्या चात्मजा परिकीर्तिता ।। 1.420.९०।।
पुत्रपत्नी वधूर्ज्ञेया जामाता दुहितुः पतिः ।
पतिः प्रियश्च भर्ता च स्वामी कान्ते च वर्तते ।।९१ ।।
देवरः स्वामिनो भ्राता ननान्दा स्वामिनः स्वसा ।
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ।।९२।।
भार्या जाया प्रिया कान्ता स्त्री च पत्नी प्रकीर्तिता ।
पत्नीभ्राता श्यालकश्च स्वसापत्न्याश्च शालिका ।।९३ ।।
पत्नी माता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ।
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ।। ९४।।
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः ।
आवुत्तो भगिनीकान्तो भगिनीपतिरेव च ।।९५।।
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ।
श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ।।९६।।
अन्नदाता भयत्राता पत्नीतातस्तथैव च ।
विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ।। ९७।।
जन्मदात्री दुग्धपोष्ट्री ज्ञानदा मातरो नृणाम् ।
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी ।।९८।।
माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा ।
मातुर्माता पितुर्माता श्वश्रूपित्रोः स्वसा तथा ।।९९।।
पितृव्यस्त्री मातुलानी मातरश्चेति षोडश ।
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च ।। 1.420.१०० ।।
तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः ।
कन्यापुत्रस्तु दौहित्रस्तत्पुत्राद्याश्च बान्धवाः ।। १०१ ।।
भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ।
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनज्ञातयः स्मृताः ।। १ ०२।।
गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः ।
गुरुकन्या च भगिनी पोष्या मातृसमा तथा ।। १०३ ।।
पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ।
पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः ।। १ ०४।।
कन्यायाः श्वशुरे चैव तत्सम्बन्धः प्रकीर्तितः ।
गुरुश्च कन्याकायाश्च भ्राता सुस्निग्धबान्धवः ।। १०५ ।।
गुरुश्वशुरभ्रातॄणां गुरुतुल्यः प्रकीर्तितः ।
बन्धुता येन सार्धं च तन्मित्रं परिकीर्तितम् ।। १ ०६।।
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ।
बान्धवो दुःखदो दैवान्निस्सम्बन्धोऽसुखप्रदः ।। १ ०७।।
सम्बन्धास्त्रिविधा लोके सर्वेषां जगतीतले ।
विद्याजो योनिजश्चापि प्रीतिजश्च प्रकीर्तितः ।। १ ०८।।
मित्रं तु प्रीतिजं ज्ञेय स सम्बन्धः सुदुर्लभः ।
मित्रमाता मित्रभार्या मातृतुल्या न संशयः ।। १ ०९।।
मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम् ।
चतुर्थो नामसम्बन्धः सर्वत्र जायते नृणाम् ।। 1.420.११० ।।
जारश्चोपपतिर्बन्धुदुष्टः संभोगकर्तरि ।
उपपत्न्यां नवज्ञा च प्रेयसी चित्तहारिणी ।। १११ ।।
स्वामितुल्यश्च जारश्च नवज्ञा गृहिणी समा ।
एवं शब्दाः प्रवृत्ताश्च द्वापरे व्यवहारजाः ।। ११ २।।
तेजीयसां न दोषाय व्यवहारा युगे युगे ।
ततः कृष्णोऽभवं रक्षाकरो द्वापरवैगमे ।। ११ ३।।।
धर्मरक्षादैत्यनाशतापसीहाकरोऽभवम् ।
कलौ धर्मा बहुक्लेशाः समजायन्त वै यदि ।। १ १४।।
गंगाद्याः सरितश्चापि तीर्थानि देवतास्तथा ।
गते चतुः सहस्रे वै वर्षाणां तु कलेर्भुवि ।। १ १५।।
यास्यन्ति दिव्यलोकं ते तदा वै कम्भरासुतः ।
कृष्णनारायणो धर्मं स्थापयिष्यति भूतले ।। १ १६।।
गोपालकृष्णपुत्रोऽसावाचार्यो भगवान् स्वयम् ।
श्रीराधापद्मिनीकान्तः कमलापार्वतीपतिः ।। १ १७।।
माणिकीशः प्रभालक्ष्मीरमानाथः परेश्वरः ।
धर्मं भागवतं लोके संस्थाप्यैष्यति वै वनम् ।। १ १८।।
ब्रह्मधाम ततो धर्मः काले याते शते शते ।
पुनर्नाशं समेष्यन्ति स्थापिता धर्मसेतवः ।। ११ ९।।
शालग्रामो हरेर्मूर्तिर्जगन्नाथः कथानकम् ।
सहस्राद्वान्तरे सर्वे यास्यन्ति श्रीहरेः पदम् ।। 1.420.१२०।।
वैष्णवाः संहिताग्रन्थाः शंखाश्च श्राद्धतर्पणम् ।
वेदोक्तानि च कर्माणि यास्यन्ति लयमित्यपि ।। १२१ ।।
हरेः पूजा हरेर्नाम तत्कीर्तिर्गुणकीर्तनम् ।
वेदशास्त्राणि धर्माश्च यास्यन्ति विलयं स्वतः ।। १ २२।।
सत्त्वं सत्यं साधुता च दिव्यता ग्राम्यदेवताः ।
व्रतं तपस्याऽनशनं यास्यन्ति श्रीहरेः पदम् ।। १२३ ।।
वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः ।
तुलसीवर्जिताः सर्वे भविष्यन्ति ततः परम् ।। १ २४।।
एकादशीविहीनाश्च सर्वधर्मविवर्जिताः ।
कृष्णप्रसंगविमुखा भविष्यन्ति ततः परम् ।। १ २५।।
शठाः क्रूरा दाम्भिकाश्च महाऽहंकारसंयुताः ।
चौराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ।। १ २६।।
पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः ।
स्वस्वामिभेदी वस्तूनां न भविष्यत्यतः परम् ।। १ २७।।
सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे ।
तर्जनैर्भर्त्सनैः शश्वत् स्वामिनं ताडयन्ति च ।। १ २८।।
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।
चेटी भृत्यासमा वध्वः श्वश्रूश्च श्वशुरस्तथा ।। १२९।।
पुंश्चल्यो राज्यकर्त्र्यश्च योनिसम्बन्धिनो नृपाः ।
कर्तारो बलिनो लोके योनिसम्बन्धिबान्धवाः ।। 1.420.१३० ।।
संभाषा नैव विद्वद्भिर्मूर्खैरान्तरमित्रता ।
सर्वकर्माऽक्षयाः पुंसो योषितामाज्ञया विना ।। १३ १।।
यज्ञसूत्रं भावलुप्तं जातेः परिचयो न च ।
म्लेच्छाचारा भविष्यन्ति सर्वे वर्णाश्रमास्तदा ।। १ ३२।।
म्लेच्छशास्त्रं पठिष्यन्ति म्लेच्छभोजनयोगिनः ।
वर्णाः सर्वे भविष्यन्ति म्लेच्छानां सेवकास्तदा ।। १ ३३।।
सूपकर्त्र्यो भविष्यन्ति म्लेच्छिकाश्चर्मकारिकाः ।
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।। १ ३४।।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ।
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।। १ ३५।।
दाम्पत्यं प्रीतिहीनं च गृहिणः सुखवर्जिताः ।
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।। १३६ ।।
जलहीना नदा नद्यो दीर्घिकाः कन्दरात्मिकाः ।
धर्महीनाः पुण्यहीना वर्णा अवर्णकास्तदा ।। १ ३७।।
लक्षेषु पुण्यवान् कोऽपि न तिष्ठति ततः परम् ।
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।। १ ३८।।
कुवार्त्ताः कुत्सितपथा भविष्यन्ति ततः परम् ।
केचिद् ग्रामाश्च नगरा नाशप्राया विदुर्गकाः ।। १ ३९।।
नरशून्याः प्रजाशून्याः स्वल्पकुटीरकान्विताः ।
अरण्यानि भविष्यन्ति गोमायूवासिताः कलौ ।। 1.420.१४० ।।
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ।
सस्यानि तु भविष्यन्ति तडागेषु नदीषु च ।। १४१ ।।
क्षेत्राणि सस्यहीनानि धनिनो द्रव्यवर्जिताः ।
चौरा धनिनः प्रकृष्टा बलदर्पसमन्विताः ।। १४२।।
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ।
अलीकवादिनो धूर्ताः शठा वै सत्यवादिनः ।। १४३ ।।
पापिनः पुण्यवन्तश्चाऽप्यशिष्टः शिष्ट एव तु ।
जितेन्द्रिया लम्पटाश्च पुंश्चल्यश्च पतिव्रताः ।। १४४।।
तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः ।
हिंसकाश्च दयायुक्ताश्चौराश्च नरघातिनः ।। १४५।।
भिक्षुवेषधरा धूर्ता निन्दन्त्युपहसन्ति च ।
देहसेवासु निपुणा जनानां मोहकास्तथा ।। १४६।।
पूजितास्ते भविष्यन्ति वञ्चका ज्ञानदुर्बलाः ।
वामना व्याधिताः शुष्का नरा नार्यश्च सर्वतः ।। १४७।।
अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे ।
धर्मः पशुसमाचारो योनिसम्बन्धमुख्यता ।। १४८।।
मातृभावोऽपि च लुप्तो भविष्यति तदा कलौ ।
पञ्चसहस्रवर्षाणां विगमे तु पुनः पुनः ।। १४९।।
अहं विप्रो भविष्यामि चमत्कारपुरे तदा ।
जन्मसिद्धो महायोगी नाम्ना बृहद्व्रतः कलौ ।। 1.420.१५० ।।
भक्तिं भगवतश्चाहं कृष्णनारायणस्य वै ।
स्थापयिष्ये लक्ष्मीनारायणसंहितया तदा ।। १५१ ।।
मदुपदिष्टवाक्यैश्च नरा यास्यन्ति मोक्षणम् ।
मनांसि सात्त्विकान्येव भविष्यन्ति ममाश्रयात् ।। १५२।
अतः परं नरा नार्यश्चाण्डालाः सर्व एव ते ।
पलिताः षोडशे वर्षे महावृद्धास्तु विंशतौ ।। १५३।।।
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ।
वत्सरान्ते प्रसूता स्त्री षोडशेन जरान्विता ।। १५४।।
एताः काश्चित् सहस्रेषु वन्ध्याश्चापि गृहे गृहे ।
कन्याविक्रयिणश्चापि स्वकन्यापतयस्तथा ।। १५५।।
मातृजायावधूनां च जारोपार्जनतत्पराः ।
कन्यानां भगिनीनां च जारोपार्जनजीविनः ।। १५६।।
हरेर्नाम्नां विक्रयिणः पुण्यविक्रयिणस्तदा ।
कीर्त्यै दानं क्षणं दत्त्वा पुनश्चापहरिष्यति ।। १५७।।
देवगुरुब्रह्मवृत्तिं प्रसह्याऽपहरिष्यति ।
कन्याश्वश्रूवधूस्वसृसपत्नीमातृगामिनः ।। १५८।।
अगम्याभ्रातृपत्न्यादिगामिनश्च कलौ युगे ।
अजागोगर्दभीमेढीहरिणीगामिनः कलौ ।। ११९।।
गवयीगरुडीशुनीमयूरीगामिनस्तथा ।
सूकरीवानरीवाजिन्यादिसंगामिनः कलौ ।। 1.420.१६ ०।।
स्वस्य नारीं परित्यज्य विहरिष्यन्ति सर्वतः ।
पत्नीनां निर्णयो नास्ति भर्तृणां च कलौ युगे ।। १६१ ।।
प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः ।
अलीकवादिनः सर्वे सर्वे चौर्यार्थलम्पटाः ।। १६२।।
परस्परं हिंसकाश्च सर्वे च नरघातिनः ।
नार्यः सर्वपशुज्ञातिनरसंगमितास्तदा ।। १६३।।
वृषलैः पालितावस्त्रशून्याश्चापि कलौ युगे ।
यज्ञसूत्रविहीनाश्च ध्यानशुद्धिविहीनकाः ।। १६४।।
पुंश्चली वार्धुषाऽबीरा कुट्टिनी च रजस्वला ।
सर्वेषां रन्धनागारे भविष्यन्ति तु पाचिकाः ।। १६५।।
अन्नानां निर्णयो नास्ति योनीनां निर्णयो न च ।
पुत्राणां निर्णयो नैव सर्वे म्लेच्छाः कलौ युगे ।। १६६।।
कलौ घोरे प्रवृत्ते तु तदन्तसमये भुवि ।
तत्र पञ्चसमा कन्या गर्भमाता भविष्यति ।। १६७।।
दशवर्षवयस्का सा वृद्धा मृत्युसमीपगा ।
नरा द्वादशवर्षाश्च मृत्युपात्राणि वै तदा ।। १६८।।
सम्पूर्णे तु कलौ याते ह्रस्वं सर्वं तदा भवेत् ।
हस्तप्रमाणे वृक्षे चाऽङ्गुष्ठमाने च मानवे ।। १६९।।
वर्षद्वयायुषः सर्वे वर्षायुषश्चतुष्पदाः ।
मासायुषो नदा नद्यो मार्जारा इव हस्तिनः ।। 1.420.१७०।।
मूषिकाऽञ्जलितृप्ताश्च भविष्यन्ति जनाः कलौ ।
मूषिकागर्भवद्बालान् जनयिष्यन्ति योषितः ।। १७१ ।।
पृथ्वीवासा वसतयो गृहादि नास्ति वै तदा ।
वृष्टिश्चाऽङ्गुष्ठपर्वा च वर्षास्वेका भविष्यति ।। १७२।।
एवं कलेः सर्वकाले विगते प्रान्तभागके ।
विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति ।। १७३ ।।
सोऽहं नारायणो लक्ष्मि! करवालं करे दधन् ।
कृष्णदत्तं श्वेतवाहं समारुह्याऽम्बरे व्रजन् ।। १७४।।
पृथ्वीं प्रदक्षिणीकृत्य त्रिरात्रेण भुवस्तलम् ।
वायुप्रमण्डलं सर्वं स्वांगस्पर्शेन वर्तुलम् ।। १७५।।
करिष्ये पावनं पश्चान्म्लेच्छान् कृत्वा सुमानसान् ।
हत्वा त्वन्यानतिदुष्टान् करिष्यामि च संस्कृतान् ।। १७६।।
कृतं संस्थापयिष्यामि सत्ययज्ञार्हमानवान् ।
कलौ गते च दुर्धर्षे संप्रवृत्ते कृते युगे ।। १७७।।
तपस्सत्यसमायुक्तो धर्मः पूर्णो भविष्यति ।
तपस्विनस्तदा विप्राः पूतास्ते वैष्णवास्ततः ।। १७८।।
कल्किशिष्याश्च धर्मिष्ठा वेदज्ञानप्रकाशिनः ।
पतिव्रतास्ततः सत्यो नार्यः पत्नीव्रता नराः ।। १७९।।
वर्णधर्माः पुनः स्थाने प्राप्स्यन्ति च प्रकाशनम् ।
यज्ञा दानानि कर्माणि लज्जा च मानवेषु वै ।। 1.420.१८०।।
विष्णुभक्तिरताः सर्वे भविष्यन्ति च वैष्णवाः ।
लेशो नास्ति ह्यधर्माणां धर्मपूर्णे कृते युगे ।। १८१ ।।
व्योमयानानि सर्वत्र दूरश्रवणशक्तयः ।
स्वर्गगमनयानानि भविष्यन्ति कृते युगे ।। १८२।।
दूरदर्शनयोगाश्च वार्धितलाभिगामिता ।
विद्युदग्निवायुरथा भविष्यन्ति कृते युगे ।। १८३ ।।
भौतिकेष्वणिमाद्याश्च सिद्धयः शक्तिरूपिकाः ।
लयनाशोद्भवकर्त्र्यो भविष्यन्ति कृते युगे ।। १८४।।
भूलोके स्वर्गलोके न भेदो भविष्यति कृते ।
नार्यो देव्य इवाऽऽभासा नरा देवाः कृते युगे ।। १८५ ।।
मन्त्रा तन्त्राश्च यन्त्राश्च सफलाश्च कृते युगे ।
प्रभाकुल्याः जलकुल्याः शब्दकुल्याः गृहे गृहे ।। १८६ ।।
अष्टषष्टिकलाग्राहाः प्रतिबिम्बग्रहानलाः ।
शारीरभेदविज्ञानं प्रसृतं स्यात् कृते युगे ।। १८७।।
गर्भाऽगर्भेच्छुनियमाः पुंस्त्रीविवर्तशक्तयः ।
मृतजीवनदानादि भविष्यन्ति कृते युगे ।। १८८।।
वानस्पत्यविधिर्दिव्यो रासायनविवर्तनः ।
द्रागेच्छापूरकः शक्तो भविष्यति कृते युगे ।। १८९।।
सञ्जीवनी महाविद्या तथाऽदृश्यप्रयोजिका ।
देवावेशादिसंचाराः भविष्यन्ति कृते युगे ।। 1.420.१ ९०।।
शक्तितत्त्वादिबोधानि भूतभौतिकजानि च ।
दिव्यमानकराण्येव यन्त्राणि स्युः कृते युगे ।। १९१ ।।
एवं संस्थाप्य भगवान् धर्मं कृतयुगं नवम् ।
स्वर्गवद् वसुधां कृत्वा चान्तर्धानं गमिष्यति ।। १ ९२।।
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः ।
कलौ प्रवृत्ते पादात्मा सर्वलोपस्ततः परम् ।। १९३ ।।
लक्ष्मि! सर्वत्र मे भक्ताः पावना विचरन्ति वै ।
तेषां पादरजःस्पर्शाद् भूः सदा तीर्थरूपिणी ।। १९४।।
नद्यो वृक्षाः पर्वताश्च मद्भक्तैः पाविताश्च ते ।
क्षालयन्ति जनानां वै पापानि तीर्थरूपिणः ।। १ ९५। ।
साधवः पुण्यदेहाश्च साध्व्यश्चापि हरिश्रिताः ।
चेतनानि हि तीर्थानि पावयन्ति दिने दिने ।। १९६ ।।
पृथिव्यां यानि तीर्थानि पापाश्च मानवादयः ।
देवा नराश्च पशवो जीवाः स्थावरजङ्गमाः ।। १ ९७।।
भविष्यन्ति च पूतास्ते मद्भक्तस्पर्शदर्शनात् ।
इति ते कथिताः साध्वि! युगधर्मा बहुप्रथाः ।। १९८ ।।
नार्यः पतिव्रता यत्र भविष्यन्ति युगे युगे ।
तत्र स्वर्गं सदा सौख्यं भविष्यति धनादिकम् ।। १ ९९।।
इति ते कथितं लक्ष्मि! प्रसंगान्मम जन्म च ।
पठनाच्छ्रवणाच्चास्य भवेद् वैकुण्ठवासभाग् ।।1.420.२००।।

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्यमहिमनि चतुर्युगधर्मनिरूपणनामा विंशत्यधिकचतुश्शततमोऽध्यायः ।। ४२० ।।