लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१९
[[लेखकः :|]]
अध्यायः ४२० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! सतीधर्मान् स्वर्गमोक्षप्रदाँस्तथा ।
सत्या धार्याः सदा स्वामिधर्माएवाऽऽदृता भुवि ।। १ ।।
व्याघ्राऽरण्ये तु सौराष्ट्रे ह्यश्वपट्टसरस्तटे ।
कुंकुमवाप्यां सृष्ट्यादौ द्विजो गोपालकृष्णकः ।। २ ।।
वनं यातस्तपस्यार्थं तदा पतिव्रता सती ।
तत्पत्नी कम्भरालक्ष्मीः स्वामिनं प्राणनमन्मुदा ।। ३ ।।
पतिः प्राह प्रियेऽरण्ये तपः कर्तुं प्रयाम्यहम् ।
त्वमत्र पर्णकुट्यां वै ऋषिकुटुम्बसन्निधौ ।। ४ ।।
वस यावत्तपस्यातो विनिवृत्तो भवामि च ।
तदाऽश्रुसंभृतनेत्रा कम्भरा सा पतिव्रता ।। ५ ।।
प्राह स्वस्वामिनं साध्वी विनयेन हितं तदा ।
ब्रह्मपुत्र! पिता माता भ्राता पुत्रस्तथा स्नुषा ।। ६ ।।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ।
भर्तुर्भाग्यं तु पत्न्येका ह्यवाप्नोति विवाहिता ।। ७ ।।
अतश्चाऽहं त्वया साकं वने चायामि सर्वथा ।
न पिता नात्मजो वात्मा न माता न सखीजनः ।। ८ ।।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा ।
यदि त्वं प्रस्थितो दुर्गं वनं तापसवासितम् ।। ९ ।।
अग्रतस्ते प्रगच्छामि मर्षित्वा कुशकण्टकान् ।
नय मां देव विस्रब्धः पापं मयि न विद्यते ।। 1.419.१ ०।।
प्रासादाग्रे विमानैर्वा वैहायसगतेन वा ।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ।। ११ ।।
सुखं वने निवत्स्यामि पत्युश्चरणमण्डिते ।
अचिन्तयन्ती त्रींल्लोकाँश्चिन्तयन्ती पतिव्रतम् ।। १२।।
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।
सह रंस्ये त्वया ब्रह्मन्! वनेषु मधुगन्धिषु ।। १३ ।।
फलमूलाशना नित्यं भविष्यामि न संशयः ।
नते दुःखं करिष्यामि निवसन्ती त्वया सदा ।। १४ ।।
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि ।
अभिषेकं करिष्यामि त्वया साकमनुव्रता ।। १५।।
व्यतिक्रमं न वेत्स्यामि स्वर्गो मे यत्र वै भवान् ।
त्वया विना महास्वर्गं नाऽहं तदपि रोचये ।। १६ ।।
स्वर्गो यत्र भवांस्तत्र त्वया विना गृहं वनम् ।
वनं चाहं गमिष्यामि दुःसहं सुसहं मम ।। १७।।
तदैवंनिश्चयां साध्वीं कम्भरां धर्मभूसुरः ।
न नेतुं कुरुते बुद्धिं वने दुःखानि संस्मरन् ।। १८।।
आह पत्नि सदा साध्वि धर्मे च निरते प्रिये ।
इहाऽऽचरस्व धर्मं त्वं यथा मे मनसः सुखम् ।। १ ९।।
वने दुःखं बहुलं वै कष्टमेव सदा वनम् ।
हिंस्राणां संगमा दुःखा दुष्टानां प्राणिनां वने ।।1.419.२० ।।
सग्राहाणि जलान्येव सपंकाः सरितस्तथा ।
स्नाने चोत्तरणे दुःखा वर्षासु च भयप्रदाः ।।२ १ ।।
मत्तगजा मत्तवन्या राक्षसाद्याश्च कष्टदाः ।
लताकण्टकपाषाणा यत्र कष्टं हि तद्वनम् ।।।२२।
सुप्यते पर्णशय्यासु रात्रिषु भूतले वने ।
कर्तव्यं तोषणं पर्णैः फलैर्दलैश्च मूलकैः ।।२३।।
उपवासोऽपि कर्तव्यो भवेद् भक्ष्यं विना क्वचित् ।
जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ।।२४।।
शीतोष्णजलयोगेन स्नानादौ कष्टदं वनम् ।
यथालब्धेन कर्तव्यः सन्तोषश्चार्द्रशुष्ककैः ।।२५।।
अतीव वातस्तिमिरं बुभुक्षा जायते सदा ।
भयान्यपि महान्त्येव जायन्ते दुःखदानि वै ।।२६ ।।
सरीसृपाश्च बहवो बहुवेषा वनेचराः ।
नदीनिलयना धूर्तास्ततो दुःखतरं वनम् ।।२७।।
मक्षिका वृश्चिकाः कीटा दंशाश्च मशका वने ।
बाधन्ते नित्यमबले! सर्वं दुःखतरं वने ।।।२८।।
द्रुमाः कण्टकिनः स्वल्पबदरीबर्बुरादयः ।
कुशाद्याः पादभेद्यारस्ततो दुःखतरं वनम् ।।२९।।
कायक्लेशाश्च बहवो भयानि विविधानि च ।
कामक्रोधौ विमोक्तव्यौ कर्तव्या तपसे मतिः ।।1.419.३ ०।।
इति गोपालकृष्णस्य श्रुत्वा तु कम्भरा सती ।
प्रसक्ताऽश्रुमुखी मन्दमिदं वचनमब्रवीत् ।।३ १ ।।
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणानित्येव तान् वेद्मि पातिव्रत्यपुरस्कृता ।।३२।।
मृगाः सिंहा गजा व्याघ्राः शार्दूलाः शरभादयः ।
चमराः सृमराश्चान्ये वन्या हिंस्राश्च मानवाः ।। ३३ ।।
क्रूरा वा विघ्नदाश्चापसर्पेयुर्ब्रह्मतेजसा ।
त्वद्वियोगेन मे कृष्ण! त्यक्तव्यं स्याद्धि जीवितम् ।।३४।।
नहि मां त्वत्समीपस्थां प्रधर्षयितुमीश्वरः ।
कश्चिदपि भवेन्नाथ! पातिव्रत्यसुरक्षिताम् ।। ३५।।
पतिहीना सती नारी न वै शक्ष्यति जीवितुम् ।
अत आज्ञाऽत्र हे नाथ! प्राप्तव्या भवतो मुखात् ।।३६।।
कृतादेशा भविष्यामि गमिष्यामि त्वया सह ।
वनवासः सदा मेऽतिरोचते सुखदो भवेत् ।।३७।।
भिक्षिण्याः शमवृत्ताया ममाऽधिकसुखं भवेत् ।
भर्तारमनुगच्छन्त्या भर्ता हि परदैवतम् ।। ३८।।
प्रेत्यभावेऽपि कल्याणः संगमो मे त्वया वने ।
विप्राण्यास्तु विशेषेण ब्राह्मणीनां सुमण्डले ।।३९।।
इह लोके पितृभिश्च या स्त्री यस्य द्विजस्य वै ।
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ।।1.419.४०।।
इति विप्र! स्वकां नारीं सुवृतां हि पतिव्रताम् ।
भक्तां च सात्त्वतीं दीनां सुसमां सुखदुःखयोः ।।४१ ।।
नेतुमर्हसि विप्रेन्द्र! समानसुखदुःखिनीम् ।
यदि मां स्वामिसंदासीं वनं नेतुं न चेच्छसि ।।४२।।
विषमग्निं जलं पाशमास्थास्ये मृत्युकारणात् ।
द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् ।।४३ ।।
सावित्रीमिव मां विद्धि वने त्वद्वशवर्तिनीम् ।
तन्मामनादाय वनं तपस्यार्थं न तेऽर्हणम् ।।४४।।
तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात् त्वया सह ।
हिंस्राश्च प्राणिनो मे स्युर्महाभागवता वने ।।४५।।
कण्टकाः कर्कराः पंकभूमयो मे सुखा वने ।
महावातादिकं सर्वं रजश्च चन्दनं वने ।।४६।।
शाद्वला भूमयो नाथ! त्वया सह सुखा मम ।
पत्रं मूलं फलं तोयं स्वल्पं चापि वने बहु ।।४७।।
दास्यसे स्वप्रसादं मे तन्मेऽमृतरसो भवेत् ।
आर्तवान्युपभुञ्जाना सेवयिष्ये पतिं सदा ।।४८।।
मत्कृते न च ते शोको न भविष्यामि शोकदा ।
यस्त्वया सह सः स्वर्गो निरयो यस्त्वया विना ।।४९।।
त्वया विना प्रमर्तव्यं वस्तव्यं वा त्वया सह ।
इति मे निर्णयः साध्व्याः प्रसन्नो भव माधव! ।।1.419.५ ०।।
वियोगं सहितुं नाथ मुहूर्तमपि नोत्सहे ।
उज्झितायास्त्वया नाथ! पश्चान्मे मरणं वरम् ।।५ १ ।।
इति श्रुत्वा प्रियावाक्यं समुवाच पतिः प्रियाम् ।
अनुगच्छस्व मां देवि! सहधर्मचरी भव ।।५२।।
सर्वथा सदृशं साध्वि! मम स्वस्य कुलस्य च ।
व्यवसायमनुक्रान्ता कान्ते! त्वमतिशोभनम् ।।५३।।
नेदानीं कंभरे! स्वर्गस्त्वदृते मेऽपि रोचते ।
कुरु वनार्थे प्रस्थानं यत्र तत्र सुमंगलम् ।।५४।।
नहि सत्या भयं किञ्चिद्वने वाऽरण्यभूभृतोः ।
यत्सृष्टाऽसि मया सार्धं धर्मार्थाय हि कंभरे ।।५५।।
न विहातुं मया शक्या पातिव्रत्यपरा प्रिया ।
धर्मः श्रेष्ठतमः कृष्णनारायणः स्वयं च मे ।।५६।।
पत्नीव्रतं परं प्राह तदंश मां चकार सः ।
तव योगेन देवेशि! नार्यो धर्मपरायणाः ।।५७।।
वन्या अपि भविष्यन्ति तापस्योऽतिपतिव्रताः ।
न सत्यं दानमानौ वा यज्ञो वाऽप्याप्तदक्षिणः ।।५८।।
तथा बलकरा यादृग्धर्मः पत्नीव्रतात्मकः ।
स्वर्गो धनं तथा धान्यं विद्याः पुत्राः सुखानि च ।।५९।।
पातिव्रत्यनुरोधेन न किञ्चिद् दुर्लभं च ते ।
देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा परान् ।।1.419.६० ।।
प्राप्नुवन्ति सतीनार्यः पतिसेवापरायणाः ।
अनुगच्छस्व मां कान्ते सहधर्मचरी भव ।।६१ ।।
इत्युक्त्वा सा महासाध्वी महालक्ष्मीस्तु कंभरा ।
ययौ स्वपतिना सार्धं सिंहाऽरण्ये तपोऽर्थतः ।।६२।।।
पत्नीव्रतो महाभागो द्विजो गोपालकृष्णकः ।
पत्न्या सह ययौ सिंहारण्ये तपःप्रसिद्धये ।।६३।।
हिरण्यायाः पूर्वतटे तपस्तेपे सुदारुणम् ।
पूर्णं वर्षसहस्रं च निराहारः सभार्यकः ।।६४।।
तदा धाम्नः स्वयं दिव्यो भगवान्पुरुषोत्तमः ।
धर्मभक्तिसहितश्च ललिताश्रीजयायुतः ।।६५।।
प्रत्यक्षं दर्शनं स्वस्य ददौ वृणु वरं जगौ ।
तदा जायापती कृष्णमूचतुर्भगवन् यदि ।।६६।।
प्रसन्नोऽसि सदा चैतादृशो वर्तस्व नौ गृहे ।
धर्मसंरक्षणं कार्यं त्वया नौ सर्वथा प्रभो ।।६७।।
प्रत्यक्षो नौ सदा कृष्ण वर्तस्व सुखदो भव ।
युगधर्मानुरूपेण मा जहीहि च नौ विभो! ।।६८।।
अहं पत्नीव्रतो विप्रश्चेयं पतिव्रता सती ।
प्रथमं सत्यकालं च विलोक्य च ततः परम् ।।६९।।
कालहासं भाविनं च योगेन च समाधिना ।
तपसा ब्रह्मचर्येण त्वदनुग्रहतस्तथा ।।1.419.७० ।।
चिन्तयामि कृपासिन्धो धर्महासो न मे यथा ।
भवेत्तथा कृपासिन्धो! प्रदेहि तपसां फलम् ।।७१ ।।
तथाऽस्त्विति तदा प्राह प्राह कालकथां तथा ।
शुश्रुवतुश्च तौ चाद्यौ दम्पती कम्भराहरी ।।७२।।।
कालभेदान् कालधर्मान् धर्म ह्रासान् जगौ हरिः ।
तदा तदा च रक्षार्थं गृह्णामि नौ सुपुत्रताम् ।७३।।।
दिव्यः सदा च वर्तिष्ये सन्निधौ युवयोरिति ।
उक्त्वाऽदृश्योऽभवत् कृष्णो स्त्रीपती वेश्म जग्मतुः ।।७४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये कम्भरालक्ष्मीगोपालकृष्णयोस्तपश्चर्यार्थयाने कम्भरायाः पातिव्रत्यबलेन सहयानं तपसि भगवद्दर्शनं युगे युगे पुत्ररूपो भविष्यामीति वरदानं चेत्यादिवर्णननामैकोनविंशत्यधिकचतुश्शततमोऽध्यायः ।।४१९ ।।