लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१८
[[लेखकः :|]]
अध्यायः ४१९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! हृदयेन कथयामि तवाऽग्रतः ।
गोप्यं नैव मया किञ्चिद् भवत्यां सर्वथा प्रिये ।। १ ।।
कृष्णनारायणश्चाऽहं भवाम्यमोघवीर्यवान् ।
पत्नीनां मे न पारोऽस्ति सर्वास्ता मे पतिव्रताः ।। २ ।।
परकल्याणकारिण्यो मयि प्रदत्तभावनाः ।
मदर्थं कृतनिर्माणा मया पूर्वं प्रकाशिताः ।। ३ ।।
अक्षरब्रह्मधामस्थाश्चाऽसंख्याः सन्ति मे प्रियाः ।
परंधामगता द्वादशसाहस्रं प्रियोत्तमाः ।। ४ ।।
काश्चिद् गोलोकवासिन्यः काश्चिद्वै द्वारपालिकाः ।
शृंगारप्रकराः काश्चित् काश्चिच्छय्योपकारिकाः ।। ५ ।।
पार्षदाण्यः प्रियाः काश्चिच्छ्रीवृन्दावनपालिकाः ।
गोवर्धननिवासिन्यः काश्चित् कुञ्जविधायकाः ।। ६ ।।
मन्निकुञ्जनिवासिन्योऽर्बुदाऽर्बुदाऽर्बुदाऽर्बुदाः ।
यमुनायूथगाः काश्चिज्जाह्नवीयूथगाः पराः ।। ७ ।।
रमायूथगताश्चान्या मधुमाधवीयूथगाः ।
विरजायूथगाश्चापि ललितायूथगास्तथा ।। ८ ।।
विशाखायूथगाश्चापि मायाया यूथगास्तथा ।
श्रुतयश्च तथा आर्ष्यो मैथिलाः कौशलास्तथा ।। ९ ।।
साकेतिन्यस्तथा सीतापुलिन्दिन्यो मम प्रियाः ।
मद्योगेन सदा दिव्याः पातिव्रत्यपरायणाः ।। 1.418.१ ०।।
तासां पूर्वजनूनां मे पत्नीनां न प्रसंख्यका ।
स्मृत्वा तुभ्यं कथयामि श्रुत्वा स्वसॄः प्रमोदसे ।। ११ ।।
श्वेतद्वीपे च मां नाथं श्रुतयस्तुष्टुवुः पुरा ।
उशतीभिर्गिराभिश्च प्रसन्नोऽहं तदाऽभवम् ।। १ २।।
वृणीत यूयं वरणं मन्मनोवाच्छितं हि वः ।
श्रुतयः प्राहुरानन्दमात्रं ते यत् स्वरूपकम् ।। १३।।
तद्दिव्यं दर्शयाऽस्माकं यदि देयो वरो हि नः ।
श्रुत्वैतद् दर्शयामास स्वं लोकं ब्रह्म चाऽक्षरम् ।। १४।।
ब्राह्मीपत्नीस्तत्र सर्वा दर्शयामास सत्पतिः ।
तन्मध्येऽक्षरधामाधिपतिः कृष्णनरायणः ।। १५।।
दर्शयित्वा च ताः प्राह ब्रूत किं करवाणि वः ।
श्रुतयश्च तदा प्राहुस्त्वयि दृष्टे मनांसि नः ।। १६ ।।
कन्दर्पकोटिलावण्ये स्मरक्षिप्तान्यसंशयम् ।
कामिनीभावनोपेता जाताः स्म स्वीकुरु प्रभो ।। १७।।
रमणं त्वां समासाद्य भजामः सफलीकुरु ।
कृष्णनारायणः प्राह दुर्घटोऽयं मनोरथः ।। १८।।
तथापि त्रिविक्रमस्य ब्रह्माण्डे यमुनातटे ।
पृथ्व्यां व्रजे मम क्षेत्रे यूयं गोप्यो भविष्यथ ।। १ ९।।
वृन्दावने भविष्यामि रासे प्रेयान् पतिर्हि वः ।
सेवित्वा कामधर्मैर्मां कृतकृत्या भविष्यथ ।।1.418.२०।।
इति ताः श्रुतयः सर्वा मम पत्न्यः पतिव्रताः ।
अथाऽपराः शृणु लक्ष्मि! रामादित्ययुगे पुरा ।।२१ ।।
रामोऽहं च यदा सीतामुवाह बलवान् युवा ।
धनुर्भंगे तथा स्वयंवरे तत्र तु मैथिलाः ।।२२।।
कोटिशश्चाययुर्नार्यो दृष्ट्वा मां मुमुहुश्च ताः ।
अन्तर्यामितया ज्ञात्वा ताभ्यः कोटिस्वरूपधृक् ।।२३।।
तदैव दर्शनं प्रतिपुरन्ध्रीं संददौ भवन् ।
ताश्च प्राहुः पुरन्ध्र्यो मां भर्ता नो भव कामद ।।२४।।
मया रामेण ताश्चोक्ताः समाचरत मत्कृते ।
तीर्थं दानं तपः कृच्छ्रं जपं संस्मरणं मुहुः ।।२५।।
श्रद्धया परया भक्त्या ततोऽहं द्वापरोत्तरे ।
कृष्णनारायणः कान्तो भवतीनां मनोरथान् ।।२६।।
पतिर्भूत्वा पूरयिष्ये व्रजे गोप्यो भविष्यथ ।
सेवित्वा कामधर्मैर्मां कृतकृत्या भविष्यथ ।।२७।।
अथाऽहं तां सतीं सीतां नीत्वा जित्वा च भार्गवम् ।
कोसलान् प्रययौ मार्गे कोसला योषितश्च माम् ।।२८।।
युवानं सुन्दरं दृष्ट्वा मनोभिर्वव्रिरे पतिम् ।
ताभ्यो मे दिव्यसंस्पर्शं दत्त्वा कोटिस्वरूपधृक् ।।२९।।
वरं च दत्तवान् वोऽहं पूरयिष्ये मनोरथान् ।
जपं कृत्वा मम भक्त्या व्रजे गोप्यो भविष्यथ ।।1.418.३०।।
सेवित्वा कामधर्मैर्मां कृतकृत्या भविष्यथ ।
अथ साकेतपुर्यां तं दृष्ट्वा साकेतयोषितः ।।३ १।।
तत्क्षणं मोहमापन्नास्तपश्चेरुर्धृतव्रताः ।
रामप्राप्तिर्भवेत् कान्तस्वरूपेणेति निश्चिताः ।।३२।।
ताश्च रामो व्योमवाण्या प्राह युष्मन्मनोरथाः ।
सत्यः पूर्णा भविष्यन्ति द्वापरान्ते यमीतटे ।।३३।।
संसेव्य कामधर्मैर्मां कृतकृत्या भविष्यथ ।
अथाऽह रामरूपेण वनं यातो यदा प्रिये! ।।३४।।
दण्डकारण्यगोप्यश्च मुमुहुर्मयि कामतः ।
किरात्यो वननार्यो मां मुमुहुर्वव्रिरे पतिम् ।।३५।।
मया ताभ्यो वरो दत्तो द्वापरान्ते भविष्यथ ।
गोप्यो मनोरथान् कामं पूरयिष्ये पतिर्हि वः ।।३६।।
अथाऽह रामरूपो वै ययौ पञ्चवटीं ततः ।
मद्दर्शनस्मररुजः पुलिन्द्यः प्रेमविह्वलाः ।।३७।।
रामपादरजो धृत्वाऽऽश्लिष्टं रामं समाययुः ।
रामः पत्नीव्रतं स्वस्य प्राह ता भग्नमानसाः ।।३८।।
बभूवुश्च पुनः प्राह वृन्दावने मनोरथाः ।
द्वापरान्ते भवितारो वः प्रपूर्णाः प्रिये मयि ।।३९।।
संसेव्य कामधर्मैर्मां कृतकृत्या भविष्यथ ।
अथ रामं रावणस्य द्वीपे दृष्ट्वा द्विजांगनाः ।।1.418.४०।।
मुमुहुर्भक्तिमत्यश्च वव्रिरे मनसा च ताः ।
ताभ्यो ददौ तदा स्वप्ने दर्शनं समुवाच ताः ।।४१ ।।
करिष्ये यमुनातीरे कान्तरूपेण सर्वथा ।
मनोरथो भवतीनां कामानन्दप्रदस्तदा ।।४२।।
सेवित्वा कामधर्मैर्मां कृतकृत्या भविष्यथ ।
अथ साकेतपुर्यां सः समागत्य मखान् बहून् ।।४३।।
चकार तत्र चायाता नार्यो देशविदेशतः ।
ताश्च रामं समालोक्य वव्रिरे मानसं पतिम् ।।४४।।
ताभ्यस्तदा वरं रामो ददौ च गोकुले प्रियाः ।
भविष्यथ मम सर्वाः पूरयिष्ये मनोरथान् ।।४५।।
संसेव्य कामधर्मैर्मा कृतकृत्या भविष्यथ ।
अथ सीतापरित्यागोत्तरं यज्ञेषु कानकी ।।४६ ।।
प्रतियज्ञं कृता तासां समूहोऽभूद् हरिगृहे ।
ताश्चैतन्यघना भूत्वा रन्तुं रामं समागताः ।।४७।।
राम आह न गृह्णामि ह्येकपत्नीव्रतोऽस्म्यहम् ।
तदोचुस्ताः कथं नाथ न गृह्णासि तवाऽङ्गनाः ।।४८।।
अर्धागीर्यज्ञकालेषु सततं कार्यसाधिकाः ।
करं गृहीत्वा त्यजसि ततः पापमवाप्स्यसि ।।४९।।
रामः प्राह तदा सत्यस्वरूपा मम कामिनी ।
सीता चैका न चान्या वै तच्छाया यूयमेव ह ।।।1.418.५०।।
ततो युष्मन्मनोभावं पूरयिष्येऽन्यजन्मनि ।
द्वापरान्ते यमुनाया वृन्दावने भविष्यथ ।।।५१ ।।
इति ता गोपिका जाता यज्ञसीश्च मे प्रिया ।
अथ लक्ष्मि! शृणु चान्या मत्पत्नीः पारलौकिकीः ।।५२।।
रमा वैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ।
ऊर्ध्ववैकुण्ठवासिन्यस्तथाऽजितपदाश्रिताः ।।५३ ।।
श्रीलोकाचलवासिन्यः श्रीसख्योऽपि समुद्रजाः ।
ताश्च गोप्यो भविष्यन्ति व्रजे मम प्रियाः खलु ।।५४।।
अथाऽन्या देवताः सर्वा वृन्दावने समागताः ।
मम पत्न्यश्च ता जाताः कोट्यर्बुदप्रसंख्यकाः ।।५५।।
ओषध्यो वल्लिका सर्वास्तपस्तेपुर्यमीतटे ।
ताश्च मोहं गता नार्यो भूत्वा रासे समाययुः । ।५६ ।।
कामधर्मेण ताः सर्वाः कृतकृत्यास्तदाऽभवन् ।
जालन्धर्यश्च प्रमदा वृन्दापतिं च मां तदा ।।५७।।
विलोक्य वव्रिरे कान्तं विष्णुः प्राह तदा च ताः ।
वृन्दारण्ये स्त्रियो भूत्वा मां भजिष्यथ मत्प्रियाः ।।।।५८।।
समुद्रकन्याः श्रीमत्स्यं हरिं दृष्ट्वा विमोहिताः ।
श्रीमत्स्यवरदानात्ता गोप्यो जाता मम प्रियाः ।।५९।।
पृथोः राज्ये पृथुं मां च दृष्ट्वा या मुमुहुः स्त्रियः ।
ता दुदुहुः पतिं कृष्णं भुवो गोप्योऽभवन् प्रियाः ।।1.418.६ ० ।।
कामसेनामोहनार्थ नारायणाज्ञया च याः ।
नरेणोरोः प्रकटिता दिव्या या अप्सरोगणाः ।।६ १ ।।
नारायणं वरं दृष्ट्वा ताश्च मुमुहिरे तदा ।
हरिः प्राह यमुनायास्तटे गोप्यो भविष्यथ ।।६ २ ।।
सेवित्वा काम धर्मैर्मां कृतकृत्या भविष्यथ ।
स्त्रियः सुतललोकस्था वामनं वीक्ष्य मोहिताः ।।६३।
ताश्च तस्माद् वरं प्राप्य गोप्यो यमीतटेऽभवन् ।
नागेन्द्रकन्यकाः कृष्णं दृष्ट्वा भक्त्या वरेच्छया ।।६४।
प्रार्थयामासुरत्यर्थं ताश्च गोप्यो यमीतटे ।
कामधर्मेण संसेव्य कृतकृत्या मम स्त्रियः ।।६५।
अन्यदत्तकपिलादौ ब्रह्मचारिणमेव माम् ।
दृष्ट्वा या मुमुहुस्ताश्च धर्मपत्न्यश्च मेऽभवन् ।।६६ ।
कृष्णनारायणपत्न्यः साध्व्यः सर्वाः पतिव्रताः ।
कृष्णनारायणयोगाद् दिव्या राधा रमा इव ।।६७।
पातिव्रत्यपरा नित्यं मम धर्मं समाश्रिताः ।
अर्बुदाऽर्बुदकोट्यब्जाऽर्बुदाऽर्बुदाऽब्जकोटयः ।।६८।।
पतिव्रतानां पत्नीनां मम सन्ति प्रिये सदा ।
अण्डानि चाऽसंख्यकानि वैराजरोमकूपके ।।६९
भवन्ति तत्र प्रत्यण्डं ब्रह्मविष्णुमहेश्वराः ।
मत्स्वरूपा नियुक्ता वै तथा ब्रह्माण्डकोटिषु ।।1.418.७०।।
तत्र प्रत्येकलक्ष्म्यश्च कोटिशः सन्ति मे प्रियाः ।
पश्य दिव्यां परां दृष्टिं ददामि तेऽत्र पद्मजे! ।।७१ ।।
इति तस्यै महादिव्याऽर्पिता दृष्टिश्च विष्णुना ।
तावद् विलोकयामास कृष्णनारायणं पतिम् ।। ७२।।
प्रत्यण्डं श्रीपतिं लक्ष्मीपतिं रमापतिं प्रियम् ।
पार्वतीस्वामिनं प्रभापतिं श्रीमाणिकीपतिम् ।।७३।।
राधापतिं हरिं पद्मास्वामिनं कम्भरापतिम् ।
पद्मावतीपतिं सर्वसतीशं रुक्मिणीपतिम् ।।७४।।
मायापतिं प्रभुं नारायणीशं वैष्णवीपतिम् ।
यतिनीशं सांख्ययोगिनीपतिं कन्यकापतिम् ।।७५।।
श्रुतिपतिं महाराजं कृष्णं दृष्ट्वा मुमोद सा ।
शीघ्रं दृष्टिं परावृत्य पतिता कृष्णपादयोः ।।७६ ।।
कोटिसतीविलोक्यैव माहात्म्यं स्वामिनो ह्यवैत् ।
श्रवणात्पठनाच्चास्य कृष्णदास्यमवाप्नुयात् ।।७७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये श्रीकृष्णनारायणस्याऽसंख्यपतिव्रतापत्नीनां
निर्देशनामाऽष्टादशाधिकचतुश्शततमोऽध्यायः ।।४१८।।