लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१६
[[लेखकः :|]]
अध्यायः ४१७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पतिप्राप्तिकरान् धर्मान् महोत्तमान् ।
पतिः कृष्णसमो यैश्च पालितैः प्राप्यते स्त्रिया ।। १ ।।
अनन्तः कद्रुपुत्रो यः कश्यपात् संबभूव ह ।
नागलक्ष्मीस्तस्य पत्नी पतिव्रता बभूव सा ।। २ ।।
अनन्तः स्वफणाग्रे च दधार भूमिमण्डलम् ।
नागलक्ष्मीरनन्तं वै पतिं पप्रच्छ सादरम् ।। ३ ।।
भगवन् भवता पृथ्व्यां गन्तव्यं विष्णुना सह ।
भविष्यति यदा तत्र मया स्थेयं त्वया सह ।। ४ ।।
केन रूपेण च कुत्र वद मे करुणानिधे! ।
अनन्तश्च तदा प्राह प्रियायै स्वश्रियै तदा ।। ५ ।।
रेवत्यां वै त्वया स्थेयं पातिव्रत्येन सुन्दरि! ।
सा चासीत् प्राग्भवे ज्योतिष्मतीनाम्नी सुकन्यका ।। ६ ।।
चाक्षुषस्य मनोः पुत्री यज्ञकुण्डसमुद्भवा ।
जातमात्रा मानसी सा जातिस्मरा बभूव ह ।। ७ ।।
वेदज्ञाना यज्ञफलं सुद्युम्नभगिनी शुभा ।
वरारोहा जातमात्रयुवती वरवर्णिनी ।। ८ ।।
एकदा चाक्षुषः पुत्रीं पप्रच्छ कीदृशं पतिम् ।
इच्छसीति वद पुत्रि तथा यत्नं करोमि वै ।। ९ ।।
सा तदोवाच सर्वेषां बलवान् मे वरो भवेत् ।
तच्छ्रुत्वा चाक्षुषश्चेन्द्रं ज्ञात्वा बलातिशायिनम् ।। 1.416.१० ।।
बलिबलिष्ठं निकटे तमाजुहाव सादरम् ।
सद्यः समागतं चाग्रे स्थितं वज्रिणमाह सः ।। ११ ।।
जानाम्यहं बलिष्ठं त्वां त्वत्तश्चेदस्ति मे वद ।
इन्द्रः प्राहाऽनिलो मत्तो बलवानस्ति चाक्षुष! ।। १ २।।
यत्सहायेन कार्याणि करोमि दुर्जयान्यपि ।
इत्युक्त्वा सत्कृतिं लब्ध्वा ययाविन्द्रो निजगृहम् ।। १३ ।।
चाक्षुषश्च ततो वायुमाजुहावाऽऽह तत्तथा ।
त्वां जानामि बलिष्ठोऽहं त्वत्तश्चेदपरो वद ।। १४।।
वायुः प्राहाऽद्रयो मत्तो बलिष्ठाः सन्ति चाक्षुष! ।
इत्युक्त्वा सत्कृतिं नीत्वा ययौ वायुर्निजगृहम् ।। १५।।
गते वायौ चाक्षुषः पर्वतान् तत्राऽऽजुहाव ह ।
पप्रच्छ भवतः सर्वबलिष्ठान् गणयामि वै ।। १६।।
यदि चान्यो बलिष्ठश्चेद् भवद्भ्यो वदतात्र मे ।
अद्रयश्च तदा प्राहुः पृथ्वीखण्डो बलाधिकः ।। १७।।
अस्मभ्यो वर्तते यत्र स्थिता धृता वयं सदा ।
इत्युक्त्वा सत्कृतिं प्राप्य गता वै पर्वतास्ततः ।। १८।।
भूखण्डं चाक्षुषः समाहूय पप्रच्छ तान्नृपः ।
जानाम्यहं बलवन्तं त्वामेव नापरं तथा ।। १ ९।।
यद्यस्ति चेद् वद् खण्ड! बलवान् लोकविश्रुतः ।
इत्युक्तः खण्ड एवाऽऽह राजन् मत्तो बलेऽधिकः ।। 1.416.२०।।
वर्तते भगवान् संकर्षणो ब्रह्माण्डधारकः ।
अनन्तगुणवान् विष्णोरंशः सहस्रभोगवान् ।।२१ ।।
भव्यः शुक्लप्रकाशश्च सूर्यभासो युवा बली ।
कोटिकन्दर्पलावण्यः कमलाक्षः शुभाननः ।।२२।।
वनमालाधरो विद्याधरगन्धर्वकीर्तितः ।
सिद्धचारणसाध्यादिध्यायमानपदाम्बुजः ।। २३ ।।
यन्नाम्ना पापराश्यादिर्लीयते मुक्तिराप्यते ।
एवं प्रभावो भगवान् सर्वकारणकारणः ।।२४।।
कृष्णनारायणः साक्षान्न न्यूनस्तत्स्वरूपकः ।
दुरन्तवीर्यः सर्वेशो रसामूले प्रतिष्ठति ।।२५।।
इत्युक्त्वा स गतः खण्डश्चाक्षुषः प्राह कन्यकाम् ।
पुत्रि बलवतां मूर्ध्नि पदं निधाय राजते ।।२६।।
अनन्तः शेष एवास्ति यन्मूर्ध्नि चाऽण्डकोटयः ।
त्वदर्थं निश्चितः स्वामी विना तपो न लभ्यते ।।२७।।
यदीच्छा ते फलवती फलार्थं कुरु साधनम् ।
इत्यादिष्टा तु सा पित्रा विन्ध्याचलमियाय सा ।।२८।।
चाक्षुषाज्ञाप्लाविता सा तपस्तेपेऽतिदारुणम् ।
वर्षलक्षं तपस्येव वर्तमाना पतिव्रता ।।२९।।
ग्रीष्मे पञ्चाग्नितप्ता सा वर्षास्वासारधारिणी ।
आकण्ठं शिशिरे चाप्सु मग्ना स्थण्डिलशायिनी ।।1.416.३ ०।।
निराहारा वनदेवी चैकलाऽरण्यवासिनी ।
अथाऽस्यै तु समाजग्मुः सेवार्थं वनदेवताः ।।३ १ ।।
राम कृष्ण राम कृष्ण जपन्त्यै परितः स्थिताः ।
ददुः पर्णानि शुष्काणि फलानि सात्त्विकानि च ।।३२।।
कन्दानि मूलपत्राणि जगृहे सा क्वचित् क्वचित् ।
यथायोग्यं यथाग्राह्यं तपोविघ्नं च नो भवेत् ।।३३ ।।
तथा तथाऽर्धलक्षं तु वर्षाणां निर्गतं ततः ।
जलाहारा ह्यभूत् साध्वी बाष्पाहारा ततः पुनः ।।३४।।
प्राणाहारा ततो जाता ब्रह्मरन्ध्रगता ततः ।
वल्मीकस्तच्छरीराग्रे जातो वंशादिशोभितः ।।३५।।
पिपीलिका शरीरे च छिद्रं कृत्वाऽवसन् मुदा ।
ब्रह्ममयी ब्रह्मतनुर्ब्रह्मरूपे विवर्तिनी ।।३६।।
दिव्या द्वन्द्वविहीना सा ह्यभवन् बललब्धये ।
अथैकदा समायातास्तपसा धैर्यवर्जिताः ।।३७।।
देवाः शक्रयमसूर्यवरुणाऽग्निधनाऽधिपाः ।
सोममंगलगुरवो बुधशुक्रशनिश्चराः ।।३८।।
परीक्षार्थं समायाता यत्र सा तपसि स्थिता ।
प्रोचुः का त्वं कथं चैतत् कस्यार्थं कुरुषे तपः ।।३९।।
नास्ति योग्या तपः कर्तुं मृद्वि! वद किमर्थितम् ।
दास्यामहे वयं सर्वं श्रुत्वेत्थमाह सुन्दरी ।।1.416.४०।।
सहस्रवदनोऽनन्तो भूयाद् भर्ता ममेति वै ।
तपस्तपामि तस्यार्थं श्रुत्वा ते जहसुस्तदा ।।४१ ।।
इन्द्रः प्राह सतीं पूर्वं ज्योतिष्मतीं तु कन्यकाम् ।
सर्पराजं वरं कर्तुं किं वृथा तपसे शुभे ।।४२।।
सुरराजं स्वतःप्राप्तं मां वरय शतक्रतुम् ।
दास्ये भोगान् सर्वश्रेष्ठान् गृहाण तपसः फलम् ।।४३।।
यमः प्राह महाराजं दण्डनेतारमेव माम् ।
वरय त्रिजगदीशं पितृलोकेश्वरी भव ।।४४।।
सर्वोत्तमा मम पत्नी भविष्यसि सदा प्रिया ।
सूर्यः प्राह जगच्चक्षुरहं चाक्षुषजे सति! ।।४५।।
प्रभापूज्या भव स्वर्गभूषणं वर मां शुभे ।
हिरण्यवर्णा सुघटा दिव्या भविष्यसि स्वयम् ।।४६ ।।
वरुणः प्राह लोकेशं वर मां पाशधारिणम् ।
वैभवान् साप्तसामुद्रान् भुंक्ष्व यादोगणेश्वरी ।।४७।।
अग्निः प्राह सर्वयज्ञदेवविप्राननेष्वहम् ।
वसामि स्वर्णवर्णोऽस्म्यप्रधृष्योऽर्च्यो महाबलः ।।४८।।
युवानं कामपूरं मां भज स्वाहोत्तमा भव ।
कुबेरः प्राह कल्याणि! निधीशं राजराजकम् ।।४९।।
भोगसौख्याऽम्बरभूषाऽऽनन्दवार्धि भजाऽद्य माम् ।
धनेश्वरीं करिष्यामि देहि दानानि सर्वदा ।।1.416.५० ।।
सोमः प्राहाऽमृतं भुंक्ष्वौषधीर्भुंक्ष्व नवोत्तमाः ।
कामिनीबलदोऽहं वै सुधाकारः समुज्ज्वलः ।।५१ ।।
द्विजराजं भज नक्षत्रेशं मां रोहिणीपतिम् ।
आद्या भव महाराज्ञी सप्तविंशतिपूजिता ।।५२।।
मंगलश्चाह रक्तोऽस्मि रक्ता त्वं बलिनि ध्रुवे ।
पुष्टेऽतस्त्वं भज मां श्रीलक्ष्मीतुल्या भव प्रिया ।।५३ ।।
माता वसुन्धरा मेऽस्ति पिता साक्षात् सदाशिवः ।
मंगलानि च सर्वाणि भुंक्ष्व भूत्वा मम प्रिया ।।५४।।
गुरुः प्राह सुराऽर्च्योऽहं देवीनां पूज्यतां व्रज ।
सुराचार्थस्य पत्नीत्वे स्वर्गानन्दानवाप्नुहि ।।५५।।
सर्वविद्यामयश्चास्मि भज मां मन्यसे शुभे ।
बुधः प्राह सदा पुष्टो युवाऽस्म्येव बलोर्जितः ।।५६।।
मां परिगृह्य कामेशी रमस्व त्वं मया सह ।
भुंक्ष्व भोगान्मम दिव्यान् कामिनीरसवेदिनः ।।५७।।
शुक्रः प्राह महाकाव्यो भार्गवो जीवनप्रदः ।
सञ्जीवन्यादिसद्विद्यावेत्ता कामवपुर्धरः ।।५८।।
अस्म्यहं चातितेजस्वी सर्वयौवनगर्वितः ।
सर्वसिद्धिसर्वकायाकल्पादिज्ञानवानहम् ।।५९।।
यस्य दैत्या दानवाश्च वशे वसन्ति सर्वदा ।
बृहस्पत्यादयश्चान्ये महेन्द्राद्या अपीश्वराः ।।1.416.६ ० ।।
मद्भयान्मम सेवायां वर्तन्ते भव मे प्रिया ।
शनिः प्राह महाप्राज्ञः सर्वभाग्यकरोऽस्म्यहम् ।।६ १ ।।
लोकभस्मीकरश्चास्मि व्योमराज्यकरः सदा ।
देवोपरि स्थितश्चास्मि स्मृद्धयो मेऽप्यसंख्यकाः ।।६२।।
भुंक्ष्व भोगान् भव पत्नी दानवीनां महेश्वरी ।
स्वर्गं तव करे दास्ये यावच्चन्द्रदिवाकरौ ।।६३।।
इत्युपादिदिशुः सर्वे श्रुत्वा ज्योतिष्मती सती ।
अस्थाने याचनादासान् रोषताम्रेक्षणा क्षणम् ।।६४।।
समुवाच च तान्सर्वान् स्मृत्वाऽनन्तं प्रतिव्रता ।
यूयं सर्वे पूजनीया देवा देववरा यतः ।।६५।।
नोपालम्भस्य विषया मम नार्याः सुरेश्वराः ।
अनन्तं वै वरं श्रेष्ठं समिच्छामि न चापरम् ।।६६ ।।
अत्रैवं निश्चिते देवा मा विघ्नार्था भवन्तु मे ।
नारी तपस्विनी साध्वी वर्धनीयाऽऽशिषा सुरैः ।।६७।।
विपरीतं न वै योग्यं गन्तव्यं स्वाश्रमान् प्रति ।
वन्दे वश्चरणौ देवाश्चाक्षुषी कन्यका ह्यहम् ।।६८।।
श्रुत्वा तस्यास्तथावाक्यं जहसुस्ते परस्परम् ।
तदा ज्योतिष्मती ज्ञात्वा नर्मयुक्तान् हि तान् सुरान् ।।६९।।
शशाप नर्मभावस्थान् स्त्रीजनैर्हास्यपात्रताम् ।
यान्त्वचिरेण लोकेऽस्मिन् स्त्रीनिमित्तसुदुःखिताः ।।1.416.७०।।
तावत् त्रासं गताः सर्वे ववन्दिरे सतीं मुहुः ।
प्रसाद्य शापनिर्वाणं कालान्तरे भवेदिति ।।७१ ।।
वचनं ते समासाद्य क्षणं मौनं स्थिताः सुराः ।
तस्याः शापेन सूर्यस्य संज्ञाऽभूत् तुरगी यदा ।।७२।।
सूर्यः पत्नीवियोगेन प्राप्त्यर्थं तुरगोऽभवत् ।
इन्द्रो गौतमभार्यायां लोभेन गर्हणां गतः ।।७३ ।।
शच्या वियोगिता प्राप्तो बहुवारं परार्दितः ।
यमो निरयक्षेत्रेशो गर्ह्यते नारकैः सदा ।।७४।।
वरुणः स्त्रीजनैः स्नाने विवस्त्रैरपमान्यते ।
अग्निर्नारीजनैश्चूल्ल्यां फुत्कारैरवमन्यते ।।७५।।
कुबेरो राक्षसीभिश्च ताडितश्च विवासितः ।
चन्द्रस्ताराऽभिलाषः सन् गर्हणां प्राप्त एव सः ।।७६।।
मंगलो वानरास्यो वै वानरीनिन्दितोऽभवत् ।
बृहस्पतिस्तारया गर्हितो निर्बल उच्यते ।।७७।।
बुधः स्त्रीभिः शुभे कार्ये न गृह्यते स निन्दितः ।
शुक्रो योन्यां धृतो शंभूत्पादितकृत्यया युधि ।।७८।।
शनिर्नारी स्वयं जातो हनुमत्पदमर्दितः ।
एवं ते शापयोगेन कालेन गर्हणां गताः ।।७९।।
नर्मफलं नर्मभावे प्राप्त कल्पान्तरे तु तैः ।
तत्तद्भावैर्विनिर्युक्ता भविष्यन्ति यथास्थिताः ।।1.416.८०।।
अथ ज्योतिष्मतीं स्वस्थां वल्मीकाऽन्तःस्थितां सुराः ।
शेपुः प्राप्यापि कान्तं त्वमनपत्या भविष्यसि ।।८ १ ।।
सा च तेपे तपश्चोग्रं ब्रह्मा हंसेन चाययौ ।
ब्रह्मविद्भिर्ब्राह्मणैश्च मरीच्यादिभिरन्वितः ।।८२।।
व्योम्नि स्थित्वाऽऽह तां ज्योतिष्मति! चाक्षुषकन्यके! ।
सफलं ते तपः कर्तुं समायातोऽस्मि विश्वसृट् ।।८३ ।।
प्रसन्नोऽस्मि वरं ब्रूहि सिद्धाऽसि तपसा सुते! ।
श्रुत्वाऽऽकण्ठजलात् सा निर्गत्याऽजं प्रणिपत्य च ।।८४।।
स्तुत्वा कृताञ्जलिः प्राह प्रसन्नोऽसि किलेह मे ।
सहस्रवदनोऽनन्तः संकर्षणः पतिर्मम ।।८५।।
भूयादिति वरं देहीत्यर्थयामि ध्रुवं वरम् ।
इति श्रुत्वा प्रत्युवाच दुर्लभस्ते मनोरथः ।।८६ ।।
तथापि तं करिष्यामि परिपूर्णं मनोरथम् ।
वैवस्वतमनोः सप्तविंशतिद्वापरान्तके ।।८७।।
पुत्रि! तव वरः संकर्षणोऽनन्तो भविष्यति ।
ज्योतिष्मती च तच्छ्रुत्वा ब्रह्माणमवदत् सती ।।८८।।
देवदेव! महान् कालः कथं नेयो हि योषिता ।
शीघ्रं मनोरथो भूयादिति मेऽनुग्रहं कुरु ।।८९।।
इति श्रुत्वा क्षणं ब्रह्मा विचार्याऽऽह तपस्विनीम् ।
भवाऽद्य त्वं कुशस्थल्यामानर्तनृपतेः सुता ।।1.416.९०।।
रेवतस्य सुता नाम्ना रेवती कन्यका भव ।
त्वां समादाय च सत्यं लोकं ते जनकः सुते! ।।९१ ।।
योग्यकान्तस्य लब्ध्यर्थं यदा समागमिष्यति ।
त्रिनवद्वापरकालः क्षणवत्ते गमिष्यति ।।९२।।
इति तस्यै वरं दत्वा तत्रैवाऽन्तरधीयत ।
अथ साऽप्यानर्तदेशे कुशस्थलीपतेर्गृहे ।।९३।।
तद्भार्यायां जन्म लेभे ज्योतिष्मती हि रेवती ।
रूपसौन्दर्यसम्पन्ना कन्यका ववृधे सती ।।९४।।
विवाहयोग्यां सम्पन्नां पप्रच्छ रेवतः सुताम् ।
इच्छसि कीदृशं कान्तं वद पुत्रि! करोमि तत् ।।९५।।
रेवती सा तदोवाच बलवान् मे वरो भवेत् ।
श्रुत्वा राजा सभार्यः सकन्यो दिव्यरथेन वै ।।९६।।
प्रष्टुं दीर्घायुषं सर्वातिशायिबलिनां वरम् ।
ब्रह्माणं सत्यलोकं स ययौ तत्र स्थितः क्षणम् ।।९७।।
क्षणमात्रेण कालेन त्रिनवद्वापरा भुवि ।
व्यतीतास्तव कन्यार्थः शेषोऽनन्तोऽद्य वर्तते ।।९८।।
श्रीकृष्णस्याऽग्रजस्तस्मै देहि कन्यां बलाय वै ।
रेवत्यां साऽऽवेशरूपा ज्योतिष्मती सदाऽभवत् ।।९९।।
संकर्षणं नागलक्ष्मीः पतिं प्राप्य हि रेवती ।
ज्योतिष्मती दिव्यरूपा सदाऽवर्तत सा सती ।। 1.416.१० ०।।
यत्पिता वृषककुदि तिष्ठन् जिग्ये भुवस्तलम् ।
ककुद्मी तेन नाम्ना सः ख्यातोऽभूत् पृथिवीतले ।। १०१ ।।
पातिव्रत्यपरा लक्ष्मि! कथिता ते तपस्विनी ।
पठनाच्छ्रवणाच्चास्य पातिव्रत्यफलं भवेत् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये नागलक्ष्म्या ज्योतिष्मत्यास्तपसा पातिव्रत्यपरायणाया देवव्रातैः प्रलोभिताया अपि रेवतीरूपाया बलदेवेनैव विवाहिताया वृत्तान्ते शापप्रतापादिकथननामा षोडशाऽधिकचतुश्शततमोऽध्यायः ।। ४१६ ।।