लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१५
[[लेखकः :|]]
अध्यायः ४१६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयित्वा तृप्तिं नैमि पुनः पुनः ।
कारणं तव श्रद्धाऽत्र कथयामि शृणु प्रिये ।। १ ।।
पातिव्रत्यान् महाधर्मान् पालयित्वा सतीस्त्रियः ।
तदन्याश्च ध्रुवां मुक्तिं समीयुर्नात्र संशयः ।। २ ।।
अनित्यानि तु सौख्यानि भवन्ति च बहून्यपि ।
नित्यं सौख्यं न तेष्वस्ति विना सेवां हरेः क्वचित् ।। ३ ।।
सार्वभौमसुखं यद्वा वैराजं सुखमित्यपि ।
अन्यत् किञ्चिदैश्वरं च सान्तं नेष्टव्यमेव तु ।। ४ ।।
ग्रावा हि भिद्यते लोहैर्हीरको नैव भिद्यते ।
पतिभक्तिर्हरेभक्तिर्भिद्यते नैव केनचित् ।। ५ ।।
बको जलचरान् भुंक्ते मण्डुकादींश्च वर्जयन् ।
तथा यमः सर्वहन्ता वर्जयेत् कृष्णसेवकान् ।। ६ ।।
प्रातः सदा पतिं नत्वा वक्तव्यं कृष्णसन्निधौ ।
अपराधशतैर्युक्तां स्वस्थाने नय दासिकाम् ।। ७ ।।
अज्ञातपातिव्रत्यायाः कृष्ण त्वं च कृपां कुरु ।
सत्यपि द्वारपाले वै यदि स्वामी समीहते ।। ८ ।।
यथाकथञ्चित् कृत्वैव दद्यात् स्नेहाधिकारिणे ।
फलं तल्लभते साध्वी नान्तःस्थाप्यपतिव्रता ।। ९ ।।
एवं नाथ शरीरेऽस्मिन् दुरस्थामपि सेविकाम् ।
बाह्यामपि प्ररक्ष्यैव चान्तिकस्थां कुरु प्रभो ।। 1.415.१० ।।
अन्या मुक्तिं न वै प्राप्ता कुब्जिका तारिता त्वया ।
ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपिकागृहे ।। ११ ।।
गोपाः प्रसादमाभुक्त्वा ब्रह्मलोकं गतास्तव ।
तथा प्रसादं मे दत्वा तारय त्वत्पदं नय ।। १२।।।
पत्यन्वयं श्रीपतिं त्वां यथा प्राप्नोमि केशव ।
प्रसन्नश्च यथा स्यास्त्वं तथा मां शरणे कुरु ।। १३ ।।
बदर्याः कण्टकौ यद्वद् वक्रः सरल इत्युभौ ।
वक्रो वस्त्रादिकं धृत्वा निरोधयति गामिनम् ।। १४।।
सरलश्चर्मणि वेधं कृत्वा दह्यति देहिनम् ।
वक्रो नारायणो देहे सरलः केवलः पतिः ।। १५।।
विना नारायणं स्वामी दाहको विषयादिभिः ।
स एव कृष्ण संयुक्तो रोधको मुक्तिदः प्रिये! ।। १६।।
यथा मनाग् वह्नियोगः स्वर्णादेस्तापको भवेत् ।
अत्यन्तानलसंयोगः शोधको द्रावको भवेत् ।। १७।।
तथा केवलपत्यादेर्योगो विषयतापकृत् ।
स एव श्रीकृष्णमहानलयोगो विमुक्तिदः ।। १८ ।।
यथा यन्त्रं विना तस्य वाहकं स्यान्निरर्थकम् ।
तथा पत्यात्मकं यन्त्रं कृष्णं विना निरर्थकम् ।।१ ९।।
यथा केशं विना कन्या दर्शकस्य न शान्तिदा ।
तथा कृष्णं विना स्वामी सत्यै नो शाश्वतप्रदः ।।।1.415.२०।।
यथा मृगो वने तिष्ठन् मण्डलं न जहाति वै ।
तथा मृगी स्थिता पत्यौ जह्यान्नान्तःस्थितं हरिम् ।।२१ ।।
यथा सिंहो वने गच्छन् मुहुः पश्यति पृष्ठतः ।
तथा सिंह्या गृहे यान्त्या पत्यौ दृश्यो हरिः सदा ।।२२।।
यथा पूर्णा नदी निम्नानिम्ने देशे प्रयाति च ।
पतिव्रताधर्मपूर्णा पत्यौ कृष्णे प्रयाति च ।।२३ ।।
मेघो व्योम्नि सदा याति जलं मुञ्चत्यधःस्थले ।
सती पत्यौ सदा तिष्ठेत् स्निह्येदन्तःस्थिते हरौ ।।२४।।
कदल्यन्तर्गते स्तम्भे कदलानि ह्यणूनि च ।
पत्यन्तरात्मनि कृष्णे सुखानि सन्त्यणूनि च ।।२५।।
अकारश्च यथावर्णेष्वन्तरात्माऽस्ति चाऽव्ययः ।
कृष्णः पत्यौ तथा पत्न्यां पुत्रादावस्ति चाऽव्ययः ।।२६।।।
कपाटं सुदृढं विना शृंखलां तु निरर्थकम् ।
दृढः पतिव्रताधर्मः कृष्णं विना निरर्थकः ।।२७।।
विवाहस्तु कृतः सम्यग् बीजं विना पतिर्मृषा ।
कृष्णनारायणो बीजं तद्विना तु पतिर्मृषा ।।२८।।
ग्रीष्मे जलं विना शैत्यं तृप्तिदं नहि जायते ।
भवदावे विना कृष्णं पतिः शंदो न केवलः ।। २९।।
पृथ्वी सर्वस्य वै पत्नी वाराहेण समुद्धृता ।
गोवर्धनः सर्वसाधारणः कृष्णेन चोद्धृतः ।।1.415.३ ०।।
गोप्यो गोपवशा नार्यो भक्त्या कृष्णेन चोद्धृताः ।
पतिभक्त्या सतीं पत्नीं कृष्णः समुद्धरेद् ध्रुवम् ।। ३१ ।।
दास्यश्चापि तथा भक्त्या कृष्णस्वामिपरायणाः ।
पातिव्रत्यपरा यद्वत् तूद्धरन्ति न संशयः ।।३२।।
शकुनेस्तु यथाऽण्डेऽस्ति विश्वासो बालकं प्रति ।
पत्यौ पत्न्या तथा कार्यो विश्वासो माधवं प्रति ।।३३ ।।
पुत्रे वंशो द्रुमो बीजे गूढः कामः शरीरिषु ।
पत्यौ पत्न्यां तथा सर्वकामदाऽऽनन्ददो हरिः ।। ३४।।
दुग्धं स्वल्पेन तक्रेण मिश्रितं नवनीतदम् ।
कृष्णेन मिश्रितः स्वामी निर्वाणदो न संशयः ।। ३५।।
पतंगस्तेजसा स्वेन पश्यत्येव वनस्थलीम् ।
पतिव्रता पतिस्थेन पश्येत् कृष्णेन जीवनम् ।। ३६ ।।
विमानं वेगतो याति वैमानिकस्य चक्षुषा ।
पतियानं तदन्तःस्थकृष्णेन याति सर्वथा ।। ३७।।
घटीयन्त्रं महच्चक्रं भ्रामयद् घटिका मुहुः ।
यथास्थानं मुहुर्याति सती यायात् पतिस्थलम् ।।३८।।
यथा वत्सस्य बालस्य शृंगे बलं विवर्धते ।
वत्साया योषितस्तद्वत् पत्यौ बलं विवर्धते ।।३ ९।।
यथा काष्ठकृता नौश्च काष्ठानि तारयेद् ध्रुवम् ।
तथा भूतकृता पत्नी पतिं कृष्णेन तारयेत् ।।1.415.४० ।।
प्राप्ते ऋतौ निगूढानि पुष्पाणि विकसन्ति वै ।
प्राप्ते पत्यौ हरिर्गूढो भक्त्या प्रकाशयिष्यते ।।४१ ।।
विप्रकृष्टचिरस्थानां कुटुम्बिनां प्रमीलने ।
यथा हर्षः सूद्भवति कृष्णः पत्यौ तथोद्भवेत् ।।४२।।
श्लोकस्थश्च यथाऽर्थोऽपि हृदि स्याच्चेत् प्रकाशते ।
तथा पत्न्या हृदि कृष्णः पत्यौ भक्त्या प्रकाशते ।।४३ ।।
तेजः सूर्ये स्थितं नित्यं कार्ष्ण्यं राहौ प्रतिष्ठितम् ।
कृष्णः पत्यौ स्थितो नित्यो नास्तिकत्वे न काशते ।।४४।।
पत्युः क्रियाश्च ताः सर्वाः कृष्णक्रिया न चेतराः ।
दिव्या मोक्षप्रदाः परे ब्रह्मणि कल्पिता यतः ।।४५।।
पत्युर्वाञ्च्छा क्रिया यत्नो निद्रा केलिः प्रमर्दनम् ।
सर्वं कृष्णात्मकं दिव्यं मत्वा कान्ता पतिव्रता ।।४६।।
दिव्या दिव्यतमा भूत्वा रमाराधाप्रभादिवत् ।
पतिं नीत्वा दिवं यात्यपुनर्माराभिधानकम् ।।४७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये पतिव्रतायाः पत्यात्मकहर्याराधनविज्ञाननिरूपणनामा पञ्चदशाधिकचतुश्शततमोऽध्यायः ।।४१५।।