लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१४
[[लेखकः :|]]
अध्यायः ४१५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथं कार्यं पातिव्रत्यं परात्मनि ।
नारदाय हरेणोक्तं कृष्णेन शंकराय च ।। १ ।।
ब्रह्मणे च सनत्कुमारायोक्तं कथयामि ते ।
मयोक्तं मम भक्तैश्च प्रोक्तं परम्परात्मकम् ।। २ ।।
त्वयोक्तं कम्भरादेव्यै पुनः स्मृत्वा वदामि ते ।
कृष्णस्याऽऽत्मार्पणे बुद्धिः कर्तव्या सेव्य एव सः ।। ३ ।।
आराधयेत् स्वामिरूपं भगवन्तं श्रिया सह ।
पतिरेव हरिः स्त्रीणां दासीभावेन वर्तयेत् ।। ४ ।।
दासीभावेन या नारी नारायणं प्रसेवते ।
तारितानि तया नैजकुलानि त्वेकविंशतिः ।। ५ ।।
स एव दिवसो धन्यो धन्या माताऽथ बान्धवाः ।
पिता धन्यः पतिर्धन्यो धन्यं सर्वं कुटुम्बकम् ।। ६ ।।
यया कृष्णः पतिबुद्ध्या सेवितः परमेश्वरः ।
बहुजन्मकृतं पापं तस्या नश्यति सर्वथा ।। ७ ।।
पावनी जायते लक्ष्मीस्वरूपा परमेश्वरी ।
शंभुः प्राह पुरा पातिव्रत्यं सत्यै परेश्वरे ।। ८ ।।
गंगादेव्या तथोक्तं च श्रोतव्यार्हं शृणु प्रिये ।
पातिव्रत्यं परःस्नेहः स्वामिन्येव न चापरे ।। ९ ।।
पत्यौ स्नेहः स्त्रियाः कृष्णनारायणात्मके तथा।
सति! त्वया यथा ध्यातः शंकरोऽहं पतिस्तव ।। 1.414.१ ०।।
तथा मया हरिर्ध्यातः सर्वावस्थासु सुन्दरि! ।
स एव रक्षकः पोष्टा पतिरेव शरीरिणाम् ।। ११ ।।
सत्यं पतित्वं कृष्णे च वर्तते देहधारिणाम् ।
तृषातुरो यथैवाऽम्भस्तथा कृष्णं स्मराम्यहम् ।। १२।
हिमाकुलः स्मरत्यग्निं तथा कृष्णं स्मराम्यहम् ।
पतिव्रता पतिं यद्वत् तथा स्मरामि माधवम् ।। १ ३।।
दूरस्थस्तु यथा गेहं चातको जलदं यथा ।
ब्रह्मविद्यां ब्रह्मविदस्तथा कृष्णं स्मराम्यहम् ।। १४।।
हंसा मानसमिच्छन्ति ऋषयो मानसे हरिम् ।
भक्ता भक्तिं यथेच्छन्ति तथा कृष्णं स्मराम्यहम् ।। १५।।
वैष्णवाश्च यथा शुद्धिं पशवश्च यथा तृणम् ।
सन्तः क्षमां यथेच्छन्ति तथा कृष्णं स्मराम्यहम् ।। १६ ।।
व्यसनी व्यसने सक्तो देहे सक्तो ह्यनात्मवित् ।
सतृष्णश्चायुषि सक्तस्तद्वत् स्मरामि केशवम् ।। १७।।
षट्पदास्तु यथा पुष्पं चक्रवाकाः प्रभाकरम् ।
आत्मप्रिया प्रियं यद्वत् तथा विभुं स्मराम्यहम् ।। १८।।
तमःस्था दीपमिच्छन्ति श्रमार्ताः शान्तिमित्यपि ।
निद्रां जागरिता यद्वत् तथा कृष्णं स्मराम्यहम् ।। १ ९।।
विद्यामालस्यहीनाश्च गजा आरण्यकीं स्थलीम् ।
सिंहा मृगादिकं यद्वत् तथा कृष्णं स्मराम्यहम् ।।1.414.२०।।
सूर्यकान्ते रवियोगात् कार्पासे त्वनलो यथा ।
चन्द्रकान्ते चन्द्रयोगाद् यथा वारि प्रजायते ।।२१ ।।
कुमुद्वती यथा सोमं दृष्ट्वा पुष्पैर्विकाशते ।
एवं सतीप्रसंगेन तथा कृष्णः प्रकाशते ।।२२।।
यथा नालीगता रात्रौ भ्रमरी रक्षकं स्मरेत् ।
यद्वा नालीगता प्राणाँस्त्यक्त्वा निर्वाणतां व्रजेत् ।।२३ ।।
तथा साध्वीगता दासी कृष्णं संरक्षकं स्मरेत् ।
गोपीभिर्जारबुद्ध्यैव कृष्णः स्मृतो हि सर्वथा ।।२४।।
ताश्च सायुज्यतां प्राप्तास्तथा कृष्णं स्मराम्यहम् ।
काऽपि वै दुष्टभावेन छद्मभावेन काऽपि च ।।२५।।
काचिल्लोभेन वैराग्यभावेनापि तथाऽपरा ।
स्नेहेन भक्त्या द्वेषेण कान्तभावेन चेतरा ।।२६।।
ज्ञानेन काचिच्छ्रीकृष्णं चिन्तयित्वा जनार्दनम् ।
इह लोके सुखं भुक्त्वा गोलोकं प्रययौ सती ।।२७।।
यदृच्छयाऽपि स्मरणं भक्ताया मुक्तिदायकम् ।
एकेन पातिव्रत्येन समीपे दृश्यते क्षणात् ।।२८।।
पतिस्नेहं विना पत्नी पत्नीस्नेहं विना पतिः ।
सान्निध्येऽपि स्थितो दूरे नेत्रयोरञ्जनं यथा ।।२९।।
पातिव्रत्यमयी भक्तिः प्राप्ता प्राप्तो हरिस्तदा ।
इन्द्राद्यैरमृतं प्राप्तं विना भक्तिं तु दुःखिताः ।।1.414.३ ०।।
पतिभक्त्यमृतं प्राप्य पुनर्दुःख न जायते ।
जलं विहाय हंसाश्च दुग्धं पिबन्ति नेतरत् ।।३ १ ।।
मायां विहाय सत्यश्च कृष्णं पिबन्ति चक्षुषा ।
वस्त्रपोटलिका शक्ता न स्याजलस्य बन्धने ।।३२।।
मायापोटलिका न स्याच्छक्ता कृष्णस्य योजने ।
पतिभक्तिं विना नारी कृष्णं कान्तं समीहते ।।३३ ।।
कथं चायास्यति कृष्णः पातिव्रत्यार्पणं विना ।
पतिभक्तिः कृष्णभक्तिः कार्या नार्या सदा स्वतः ।।३४।।
बाहुभ्यां सागरं यद्वत् तर्तुं मूढाऽभिवाञ्च्छति ।
संसारसागरं तद्वत् कृष्ण पतिं विनेच्छति ।।३५ ।।
दरिद्रस्य यथा स्वर्णे स्पृहाऽस्ति मे हरौ तथा ।
कामोद्भेदे यथा नार्यां कृष्णे मेऽस्ति तथा स्पृहा ।।३६ ।।
वह्निः स्वल्पोऽप्यरण्यानि दहति नित्यवर्धितः ।
कृष्णे पातिव्रत्यभावो रेणुमात्रमपि कृतः ।।३७।।
जन्मान्तरसहस्राऽघाऽचलान् करोति भस्मसात् ।
कृष्णः पतिः पतिः कृष्ण इति स्मृत्वा पतिं भजेत् ।।३८।।
स्त्रीशतैः श्रूयते पातिव्रत्यं सतां प्रसंगतः ।
स्त्रीसहस्रैर्बुध्यते च कदाचिन्नहि पाल्यते ।।३९।।
बुद्धिं परासां दास्यन्ति लोके नैकविधाः स्त्रियः ।
स्वयमाचरते सा तु नारी कोटिषु दृश्यते ।।1.414.४० ।।
सागरे तु यथा पोतः कूपे द्रोणोपवेशनम् ।
तथा यादृग् भवेत्पात्रं तथा धर्मः प्रकाशते ।।४१ ।।
मूले सिक्तं जलं वृक्षे पत्रशाखासु गच्छति ।
पुष्पं फलं तथा बीजं क्रमेणैव भवन्त्यपि ।।४२।।
तथा पत्युः कृता सेवा पुत्रपौत्रादिवर्धिनी ।
स्वर्गदा मोक्षदा चापि भवत्येव न संशयः ।।४३ ।।
पानीयहारिणी यद्वद् घटे कूपे पदे करे ।
चित्तं ददाति स्वस्यां च तथा पत्यौ हरावपि ।।४४।।
बाला गुडं प्रभुक्त्वा च मातरं याचते पुनः ।
सती पतिं प्रभुक्त्वा च श्रीकृष्णं याचते तथा ।।४५ ।।
नीरे नीरं यथा मिश्रं दुग्धे दुग्धं घृते घृतम् ।
पत्यौ कृष्णस्तथा मिश्रः सत्या द्रष्टव्य एव सः ।।४६ ।।
सूर्यः सर्वगतो यद्वत् प्रभया किरणेन च ।
वह्निः सर्वगतो यद्वत् पाकेन जाठरेण च ।।४७।।
कृष्णनारायणः स्वामी तथा पत्यात्मको हरिः ।
सर्व गतोस्ति देवेशि! पतिभक्तिं तथा चरेत् ।।४८।।
ग्रावाणो जलमध्यस्था लिप्यन्ते न जलैर्मनाक् ।
पातिव्रत्यपरा नार्यो लिप्यन्ते नाऽन्यदेहिषु ।।४९।।
सोमकान्तिर्हि सुखदा पतिकान्तस्तथा सुखः ।
फलं पक्वं सदा मिष्टं कृष्णस्तथा पतिः स्त्रियाः ।।1.414.५०।।
दर्दुरो वसति नीरे षट्पदो हि वनान्तरे ।
गन्धं वेत्ति कुमुद्वत्याः षट्पदो नहि दर्दुरः ।।५१ ।।
गंगातटे वसन्त्येके ह्येके च शतयोजनम् ।
कश्चिद् गंगाफलं वेत्ति तथा कृष्णपतिव्रता ।।५२।।
कर्पूराऽगुरुभारं च ह्युष्ट्रो वहति नित्यशः ।
मध्यगन्धं न जानाति नाऽऽनन्दं वेत्ति तन्मयम् ।।५३ ।।
तथा भारवहा पत्नी पातिव्रत्यं विना क्वचित् ।
पत्युः कृष्णस्य च गन्धं ह्यानन्दं वेत्ति नैव ह ।।५४।।
मृगाः शालं हि जिघ्रन्ति कस्तूरीगन्धमिच्छवः ।
स्वनाभिस्थं न जानन्ति पातिव्रत्यं विना स्त्रियः ।।५५।।
उपदेशो हि मूर्खाणां विपरीतगुणो भवेत् ।
भाग्यहीनस्त्रियास्तद्वत् पत्यादेशो विषं भवेत् ।।५६।।
अहिपीतं पयः क्ष्वेडं विषयोगेन जायते ।
पातिव्रत्यवर्जितायाः पतिर्विषायते तथा ।।५७।।
पातिव्रत्योपदेशोऽपि विषायते तथोल्बणः ।
चक्षुर्विना यथा दीपं यथा च दर्पणं घटम् ।।५८।।
न पश्यति तथा भावं विना कृष्णं न पश्यति ।
पावको धूमताम्राभः आदर्शः श्वाससंहतः ।।५९।।
तद्वत् प्रेमविहीनात्मा नेक्षते तं मलैर्हतः ।
यथोल्बेनाऽऽवृतो गर्भस्तथा पत्यौ हरिः स्थितः ।।1.414.६ ० ।।
दुग्धे सर्पिः स्थितं यद्वत् तिले तैलं सदा स्थितम् ।
चराचरे स्थितः कृष्णः पत्यौ स्थितश्च तं भवेत् ।।६ १ ।।
एकसूत्रे मणिगणा धार्यन्ते बहुवो यथा ।
एवं नरास्तथा नार्यः संप्रोताः श्रीनरायणे ।।६२।।
यथा काष्ठे स्थितो वह्निस्तज्ज्ञात्रा लभ्यते श्रमात् ।
तथा पत्यौ स्थितो विष्णुस्तज्ज्ञात्र्या लभ्यतेऽर्चनात् ।।६ ३ ।।
आदिर्महान् हरिर्दीपस्तेन दीपाः सृजीश्वराः ।
सूर्यादयस्तथा दीपा मूलं दीपं तमाश्रयेत् ।।६४।।
सर्वर्दापः स्वामिदीपस्तत्र कृष्णं प्रदीपयेत् ।
यथा सूर्योदये ज्योतिः सर्वत्राऽऽविशते स्वतः ।।६५ ।।
तथा कृष्णोदये पत्यौ ज्योतिः स्वस्याः प्रकाशते ।
पवनः सर्वदा गन्धं वहत्येव स्वभावतः ।।६६ ।।
प्रेमगन्धं वहत्येव पतिकृष्णनरायणः ।
शर्कराविषमिश्रं च जलं भवति यादृशम् ।।६७।।
भावनारसमिश्रश्च पतिर्भवति तादृशः ।
उर्वी बीजयुता नानावृक्षरूपा प्रजायते ।।६८।।
जलं यथा च बीजेन स्वरसाढ्यं विधीयते ।
तथा भावरसोपेतः पतिः कृष्णः प्रजायते ।।६९।।
एवं पत्यौ तु या लक्ष्मि! श्रीकृष्णं मां प्रपश्यति ।
तामहं लक्ष्मि! कमलां करोमि निजभामिनीम् ।।1.414.७०।।
एवं मां वेत्ति या पत्यौ सा भक्ता मे पतिव्रता ।
एकोऽहं बहुधा चाऽस्मि सर्वासां पतिमूर्तिकः ।।७१ ।।
नामरूपे मया दत्ते पतिरूपे स्थितेन वै ।
भानुना चेधते चक्षुर्न स्वर्गमात्रदर्शनात् ।।७२।।
तथा कृष्णेन विज्ञानं सदा स्नेहश्च वर्धते ।
न च कृष्णं विना स्नेहो वर्धते पतिना प्रिये ।।७३।।
परमात्मा तथा चाऽहं प्रतिदेहं स्त्रियां नरे ।
घटे घटेऽस्मि तं मां वै प्रपश्येत् सा प्रतिव्रता ।।७४।।
यथा काष्ठादिकं सर्वं नारायणेन शक्तिमत् ।
तथा पत्यादिकं सर्वं मया कृष्णेन शक्तिमत् ।।७५।।
हेम्नो रूपाणि जायन्ते स्वर्णकारकृतेर्यथा ।
पत्युः रूपाणि पुत्राद्या जायन्ते कृष्णवासतः ।।७६ ।।
पत्यात्मनि यदा नाऽहं तदाऽऽनन्दो विषायते ।
मेघैः समावृतं सूर्यं मूढा मनुते निष्प्रभम् ।।७७।।
तथा भावं विना पत्नी पतिं जानाति मां विना ।
सात्त्विकी मम संभूतिर्या सा नारी पतिव्रता ।।७८।।
सा मां पतिं विजानाति पतिरूपं हरिप्रिया ।
कर्ममूढा न जानाति काममात्राऽवलम्बना ।।७९।।
अविद्यया तु या मूढा कथं मां कल्पयेद् धिया ।
कर्मजडा नास्तिवादा पतिं पश्यति स्वामिव ।।1.414.८०।।
पत्न्या भाव्यं न वै हस्तिदन्तवत् किन्तु हस्तवत् ।
पतिना व्योमवन्नैव भाव्यं तु छत्रवत् ।।८१।।
द्वाभ्यां परस्परं भाव्यं भाव्यं जलदुग्धादिवत् सदा ।
ताप्यमानयोस्तापेन परस्परसहायकृत् ।।८२।।
यदा सेवारसो ज्ञातस्तदा पत्यौ हरिः स्वयम् ।
प्राप्नोत्यस्मिन् भवे लक्ष्मि! सेवया सुलभो हि सः ।।८३ ।।
हृद्भावैः प्राप्यते ज्ञेयं परंब्रह्म निजादिषु ।
सर्वेषामेव भावानां भावशुद्धिर्विशिष्यते ।।८४।।
स्पृश्यन्ते भगिनीपुत्रीमातृबालान्ययोषितः ।
द्रासीकान्तासेविकाद्या यथाभावस्तथाफलम् ।।८५।।
स्पृश्यन्ते बन्धुपुत्राऽरिमित्रपुत्रसखादयः ।
पतिविप्रगुरुश्रेष्ठा यथाभावस्तथाफलम् ।।८६।।
कान्तो नारायणमूर्तिः कान्ता च प्रतिमा रमा ।
भावशुद्ध्या तत्र लक्ष्मीनारायणो ह्यवाप्यते ।।८७।।
पाषाणप्रतिमा यद्वद् भावशुद्ध्या प्रपूज्यते ।
कान्तमूर्तौ तथा कृष्णनारायणः प्रसेव्यते ।।८८।।
आलिंग्यते यथा कान्ता यथा भावस्तथा फलम् ।
उपानद्युक्तपादा हि वेत्ति चर्मण्वतीं महीम् ।।८९।।
बुद्धिर्यथाविधा यस्यास्तथा व्यक्तिः प्रभाव्यते ।
प्रकृतिं यान्ति वै बुद्ध्या विकृतिं यान्ति भावतः ।।1.414.९०।।
दुग्धेन सिक्तो निम्बो वै कटुभावं न तु त्यजेत् ।
लवणेन यदि सिक्तस्तदा प्राणान् परित्यजेत् ।।९१ ।।
पाकेन तु फलं तत्र मिष्टभावं यथा व्रजेत् ।
तथा मायास्वभावेन पतिः संसारमर्पयेत् ।।९२।।
वैराग्यक्षारभावेन संसारं दूरयेत् सदा ।
कृष्णतापकृतपाकात् पतिश्चामृतमर्पयेत् ।।९३।।
छित्वा वै सहकारं तु फले पत्रं कथं लभेत् ।
हित्वा कृष्णं स्वामिनि स्वे सती फलं कथं लभेत् ।।९४।।
अर्कभूमिकृषेः स्वर्णलाङ्गलं वै कथं क्रियात् ।
छित्वा कर्पूरवंशादीन् कोद्रवान् रक्षयेत् कुतः ।।९५।।
कृष्णं हित्वा पतिं त्यक्त्वा मानुषं व्यर्थयेत् कुतः ।
स्थाल्यां वैदूर्यमय्यां वै दह्यतेऽजागलः कुतः ।।९६।।
गृहस्थं शेवधिं त्यक्त्वा शुक्तिसेवां कथं चरेत् ।
पतिस्थं श्रीहरिं त्यक्त्वा वृथाऽन्यत्र कथं भ्रमेत् ।।९७।।
गृहे चिन्तामणिं त्यक्त्वा कपर्दिकां कथं श्रयेत् ।
पत्यौ कृष्णस्वरूपे वै भाव्यते क्षुद्रता कुतः ।।९८।।
नरसिंहार्चनं त्यक्त्वा शुनः सेवां कथं चरेत् ।
त्यक्त्वा कान्तं रमाकान्तं ह्यन्तकान्ते कथं रमेत् ।। ९९।।
स्वकरे कंकणे प्राये ह्यापणे किं प्रयोजनम् ।
लक्ष्मीर्यस्य गृहे दासी प्रभुत्वं किन्नु वर्ण्यते ।। 1.414.१० ०।।
स श्रीकृष्णः स्वामिनाथे सदाऽऽस्तेऽन्यत्र मा व्रजेत् ।
निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं चरेत् ।। १०१ ।।
साकारं कान्तरूपं तं ध्यात्वा परं पदं व्रजेत् ।
इति पत्यौ सदा कृष्णनारायणं सती स्मरेत् ।। १ ०२।।
कृष्णस्मृतिप्रमोदेन रोमाञ्चिततनुर्यदा ।
नयनानन्दसलिलं मुक्तिर्दासी भवेत् तदा ।। १०३ ।।
वाण्याः पापं कर्तनाद्वै मानसं स्मरणाल्लयम् ।
कर्मणाऽघं कृष्णपूजासेवनाद्यैर्विनश्यति ।। १ ०४।।
पतिधर्मं परित्यज्य तपो घोरं न वै चरेत् ।
पतिसेवात्मको धर्मः श्रेयान् परवृषे भयम् ।। १ ०५।।
कृष्णकान्ताश्रमं त्यक्त्वा यत्याश्रमं कथं चरेत् ।
पतिद्रव्येण संक्रीत्वा कृष्णकान्तं प्रतोषयेत् ।। १०६ ।।
शुक्लं द्रव्यं भावरूपं दद्याद् दाने द्विजे हरौ ।
श्रद्धाद्रव्यं स्नेहपूर्णं दद्यात्पत्यौ विवाहिते ।। १ ०७।।
यद्दानेन महत्पुण्यं यत्संख्या न हि विद्यते ।
नान्यद्रव्येण रन्तव्यं रन्तव्यं पतिशार्ङ्गिणि ।। १ ०८।।
एवमाचारवत्या वै दुःखं नैव प्रजायते ।
यदि स्यान्न च तत्तापः कर्तव्यः प्राक्कृतं हि तत् ।। १ ०९।।
रज्जुबद्धा हि पशवः कर्मबद्धास्तथा प्रजाः ।
पतिकृष्णपरा भूत्वा छिन्द्यात् तद्बन्धनं मुदा ।। 1.414.११० ।।
शाखामृगो वने याति सतृष्णश्च द्रुमे द्रुमे ।
शाखामृगी पुरे याति सतृष्णा चेद् गृहे गृहे ।। १११ ।।
सा तृष्णा स्वपतिश्रीमन्नारायागे कृता यदि ।
नित्याऽमृतरसपानं कृत्वा सती सुखं लभेत् ।। १ १२।।
क्रीडार्थं कन्दुको यद्वत् तद्वद् देहोऽस्ति खेलनम् ।
तेन सन्तोषयेत् कृष्णं पतिस्वरूपिणं सती ।। ११३ ।।
पूर्वेण कर्मणा जीव नीयन्ते बहुयोनिषु ।
देवाः कर्मवशाः स्वर्गे बद्धा ऋषयः सत्यके ।। १ १४।।
शंभुदेहस्थितश्चापि सर्पो विषी हि कर्मणा ।
सूर्यरथेऽरुणः पङ्गुः कर्मयोनिर्बलीयसी ।। १ १५।।
कर्माधीनं जगत्सर्वं विष्णुना निर्मितं मया ।
मम नाम्ना सेवया च सर्वं कर्म विनश्यति ।। १ १६।।
जलं चैकं देवदत्तं कलशस्थं तथाऽपरम् ।
देवाऽर्पिताद् भवेन्मुक्तिस्तथा मय्यर्पणात् प्रिये ।। १ १७।।
अहं पत्नी पतिश्चायं लक्ष्मीनारायणाश्रितौ ।
इति मत्वा क्रियात् सर्वार्पणं श्रीकेशवार्पणम् ।। १ १८।।
अहंकारो हरौ कार्यः कर्तव्यं च समर्पणम् ।
पूर्वकर्म प्रभोक्तव्यं कृष्णार्पणं न लिप्यते ।। ११ ९।।
प्रशंसन्ति ग्रहान् प्रेतान् पिशाचान् मन्त्रमोषधिम् ।
सिद्धिं पराक्रमं बुद्धिमुद्यमं साहसं बलम् ।। 1.414.१२० ।।
नीतिं धैर्यं तथा रेखां प्रशंसन्ति परेऽपरे ।
पतिं धर्मं हरिं धर्मं प्रशंसति न मौढ्यतः ।। १२१ ।।
पत्नीव्रतं वृषं शीलं भक्तिं शंसन्ति नैव च ।
नाश्रयन्ति तथा मौढ्याद् वञ्चितास्ते गृहे शठैः ।। १२२।।
यदा कृष्णमयो जन्तुः पापं तदा न विद्यते ।
पुण्यं सुखं भवेद् यच्च कृष्णे पत्यौ समर्पयेत् ।। १ २३।।।
समयोगं तदा द्वन्द्वं तदाऽऽनन्दपदं लभेत् ।
बाह्ये करोति कर्माणि मनसा न स्पृहा यदा ।। १ २४।।
कृष्णार्पणे स्पृहा यद्वा त्यागः स उत्तमः प्रिये! ।
क्रोधात् सर्वं त्यजन्त्येके केचित् कष्टात् त्यजन्ति च ।। १२५।।
अलब्धेश्च त्यजन्त्यन्ये त्यागः कृष्णे परो मतः ।
कर्मणा चालिता नारी यदि कृष्णपरायणा ।। १ २६।।
पतिकर्मपरा नित्यं सा याति सुगतिं सती ।
शुचीनां श्रीमतां गेहे धीमतां योगिनामपि ।। १२७।।
कृष्णसेवापरा नारी जायते कन्यका सती ।
स्वल्पेनैव पतिसेवाफलेन भक्तियोगतः ।। १ २८।।
चिदानन्दपदं याति मम भक्त्या प्रसादतः ।
सर्वसमर्पणेनैव मुक्तिं याति न संशयः ।। १ २९।।
पंकेनैव यथा पंकं रुधिरं रुधिरेण च ।
हिंसात्मकर्मणा कर्म कथं क्षालयितुं क्षमम् ।। 1.414.१ ३०।।
पतिना कर्मणा कृष्णं विना कर्मक्षयं कुतः ।
कृष्णयुक्तेन पतिना सर्वकर्मक्षयो भवेत् ।। १३१ ।।
नित्यं सौख्यं हरौ प्राप्यं न स्वर्गादौ न कर्मसु ।
नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः क्वचित् ।। १३ २।।
इति लक्ष्मि! सदा कार्या नार्या पत्यौ पतिव्रता ।
सुखदा मोक्षदा चापि साक्ष्यस्मि तत्र सर्वथा ।। १ ३३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये पत्यात्मककृष्णे शंकरोपदिष्टदिव्यपातिव्रत्यनिरूपणे चतुर्दशाऽधिकचतुश्शततमोऽध्यायः ।। ४१४ ।।