लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१३
[[लेखकः :|]]
अध्यायः ४१४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पुरावृत्तं ब्रह्मसदसि संवृतम् ।
ब्रह्मणा निर्मिते चात्र लोके देवर्षिरक्षिते ।। १ ।।
मुनयः ऋषयो देवाः पितरो मानवाः खगाः ।
पातालस्तरवासाश्च गन्धर्वाः किन्नराः नृपाः ।। २ ।।
साध्या विश्वे मरुतश्च वसवो देवनायकाः ।
ब्रह्मचर्यपराश्चापि यतयो ध्यानयोगिनः ।। ३ ।।
विद्याधराः किंपुरुषा अनेके देवयोनयः ।
अप्सरसो ब्रह्मसरसः साध्व्यः सत्यश्च कन्यकाः ।। ४ ।।
दास्यः किंकर्यः सेवार्थसाधिकाः अपि योषितः ।
कामचाराः कामरूपा यथेष्टसुखदायिकाः ।। ५ ।।
सममानाः समदेहाः सुन्दर्यः षोडशाब्दिकाः ।
तत्र पत्न्यर्थमेवायं ब्रह्मा लोकपितामहः ।। ६ ।।
ददौ दिविषदादिभ्यः शच्याद्या मानसीस्त्रियः ।
तासां पतिव्रताधर्माः पतिगृहीतयोषिताम् ।। ७ ।।
पातिव्रत्येन संरब्धा भुक्तिमुक्तिप्रदाः खलु ।
ब्रह्मणा देवपत्नीभ्यः स्नुषाभ्यश्चोपवर्णिताः ।। ८ ।।
उपदिष्टाः पातिव्रत्यपरा मोक्षस्य साधकाः ।
धर्मार्थकाममोक्षाख्यास्ताभिः श्रुताः समादरात्। ।। ९ ।।
गृहीताः सर्वथा श्रेयस्करास्तुष्टाश्च ताः स्त्रियः ।
किन्तु दासीस्वरूपिण्यः श्रुत्वा धर्मांश्च सर्वशः ।। 1.413.१० ।।
अस्माकं सेविकानां वै को धर्मश्चेत्यतर्कयन् ।
वयं दास्यः परवश्याः पितामहेन निर्मिताः ।। ११ ।।
देवानां च तथा देवीयोषितां कर्मचारिकाः ।
उपपत्न्यो भवामश्च पातिव्रत्यविवर्जिताः ।। १२
दास्ये नैकपतिमत्त्वं सुरक्ष्येत कदाचन ।
कैंकर्यं च पराधीनं स्वामिसन्तोषलम्बनम् ।। १३।।
स्वामिनो बहवः स्युश्च नैकधर्मोऽस्ति सुदृढः ।
बहूनां सेवया दासीजीवनं हि विवर्तते ।। १४।।
तत्राऽनेकप्रसंगेन दुरीतं जायते ततः ।
असुकृतेन दोषेण निरये वै गतिर्भवेत् ।। १५।।
तस्माद् दास्यं तु नारीणां न वै श्रेयःप्रदं भवेत् ।
न कार्यं तादृशं दास्यं यत्र नास्त्युत्तमा गतिः ।।१६।।
राज्ञां धनिनां सर्वेषां कामभावेन सेवनम् ।
नर्तनं पण्यभावेन पण्यपत्नीत्ववर्तनम् ।। १७।।
यदि दोषावहं तर्हि तन्न ग्राह्यं हि सर्वथा ।
तस्माद् यथा कृताः सर्वा विवाहिताः सुरस्त्रियः ।। १८।।
ब्रह्मसरसः कन्याश्च वयं तद्वद् विवाहिताः ।
अप्सरसः सुराद्यैश्च गृहीता एव सेविकाः ।। १ ९।।
स्थास्यामो वै पातिव्रत्यधर्मपराः सदा शुभाः ।
मुनिषु ब्रह्मरूपेषु सुरेषु मानवेष्वपि ।।1.413.२० ।।
नागेषु सिद्धगन्धर्वचारणेषु वनिष्वपि ।
विवाहेनैव पतिभिः साकं पतिपरायणाः ।।२१ ।।
पतिधर्मान् समगृह्य वर्तिष्यामह एव यत् ।
पतिधर्मः परो धर्मो धर्मार्थकाममोक्षदः ।।२२।।
पतिन्यासः परो न्यासः पुत्रवित्तसुखप्रदः ।
पतिरक्षा परारक्षा पतिर्देवः परो गुरुः ।।२३ ।।
विना विवाहविधिना दासीत्वं काचवन्मतम्।
अध्रुवं नश्वरं नाऽऽस्थाप्रदं छलादिसंभृतम् ।।२४।।
अतृप्तिदं समुद्वेगकरं दुःखप्रदं सदा ।
तस्माद्वै ब्रह्मणे सर्वा मिलिता वयमेव च ।।२८६।।
प्रार्थयामोऽप्सरसो वै विवाहेन प्रदानकम् ।
इति विचार्य ताः सर्वा अप्सरसोऽजसंसदि ।।२६।।
ब्रह्माणं प्रार्थयामासुर्विवाहार्थं पुनः पुनः ।
ब्रह्मणा च तदा स्वस्य पुत्रीभ्यो धर्महेतवे ।।२७।।
स्नुषाभूताभ्य एवैता धर्मा मोक्षकरास्तथा ।
सुखदाः स्वर्गदाश्चापि दुरीतक्षयकारकाः ।।२८।।।
उपदिष्टाः सुखायैव तथा निःश्रेयसाय च ।
शृणु लक्ष्मि! कथयामि पण्यधर्मान् सुखाश्रयान् ।।२९।।।
या दासी च पराधीना कुमारी सधवाऽथवा ।
अपतिका च दासीत्वे स्थिता वा नृपधर्मिणी ।।1.413.३ ०।।
बहुस्वामिमती या वा चाऽपरिचितस्वामिनी ।
कामधर्मेण लुब्धा वा यस्या नास्त्यपरा गतिः ।। ३१ ।।
तया नृपाः स्वामितुल्याः सूता वापि च तत्समाः ।
सेवनीया भवेयुर्वै तासां सौभाग्यमेव ते ।।३२।।
ये केचिद् वृत्तिदातारः शुल्कदातार एव वा ।
आजीवनं रक्षकास्ते तारकाः पतयः स्मृताः ।।३३ ।।
तेषां वै सेवया दास्यस्तरन्ति भावभक्तितः ।
जारे शुल्कप्रदे नारायणं स्मृत्वा तु मां हरिम् ।।३४।।
नारायणसमां सेवां करिष्यन्ति तु याः स्त्रियः ।
तादृङ्निश्छद्मवृत्त्या तास्तरिष्यन्ति हरेर्बलात् ।।३५।।
उपचार्यो हरिबुद्ध्या समायातोऽतिथिर्यथा ।
न तु वै तृष्णया लुब्धवृत्त्या वा कपटेन वा ।।३६।।
क्षणिकं च पतिं मत्वा सेवनीयो हरिर्यथा ।
पितॄणां देवतानां च पुण्याहे समुपस्थिते ।।३७।।
गोभूहिरण्यदानानि प्रदेयानि स्वशक्तितः ।
गुरूणां च सतां दैवीजनानामाशिषस्तथा ।।३८।।
प्राप्तव्याः श्रेयसे ताभिः पाल्यानि वचनानि च ।
यदा सूर्यदिने हस्तः पुष्यो वाऽथ पुनर्वसुः ।।३९।।
भवेत् सर्वौषधिस्नानं पण्यनारी समाचरेत् ।
धात्रीफलतिलपिष्टाऽपामार्गतुलसीदलैः ।।1.413.४०।।
तण्डुलैर्विष्णुपादाब्जवारिमिश्रजलैः शुभैः ।
स्नायात्तथाऽर्चयेत् कामरूपं कृष्णनरायणम् ।।४१ ।।
रतिं कामं प्रतिष्ठाप्य राधां कृष्णं तु कानकम् ।
लक्ष्मीं नारायणं स्वर्णं संस्थाप्य पूजयेत्तु सा ।।४२।।
कामाय पादौ सम्पूज्य जंघे वै मोहकारिणे ।
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः ।।४३।।
नाभिं सौख्यसमुद्राय रामाय च तथोदरम् ।
हृदयं हृदयेशाय स्तनावाह्लादकारिणे ।।४४।।
उत्कण्ठायेति वैकुण्ठमास्यमानन्दकारिणे ।
वामांगं पुष्पचापाय पुष्पबाणाय दक्षिणम् ।।४५।।
मानसायेति वै मौलिं विलोलायेति मूर्धजम् ।
सर्वात्मने कृष्णनारायणात्मने प्रसेविने ।।४६।।
कान्तरूपाय चक्रादिधारिणे परमात्मने ।
नमो नारायणायेति कामदेवात्मने नमः ।।४७।।
कामपित्रे कामदेवनिवासाय च ते नमः ।
काममोक्षकरायाऽर्तिहराय हरये नमः ।।४८।।
कामबन्धनकाराय कामबन्धनहारिणे ।
कृष्ण कृष्ण काम कृष्ण मोक्षदाय च ते नमः ।।४९।।
अस्माकं त्वं पतिः कृष्ण नान्योऽस्ति त्वादृशः पतिः ।
अन्ये स्वार्थाः पतयस्ते वयं स्वार्थाश्च योषितः ।।1.413.५०।।
त्वं परार्थः परब्रह्म गृहाणाऽस्मान्निजे करे ।
पातिव्रत्यं त्वयि चास्तु नान्यत्र क्षणदेषु वै ।।५१ ।।
क्षणदेषु भवानास्ते भवानेव पतिः प्रभो! ।
तारयाऽस्मान् भववाहात् कृष्णवाहे नय प्रभो ।।५२।।
नार्यः कामकृते सृष्टाः भवान् कामरूपो हि नः ।
बीजरूपो हरिः कृष्णो बालरूपो भवान् मतः ।।५३ ।।
प्रेमरूपो लिङ्गरूपो भवानेव मतो हि नः ।
मा भक्तानां योषितां ते किंकरीणां दुरीतकम् ।।५४।।
पण्यत्वे च कदाचिद्वै स्पृशत्वस्माँस्तव प्रियाः ।
यत्कुर्मो वामभागस्थाः शर्म कर्म सुखावहम् ।।५५।।
अर्पयामो भवत्येव निर्गुणं तन्निवर्तताम् ।
एवं कृष्णार्पणं लक्ष्मि! कार्यं वारस्य योषिता ।।५६।।
पण्यस्त्रीभिस्तथा दास्या कार्यं कृष्णार्पणं हि तत् ।
अथ लक्ष्मीं राधिकां च रतिं मत्वा समर्चयेत् ।।५७।।
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे ।
अनंगजननीं वन्दे कामपत्न्यै नमो नमः ।।५८।।
कामात्मिकायै सुन्दर्यै कृष्णकान्त्यै च ते नमः ।
आनन्दात्मकरूपिण्यै तारिण्यै ते नमो नमः ।।५९।।
एवं प्रातः सदा पण्यप्रमदा श्रीहरिं पतिम् ।
श्रीपतिं पूजयेत् स्वामिभावेन मोक्षणं व्रजेत् ।।1.413.६ ०।।
गन्धैर्माल्यैस्तथा धूपैर्नैवैद्यैर्जलदीपनैः ।
कामिनी चाप्सरसश्च पूजयेच्छ्रीजनार्दनम् ।।६ १ ।।
अन्नदानं वस्त्रदानं द्रव्यदानं द्विजातये ।
साधवे ब्रह्मशीलाय दद्याच्च ब्रह्मचारिणे ।।६२।।
तस्मै कृष्णायाऽर्पयामि श्रीकृष्णः प्रीयतां मम ।
इति पूजां कारयेद्वा कुर्यात् पुण्यप्रदां सती ।।६३ ।।
एतादृशीं प्रियां भक्तिमतीं कृष्णो हि तारयेत्। ।
पुरुषं कामदेवो वै कृष्णोऽयमिति धारयेत् ।।६४।।
सर्वभावेन चात्मानमर्पयेत् कृष्णतन्मयी ।
ततो दोषैर्न लिप्येत पण्यस्त्री किंकरी च वा ।।६५।।
तण्डुलप्रस्थदानं च रविवारे प्रकारयेत् ।
कार्तिके माधवे माघे चातुर्मास्ये व्रताहके ।।६६।।
भक्तिं नवविधां कुर्यात् पण्यस्त्री पावनी भवेत् ।
विप्रस्योपस्करैर्युक्तां शय्यां दद्यात् सुशोभनाम् ।।६७।।
सोपधानकविश्रामां सास्तरावरणां शुभाम् ।
प्रदीपोपानहच्छत्रपादुकासनसंयुताम् ।।६८।।
कृष्णस्य मन्दिरे दद्यात् शय्यादानं हि पावनम् ।
हेमसूत्रं विभूषाश्च हारान् रम्याम्बराणि च ।।६९।।
अङ्गुलीयकरशनाकटकद्रव्यकाणि च ।
लक्ष्मीनारायणमूर्तिं कामस्य प्रतिमां तथा ।।1.413.७० ।।
रतिमूर्तिं प्रदद्याच्च दाने विप्राय वेदिने ।
ताम्रपात्रं हेमसूत्रं मौक्तिकं चक्षुरित्यपि ।।७१ ।।
इक्षुदण्डं गुडकुंभं धूपमाल्यानुलेपनम् ।
तैलं सुगन्धि दद्याच्च भोजनं च द्विजातये ।।७२।।
दोग्ध्रीं धेनुं तथा दद्याद् वदेच्च धेनुसन्निधौ ।
यथाऽन्तरं न पश्यामि कामकेशवयोः सदा ।।७३ ।।
तथैव सर्वकामाप्तिरस्तु कृष्ण सदा मम ।
यथा न कमला देहात् प्रयाति तव केशव ।।७४।।
तथा मामपि देवेश शरीरे स्वे कुरु प्रभो ।
ततः प्रदक्षिणीकृत्य विप्रं विसर्जयेत् सती ।।७५।।
एवं वै श्रीकृष्णनारायणरूपं प्रपूजयेत् ।
विप्रं वान्यं नरं चाभ्यागत कृष्णं सुतोषयेत् ।।७६ ।।
तर्पयेत यथाकामं प्रोषितेऽन्यं प्रतोषयेत् ।
यदृच्छयाऽभ्यागतं वै रञ्जयेत् तत्पतिप्रिया ।।७७।।
एवं कृतेऽपि गर्भो वै यदीच्छेद् रक्षयेच्छुभम् ।
अनिच्छा चेदृतुधर्मात् षोडशाहोत्तरं नरम् ।।७८।।
संस्पृशेद्रतिकामार्थं ह्यनपत्या वसेत्तथा ।
अकामया ह्यकामेन पारवश्यतया यदि ।।७९।।
सगर्भात्वं प्रसज्येत ह्युपचारान् समाचरेत् ।
एतद्धि कथितं चाऽप्सरोभ्यः पूर्वं हि वेधसा ।।1.413.८० ।।
अधर्मोऽयं ततो न स्यात् पण्यस्त्रीणां हि सर्वथा ।
पुरुहूतेन च पुरा दानवीषु तथोदितम् ।।८१ ।।
पशुपक्षिप्रमदासु पुरा युगे तथोदितम् ।
तदिदं साम्प्रतं सर्वं भवतीषु च युज्यते ।।८२।।
सर्वपापप्रशमनं कृष्णप्राप्तिप्रदायकम् ।
कृष्णार्पणात्मकं कार्यं निर्गुणं स्यान्मदाज्ञया ।।८३।।
कल्याणीनां कथितं तत् कुरुध्वं प्रवरांगनाः ।
इत्युक्ता ब्रह्मणा सर्वा अप्सरसो यथावचः ।।८४।।
अवर्तन्त दिविषत्सु मुनिषु मानवेषु च ।
तासां पापप्रणाशाय देवास्तदाऽवदन् मुहुः ।।।८५।।
याश्च दास्यः परवशाः किंकर्यश्च निराश्रयाः ।
कर्मचारिण्य आज्ञास्थाः प्रेष्या भुजिष्ययोषितः ।।८६।।
शुक्लनार्यश्चाऽलग्निकाः शुद्धा देव्यो भवन्तु ताः ।
वारस्त्रियश्च नर्तक्यः शिक्षिका दायिकास्तथा ।।८७।।
उपपत्न्यश्च ताः सर्वाः शुद्धा भवन्तु सर्वदा ।
कृष्णकृष्णेति कृष्णेति मत्वा नराश्रिताः सदा ।।८८।।
पूजिता वर्तमानाः स्युदेवैर्वन्द्या हरेः पुरम् ।
प्रयास्यन्ति सुकृतज्ञा ब्रह्मा साक्ष्यस्मि योषिताम् ।।८९।।
मासे मासे च यासां वै प्रदत्तमार्त्तवं व्रतम् ।
शुद्ध्यन्ति ऋतुना सर्वा नार्यश्चेति ह्यजोऽब्रवीत् ।। 1.413.९०।।
व्रतं यदृषिपञ्चम्याः सोपवासं परं मतम् ।
तेन शुद्ध्यन्ति भामिन्यः सर्वदोषलयो भवेत् ।।९१ ।।
कृष्णभावनया नॄन् सेवन्ते सर्वाः पतिव्रताः ।
कृष्णः पतिः परब्रह्म तद्व्रतास्ताः पतिव्रताः ।।९२।।
कृष्णः सन्तोषमायाति नरात्मनि समस्थितः ।
नारी सन्तोषमायाति नार्यात्मनि हरिः स्थितः ।।९३।।
इतिभावात्मको भक्तो भक्ता नार्हति दूषणम् ।
एवं पतिव्रताधर्मं पण्यस्त्रीणामुदाहृतम् ।।९४।।
आदौ कृतयुगे प्रोक्तं सुरनार्यः समाचरन् ।
युगक्षये मनःकल्ये कृष्णभावविवर्जिते ।।९५।।
जाते तु समये दोषः काममात्रातिमर्षणे ।
सुकृतं नैव जायेत कृतं नश्येच्च वै तपः ।।९६।।
ततो नार्या पण्यभावे वर्तितव्यं न शोभनम् ।
नरेणापि जारभावे वर्तितव्यं न शोभनम् ।।९७।।
स्वच्छे स्वाच्छ्यं भवेद्धर्मो मालिन्येऽघो मलं मतम् ।
ततः पण्यमयाद्धर्माल्लग्नधर्मः परो मतः ।।९८।।
वस्तुतः शृणु वै सर्वं मलमूत्रमशुद्धकम् ।
असह्यगन्धं निकृष्टं ह्यशुभं मलिनं सदा ।।९९।।
मलं पापं हि मन्तव्यं निर्मलं पापवर्जितम् ।
मलं नवसु द्वारेषु क्षरते भिन्नरूपकम् ।। 1.413.१० ०।।
गर्भवासमलं प्रोक्तं मूत्रं द्रवन्मलात्मकम् ।
तद्वै पापस्थलं बोध्यं तद्योगः पापमुच्यते ।। १०१ ।।
योगस्तु सर्वथा पापं मलसाधनयोः खलु ।
तद् विवाहितयोर्यद्वा चाऽविवाहितयोरपि ।। १ ०२।।
विवाहो नियमः प्रोक्तो नियमः सह्यते सदा ।
अविवाहो न नियमः सह्यते न जनैर्हि सः ।। १०३ ।।
मलं पापं कर्म तुल्यं सह्यते न च सह्यते ।
सह्यते च यतस्तत्र पापत्वं नेति नैव हि ।। १ ०४।।
मैथुनं सर्वथा पापं पुण्यकर्म न विद्यते ।
कामश्च सर्वथा दोषो ह्यधर्मवंश एव सः ।। १ ०५।।
कृष्णनारायणयोगाद् यदि दिव्योऽर्पितस्तदा ।
सर्वार्पणात्मकं तद्धि हरेः प्रसन्नताप्रदम् ।। १०६ ।।
पत्न्या तदन्यया चापि कार्या हरेः प्रसन्नता ।
कामः पाप्मा नियमितो वृद्धैर्विवाहकर्मणा ।। १ ०७।।
अप्सरसां तु गान्धर्वो विवाहो ब्रह्मणा कृतः ।
दासीनां शुल्कनारीणां क्षणगान्धर्व एव सः ।। १ ०८।।
वेष्टुं योग्यो यश्च कोऽपि शुल्केन यत्र योषिति ।
स वेश्यसंशकस्तावत् सा वेश्या तावतैव हि ।। १ ०९।।
तयोस्तावत्प्रसंगश्च सह्यते यदि मानवैः ।
यथा विवाहितयोः स नैतावता वृषो मतः ।। 1.413.११० ।।
किन्तु सह्यं मतं कर्म धर्मत्वेनोपचारितम् ।
तच्छ्रीकृष्णार्पर्णं कृत्वा यथार्थं धर्ममाचरेत् ।। १११ ।।
इति तत्त्वं कथितं ते पण्यस्त्रीणां तथा प्रिये ।
पतिस्त्रीणां समे कर्म धर्मो नियमतो मतः ।। ११२।।
कामभोगस्तु नरको निरयप्रद एव सः ।
पत्नीनां गणिकानां वा वेश्यानां वाऽन्ययोषिताम् ।। ११३ ।।
दाल्भ्यनामा महर्षिश्च तत्त्वं स्त्रीभ्यः पुराऽवदत् ।
ऐन्द्रियकं तु यत् कर्म कृष्णस्मरणवर्जितम् ।। १ १४।।
सर्वं पापात्मकं तद्धि कामः क्रोधो जपो व्रतम् ।
स्वर्गाद्या भूमयः सर्वा निरयाः कृष्णमन्तरा ।। १ १५।।
कामाद्या भोगनिवहा निरयाः कृष्णमन्तरा ।
तस्मात् कृष्णं परं कान्तं कृत्वा प्रसाद्य तं प्रभुम् ।। १ १६।।
सेवित्वा सत्पतिं नारायणं नारायणी भवेत् ।
नवा देहस्य कामाय कामभोगो भवत्यपि ।। १ १७।।
आत्मनस्तु सुखायैव कामभोगं करोत्यजः ।
न चेन्द्रियाणां कामाय कामभोगा भवन्त्यपि ।। १ १८।।
अन्तःस्थात्मसुखायैव कामभोगा भवन्त्यपि ।
न चात्मा केवलः कामे प्रवर्ततेऽन्तरा हरिम् ।। ११ ९।।
तस्माद्धर्यर्थमेवैते आत्मकामा भवन्ति वै ।
यदि कृष्णो भवेन्नैवात्मनि चात्मा निरर्थकः ।। 1.413.१२० ।।
तस्मात् कामाः कृष्णयोगादानन्ददा भवन्ति हि ।
एवं कृष्णं समाराध्य प्राप्तव्यं कामनाफलम् ।। १२१ ।।
पातिव्रत्यं तदेवोक्तं पण्यस्त्रीणां तु पद्मजे ।
इति श्रुत्वा परं धर्मं नैजं मत्वाऽप्सरोगणाः ।। १ २२।।
ब्रह्माऽऽज्ञायामवर्तन्त शुल्कधर्मपरायणाः ।
सशुल्कः सत्कृतः स्वामी यावद् रञ्जनतामियात् ।। १२३ ।।
तस्य सेवां प्रकृत्वैव प्राप्स्यन्ते ताः पदं परम् ।
पठनाच्छ्रवणाच्चास्य धर्मतत्त्वं प्रबुध्यते ।। १ २४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये दासीपण्यस्त्रीणामपतिकानां भगवत्पातिव्रत्यनिरूपणनामा त्रयोदशाधिक-
चतुश्शततमोऽध्यायः ।। ४१३ ।।