लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४११ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१२
[[लेखकः :|]]
अध्यायः ४१३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि दुःसहस्य तु योषिताम् ।
कथां पातिव्रत्यपरां ह्यधर्मस्य सुतस्य वै ।। १ ।।
ब्रह्मणः पृष्ठतो जज्ञे ह्यधर्मोऽस्याभवत् सुतः ।
दुःसहो मानसः पुत्रो यत्र यत्र स तिष्ठति ।। २ ।।
तत्र तत्र दुःसहत्वं प्रजानामपि जायते ।
तस्य पत्न्यश्चतस्रश्चाऽभवन्नाम्ना दरिद्रता ।। ३ ।।
बुभुक्षा कलहा मलिनता चेति पतिव्रताः ।
यत्रास्ते दुःसहो देवो वसन्तीमाश्च तत्र वै ।। ४ ।।
कुटुम्बिनः सुहृदश्च पार्श्ववासिन एव च ।
देशस्थस्य पुरस्थस्य दृष्टिमार्गगतस्य ये ।। ५ ।।
सम्पदः समलोक्यैव न सहन्ते ज्वलन्ति च ।
तेषामीर्ष्याऽसूयिकाद्विड्भृतानां मानसे सदा ।। ६ ।।
वासं ददौ स्वयं ब्रह्मा दुःसहस्य पितामहः ।
अथाऽधर्मस्य पुत्रोऽभून्मानसो वर्णसंकरः ।। ७ ।।
सांकर्यस्याऽभवन् पुत्र्यश्चतस्रस्ता दरिद्रता ।
बुभुक्षा कलहा मलिनता चेति विवाहिताः ।। ८ ।।
दुःसहाय प्रदत्तास्ताः सांकर्येण पतिव्रताः ।
दरिद्रता स्वरूपे तु निस्तेजस्का व्यदृश्यत ।। ९ ।।
बुभुक्षाऽऽसीत् कुरूपा च कलहा क्रूररूपिणी ।
मलिनता मक्षिकादिव्याप्ता मलादिलेपिता ।। 1.412.१० ।।
स्नानदानजपहोमध्यानपुण्यादिवर्जिताः ।
दुःसहस्ता उपादाय वासं चक्रे ह्यरण्यके ।। ११ ।।
अलब्ध्वा जीवनं तत्रोद्यमपत्तनमाविशत् ।
व्यवसायिद्विजादीनां मध्ये हर्म्ये विधाय च ।। १ २।।
वासं चक्रे सभार्यः सः सहते न परोन्नतिम् ।
यस्योन्नतिं न सहते तद्गृहेऽयं प्रगच्छति ।। १३ ।।
गृहजनेषु चाविश्य निन्दां कुत्सां परस्परम् ।
वृद्धयोः कुशलस्याऽपि धार्मिकस्यापि सर्वथा ।। १४।।
करोति कारयत्येव धनाऽऽयप्रतिबन्धिकाम् ।
व्यवस्य वर्धिनीं चैव लाभनाशकरीं तथा ।। १५ ।।
एकदा स प्रविवेश महेन्द्रे गुर्वपूजके ।
दुर्वाससाऽर्पितां मालां शक्रः सेहे न तद्बलात् ।। १६ ।।
माला तेन तदा क्षिप्ता गजकुंभे गजेन तु ।
समाकृष्य करेणैव स्वपादेनैव मर्दिता ।। १७।।
तावद्दुर्वाससि चापि प्रविष्टो दुःसहस्तदा ।
दुर्वासा तं शशापाऽपि सम्पद्धीनो भवेति वै ।। १८।।
सम्पदस्तत एवैता लयं प्राप्ता जलादिषु ।
द्रागेवेन्द्रगृहे दरिद्रतापत्नीयुतश्च सः ।। १ ९।।
दुःसहः स्वनिवासं वै चक्रे नित्यं प्रमोदितः ।
शच्या दारिद्र्यदोषेण दानमानादिकं ततः ।।1.412.२०।।
देवविप्रर्षिपित्रादिपूज्यातिथिप्रवासिनाम् ।
निरुद्धं च ततस्तस्यां संविवेश बुभुक्षता ।। २१ ।।
यस्मात्कस्मात्स्थलाद्वापि देवाद्वामानवात्तथा ।
ग्राह्यं ग्राह्यं समाहार्य वर्ज्यं नास्तीति सर्वथा ।।२२।।
सर्वं ग्राह्यं भवत्येव सा गृह्णाति बुभुक्षया ।
चक्रवर्ती महाराजो नहुषो दृष्टिमागतः ।। २३।।
सुस्मृद्धः सा शचीं चैच्छत् तस्मात् स्मृद्धिं तथोपदाः ।
राजानं सा समाहूयाऽयाचत वररत्नकम् ।।२४।।
पार्थिवं च तलीयं च यश्च लोकान्तरार्जितम् ।
राजापि देववन्द्यां तामापद्गतां विलोक्य वै ।।२५।।
दुर्वासःशापतो नश्यमानमपि ददौ च ताम् ।
बुभुक्षया शची नित्यं नवोपदां हि वाञ्च्छति ।।२६।।
देवानुमतिमादाय स्थापितादिन्द्रशासने ।
राज्ञा ज्ञातं बुभुक्षिता मया वस्तुप्रदानकैः ।।२७।।
तृप्ता विधीयते नित्यं मम भोग्या भविष्यति ।
नहुषेणाऽर्थिता रतिकर्मणे यावदेव तु ।।२८।।
तावच्च कलहा शच्या नृपे च वासमाचरत् ।
क्लिष्टा जाता महेन्द्राणी नहुषः ऋषिवाहनात् ।।२९।।
पतितश्चाऽभवत् सर्पः शची याता तु पुष्करम् ।
अथ सर्पे महेन्द्रे च शच्यां मलिनताऽवसत् ।। 1.412.३ ०।।
बहुवर्षसहस्राणि सर्वत्र दुःसहस्तथा ।
चतस्रो योषितस्तस्याऽवसन् प्रजासु सर्वशः ।।३ १ ।।
हाहाकृतं महादुःखार्दितं सर्वं तदाऽभवत् ।
उद्योगपत्तनं नष्टं व्यवसाया वनं ययुः ।।३२।।
लक्ष्मीः समुद्रगा जाता स्मृद्धयोऽपि लयं ययुः ।
लोक्यते यत्र तत्र वै दुःसह स्त्रिभिरन्वितः ।।३३ ।।
पतिं विना न तिष्ठन्ति चतस्रस्ता व्रतान्विताः ।
मोदन्ते स्म हसन्ति स्म नृत्यन्ति स्म गृहे गृहे ।।३४।।
दुःसहस्तु गले कृत्वा मृदंगं वादयत्यपि ।
दरिद्रता ताण्डवं च करोति नृत्यमूर्जितम् ।।३५।।
बुभुक्षा भ्रमते पार्श्वे ढब्बुकान् भिक्षयत्यपि ।
कलहा केनचित् क्षिप्तं हरत्येव प्रसह्य तत् ।।३६ ।।
यदि भोज्यं फलं शुष्कं चार्द्रं ददाति कोऽपि वा ।
द्रागेव हृत्वा चाऽश्नाति नान्यस्यै सा ददाति हि ।।३७।।
यदि चान्या विभागं स्वं गृह्णाति तावदेव सा ।
कलहाऽऽरभते चाक्रोशनं ललाटपिट्टनम् ।।३८।।
तृप्त्यधिकं मिलेच्चेत् तद् ददात्यपरयोषिते ।
न चुलुकं न करयोः क्षालनं मुखशोधनम् ।।३९।।
करोति काचिन्नृत्येऽत्र मलिना संहसत्यपि ।
गृहं द्वारं चाङ्गणं च जलस्थानं च नालिका ।।1.412.४० ।।
रसशालाऽऽप्लवस्थानं सर्वं मलिनतान्वितम् ।
किमु वै बहु वक्तव्यं पेटिकाऽऽस्तरणादिकम् ।।४१ ।।
गृहभित्तिस्तथोद्यानं स्फटिकासनमित्यपि ।
मुखं चक्षुः कपालं च भालं सर्वं मलान्वितम् ।।४२।।
सर्वत्र समभूल्लोके रूपं कुरूपतां गतम् ।
तेजो निस्तेजकतां च गतं कृष्णतमोऽन्वितम् ।।४३।।
एवं वै ताण्डवं दृष्ट्वा देवा नारायणादयः ।
समुद्रमथनं कृत्वा प्रथमं पुरुषं शुभम् ।।४४।।
उदाराख्यं हरिः प्राह धार्मिकं धर्मसंभवम् ।
गृहाण त्वं यथेष्टं वै रत्नानि गच्छ साम्प्रतम् ।।४५।।
सन्तोषेण समं प्रसन्नताख्यया च योषिता ।
समं विचर सर्वत्र लोकेषु मा चिरं व्रज ।।४६ ।।
ततः स धर्मपुत्रश्च प्रसन्नतापतिः खलु ।
उदारः सानुजेनापि सन्तोषेण समन्वितः ।।४७।।
प्रजासु व्यचरच्छीघ्रं वासं चक्रे गृहे गृहे ।
तद् दृष्ट्वा दुःसहः क्रुद्धो देवान् प्रति जगाम ह ।।४८।।
भार्यायुतो ययाचे निष्कास्यमानोऽभितः खलु ।
वासार्थं जीवनार्थं मे देवैः प्रदीयतां स्थलम् ।।४९ ।।
नो चेद् विरागमापन्नो मरिष्ये नात्र संशयः ।
पतिव्रताश्च मे पत्न्यो भविष्यन्त्यनलाञ्चिताः ।।1.412.५ ०।।
सत्यः पृष्ठे मम सर्वाः संसारोऽसारतां व्रजेत् ।
अहमेव हि सारोऽस्मि संसारे जन्ममृत्युदः ।।५ १ ।।
मद्विना यमराजस्य न्यायालयो न संचरेत् ।
मद्विना श्रीहरेरंशा भविष्यन्ति न सर्वथा ।।५२।।
मयि सत्येव सर्वत्राऽधर्मोऽपि नित्यपोषणम् ।
प्राप्नोति चासुराश्चोग्राः स्थिते मयि भवन्ति वै ।।५३ ।।
यथा यथेष्टं भवतां कुर्वन्तु बहुनाऽत्र किम् ।
इत्युक्त्वा विररामाऽसौ तावत्तस्य तु योषितः ।।।५४।।
निराहारा भर्त्सिताश्च प्रजयाऽनादरीकृताः ।
क्षुधितास्तृषितास्तत्र देवानां पुरतो ययुः ।।५५।।
यत्र तासां पतिश्चास्ते चुक्रुधुः रुरुदुस्तदा ।
निजघ्नुर्निजवक्षांसि पुस्फुटुः स्वशिरांसि च ।।५६।।
बिभत्सवाणीर्जगदुः कोलाहलं प्रचक्रिरे ।
अरे रे रे क्व गच्छामस्तृषिताः क्षुधिता वयम् ।।५७।।
नास्ति भोज्यप्रदं क्षेत्रं नास्ति वासगृहं तथा ।
नास्ति वृक्षं सफलं वा नाऽऽश्रयश्चापि विद्यते ।।५८।।
निर्गुणाय निःस्थलाय प्रदत्ता जनकेन वै ।
अहो भाग्यं मरिष्यामोऽरण्येऽन्नसलिलं विना ।।५९।।
नास्ति चुल्ली गृहं नास्ति नास्ति वस्त्रादिकं तथा ।
पिष्टं मिष्टं तथा दिष्टं नास्ति कर्तव्यमेव किम् ।।1.412.६ ० ।।
किं खादामः किं पिबामो निवासस्थानमन्तरा ।
पादं छित्वा नु किं चुल्ल्यां ज्वालयामो विनेन्धनम् ।।६ १ ।।
बालान् किं खण्डशः कृत्वा भक्षयामः स्वकान् पते! ।
प्रदीपे किं पूरणीयं रक्तं तैलं विनाऽत्र किम्! ।।६२।।
सन्ताड्य पृथिवीं पादैः करैः सम्पीड्य मूर्धजान् ।
नेत्रैर्विमुच्य सलिलं रुरुदुर्दीनमानसाः ।।६३।।
आक्रन्दनं महादुःखमयं चक्रुश्च ताः स्त्रियः ।
तदा धर्मो यमः सूर्यश्चेन्द्रः शंभुर्हरिस्तथा ।।।६४।।।
लोकपालास्तथा देव्यो दृष्ट्वा दयावशंगताः ।
एताः प्रसान्त्वयामासुर्विचायैव ददुः स्थलम् ।।६५।।
यत्र भर्ता च भार्या च परस्परविरोधिनौ ।
गुरुः शिष्योऽतिथिः स्वामी द्विजा गावो विरोधिनः ।।६६।।
सभार्यस्त्वं गृहे तेषां विशेषाद् वस दुःसह! ।
यत्र निन्दा च देवानां गुरूणां स्वामिनां श्रियाः ।।६७।।
स्त्रीणां निन्दा च वृद्धानां पित्रोश्च तत्र संवस ।
जपहोमादिकं दानार्चनं यत्र न विद्यते ।।६८।।
परोपकारहीनाश्च सभार्यस्तेषु चाविश ।
हरेः कथा न यत्रास्ति गुरुसम्माननं न च ।।६९।।
रात्रौ रात्रौ गृहे यत्र कलहो वर्तते मिथः ।
पितृतर्पणहीनाश्च सभार्यस्तेषु चाविश ।।1.412.७० ।।
बालानां प्रेक्षमाणानां यत्राऽदत्वा त्वभक्षयम् ।
भक्ष्याणि तत्र संहृष्टः सभार्यस्त्वं समाविश ।।७१ ।।
हिंसाकर्मरताः पापा दयाहीनाः परस्परम् ।
गृहे यस्मिन्नासते तद्गृहे देशेऽपि चावस ।।७२।।
यस्य काकगृहं निम्बे चारामे वा गृहेऽपि वा ।
मुण्डिन्याश्च गृहे नित्यं सभार्यस्त्वं समाविश ।।७३।।
एका दासी गृहे यत्र त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातंगं सभार्यस्त्वं समाविश ।।७४।।
यत्र भार्या मन्त्रकर्त्री डाकिनी डाकनः पतिः ।
पिशाचवासो यत्रास्ति सभार्यस्त्वं समाविश ।।७५।।
यत्र कन्या गर्भवती कुमारी च रजस्वला ।
विधवा चान्यसंगिनी सभार्यस्त्वं समाविश ।।७६।।
यत्र नरा निन्दकाश्च साधूनां द्वेषकारिणः ।
पलाण्डुजातिगन्धीयाः सभार्यस्तेषु चाविश ।।७७।।
यत्र नार्यो विनिन्दन्ति यतीन् साध्वीः सतस्तथा ।
पतीन् वृद्धान् भूसुराँश्च सभार्यस्तत्र चाविश ।।७८।।
मैथुनानन्तरं यत्र न स्नानं शुद्धिरेव न ।
ऋतूत्तरं नवा शुद्धिः सूतकं न च पाल्यते ।। ७९।।
ज्ञानमंगलहीनाश्च सभार्यस्तेषु चाविश ।
मलिनास्या मलदन्ता मदिरामांसभोजनाः ।।1.412.८० ।।
सन्ध्याध्यानादिहीनाश्च द्यूतवेश्यारतास्तथा ।
नार्यो भाण्डादिषु प्रीता यत्र तत्र समाविश ।।८१ ।।
मर्त्याः पशुरता यत्र पशवो मानुषीरताः ।
वृथा धातुविनेष्टारस्तेषां गृहे समाविश ।।८२।।
यत्र कण्टकिनो वृक्षा गवाद्याः क्षुधितास्तथा ।
वध्यन्ते कृतनिःश्वासास्तेषां स्कन्धे सदा वस ।।८३ ।।
पवित्रे वासयोग्ये च स्थले मलादिसर्जकाः ।
सशक्ता अपि विद्यन्ते तेषां स्कन्धे सदा वस ।।८४।।
शास्त्रलोपप्रकर्तारो राज्यन्यायातिचारिणः ।
लोकमार्गच्युतास्तेषां गृहे स्कन्धे सदा वस ।।।८५।।।
दानकार्ये विरुद्धा ये सुखकार्ये विरोधिनः ।
दम्पतीस्नेहहन्तारस्तत्र सभार्यको वस ।।८६।।
इत्युक्तो दुःसहो नत्वा देवान् विष्णुपुरोगमान् ।
ययौ वासाय सर्वत्र लभ्यते यत्र तत्स्थलम् ।।८७।।
त्रयोदश्यां चतुर्दश्यां दीपावल्यां प्रतिपदि ।
रथ्यां भ्रमन्ति ताः सर्वाश्चतस्रो दुःसहस्त्रियः ।।८८।।
अंगणे गोपुरे भित्तौ देहल्यां चत्वरे बहिः ।
दीपदानेन स्वस्तिकपूरणेन सुतोरणात् ।।८९।।
रङ्गवल्ल्यादिभिश्चापि धूलीमार्जनतस्तथा ।
स्वच्छताकरणाच्चापि दधिदानेन वा च ताः ।।1.412.९० ।।
यत्र पतिव्रतानार्यः पतयश्च पत्नीव्रताः ।
उभौ कृष्णपरौ यत्र यत्र वै वैष्णवा जनाः ।।९१ ।।
साधुतृप्तिप्रदाः शिष्याः साध्व्यो यत्र हरिप्रियाः ।
कृष्णनारायणो यत्र तत्र नाऽऽयान्ति ताः प्रिये ।।९२।।
लक्ष्मीपूजा भवेद् यत्र शारदापूजनं तथा ।
गणेशपूजनं यत्र दानं च विविधं भवेत् ।। ९३।।
नत्वा सर्वा निवर्तन्ते नाऽऽयान्ति वत्सरं हि ताः ।
इति ते कथितं लक्ष्मि! दरिद्रतादिवर्तनम् ।।९४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये अधर्मपुत्रदुःसहस्य दरिद्रताबुभुक्षाकलहामलिनताख्यानां पत्नीनां पतिव्रतानां सपतिकनिवासस्थानानां प्रदर्शननामा द्वादशाधिकचतुश्शततमोऽध्यायः ।।४१२।।