लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४१० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४११
[[लेखकः :|]]
अध्यायः ४१२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां श्रेष्ठां शृण्वतां पापनाशिनीम् ।
वैष्णवीनां सतीनां वै मोक्षदां स्वेष्टदायिनीम् ।। १ ।।
यत्रास्ते वैष्णवी नारी तत्र नारायणी स्थिता ।
लक्ष्मीनारायणस्तत्र कृष्णनारायणोऽस्ति च ।। २ ।।
कीर्त्यमाने हरौ यस्या रोमाञ्चो जायते मुहुः ।
कम्पः स्वेदस्तथाऽक्षेषु दृश्यन्ते जलबिन्दवः ।। ३ ।।
विष्णुभक्तिमतीर्दृष्ट्वा या प्रीता जायते हृदि ।
समुत्थायाऽर्हणां कुर्याद् वासुदेवे यथा सती ।। ४ ।।
सा भक्ता धर्मसंपोष्ट्री हरेः सैव पतिव्रता ।
पातिव्रत्यपरा नित्यं सेवते स्वपतिं हरिम् ।। ५ ।।
गन्धपुष्पादिकं सर्वं प्रासादिकं हि धारयेत् ।
हरेः सर्वमितीत्येवं मत्वा सा वैष्णवी सती ।। ६ ।।
हरेः क्षेत्रे शुभान्येव करोति स्नेहसंयुता ।
प्रतिमां च हरेर्नित्यं पूजयेत् सा पतिं यथा ।। ७ ।।
कर्मणा मनसा वाचा जाग्रत्या निद्रयाऽपि च ।
कृष्णनारायणात्म्यैक्या महाभागवती हि सा ।। ८ ।।
भोजनाराधनं सर्वं यथाशक्ति करोति या ।
अष्टधा सेविका कृष्णनारायणस्य सा सती ।। ९ ।।
यस्यास्तेजःप्रभावं च दृष्ट्वा भीता हि देवताः ।
वासुदेवाश्रितां स्वामिव्रतां नत्वा वियन्ति च ।। 1.411.१ ०।।
अन्यनारीसहस्रेभ्यो वैष्णवी स्त्री विशिष्यते ।
विष्णुभक्तासहस्रेभ्य स्वामिव्रता विशिष्यते ।। १ १।।
स्वामिव्रतासहस्रेभ्यो भक्तस्वामिवती सती ।
विष्णुभक्तपतिमत्त्वात् सर्वाभ्यः सा विशिष्यते ।। १२।।
यस्याः सुताः सुपुत्र्यश्च पौत्राश्च देवरादयः ।
जामातारौ श्वशुरश्च पितरौ बान्धवादयः ।। १ ३।।
सपत्न्यो दासदास्यश्च मित्राणि त्वालयस्तथा ।
वैष्णव्यो विष्णुभक्तान्यो यास्ताभ्यः सा विशिष्यते ।। १४।।
त्रिशंकोर्दयिता भार्या सर्वलक्षणशोभिता ।
अम्बरीषस्य जननी महाभागवती सती ।। १५।।
नित्यं स्वामिपरा स्वामिसेविका हरिदासिका ।
पतिं कृष्णं परंब्रह्म मत्वा वै सेवते सती ।। १६।।
त्रिशंकुस्तु सरय्वां वै नित्यं स्नात्वाऽर्चयद्धरिम् ।
साऽपि सेवापरा प्रातर्मध्याह्ने निशि तं पतिम् ।। १७।।
तथा कृष्णं सेवते स्म पूजाकाले सुवस्तुभिः ।
चन्दनं दीपनं धूपं तथा पञ्चाऽमृताऽऽप्लवम् ।। १८।।
विदधात्येव हस्ताभ्यां नान्यदास्यादिभिः क्वचित् ।
एवं सेवापरा नित्यं मुक्तानीव हि वर्तते ।। १ ९।।
नारायणं चतुर्बाहुं शेषपर्यंकशायिनम् ।
अर्चयामास सततं वाङ्मनःकायकर्मभिः ।।1.411.२०।।
माल्याऽऽदानादिकं सर्वं स्वयमेव चकार ह ।
गन्धादिपेषणं चैव हविषां पचनं तथा ।।२१ ।।
भूमेरालेपनादीनि स्वयं वै प्रचकार सा ।
नाम्ना पद्मावती राज्ञी वाचा नारायणेति च ।।२२।।
श्रीकृष्णेत्येव सा नित्यं भाषमाणा पतिव्रता ।
दशवर्षसहस्राणि तत्परेणान्तरात्मना ।।।२३।।
अर्चयामास गोविन्दं गन्धपुष्पादिभिः सदा ।
विष्णुभक्तान् भागवतान् नरान्नारीश्च वैष्णवीः ।।२४।।
दानमानार्चनैर्नित्यं धनरत्नैरतोषयत् ।
ततः कदाचित् सा देवी द्वादशीं समुपोष्य वै ।।२५।।
हरेरग्रे महाभागा सुष्वाप पतिना सह ।
पतिं नारायणं ध्यात्वा सिषेवे गृह्यधर्मणा ।।२६।।
तत्र नारायणो देवस्तामाह पुरुषोत्तमः ।
किमिच्छसि वरं भद्रे मत्तस्त्वं ब्रूहि भामिनि! ।।२७।।
सा कृष्णात्तु वरं वव्रे पुत्रो मे वैष्णवो भवेत् ।
सार्वभौमो महातेजाः सर्वस्वार्पणभक्तिमान् ।।२८।।
तथेत्युक्त्वा ददौ तस्यै फलमेकं जनार्दनः ।
सा प्रत्यक्षं फलं दृष्ट्वा भर्त्रे सर्वं न्यवेदयत् ।।२९ ।।
भक्षयामास संदृष्ट्वा फलं तद्गतमानसा ।
ततः कालेन सा पद्मावती पुत्रं सुवंशदम् ।।1.411.३ ०।।
असूत वैष्णवं भक्तं वासुदेवपरायणम् ।
भक्तलक्षणसम्पन्नं चक्रांकिततनूरुहम् ।।३ १ ।।
दिव्यरेखान्वितं परं भागवतं गुणालयम् ।
पिता जातक्रियाः सर्वाश्चकार ववृधेऽपि सः ।।३ २।।
अम्बरीष इति नामाऽभवन्मुक्तो गुणादिभिः ।
पित्राऽभिषिक्तो राज्येऽपि तप उग्रं चकार सः ।।३३ ।।
संवत्सरसहस्रं स जपन्नारायणं हरिम् ।
राधाप्रभापार्वतीश्रीलक्ष्मीशामाणिकीपतिम् ।।३४।।।
श्रीवत्सवक्षसं वृन्दारमाश्रीपद्मिनीपतिम् ।
पद्मातुलसीविजयाललितामंजुलापतिम् ।।३५।।
देवीहैमीदयाशान्ताशान्तिचम्पासुपुष्पिका- ।
हंसारंभासवितामौक्तिकामुक्ताजयापतिम् ।। ३६ ।।
अभजत् सर्वदा राजा श्रीकृष्णपुरुषोत्तमम् ।
ततः प्रसन्नो भगवान् चक्रपद्मांकपत्तलः ।।३७।।
गरुडं हस्तिनं कृत्वा भूत्वेन्द्रः स्वः समाययौ ।
अम्बरीषं हरिः प्राह महेन्द्रोहं वरं वृणु ।।३८।।
ब्रूहि किं ते ददाम्यत्र तपसां फलमूर्जितम् ।
अम्बरीषस्तदा प्राह त्वदर्थंं न तपामि वै ।।३९।।।
त्वया दत्तं च नेष्यामि गच्छ चेन्द्र! यथासुखम् ।
नाहमिच्छामि ते भोगान् नश्वरान् पारमेष्ठिकान् ।।1.411.४० ।।
वैराजान् वैश्वरान् निरयान् कामसंचितान् ।
विना नारायणकृष्णचरणाब्जस्य दासताम् ।।४१ ।।
ततः प्रहस्य भगवान् कृष्णनारायणः स्वयम् ।
स्वरूपमकरोत् स्वस्य लक्ष्मीकान्तं चतुर्भुजम् ।।।४२।।
गरुडस्थं गुरुं दृष्ट्वाऽम्बरीषः प्रणनाम तम् ।
तुष्टावाऽह प्रसीदाऽत्र मम कृष्णनरायण ।।४३ ।।
काम्भरेय महाविष्णो गोपालकुलबालक! ।
पत्नीव्रत आदिदेवः श्रीव्यासः कमलेश्वरः ।।४४।।
क्रियाकाण्डं त्वयि कृत्वा परमात्मात्मनि स्थितः ।
त्वां प्रपन्नोऽस्मि भक्तानां वल्लभ शरणप्रद! ।।४५।।
भगवांश्च प्रहस्यैवाऽम्बरीषं प्राह लीलया ।
वद भक्त! प्रदानार्थमागतोऽस्मीह वाञ्छितम् ।।४६ ।।
अम्बरीषो हरिं प्राह भवानेव वृतो मया ।
भवद्भक्तिं करोम्येव नित्यं मेऽस्ति यथामतिः ।।४७ ।।
पालयिष्यामि पृथिवीं कृत्वा वै वैष्णवं जगत् ।
यज्ञहोमार्चनैश्चैव तर्पयामि सुरस्थितम् ।।४८।।
वैष्णवान् पालयिष्यामि निहनिष्यामि हृद्रिपून् ।
करिष्यामि भजनं ते नयिष्याम्यक्षरं बहून् ।।४९।।
एवमस्त्वित्यभिधाय चक्रं दत्वा सुदर्शनम् ।
शापरोगादिसन्तापनाशायाऽन्तरधीयत ।।1.411.५० ।।
चक्रं सिंहासने धृत्वा विष्णुमूर्तिं प्रकल्प्य च ।
अम्बरीषस्तथा माता पद्मावती पुपूजतुः ।।५१ ।।
चक्रं सदैव गृह्णाति मातृपुत्रकृतार्हणाम् ।
एकदा हिमवत्पार्श्वे वृष्टिश्चाभूद् भयंकरी ।।५२।।
साकेतविषयस्तत्र मग्नो नाशो व्यजायत ।
पद्मावती हरिं प्राह चक्रं संपूज्य भामिनी ।।।५३।।
भगवन् सर्वथा रक्ष प्रजा नैजास्तु वैष्णवीः ।
विप्लवो जायते वृष्ट्या रक्ष त्राहि कृपां कुरु ।। ५४।।
पातिव्रत्यपरा स्यां चेत् त्वत्प्रपत्तिपरा यदि ।
तेन पुण्येन त्वद्भक्त्या जलं मेघश्च नश्यताम् ।। ५५।।
सुदर्शनं विहस्यैव ज्वालामालाभयानकम् ।
भूत्वाऽऽकाशं प्रपद्यैव घनान् सर्वान् व्यनाशयत् ।। ५६।।
जलं चाऽसंहरत् सर्वं प्रजा ररक्ष लीलया ।
इतिकृत्वाऽऽगतं चक्र निषषाद निजस्थलम् ।।५७।।
अथाऽम्बरीषनृपतेः कन्याऽऽसीच्छ्रीमती शुभा ।
श्रीमत्या दानसमयं दृष्ट्वा राजा तु नारदम् ।।५८।।
अभ्यागतं प्रणिपत्य वरान्वेषणमार्थयत् ।
सुरूपां संविलोक्यैव तामैच्छन्नारदस्तदा ।।५९।।
आययौ पर्वतश्चापि तामैच्छच्चकमे मुहुः ।
तावुभौ नृपतिः प्राह कन्यां चैकां कथं ह्यहम् ।।1.411.६०।।
उभौ भवन्तौ तामेकां प्रार्थ्यमानौ ददामि वै ।
तथापि युवयोरेकं वरयिष्यति चेत्तदा ।।६ १ ।।
तस्मै कन्यां प्रयच्छामि नान्यथा शक्तिरस्ति मे ।
तथेत्युक्त्वा ततो भूयः श्वो यास्याव इति स्म ह ।।६२।।
विष्णुं प्रजग्मतुस्तौ तु नेमतुश्च रहःस्थले ।
अम्बरीषः सुतां नाम्ना श्रीमतिं दातुमिच्छति ।।६३।।
मह्यै दद्यान्नारदाय कर्तुमर्हसि तत्तथा ।
वानराननवद् भातु पर्वतस्य मुखं यथा ।।६४।।
तथा कुरु हरिः प्राह तथास्त्विति ययौ च सः ।
अथागत्य पर्वतोऽपि हरिं प्राहाऽर्पयेत् स मे ।।६५।।
गोलांगूलाननो यथा नारदस्तत्र दृश्यते ।
तथा कुरु हरिः प्राह तथास्त्विति ययौ च सः ।।६६।।
राजा तु मण्डयामास स्वयंवरसभास्थलीम् ।
स्वर्गसभास्थलीतुल्यां राजन्यदेवपूरिताम् ।।६७।।
कन्यां शृंगारितां नीत्वाऽम्बरीषः प्रविवेश ह ।
उभौ देवर्षिसिद्धौ तौ सुरूपौ प्रथमं स्थितौ ।।६८।।
सर्वे बभूवुर्निष्कामाः कन्याशापरिवर्जिताः ।
सुतां कमलपत्राक्षीं प्राह राजा सुपद्मिनीम् ।।६९।।
अनयोर्यं वरं भद्रे मनसा त्वमिहेच्छसि ।
तस्मै मालामिमां देहि कन्ययाऽऽलोकितौ च तौ ।।1.411.७० ।।
शाखामृगाननं दृष्ट्वा नारदं पर्वतं तदा ।
सा प्राह पितरं त्रस्ता कावेतौ नरवानरौ ।।७ १ ।।
इति कृत्वा ययौ पश्चात् पश्चात् त्रस्ता शनैः शनैः ।
तावत्तयोरन्तराले ह्यूनषोडशवार्षिकम् ।।७२।।
सर्वाभरणसंशोभं स्थलपद्मातिशोभिनम् ।
रक्तान्तायतपद्माक्षं कोटिकामातिसुन्दरम् ।।७३ ।।
दन्तपंक्तिभिरत्यर्थं कुन्दकुड्मलसन्निभैः ।
हसन्तं सा ददर्शाऽतिरूपाभिरूपमच्युतम् ।।७४।।
कन्या दृष्ट्वा मुमोहाऽति राजाऽऽहाऽऽर्पय मालिकाम् ।
नारदपर्वतौ परस्परं ददृशतुर्मुखम् ।।७५।।
वानरीयं दर्पणेऽतिलज्जावन्तौ बभूवतुः ।
अन्ये च जहसुः सर्वे वानरास्यौ प्रति नृपाः ।।७६।।
प्रसह्य तावुभौ तत्र राजानं प्राहतुः खलु ।
आवयोरेकमेषा ते वरयत्वेव मा चिरम् ।।७७।।
ततः सा कन्यका बुद्धिमती नत्वेष्टदेवताम् ।
मायामादाय तिष्ठन्तं रक्षार्थं मध्यवर्तिनम् ।।७८ ।।
कृष्णनारायणं कान्तं मालिकामार्पयत्तु सा ।
अनन्तरं हि सा कन्या न दृष्टा मनुजैः सुरैः ।।७९ ।।
ततो नादः समभवत् किमेतदिति संसदि ।
तामादाय गतो विष्णुर्वैकुण्ठं पुरुषोत्तमः ।।1.411.८० ।।
सभा विसृष्टा संजाता नारदः पर्वतस्तथा ।
गतौ वैकुण्ठमेवाऽऽद्यं नारायणमपश्यताम् ।।८ १ ।।
तस्याङ्के सुस्थितां पत्नीं श्रीमतीं चाप्यपश्यताम् ।
अत्याश्चर्यं समापन्नौ प्राहतुः परमेश्वरम् ।।८२।।
कथं त्वया हि भगवन् वरं दत्वा विमोहितौ ।
कन्यालाभाय संप्रोच्य मध्यतो नीतवानसि ।।८३ ।।
तस्माज्जन्मान्तरे तेऽपि स्त्रीमोहेन सुकष्टदा ।
गतिर्भविष्यति तत्र वानरेषु चरिष्यसि ।।८४।।
भगवानाह ओमेवं स्वीचकार सुधर्मधृक् ।
तावृषी सान्त्वयामास शृणुत तत्र कारणम् ।।८५।।
कथं मध्ये समागत्याऽऽहृतेयं श्रीमती तु वः ।
राक्षसाश्छलधर्माणो राहुवत् सन्त्यनेकशः ।।८६।।
यथाऽमृतस्य पानेऽभूत् तथाऽत्र क्रौचिराक्षसः ।
प्रतीक्षन् युवयोर्मध्ये कन्यारूपेण मोहितः ।।८७।।
ह्यतिष्ठत् तद्विदूराय मध्यस्थोऽहं समागतः ।
किन्तु युवाभ्यां चान्योन्यं वानरास्यं समर्थितम् ।।८८।।
तत्तथैव हि संजातं युवयोरेव चार्थनात् ।
नास्ति दोषोऽण्वापि तत्र मदीयो मुनिपुंगवौ! ।।८९।।
तारितौ तु मया वां वै मायया मोहितावपि ।
किन्त्वन्यच्छृणुतं विप्रौ! पूर्वजन्मनि कन्यया ।।1.411.९०।।
तपः कृतं मदर्थं वै बहुसंवत्सरात्मकम् ।
सा प्रागासीन्महासाध्वी चाबाल्याद् ब्रह्मचारिणी ।।९१ ।।
मार्कण्डेयमहर्षेः सा कन्या सती तु मानसी ।
कम्भराख्यमहालक्ष्म्यास्तपःस्थाने सहायिनी ।।९२।।
नाम्ना श्रीः सा तपश्चक्रे दिव्यवर्षसहस्रकम् ।
कृष्णनारायणो मे स्यात्पतिश्चेत्यर्थवाञ्च्छया ।।९३ ।।
यदा सुदर्शनं दातुं चाम्बरीषाय माधवः ।
व्योममार्गात्समायातस्तदा दृष्ट्वा नरायणम् ।।९४।।
हर्षिता चकमे कृष्णं प्राप्तुं तपो विहाय सा ।
योगेन सहसा व्योम्नोत्पपाताऽनुययौ हरिम् ।।९५।।
अम्बरीषगृहे तावन्नारायणः समर्प्य च ।
चक्रं सुदर्शनं राज्ञेऽदृश्योऽभवत्ततो हि सः ।।९६ ।।
जातिस्मराऽभवत् कन्याऽम्बरीषस्य हि मानसी ।
मदर्थं वैष्णवी जाता प्रतीक्षन्ती मदागमम् ।। ९७।।
मद्योगार्थं मयैवान्तःस्थितेन प्रेरितौ युवाम् ।
गतौ तस्याः सन्निधौ चागतौ मया विमोहितौ ।।९८।।
युवयोर्मिषमादाय तदिच्छापूरणाय च ।
समागतोऽम्बरीषस्य गृहं साक्षाच्चतुर्भुजः ।।९९।।
मध्ये तु युवयोर्भूत्वा वरमाला मया तदा ।
गृहीता कन्यकाहस्ताच्छ्रीमती सा मम प्रिया ।। 1.411.१०० ।।
वर्ततेऽत्र ममांके सा सहासा वानराननौ ।
इत्युक्तौ रोषितौ नत्वा जग्मतुर्मुनिसत्तमौ ।। १०१ ।।
अम्बरीषं समासाद्य शेपतुस्तावुभौ मुनी ।
आहूय पश्चादन्यस्मै कन्यां त्वं दत्तवानसि ।। १ ०२।।
मायायोगेन तस्मात् त्वां तमो ह्यभिभविष्यति ।
एवं शापे प्रदत्ते तु तमोराशिरथोत्थितः ।। १ ०३।।
नृपं प्रति ततश्चक्रं तं जघान सुदर्शनम् ।
तमोराशिं द्रुतं हत्वा मुनयोः पृष्ठमालगत् ।। १ ०४।।
तौ तु लोकालोकपारं धावमानौ भयार्दितौ ।
त्राहि त्राहीति गोविन्दं प्राप्तौ वैकुण्ठनायकम् ।। १०५ ।।
त्राह्यावां पुण्डरीकाक्ष त्रातासि पुरुषोत्तम! ।
कन्या लब्धा त्वया चक्रं नौ पृष्ठे निहितं कथम् ।। १ ०६।।
श्रुत्वा हसित्वा भगवान् चक्रं न्यवर्तयत्ततः ।
रुद्धं सुदर्शनं तत्र यथापूर्वमतिष्ठत ।। १ ०७।।
मुनिश्रेष्ठौ गतौ नत्वा प्रतिज्ञाय हरेः पुरः ।
अद्य प्रभृति देहान्तमावां कन्यापरिग्रहम् ।। १ ०८।।
न करिष्याव इत्येवं जातौ ध्यानपरायणौ ।
अम्बरीषो हरिं ध्यात्वा ययौ कृष्णपदाम्बुजम् ।। १ ०९।।
विष्णुलोकं सदा कृष्णनारायणं प्रसेवते ।
श्रीमती श्रीरिव लक्ष्मीरिव रमेव सेवते ।। 1.411.११० ।।
इति ते कथितं लक्ष्मि! प्राग्वृत्तं श्रीमतीभवम् ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वापि या सती ।। १११ ।।
सर्वे ते मम वैकुण्ठं यान्ति मामेव वैष्णवाः ।
इद्ं नित्यं पठेत् पुण्यं विष्णोः सायुज्यमाप्नुयात् ।। ११ २।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगरुन्ताने पतिव्रतामाहात्म्ये त्रिशंकोः पद्मावतीराज्ञ्यामम्बरीषोत्पत्तिः, तस्य श्रीमत्याख्यदुहितुर्विवाहे नारदपर्वतयोर्वानरमुखता, नारायणेन च श्रीमत्या वैकुण्ठप्राप्तिः, पद्मावत्याः श्रीमत्याश्च पातिव्रत्यबलमित्यादिनिरूपणनामा एकादशाधिकचतुश्शत-
तमोऽध्यायः ।।४१ १ ।।