लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४०९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४१०
[[लेखकः :|]]
अध्यायः ४११ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि शक्तिपत्न्याः पराक्रमम् ।
वशिष्ठोऽस्ति ब्रह्मणोंऽशो वेदद्रष्टा ऋषिः कृतः ।। १ ।।
अरुन्धती सती साध्वी तस्य पत्नी पतिव्रता ।
तस्यां वशिष्ठो भगवान् सुतानजनयच्छतम् ।। २ ।।
तत्र शक्तिसमाख्यो वै ज्येष्ठोऽभूद् यस्य योषिति ।
पराशरः ऋषिर्जज्ञे यस्याऽहं व्याससंज्ञकः ।। ३ ।।
पुत्रोऽभवं मम पुत्रो ब्रह्म शुकस्वरूपवान् ।
यस्य मे सर्वथा कीर्तिर्गीयते मोक्षसिद्धये ।। ४ ।।
राक्षसो रुधिरो नाम शक्तिं वशिष्ठपुत्रकम् ।
भक्षयामास तच्छ्रुत्वा वशिष्ठो बहुदुःखितः ।। ५ ।।
नवनवतिपुत्राश्च रुधिरेण प्रभक्षिताः ।
तच्छ्रुत्वाऽथ वशिष्ठोऽपि मर्तुं चक्रे मतिं तदा ।। ६ ।।
तदा तस्य स्नुषा प्राह पत्नी शक्तेर्महामुनिम् ।
भगवन् ब्राह्मणश्रेष्ठ! तव देहमिमं शुभम् ।। ७ ।।
पालयस्व विभो द्रष्टुं तव पौत्रं ममात्मजम् ।
गर्भस्थो मम सर्वार्थसाधकः शक्तिजो यतः ।। ८ ।।
तदा गर्भगतो बालः ऋचमाह स्वरेण वै ।
तन्निशम्य वशिष्ठोऽभूदाश्चर्यवान् कथं कुतः ।। ९ ।।
तावन्नारायणः कृष्णः साक्षादभूत् तदंगणे ।
प्राह त्वत्पुत्रपुत्रस्याऽऽननाद् ऋचो विनिःसृताः ।। 1.410.१ ०।।
मत्समस्तव पौत्रोऽसौ शक्तिजः शक्तिमानिति ।
तेन सत्पौत्रलाभेन कुलं ते संतरिष्यति ।। ११ ।।
एवमुक्त्वा कृष्णनारायणश्चान्तरधीयत ।
वशिष्ठो दक्षहस्तेन पस्पर्शोदरमादरात् ।। १ २।।
अदृश्यन्त्याः शक्तिपत्न्या गर्भरक्षां चकार ह ।
अदृश्यन्ती सती साध्वी महापतिव्रता तदा ।। १ ३।।
कालं रुद्रं यमं विश्वामित्रं शशाप राक्षसम् ।
शक्ते! शक्ते! पते! तेऽहं पातिव्रत्यपरायणा ।। १४।।
यदि पत्न्यस्मि धर्मिष्ठा त्वदर्थार्पितजीविता ।
श्वश्रूश्चारुन्धती चास्ति रमातुल्या पतिव्रता ।। १५।।
तदा कालश्च रुद्रश्च विश्वामित्रो यमस्तथा ।
राक्षसश्चेति सर्वे ते भवन्तु प्रस्तरा जडाः ।। १ ६।।
यत्र यत्रैव ते सन्ति तत्र पाषाणरूपिण ।
जडा निश्चेतनाः सन्तु यावदाभूतसम्प्लवम् ।। १७।।
इति शप्तास्तदा यत्र यत्राऽभवँश्च ते तदा ।
शिलारूपा हि सञ्जाताः स्थास्यन्ति ब्रह्मणो वयः ।। १८।।
कालो यत्र पृथिव्यादावभूत् तत्र हि सर्वथा ।
कृष्णवर्णाः शिला जाताः पृथ्वीपीठात्मिका हि ताः ।। १ ९।।
यदाधारा मृत्तिका वै जायन्ते कालमूर्तितः ।
अथ रुद्रोऽभवद् ग्रावा लोहकान्तस्तु पश्चिमे ।।1.410.२०।।
रौद्री शिला च सा प्रोक्ता शिवकन्दरपुत्तली ।
आकर्षति स्वनिकटं सर्वलोष्ठानि वारिधौ ।।२ १ ।।
यां भूमिं चिरकालेनाऽऽप्लावयिष्यति वार्निधिः ।
विश्वामित्रोऽभवच्चैव मरुभूमौ हि पश्चिमे ।।२२।।
यत्र पाषाणरूपोऽसौ जातस्तस्मात्स्थलात्खलु ।
विश्वामित्री नदी तस्य स्वेदाज्जाता हि गौर्जरे ।।२३।।
शिला कालेन संमग्ना मूर्तिर्भूमौ भविष्यति ।
यमोऽभूच्च तदा कृष्णवर्णो वै रैवताचले ।।२४।।
महिषवाहनारूढो भयेन शरणं गतः ।
दामोदरस्य सान्निध्ये तत्र समहिषो यमः ।।२५।।
कृष्णपाषाणरूपो वै माहिषः पर्वतोऽभवत् ।
राक्षसः स ययौ भीत्याऽवाच्यां दिशि तदा द्रवन् ।।२६ ।।
शापेन पतितश्चाब्धौ सेतौ गिरिस्तदाऽभवत् ।
यो हनुमत्प्रवासे वै पर्वतो व्योमगोऽरुणत् ।।२७।।
हनुमन्तं महाकायं युयोध जडचेतनः ।
अथ हाहाकृतं चासीज्जगत्सर्वं जडीकृतम् ।।।२८।।।
विना रुद्रं विना कालं विना यमं च विश्वकम् ।
देवता व्याकुलाः सर्वे ब्रह्माणमुपपेदिरे ।।२९।।
सविष्णवश्च ते सर्वे ययुर्यत्र सती स्थिता ।
शक्तेः पत्नी वशिष्ठश्चाऽरुन्धती यत्र तान् सुराः ।।1.410.३ ०।।
ते नेमुदुःखिता नाशं निवेद्य लोकपालिनाम् ।
सान्त्वयामासुरत्यर्थं जीवनाय सुपालिनाम् ।।३ १ ।।
मातर्जीवय लोकानां पालकान् येन शं भवेत् ।
अदृश्यन्ती ततः प्राह यदि मत्पतिदेवरान् ।।३२।।
जीवयध्वं तदा देवान् जीवयामि न चान्यथा ।
ब्रह्मा प्राह सति! शक्त्यादयो राक्षसभक्षिताः ।।३ ३।।
भस्मास्थिचर्मतद्रजश्चावशिष्टं न लभ्यते ।
यत्संस्कारेण ते चाद्य कृताः स्युः सशरीरकाः ।।३४।।।
यस्य शवोऽस्थि मांसं च भस्म मृद्वापि लभ्यते ।
तत्र समन्त्रवारिभिः सदेहः स विरच्यते ।।३५।।
शक्त्यादिशतपुत्राणां विना मांसास्थि शेषकम् ।
न ते जीवयितुं शक्या वदात्र सति! किं भवेत् ।। ३६ ।।
अदृश्यन्ती तदा प्राह यदि मत्पतिदेवराः ।
न चोत्पादयितुं शक्या न वा जीवयितुं तदा ।।३७।।
रुद्रादयोऽपि न शक्याश्चेतयितुं मया सुराः ।
मम पत्यादिलाभे तु वो लाभो लोकपालिनाम् ।।३८।।
यादृशे तादृशी प्रतिक्रिया न्यायो मया मतः ।
ब्रह्मा प्राह सति! शक्त्यादिकान् दिव्यान् ददामि ते ।।३९।।
विदेहान् सूक्ष्मरूपाँश्च स्थूलभावविवर्जितान् ।
सती प्राह तदा वेधश्चाहमपि तथाविधान् ।।1.410.४०।।
कालरुद्रादिकान् स्थौल्यवर्जितान् सूक्ष्मरूपिणः ।
ददामि चेतयाम्येव शिलारूपातिरेकिणः ।।४१ ।।
द्वितीयेनाऽणुरूपेण कालो रुद्रो यमस्तथा ।
विश्वामित्रो राक्षसश्च कुर्वन्तु कर्म सृष्टिगम् ।।४२।।
न वै स्थूलस्वरूपेण शिलास्तिष्ठन्तु सर्वदा ।
इतिश्रुत्वाऽजविष्ण्वादिदेवैः शक्त्यादयस्तदा ।।४३ ।।
दिव्यसूक्ष्मस्वरूपाश्च स्वर्गादानीय चार्पिताः ।
स्वर्गस्थाः पृथिवीस्थाश्च वर्तन्ते तेऽणुमूर्तयः ।।४४।।
अदृश्यन्त्या अपि तदा कालरुद्रादयोऽपि वै ।
तथैवाणुस्वरूपाश्च कृताः कार्याधिकारिणः ।।४५ ।।
करे जलं समादाय प्रोवाच शक्तिमानिनी ।
यथा मे स्वामिनो मूर्तिर्देवराणां च यादृशी ।।४६ ।।
तादृशी चेतना मूर्तिः कालादीनां प्रपद्यताम् ।
इति तया कृताः कालादयः सूक्ष्माधिकारिणः ।।४७।।
ततो देवा गताः स्वर्गं नाऽऽपराध्यन्ति वै सतीः ।
समर्था अपि कम्पन्ते पातिव्रत्यप्रभावतः ।।४८।।
सूर्यश्चन्द्रो महेन्द्रश्च विष्णुश्चान्येऽपि देवताः ।
कम्पन्ते वै सतीनाम्ना तदन्येषां तु का कथा ।।४९।।
सतीधर्मः परो धर्मो न भूतो न भविष्यति ।
नार्यां यादृक् पारवश्यं निहितं ब्रह्मणा तथा ।।1.410.५०।।
तेजः परं महत्पातिव्रत्यमैश्वर्यमर्पितम् ।
अबला सेविका यद्वत् तद्वत् सा पारमेश्वरी ।।५१ ।।
सबलाऽपि पातिव्रत्यधर्मेण वर्तते सदा ।
एवं विवर्तमानाया अदृश्यशक्तियोषितः ।।५२।.।
गर्भो जज्ञे महाज्ञानी समये बालको मुनिः ।
ऋषिः पराशरः सोऽयं नाम्ना ख्यातोऽभवद् भुवि ।।५३ ।।
यस्य श्रीभगवानस्मि व्यासरूपः सुतः सति! ।
जगुस्तदा तु पितरो ननृतुश्च पितामहाः ।।५४।।
प्रपितामहाश्च सर्वे ह्यवतीर्णे पराशरे ।
पुष्काराद्या असृजँश्च पुष्पवर्षं च खेचराः ।।५५।।
सर्वत्राऽऽसीन्महः श्रेष्ठं पराशरे समागते ।
दिव्यान् समागतान् पितृनद्भ्रातॄन् वीक्ष्य बालकः ।।५६।।
जातमात्रो महाज्ञानी वदमानो ननाम तान् ।
सर्वानानन्दयामास वर्धमानो दिने दिने ।।५७।।
अप्राप्तयौवनो यावद् जगौ विष्णुकथानकम् ।
भूतभव्यभवत्सर्वाख्यानभृतं सुमुक्तिदम् ।।।५८।।
एतद् यः श्रावयेद् भक्त्या शृणुयाच्छ्रद्धया तथा ।
पराशरं स्मरेच्चापि स्वेप्सितं प्राप्नुयाद्धि सः ।।५९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वशिष्ठस्य पुत्रशक्त्यादिनां राक्षसद्वारा नाशे सति शक्तिपत्न्या अदृशन्त्या शप्ताः कालरुद्रयमविश्वामित्र-राक्षसाः शिलारूपाः शैला जाताः, ततः शक्त्यादयो ब्रह्माद्यैः कालादयस्त्वदृश्यन्त्या सूक्ष्मरूपेण सजीवीकृताश्च, शक्तिपुत्रः पराशरो जातश्चेत्यादिनिरूपणनामा दशाधिकचतुश्शततमोऽध्यायः ।। ४१० ।।