लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९९
[[लेखकः :|]]
अध्यायः ४०० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां दिव्यां रम्यां पूर्वभवां शुभाम् ।
अहं तमश्वमारूढो गत्वा श्रीवेंकटाचलम् ।। १ ।।
हयात्तस्मादवतीर्य विवेश मम मण्डपम् ।
श्रीनिवासाभिधश्चाहं पञ्च कक्षा अतीत्य च ।। २ ।।
मुक्तागृहं समासाद्य मञ्चे विवेश तां स्मरन् ।
अहं स विवशो भूत्वा श्रीनिवासो मुहुर्मुहुः ।। २ ।।
सस्मार पद्मिनीं पत्नीं पूर्वां मदर्थनिर्मिताम् ।
श्रीनिवासः प्रभुस्तत्र निद्रां लेभे मनाङ् न वै ।। ४ ।।
मध्याह्नसमये जाते सखी बकुलमालिका ।
भोज्यं भक्ष्यं पायसान्नं मिष्टं सुगन्धमोदनम् ।। ५ ।।
व्यञ्जनानि सूपतक्रे पूरिका वटिका रसान् ।
अपूपान् वटकान् पूर्णपोलिका दधि सर्पिषा ।। ६ ।।
मिश्रितं शर्कराभिश्च कदलादिरसानकम् ।
महत्पात्रे निधायैव देवं इष्टं समागता ।। ७ ।।
अन्याः सख्यश्चित्ररेखा नवरंगा च मालती ।
कमला किंशुकी कल्पलता चान्या जलादिकम् ।। ८ ।।
ताम्बूलं व्यजनं नक्तकोत्तमं चन्दनं फलम् ।
गृहीत्वा चाययुर्यत्र श्रीनिवासो विराजते ।। ९ ।।
बकुलमालिका कृष्णं ववन्दे भक्तिभावतः ।
ध्यायन्तं चाऽपूर्वरूपं व्याजहार हरिं सखी ।। 1.399.१ ०।।
उत्तिष्ठ देवदेवेश! भोक्तुमागच्छ माधव ।
कथं वा दृश्यसे त्वार्तो यावदार्तिहरो हरिः ।। ११ ।।
वने मृगयाव्याजेन दृष्टवानसि किं नवम् ।
अवस्था चिन्तयानस्य स्फुटं वदति हृद्गतम् ।। १ २।।
का दृष्टा देवकन्या वा मानुषी वाऽहिपुत्रिका ।
ब्रूहि नो भगवँश्चित्तस्थितां तां चित्तहारिणीम् ।। १ ३।।
इत्याकर्ण्य श्रीनिवासो निःश्वासं समरेचयत् ।
उवाच तां सखीं तत्र विहस्य पुरुषोत्तमः ।। १४।।
पुरायुगे महादुष्टं रावणं हतवानहम् ।
तदा वेदवती दासी सीतासाहाय्यदाऽभवत् ।। १५।।
सीतारूपाऽभवल्लक्ष्मीर्जनकस्य महीतलात् ।
मया रामेण लब्धा सा ततः पञ्चवटीवने ।। १६ ।।
राक्षसो रावणस्तां तु हर्तुं समाययौ यदा ।
तदाऽग्निदेव एवैनां स्वाहायां सन्निवि श्य च ।। १७।।
तस्याः स्थाने तत्स्वरूपां कन्यां वेदवतीं न्यधात् ।
निन्ये वेदवतीं रक्षो रामस्तं निजघान च ।। १८।।
अग्नौ वेदवतीं क्षिप्त्वा प्राप्य सत्यां तु जानकीम् ।
कृतकृत्योऽभवंस्तत्र तदा वह्निरुवाच माम् ।।१ ९।।
इयं वेदवती कन्या सीतायाः प्रियकारिणी ।
सीतार्थं राक्षसहस्ते गता दुःखमहार्णवे ।।1.399.२० ।।
तस्मादेनं वरेणैव प्रीणय सीतया सह ।
इति वह्निवचः श्रुत्वा सीताऽपि मां जगाद ह ।।२१ ।।
मदर्थं दुःखमाप्तेयं सखी वेदवती मम ।
तस्मात्परां भागवतीं देवैनां वरय प्रभो ।। २२।।
तदा मया प्रतिज्ञातं वरिष्ये तव वाक्यतः ।
आकाशभूपकन्यां वै पद्मिनीं श्रीस्वरूपिणीम् ।। २३।।
तावदेषा श्रियो दासी सखीरूपा हि वर्तताम् ।
यदा चेयं भूमिपुत्री वियत्पुत्री भविष्यति ।।रे४।।
पद्मिनीति च वा नाम्ना लोके ख्यातिं गमिष्यति ।
मम पत्नी तु सा तर्हि पद्मिन्येव भविष्यति ।।२५।।
इति दत्तवरा पूर्वं मया लक्ष्म्या च मालिके! ।
अद्य नारायणपुरे संभूता धरणीतलात् ।।२६।।
लक्ष्मीसमा पद्मनेत्री वने पुष्पाणि चिन्वती ।
मया वने तु सा दृष्टा रूपानुरूपसुन्दरी ।।२७।।
चित्तं तत्र च मे लग्नं तस्या योगं हि कारय ।
गच्छ तत्र विलोक्यैव योग्यां मदर्थमावह ।।२८।।
इत्युक्ता बकुला प्राह गच्छामि यत्र सास्ति हि ।
मार्गं वद रमानाथ! करिष्ये तव वाञ्छितम् ।।२९।।।
नारायणस्तदा प्राह श्रीनृसिंहगुहा यतः ।
तन्मार्गेणाऽवतीर्याऽस्मान्नारायणगिरेस्ततः ।।1.399.३०।।
अगस्त्याश्रममासाद्य सुवर्णमुखरीतटे ।
अगस्त्येशं प्रपूज्यैव गच्छ कीरवनं ततः ।।३ १ ।
अग्रे पद्मसरो नाम पद्मशोभिततत्तटे ।
नत्वा शुकं तपन्तं च कृष्णं बलं प्रपूज्य च ।।।३२।।
आदाय स्वर्णकमलं सरसोऽस्मात्ततः सखि ।
तीर्त्त्वा सुवर्णमुखरीं तटस्थानि वनानि च ।।३३ ।।
अरणितीरमासाद्य विश्रम्य वै क्षणं ततः ।
नारायणपुरीं दृष्ट्वा विस्मयं संप्रयास्यसि ।।३४।।
गत्वा पूर्वोत्तरे मार्गेऽरणिनदीतटस्थिताम् ।
आकाशराजनगरीं गत्वा तत्रोचितं कुरु ।।३५।।
इत्यादिश्य तां विसृज्य स शिष्ये श्रीसमन्वितः ।
वकुला श्रीहरिं नत्वा रक्ताश्वमधिरुह्य च ।।३६ ।।
ययौ यथोक्तमार्गेण नारायणपुरीं प्रति ।
मार्गेऽगस्त्यसमुद्याने नदीतीरेऽवतीर्य च ।।३७।।
स्नात्वा पीत्वा विशश्राम ददर्श पद्मिनीसखीः ।
कामार्थं देवपूजार्थमगस्त्येशो समागताः ।।३८।।
ताश्च पप्रच्छ बकुलमालिका पद्मिनीसखीः ।
का यूयं योषितो ब्रूत किंकार्यार्थं समागताः ।।३९।।
तास्तु श्रुत्वा समूचुस्तां वयमाकाशभूभृतः ।
दुहितुः पद्मिनीनाम्न्याः सख्यो भवाम एव हि ।।1.399.४० ।।
किमर्थं त्वं समायाता क्व च गच्छसि नो वद ।
इत्युक्ता बकुला प्राह कथमास्ते नु पद्मिनी ।।४१ ।।
तास्तु प्राहुः पुण्यवने दृष्ट्वा सा पुरुषोत्तमम् ।
अश्वत्थं मन्दहासं सत्पीताम्बरं विभूषितम् ।।४२ ।।
द्रुतहेमनिभा सा तु पश्य पश्येति साऽब्रवीत् ।
पश्यन्तीनां तदाऽस्माकं गतोऽन्तर्धानमाशु सः ।।४३ ।।
सा सखी मोहिता चास्ते नृपो दृष्ट्वेदृशीं स्थितिम् ।
पप्रच्छ दैवयोगज्ञं ब्राह्मणं सोऽप्युवाच तम् ।।४४।।
उत्तमः पुरुषः कश्चिदागतः कन्यकां प्रति ।
तं दृष्ट्वा मोहितेयं वै तेन योगं समेष्यति ।।४५ ।।
तेनैव प्रेषिता काचिदागमिष्यति कन्यका ।
सा तु वक्ष्यति यद्वाक्यं तद्यथार्थं भविष्यति ।।४६ ।।
कारयाऽगस्त्येशपूजां सर्वं भद्रं भविष्यति ।
इत्युक्तः स नृपश्चास्मान् प्रेषयामास मन्दिरम् ।।४७।।
महापूजादिसंभारान्पुष्पादीन् चिनुमोऽत्र वै ।
वद् त्वं का कथमत्रायाता किमिच्छसि प्रियम् ।।४८।।
बकुला प्राह तास्तत्र वेंकटाद्रेः समागता ।
धरणीं द्रष्टुकामाऽहं द्रष्टुं शक्या भवेन्न वा ।।४९ ।।
सख्यः प्राहुः सहाऽऽगच्छास्माभिर्विलोकयिष्यसे ।
बकुला च ययौ ताभिनृपदुर्गान्तरं ततः ।।1.399.५० ।।
समाक्रोशं शनैश्चक्रे ज्योतिर्वेत्त्री यथा वदेत् ।
वदामि सत्यं शृणुत भूतं भवन् भविष्यकम् ।।५१ ।।
धरणी तां तथा श्रुत्वा पृच्छेच्छुकी पुरःस्थिता ।
वद राशिफलं मे किं धनराशिं ददामि ते ।।५ २ ।।
बकुला सत्यमवदद् दुहितुर्देहशोषणम् ।
पुरुषदर्शनाज्जातं कामतापप्रपीडितम् ।।५३ ।।
स तु देवाधिदेवो वै वैकुण्ठादागतः स्वयम् ।
अद्य स श्रीवेंकटाद्रौ वर्तते श्रीप्रसेवितः ।।५४।।
कामरूपी विहरति भक्ताभीष्टप्रदः प्रभुः ।
तुरंगस्थो वने राज्ञि! तव कन्यां स दृष्टवान् ।।५५ ।।
सीताछायात्मिकां वेदवतीं ते पुत्रीपद्मिनीम् ।
पत्नीं कर्तुमिच्छया स प्रेषयिष्यति तेऽन्तिकम् ।।५ ६ । ।
ललितां सा च वै सर्वं कथयिष्यति तत्स्फुटम् ।
रमेव तं समेत्यैषा रमिष्यति सुखं चिरम् ।।५७।।
इत्युक्त्वा बकुला मौनमास्थिता धरणिस्ततः ।
गृहान्तरे सुतां गत्वा ददर्शाऽनंगमोहिताम् ।।५८।।
उवाच पुत्रि! किं तेऽस्ति प्रियं करोमि यद्वद् ।
इत्युक्ता सा जातिस्मरा समुवाच तु मातरम् ।।५ ९ ।।
नेत्राभिरामं यल्लोके सतामपि मनःप्रियम् ।
तेजसामपि तेजस्वि देवानामपि दैवतम् ।।1.399.६ ० ।।
भक्तैः सद्भिरिह प्राप्यमभक्तैर्न कदाचन ।
तत्र कृष्णे मनो मातर्मम शश्वत् प्रवर्तते ।।६ १ ।।
माता प्राह सुते भक्तलक्षणं ब्रहि वेद्मि यत् ।
पद्मिनी प्राह जलजचक्रपद्मगदांकितः ।।६. २।।
भुजयुग्मे तथा भाले तूर्ध्वपुण्ड्रकचन्द्रकः ।
गले तुलसिकाकण्ठी करे तु जपमालिका ।।६ ३ ।।
जिह्वायां श्रीहरेर्नाम हृदये प्रतिमा हरेः ।
पूजापाठपरा ये च सत्यवाचोऽनसूयकाः ।।६४।।
अनिन्दका ब्रह्मचर्यपराः शौचपराः सदा ।
हरेः प्रसादभोक्तारः सर्वभूतहितंकराः ।।६५ ।।
दयालवः श्रवणादिभक्तिप्रकारकारिणः ।
यदृच्छालाभसन्तुष्टा हरेर्ध्यानपरायणाः ।।६६ ।।
सत्संगिनः सदा शान्ता वैष्णवास्ते प्रकीर्तिताः ।
तैरेव लभ्यं तद्ब्रह्म तत्र मे प्रीतिरस्ति वै ।।६७।।
जन्मत एव मातर्मे तत्प्राप्तिं कांक्षते मनः ।
मातः कृष्णं विनाऽन्यत्र मनं मे नैव धावति ।।६८।।
तं श्रीकृष्णं स्मराम्येव वदामि चिन्तयेऽपि तम् ।
तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः ।।६९।।
श्रुत्वा माताऽचिन्तयच्च विष्णुयोगार्थमेव यत् ।
बहुधा कल्पयामास विष्णुः प्रीतः कथं भवेत् ।।1.399.७० ।।
एवं विचार्यमाणायां धरण्यां तत्र दासिकाः ।
सर्वा एव समाजग्मुश्चिन्तां पप्रच्छुरुत्सुकाः ।।७१ ।।
कथं चिन्तामयी चास्ते वद् कुर्मो हितं सुखम् ।
धरण्या कथितं सर्वं पुत्र्याश्चिन्तादिकं तदा ।।७२।।
प्राहुः सा बकुलाऽस्मभ्यो मिलिता वाटिकास्थले ।
प्राह नोऽपि समायाता वेंकटाद्रेर्हरेः सखी ।।७३ ।।
बकुलमालिकानाम्नी नारायणहितंकरी ।
स्वामी नारायणोऽस्माकमास्ते श्रीवेंकटाचले ।।७४।।
कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम् ।
मृगयार्थं ययौ वेंकटाद्रेर्वने समीपतः ।।७५।।
वने कंचिद्गजं दृष्ट्वाऽपतत् पृष्ठे तदा गजः ।
करेणुयूथगोऽरण्ये दुद्राव स तमन्वगात् ।।७६।।
तत्र वने तपस्यन्तं पूजयन्तं जनार्दनम् ।
श्रीभूमिसहितं कृष्णनारायणं तु भक्तितः ।।७७।।
ददर्श शंखं राजानं शंखनागसरस्तटे ।
तुरंगादवतीर्यैव नृपरूपो नरायणः ।।७८।।
पप्रच्छ किं क्रियतेऽत्र वेंकटाद्रिवने वद ।
शंखः प्राह तदा विष्णुमहं हैहयदेशजः ।।७९।।
राजाऽस्मि श्वेतनृपतेर्महाविष्णुप्रतुष्टये ।
कृतवानखिलान् यज्ञान् दर्शनार्थं हरेर्मुहुः ।।1.399.८०।।
किन्तु नारायणः स्वामी दर्शनं न ददौ मम ।
निर्विण्णोऽहं ततो जातस्तदा व्योमसरस्वती ।।८१ ।।
उवाच शान्तिदा राजन्नात्र मे दर्शनं तव ।
गच्छ नारायणगिरिं तपः कुरु जपं कुरु ।।८२।।
ममाऽऽराधनया तत्र दर्शनं मे भविष्यति ।
तत्र कश्चिद्धयारूढो राजा त्वां सम्मिलिष्यति ।।८३।।
तदुक्तरीत्या कृत्वैव परं मोक्षमवाप्स्यसि ।
इत्युक्तोऽहं परित्यज्य देशमागत्य वैंकटे ।।८४।।
वने नारायणं कृष्णमाराधयामि सर्वदा ।
श्रीभूमिसहितं कृष्णनारायणं भजामि वै ।।८५।।
इति राज्ञो वचः श्रुत्वा नारायणो नृपं जगौ ।
स्वस्ति तेऽस्तु गच्छ नारायणाद्रौ श्रीहरेर्गृहे ।।८६।।
कुरु चाराधनां तत्र पश्चिमे शिखरे स्थितः ।
न्यग्रोधमूले त्वासीनं विश्वक्सेनं प्रणम्य च ।।८७।।
स्वामिपुष्करिणीं गत्वा स्नात्वा तीरे तु पश्चिमे ।
अश्वत्थं द्रक्ष्यसि तत्र वल्मीकं द्रक्ष्यसि त्वपि ।।८८ ।।
तयोर्मध्ये स्थिरो भूत्वा हर्याराधनमाचर ।
तत्र श्वेतवराहाख्यो हरिर्भ्रमति तत्स्थले ।।।।८९।।
वल्मीके त्वं क्वचिद् द्रष्टास्येनं पुण्यप्रतापतः ।
इति श्वेतं समादिश्य समासाद्याऽरणीं नदीम् ।।1.399.९० ।।
अवरुह्य हयात्तीरे विचचार यदा हरिः ।
सिषेवे पवनः शीतसुगन्धः श्रमनोदनः ।।९१ ।।
सिषेविरे तं तरवः पुष्पैः सुरससत्फलैः ।
स च नाथस्तदा हस्तिनं सखीश्च व्यलोकयत् ।।९२।।
अदृश्योऽभूद् वने हस्ती चाययौ वः प्रतीश्वरः ।
तन्वीं लक्ष्मीसमां हेमवर्णां वो मध्यवर्तिनीम् ।।९३।।
दृष्ट्वा सक्तमनास्तत्र पद्मिन्यां समभूद्धरिः ।
तां गृध्नुराह केयं मे करग्राह्या भवेन्न वा ।।९४।।
युष्माभिरधिक्षिप्तः स वियद्राजो बलेन वै ।
श्रुत्वा द्राक् हयमारुह्य ययौ वेंकटभूभृतम् ।।९५।।
तेनैव प्रेषिता चास्मि दासी बकुलमालिका ।
पद्मिन्या हरये प्राप्त्यै धरणीं यामि सुकन्यकाः ।।९६ ।।
इत्युक्त्वा सा पुरतस्ते त्वायाता कृष्णदासिका ।
अयाचत तु ते कन्यां कृष्णनारायणाय वै ।।९७।।
यथोचितं कुरु मातर्विचार्य वियदादिभिः ।
अस्ति योग्यं प्रदानं तु योग्यायं परमात्मने ।।९८।।
रमा रामाय दातव्या पद्मिनी पद्मचक्षुषे ।
कन्या कान्ताय दातव्या कामिनी कामुकाय वै ।।९९।।
दिव्या दिव्याय दातव्या भक्ता भगवते ध्रुवम् ।
इति तासां वचः श्रुत्वा पप्रच्छ नृपमेव सा ।।1.399.१ ००।।
पद्मिनीं चापि पप्रच्छ पुनरेव कृपावशा ।
राजा प्राह मम कन्या त्वयोनिजाऽस्ति देवता ।। १०१ ।।
अर्थिता श्रीकृष्णनारायणेनाऽनुग्राहः कृतः ।
पूर्णो मनोरथश्चाऽद्य मे तेऽन्येषामपि ध्रुवम् ।। १०२ ।।
सर्वं श्रुत्वा जहृषुश्च प्रोचुः कुलकृतार्थताम् ।
भवत्कन्येयमतुला श्रिया सह रमिष्यति ।। १ ०३।।
दीयतां परमेशाय वेंकटाद्रिनिवासिने ।
अयं वसन्तः श्रीजुष्टः शुभं शीघ्रं विधीयताम् ।। १ ०४।।
आहूय द्युगुरु लग्नं विवाहार्थं विधीयताम् ।
तथास्त्विति नृपः प्राहाऽऽह्वयामास बृहस्पतिम् ।। १ ०५।।
मृगशीर्षं तु कन्याया देवस्य श्रवणं तु भम् ।
जन्मनस्तद्विचायैव गुरुर्लग्नं समब्रवीत्। ।। १ ०६।।
सम्मता सुखवृद्ध्यर्थं तयोरुत्तरफाल्गुनी ।
तस्यां विवाहो विधिवद् वैशाखे क्रियतामिति ।। १०७।।
इत्युक्त्वा राजकृत्पूजामादाय स्वर्गुरुर्ययौ ।
राजा तु प्रेषयामास दूतीं देवेश्वरं प्रति ।।१ ०८।।
शुकेन सहितां कन्यावाग्दानविधये तदा ।
शुको दूतः शारदा च दूती च बकुला तथा ।। १ ०९।।
तस्मिन्नेव दिने रम्ये ययुः श्रीवेंकटाचलम् ।
कृष्णनारायणं देवं श्रीनिवासं जगत्पतिम् ।। 1.399.१ १०।।
प्रणम्य त्ववदन् प्रीताः कृत्यं जातं तव प्रभो ।
मांगल्यवार्ता संरक्तं वयमत्र समागताः ।। १११ ।।
त्वां प्रत्याह सुता भूमेर्मामंगीकुरु माधव! ।
जपामि तव नामानि स्मरामि प्रतिमां तव ।। १ १२।।
ध्याये तव सुचिह्नानि हृदयादौ जनार्दन! ।
त्वामविस्मृत्य कार्याणि सर्वाणि प्रकरोमि च ।। ११ ३।।
त्वयाऽर्थिता तवैवाऽस्मि पित्रोरनुमते मम ।
कुरु प्रसादं लक्ष्मीश! मामंगीकुरु माधव ।। १ १४।।
वियच्च धरणी चैव प्रत्याहतुः परेश्वरम् ।
दानपात्रं स्वतो लब्धं शाश्वतफलदायकम् ।। १ १५।।
हर्षो माति न हृदये गृह्णातु कन्यकां हरे ।
प्रदत्ता वाक्प्रदानेन शुको निवेदयिष्यति ।। १ १६।।
तवाऽदेशं पुनः प्राप्य स्यामश्चोत्साहिनो वयम् ।
बकुला प्राह सन्देशं प्रपाठय जगद्गुरो ।। १ १७।।
कुरु प्रसादं मे नाथ पद्मिन्याश्चापि केशव ।
तथास्त्विति हरिः प्राह गृहीत्वा वाक्प्रदानकम् ।। १ १८।।
कर्तुं कल्याणमुद्वाहमागमिष्यामि चामरैः ।
शुक! गच्छ वदैवं तानित्थं देवोऽब्रवीदिति ।। १ १९।।
गृहाणेमां वनमालां स्वर्णरत्नादिशोभिताम् ।
शुकश्च शारदा मालां गृहीत्वा ययतुर्गृहम् ।। 1.399.१ २०।।
प्रणम्याऽवदतां सर्वान् जातं कार्यं सुतार्थितम् ।
ददतुर्मालिकां कण्ठे पद्मिन्या भावगर्भिताम् ।। १ २१।।
नृपो वै निश्चिते जातेऽप्रेषयल्लग्नपत्रिकाम् ।
कुंकुमपत्रिकाश्चापि लेखयित्वाऽनिलं सुतम् ।। १ २२।।
ददाविन्द्राद्यानयनेऽसृजत् त्रिलोकमण्डले ।
आहूय विश्वकर्माणं पुरालंकारयोजनाः ।। १ २३।।
रचयामास भगवान् सोऽपि क्षणाद् विनिर्ममे ।
इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः ।। १२४।।
अवाद्यन्त च वाद्यानि महोत्सवश्च योषिताम् ।
धनदो धनधान्याद्यैः पूरयामास वेश्म तत् ।। १२५।।
यमस्तु रोगरहितान् चकार मनुजान् भुवि ।
वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत् ।। १२६।।
सूर्यः सुवर्णरत्नानां भूषादीनि समार्पयत् ।
समुद्रश्च तथा शैला रत्नवस्तूनि चार्पयन् ।। १ २७।।
कामगावः कामवृक्षाः कामवल्ल्यः स्वकं स्वकम् ।
कामं चिन्तामणयश्च वस्तून्यपूरयैंस्तदा ।। १ २८।।
नदा नद्यः समुद्राश्च द्यौः रसातलभूमयः ।
स्वस्वरत्नानि पेयानि भोज्यानि लेह्यकानि च ।। १ २९।।
रचयामासुरीशस्य शासनाद् वेंकटाचले ।
अथ पृष्वी जलं तेजो वायुश्चाकाश ईश्वराः ।। 1.399.१ ३०।।
वियद्राजस्य भवने चक्रुर्वै मण्डपं शुभम् ।
दशयोजनविस्तारं योजनोच्छ्रायमेव च ।। १३ १।।
महीमाननिवासार्थं कारयामास पत्तनम् ।
शतयोजनविस्तारं सामुद्रे द्वीपके वरम् ।। १ २३।।
मोहमयं महत्पुण्यं द्वितीयं वै दिवः स्थलम् ।
यानवाहनशोभाढ्यं स्वर्णशिखरलक्षकम् ।। १ ३३।।
रसशालास्नानशालाशृंगारशालिकायुतम् ।
नृत्यगायनशृंगारकथाऽऽख्यानादिमण्डलम् ।। १ ३४।।
दूरं श्रूयेत् दृश्येत वाचयेत विमर्शयेत् ।
तथा दिव्यं भूतसारं गृहं विद्युद्विकासितम् ।। १ ३५।।
कारयामास राजाऽसौ चन्द्रमाहूय भक्ष्यकम् ।
अन्नं बहुविधं मिष्टममृतं रससंयुतम् ।। १३६ ।।
विष्णोर्नैवेद्ययोग्यं च परमान्नं तथौदनम् ।
देवानां च ऋषीणां च नराणामपि सम्मतम् ।। १ ३७।।
मुक्तानां च सतां चापि साध्वीनां सम्मतं तथा ।
चतुर्विधं सुगन्धाढ्यममृतांशैः प्रपूरितम् ।। १ ३८।।
रसायनं नैकविधं पेयं खाद्यं नवं नवम् ।
कारयित्वा संविधानं धरणीसहितो नृपः ।। १ ३९।।
वाद्यानां कारयामास निर्घोषं मंगलावहम् ।
पद्मिन्यलंकृतिं चक्रे देवागमनकांक्षिणी ।।1.399.१४०।।
सर्वानलंकृतान् कृत्वा धरणीसहितो नृपः ।
सभायां मन्त्रिसहितः समास्ते प्रीतमानसः ।। १४१ ।।
इति लक्ष्मि! तवच्छाया पद्मिन्या भाग्यमुत्तमम् ।
फलितं भगवान् कृष्णः पाणिग्रहं करिष्यति ।। १४२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये श्रीनिवासभगवता बकुलमालिका पद्मिनीं प्रति प्रेषिता, सीतायाश्छाया वेदवती पद्मिनी जाता,
धरणीगृहे बकुलमालिका ययौ, श्रीकृष्णपत्नीत्वं पद्मिन्याश्चिह्नैरुक्तम्, नारायणाय दातव्येति निर्णयः, लग्नपत्रिकाप्रेषणम्, विवाहोपकरणारंभश्चेत्यादिनिरूपणनामा नवनवत्यधिकत्रिशततमोऽध्यायः ।। ३९९ । ।