लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४००

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४००
[[लेखकः :|]]
अध्यायः ४०१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! श्रीनिवासो वेंकटाद्रौ निजां प्रियाम् ।
श्रियं लक्ष्मीं तथाऽन्याश्च सखीराहूय चाऽवदत् ।। १ ।।
किं कार्यं वद मे लक्ष्मि! श्रि! सखीजन इत्यपि ।
आज्ञापयस्व सर्वाश्च विवाहार्थं तु यद्भवेत् ।। २ ।।
कुर्वन्तु मिलिताः सर्वाः समुत्साहादिशोभनम् ।
लक्ष्मीः कृष्णवचः श्रुत्वा सखीः सर्वाः स्वनोदयत् ।। ३ ।।
प्रीतिः सखी श्रियाऽऽज्ञप्ता सुगन्धं तैलमाददौ ।
श्रुतिः सखी समादाय क्षौमाम्बराणि चागता ।। ४ ।।
स्मृतिः सखी विभूषाश्च समादाय स्थिता पुरः ।
धृतिः सखी समादध्रे दिव्यादर्शं समुज्ज्वलम् ।। ५ ।।
दध्रे शान्तिः सखी श्रेष्ठं सुगन्ध्यैणमद्ं तदा ।
ह्रीः सखी संस्थिता चाग्रे गृहीत्वा यक्षकर्दमम् ।। ६ ।।
कीर्तिः सखी स्वर्णपट्टं सरत्नं मुकुटं दधे ।
इन्द्राणी तु दधे छत्रं सरस्वती तु चामरम् ।। ७ ।।
गौरी दध्रे चामरं च व्यजने विजया जया ।
श्रिया संस्नापितो देवस्ततः श्रीपरमेश्वरम् ।। ८ ।।
सुगन्धं तैलमादाय देवमभ्यज्य कन्यकाः ।
उद्वर्तितं गन्धचूर्णैर्देवांगं परिमृज्य च ।। ९ ।।
आनीतान् करिभिस्तोयकलशान् कांचनान् शतम् ।
प्रत्येकं तं समादाय त्वभ्यषिञ्चन् रमादयः ।। 1.400.१० ।।
केशान् संधूप्य धूपेन संसाध्य द्न्तकेन च ।
वक्रान् चंचत्प्रान्तभागान् बबन्ध श्रीः सुशोभितान् ।। ११ ।।
सुगन्धेनाऽनुलिप्याऽङ्गं पीतवर्णेन पिष्टिकाम् ।
संप्रमृद्य पीतवस्त्रं ददौ कट्यां सुकाञ्चिकाम् ।।१ २।।
भूषयामास भूषाभिः पुष्पहारैस्तथेन्दिरा ।
धृतिश्च दर्शयामासाऽऽदर्शं वै मंगलायनम् ।। १३ ।।
कृष्णनारायणो देवश्चोर्ध्वपुण्ड्रं स्वयं दधे ।
एवं भूषाशोभमानो राजते भगवान् स्वयम् ।। १४।।
अथ कृष्णगृहे प्राघूर्णिका आययुरीश्वराः ।
श्रीकृष्णः श्रीनारायणो विराट् सदाशिवः प्रभुः ।। १२ ।।
भूमा हिरण्यगर्भश्च वासुदेवादयस्तथा ।
ब्रह्मा विष्णुर्महेशश्च लोकपालादयस्तथा ।। १६ ।।
पितरो मुनयो देवाः ऋषयो दिक्प्रपालकाः ।
सूर्यादयो ग्रहाश्चापि वसवो निधयस्तथा ।। १६ ।।
दिशा रुद्रास्तथाऽऽदित्या मनवो वासवादयः ।
नक्षत्राणि च तत्त्वानि गुणाश्च मरुतस्तथा ।। १८ ।।
वालखिल्याः कला नद्यो नदास्तीर्थानि पर्वताः ।
समुद्राश्च तथाऽखाताश्चैत्या भ्वाद्या द्रुमादयः ।। १ ९ ।।
पातालाऽनलवाय्वस्था मेघा रात्र्यो दिनादयः ।
जडाश्च चेतना व्याप्ता नारायणस्य लग्नके ।।1.400.२० ।।
वेंकटाद्रौ महीमानाः कोट्यर्बुदाः समाययुः ।
सत्यो देत्यश्च मुक्तान्य ईशान्यः सुरपत्निकाः ।२१ ।।
मानुष्यः कश्यपाज्जाता नार्यस्त्रिलोकमातरः ।
आगताः श्रीनिवासाद्रौ विमानहस्तिहंसकैः ।।२२ ।।
अश्वैः सिंहैस्तथा पक्षिवर्यैश्च योगकुंभकैः ।
सन्तश्च साधवो धीरा वैष्णवा वीतरागिणः ।।।२३ ।।
सन्न्यासिनो ब्रह्मचारिवर्यास्त्यागिन आययुः ।
एवं वियद्गृहे चापि चतुर्विंशतिसंख्यकाः ।।२४ ।।
तत्त्वात्मकास्तु पुरुषाः पृथ्व्याद्या देविकास्तथा ।
वल्ल्यो नद्यो महास्थल्यो भूमयो द्यौः सुमूर्तयः ।।२५ ।।
देवा देव्यः समायाताः सोत्सुका दर्शनातुराः ।
तेषां भोजनसम्मानं वासपानसुखासनम् ।।२६ ।।
अपेक्षितार्हणदानं चक्रुश्चोभयपक्षिणः ।
मंगलान्यभवँस्तत्र वेंकटाद्रौ वियद्गृहे ।।२७ ।।
आगछन्ति विवाहे श्रीपद्मिनीश्रीनिवासयोः ।
आरुह्य गरुडं कृष्णः श्रीलक्ष्मीसहितो हरिः ।।२८।।
ब्रह्मेशवज्रिवरुणयमयक्षेशसेवितः ।
वशिष्ठादिमुनीन्द्रैश्च सनकाद्यैश्च योगिभिः ।।२९।।।
भक्तैर्भागवतैः सद्भिर्नारदसनकादिभिः ।
कृष्णनारायणभूमहिरण्यगर्भवर्धितः ।।1.400.३ ० ।।
ईश्वरैः शोभितो विष्णुर्नारायणपुरीं ययौ ।
गन्धर्वाश्च जगुः कीर्तिं ननृतुश्चाप्सरोगणाः ।।३ १ ।।
देवदुन्दुभयो नेदुश्चक्रुगीतिं सुरांगनाः ।
आपुश्चमत्कृतिं नार्यो ददृशुर्वनदेवताः ।।३ २।।
वनान्यवाकिरन् पुष्पैः पक्षिणो विजयं जगुः ।
जपन्तः स्वस्तिसूक्तानि मुनयस्ते समन्वगुः ।।३३ ।।
देवो देवगणैः शिष्यैर्विश्वक्सेनादिपार्षदैः ।
सखीभिः स्यन्दनहस्तियानस्थाभिः समन्वितः ।।३४।।
महीमानैः समस्तैश्च कोट्यादिसंख्यकैर्वरः ।
वियद्राजस्य नगरं त्वाससाद् स्वलंकृतम् ।।३५।।
पत्तनस्य बहिर्वाट्यां बहुयोजनविस्तराम् ।
व्योममार्गाभिसंव्याप्तां तस्थौ श्रीभगवान् क्षणम् ।।।३६ ।।
तावता लोकरीत्यैव पुर्याः प्रदक्षिणाय सा ।
पद्मिनी हस्तिसंरूढा गत्वा चागत्य गोपुरम् ।। ३७।।
आभिमुख्येन देवस्य प्रतीक्षायुक्स्थिताऽभवत् ।
अथ वाट्योद्यानतः श्रीनिवासो गोपुरं ययौ ।।३८।।
करे मालां समागृह्णन् गरुडारूढ ईश्वरः ।
गजस्था पद्मिनी हस्ते मालां कृत्वाऽभ्यसंचरत् ।।३९।।
मुखोन्मुखं मिलित्वा तौ मालाद्वयं सुमूल्यकम् ।
परस्परं ददतुश्च कण्ठयोस्तौ वधूवरौ ।।1.400.४०।।
आलोक्याऽऽकाशराजोऽपि जहर्ष सह बन्धुभिः ।
विष्णुर्मालां स्वकण्ठस्थां मुमोच पद्मिनीगले ।।४१ ।।
पद्मिनीमल्लिकामालां विष्णोः कण्ठे समार्पयत् ।
एवं त्रिवारं तौ कृत्वा ययतुर्मण्डपगृहम् ।।।४२।।
स्थित्वा पीठे क्षणं पश्चाद् गृहं विविशतुः शुभम् ।
विश्रान्तिं जलपानं च लौकिकाचारमित्यथ ।।।४३ ।।
सत्कारं पूजनं साक्षतचन्द्रकविभूषणम् ।
वरार्थे कारयित्वा च मण्डपे वेदिकान्तिकम् ।।४४।।
वरं राजाऽऽनयामास पूजनं प्रचकार सः ।
ब्रह्मा तत्राऽभवन्मुख्यो विवाहविधिकारकः ।।४५।।
मांगल्यसूत्रबन्धादिसांकुराऽर्पणमित्यपि ।
प्रकोष्ठे च कामफलबन्धनं प्रचकार सः ।।४६ ।।
वह्निं प्रज्वालयामासाऽऽहवनीयं तु पद्मजः ।
स्वस्तिवाचनमांगल्यश्लोका गीयन्त एव च ।।४७।।
पद्मिनीं वरतो लब्धैर्वस्त्राभूषणहारकैः ।
शृंगारयित्वा त्वनयन्मण्डपं वरसन्निधौ ।।४८।।
वरं नत्वा निषसाद मालां गले समर्प्य सा ।
वामे स्थित्वा सह पत्या पूजाहोमौ चकार च ।।४९।।
वरमाला गुरुणा सा द्वयोः कण्ठे तदा कृता ।
चतुःप्रदक्षिणीकृत्य वह्निं होमं प्रचक्रतुः ।।1.400.५०।।
परस्परं कृतवन्तौ कवलप्राशनं तदा ।
रंगजले सुवर्णस्योर्मिकायाः खेलनं तथा ।।५१ ।।
पुष्पगुलालयोश्चापि क्षेपणं च परस्परम् ।
प्रचक्रतुस्ततो मन्त्राः सहदाम्पत्यबोधकाः ।।५२।।
ब्राह्मणैरावृतास्तत्र सद्रागैर्वैदिकैः शुभाः ।
विष्णोः करे करं दत्वा कन्यादानं नृपोऽकरोत् ।।५३।।
विष्णुः प्रियां नवां प्राप्य पुलकाञ्चितरोमवान् ।
सद्योजातस्तदा कन्याप्रकोष्ठः स्वेदवानभूत् ।।५४।।
यौतकं तु तदा कन्यापक्षः कन्याकरे ददौ ।
वरपक्षो वरहस्ते ददौ स्वर्णं धनं बहु ।।५५।।
रत्नानि च मणीन् हारान् मौक्तिकान् भूषणानि च ।
अन्यान्यपि सुकौशेयान्यम्बराणि रसानपि ।।५६।।
ददुश्चान्ये यथाशक्तिर्देवर्षिमानवादयः ।
स्वस्वप्रदेशरत्नानि यानवाहनपात्रकम् ।।५७।।
दिव्यवस्तु सुगन्धादि ब्रह्मवल्ल्यादिका ददुः ।
एवं ब्रह्मा सबृहस्पतिकस्तत्राशिषो ददौ ।।५८।।
वैवाहिकं कारयित्वा लाजाहोमान्तमित्यथ ।
व्रतादेशं समाज्ञाय शयाते पद्मिनीहरी ।।५९।।
चतुर्थे दिवसेऽसमापयत् सर्वं चतुर्मुखः ।
वियद्राजा नवं नित्यं नवं पक्वान्नभोजनम् ।।1.400.६ ० ।।
कारयामास सद्भक्त्या वैष्णवान्प्राणतोऽधिकान् ।
येषां येषां शरीराणां यद्यद् भोज्यं निसर्गजम् ।।६ १ ।।
तेभ्यस्तेभ्यस्तथा दत्वा परां तृतिमकारयत् ।
विविधानि च पेयानि मधुराऽम्ब्लानि संददौ ।।६२।।
ताम्बूलादिमुखशुद्धिसाधनानि ददौ तथा ।
एवं सेवाप्रकारैश्च राज्ञा तु वियता हरिः ।।६३।।
हरयः कोटिसंख्याश्च सुरर्षिमुनिमानवाः ।
देवा देव्यो रञ्जिताश्च दासदासीप्रसेवकैः ।।६४।।
अथ ब्रह्मा वियद्राजमनुज्ञाप्य तथा धराम् ।
श्रीलक्ष्मीपद्मिनीयुक्तमारोप्य गरुडे हरिम् ।।६५।।
गन्तुं प्रचक्रमे यावन्महीमानैर्युतस्तदा ।
वियद्राजा धरणी च वसुदानश्च नेत्रयोः ।।६६ ।।
कन्यावियोगजवारियुक्ता जाताः क्षणं तथा ।
पद्मिनी जननीपादौ स्पृष्ट्वा किञ्चिद् रुरोद ह ।।६७।।
आगन्तव्यमिति प्रोच्य समाश्लिष्य च वक्षसि ।
ययौ पुनर्गरुडे सा तदाऽभूत्तु जयध्वनिः ।।६८।।
वाद्यशब्दो महानासीत् सूतमागधबन्दिनः ।
जयशब्दान् प्रचक्रुश्च नेदुर्दुन्दुभयोऽम्बरे ।।६९।।
एवं वरातिका विष्णोर्ययौ श्रीवेंकटाचलम् ।
गृहे विशश्रमुः सर्वे तर्पिता जलभोजनैः ।।1.400.७०।।
अथ गन्तुमनसस्ते तुष्टुवुः पुरुषोत्तमम् ।
शुकादयो मुनिवृन्दा ब्रह्माद्या देवतागणाः ।।७१ ।।
वियद्राज्ञा प्रेषितं च स्वर्णसिहासनं वरम् ।
पुत्रीविष्ण्वोः प्रियार्थं च स्वर्णकुसूलतण्डुलाः ।।७२।।
मुद्गपात्राण्यनेकानि घृतकुंभाऽयुतानि च ।
दिव्यानि चूतकदलीनालिकेरफलानि च ।।७३ ।।
धात्रीफलानि कूष्माण्डराजरम्भाफलानि च ।
शर्करापेटिका मणिमुक्ता गाः कोटिशस्तथा ।।७४।।
हंसेन्दुशुक्लवाजिनश्चतुर्दन्तगजादयः ।
अन्तःपुरचरा नार्यः सेविकाश्चाप्यनेकशः ।।७५।।
इद्ं सर्वं मण्डपे यत्कन्यादानोत्तरं हृदा ।
संकल्पितं च तत्सर्वं प्रेषितं तेन तत्क्षणम् ।।७६ ।।
हृदा स वरयामास प्रसन्नतां हरेः सदा ।
सेवां चरणयोर्भक्तिं नान्यल्लोकसुखादिकम् ।।७७।।
कन्यापक्षाश्च ये प्राघूर्णिकास्ते भोजितार्चिताः ।
वियद्राज्ञोऽनुमत्या च ययुर्लोकान् स्वकान् पुनः ।।७८।।
अथ श्रीवेंकटनाथः सुरादिकान् समर्च्य वै ।
पूजयित्वा कृष्णनारायणभूम्नः परेश्वरान् ।।७९।।
विराडाद्यानृषीन्पितॄन्मानवान् जडचेतनान् ।
स्वलोकगमनायैवमनुमेने ततश्च ते ।।1.400.८०।।
जग्मुर्नत्वा हरिं दासा दास्यः सर्वा हि सृष्टयः ।
यशो जगुर्भगवतः पद्मिनीभाग्यमेव च ।।८ १ ।।
वेदवती तु या छाया सीतां प्रसेव्य सा खलु ।
अपद्माऽप्यभवत्पद्मा कृष्णनारायणप्रिया ।।८२।।
या ये भक्तिं प्रकुर्वन्ति प्राणान् समर्प्य सा यथा ।
तास्ते पद्मेव जायन्ते कृष्णभक्ता हि शाश्वताः ।।८३ ।।
गतेषु तेषु सर्वेषु पद्मिन्या च श्रिया युतः ।
लक्ष्म्या च रमया युक्तो रेमे श्रीभगवान् सदा ।।८४।।
आस्ते च सर्वदा कृष्णः स्वामिपुष्करिणीतटे ।
वेंकटाद्रौ क्वचित् साक्षाद् दिव्यालये भवत्यपि ।।८५।।
पद्मिनीसहितो नाथः क्वचिच्छ्रियान्वितः प्रभुः ।
क्वचिल्लक्ष्म्या च सहितो रमया सहितः क्वचित् ।।८६ ।।
बकुलमालिकाद्याभिः क्वचिद् वेंकटपर्वते ।
विहरत्येव भगवान् स्वामिनारायणो हरिः ।।८७।।
पतिव्रताश्च ताः सर्वा भगवत्यर्पिताः सदा ।
पत्न्यः कृष्णं प्रसेवन्ते हृदा देहेन कर्मभिः ।।८८।।
पद्मिनी पद्मवासिन्याः पतिं त्वासाद्य सेवते ।
प्रातः कृष्णं सदा पूर्वं समुत्थाय प्रसेवते ।।८९।।
पादसंवाहनं चांगमर्दनं प्रकरोति च ।
शयने श्रीनिवासं च तोषयत्येव सेवया ।।1.400.९०।।
आश्लेषं चूम्बनं कामं ददात्येव पतीष्टदम् ।
अथोत्थाय शयनात् सः प्रक्षाल्य करमाननम् ।।९१ ।।
जलमुष्णं करोत्येव भगवत्स्नानशुद्धये ।
स्नात्वा ददाति शुद्धापः कराननविशुद्धये ।। ९२।।
दन्तधावनमार्द्रं च सरसं पायसं द्रवम् ।
दत्वा सुगन्धचूर्णं च ददाति सजलं घटम् ।।९३।।
हरिः शौचादिकं कृत्वा प्रक्षाल्य च मृदा करौ ।
गण्डूषान् स विनिर्वर्त्य स्नाति सुवर्णपट्टके ।।९४।।
पद्मिनी श्रीहरेरंगेष्वामृद्य गन्धचूर्णकम् ।
तिलपिष्टं पुष्पसारं सुगन्धितैलप्रभृति ।।९५।।।
दत्वाऽमृतैर्जलैर्देवं पतिं स्नापयति प्रिया ।
मार्जयति जलं वस्त्रैर्धौत्रं ददाति सुन्दरम् ।। ९६।।
उत्तरीयं ददात्येव यज्ञपट्टं च सूत्रकम् ।
आसनं त्वाचमनार्थं जलं ददाति शार्ङ्गिणे ।।९७।।
ददाति कज्जलं नेत्रे भाले पुष्टं सचन्द्रकम् ।
कर्णयोः कुण्डले बिन्दुं ददाति दण्डके तथा ।।९८।।
केशान्प्रसाध्य तैले च दत्वा कृत्वा सुचन्दनम् ।
मुकुटं प्रददात्येव हारान् सुवर्णरत्नजान् ।।९९।।
कण्ठे ददाति कृष्णस्य बाह्वोः प्रकोष्ठयोस्तथा ।
करयोः कटकौ हारौ शृंखले वलयौ तथा ।। 1.400.१० ०।।
प्रददात्यूर्मिका अंगुलिषु कट्यां सुशृंखलाम् ।
पादयोर्नूपुरे रम्ये किंकिणीशब्दगर्जिते ।। १०१ ।।
वस्त्रोपानद्वरौ चरणयोर्ददाति पद्मिनी ।
नक्तकं च करे यष्टिं कानकीं मालिकां शुभाम् ।। १ ०२।।
छत्रं च चामरं चैव तथा शृंगारवस्तुकम् ।
ददाति व्यजनं चादर्शकं सिंहासनं तथा ।। १०३ ।।
धूपं दीपं त्वबीरं चाक्षतान् पुष्पाणि पत्रकम् ।
दलं जलं फलं भोज्यं नैवेद्यं मधुरं बहु ।। १ ०४।।
यथारुचि पयो मिष्टं दधिं मधुं च शर्कराम् ।
ताम्बूलं पेयमेवादिभक्ष्यं चूर्णादिकं शुभम् ।। १ ०५।।
पोलिकाः पूरिकाश्चापि संयावं घृतपूरकान् ।
पर्पिकान् ग्रन्थकाँश्चापि पूपानपूपकाँस्तथा ।। १ ०६।।
भर्जकान् लड्डुकाँश्चापि सुखदां सक्तुकं तथा ।
ओदनं चणकाँश्चापि मुद्गान् सूपं घृतादिकम् ।।१ ०७।।
आरनालाँस्तक्रदुग्धदधिफलरसाँस्तथा ।
ददाति भोजनार्थं सा श्रीनिवासाय नित्यदा ।। १ ०८।।
जलं पानार्थमन्यच्च भक्ष्यं कन्दफलादिकम् ।
ददाति वस्त्रशुद्ध्यादि करोति क्षालनादिकम् ।। १०९।।
आरार्त्रिकं प्रदक्षिणं दण्डवत् स्तवनादिकम् ।
नमस्कारान् करोत्येव मध्याह्नेऽपि तथा निशि ।। 1.400.११० ।।
एवं सदाऽनुवृत्त्या सा सेवते श्रीः रमा यथा ।
यथा लक्ष्मीः सेवते च तथा सेवापरायणा ।। १११ ।।
नारायणं हरिं कृष्णं कांभरेयं पुमुत्तमम् ।
श्रीनिवासं वेंकटेशं पद्मिनीस्वामिनं प्रभुम् ।। ११२।।
स्वयं प्रसेवते दासीशतेषु सत्स्वपि प्रिया ।
एवं सा जन्मसाफल्यं लेभे पद्मेव पद्मिनी ।। ११ ३।।
अथ कृष्णो बकुलायै वरदानमदात् खलु ।
पद्मिनीवत् वरिष्ये त्वां तथा श्रीवेंकटाचले ।। १ १४।।
सखीमध्ये कारयित्वा वेदीं स्थित्वा च माधवः ।
अग्नौ होमं स्वयं कृत्वा बकुलाकरमाददे ।। ११५।।
पद्मिनीप्राप्तिसत्कार्यप्रतिलाभफलं ददौ ।
पत्नीं चकार भगवान् सखीं बकुलमालिकाम् ।। १ १६।।
सापि पतिव्रता नित्यं दासी च किंकरी प्रिया ।
सेवते श्रीहरिं नित्यानन्दभोक्त्री बभूव ह ।। १ १७।।
इति ते कथितं लक्ष्मि! वेदवत्याः कथानकम् ।
पातिव्रत्यपरं या वै पद्मिनी धरणीसुता ।। १ १८।।
भूत्वा त्ववाप देवेशं कृष्णं गोपालबालकम् ।
एतदाख्यानकं श्रुत्वा श्रीकृष्णं सत्पतिं लभेत् ।। ११ ९।।
सम्पत्पुत्रपतिप्राप्तिर्धनधान्याम्बरार्जनम् ।
यशःसत्ताप्रतिष्ठादि श्रुत्वेदं प्राप्यते ध्रुवम् ।। 1.400.१ २०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये श्रीनिवासभगवत्कृतः पद्मिन्या सह विवाहः, विधिः, यौतकं, पातिव्रत्यादि चेति निरूपणनामा चतुःशततमोऽध्यायः ।।४० ०।।