लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९८
[[लेखकः :|]]
अध्यायः ३९९ →

श्रीनारायण उवाच-
पुरा देवयुगे लक्ष्मि! नारदो मुनिसत्तमः ।
सुमेरुशिखरे गत्वा ददर्श वेधसो गृहम् ।। १ ।।
तस्योत्तरे पिप्पलद्रुं यदधो दिव्यमण्डपम् ।
पद्मरागमणिस्तंभसहस्रैरुपशोभितम् ।। २ ।।
कृतस्वस्तिकमांगल्यं दिव्यतोरणशोभितम् ।
पुष्परागमहाद्वारं सप्तभूमिकगोपुरम् ।। ३ ।।
प्रविश्याऽसौ ददर्शाऽन्तर्दिव्यभौक्तिकमण्डपम् ।
तन्मध्ये वेदिका तत्र तुंगाष्टपादराजितम् ।। ४ ।।
सिंहासनं च यन्मध्ये पद्मं सहस्रपत्रकम् ।
तत्रसमभ्यासीनं च सुन्दरं पुरुषाकृतिम् ।। ५ ।।
चतुर्बाहुं श्वेतवर्णं वराहास्यं ददर्श सः ।
शंखचक्राऽभयवरान् बिभ्राणं पुरुषोत्तमम् ।। ६ ।।
पीताम्बरधरं देवं पुण्डरीकायतेक्षणम् ।
पूर्णेन्दुसौम्यवदनं किरीटोज्ज्वलकान्तिकम् ।। ७ ।।
सामध्वनिं यज्ञमूर्तिं स्रुक्तुण्डं स्रुवनासिकम् ।
श्रीवत्सवक्षःसंशुभ्रयज्ञसूत्रविराजितम् ।। ८ ।।
कौस्तुभश्रीसमुद्योतं स्वर्णभूषाविभूषितम् ।
कटकांगदकेयूरकुण्डलोज्ज्वलितं हरिम् ।। ९ ।।
नारदस्तमभिष्टूय स्थितो देवस्य सन्निधौ ।
एतस्मिन्नन्तरे लक्ष्मि! धरणी तत्र चागता ।। 1.398.१ ०।।
इलाया वै पिंगलया सखीभ्यां हि समन्विता ।
सर्वाभरणशोभाढ्या युवती तु सखीयुता ।। ११ ।।
ननाम पादमूले श्रीहरेर्विकीर्य मस्तके ।
पुष्पाणि नैकगन्धानि कृताञ्जलिपुटा स्थिता ।। १ २।।
तां देवीं श्रीवराहोऽपि ह्यालिंग्यांऽके निधाय च ।
पप्रच्छ कुशलं तस्यास्तथाऽऽगमनकारणम् ।। १३ ।।
पृथ्वी प्राह भगवंस्ते कृपया कुशलं मम ।
श्रुतं मया शेषशायिनारायणमुखात् खलु ।। १४।।
लक्ष्मीच्छया भुवि जले पूर्वं वेदवती तु या ।
तत्स्थानं तन्महत्तीर्थं द्रष्टुमिच्छामि माधव ।। १५।।
तच्छ्रुत्वा नारदः प्राह सत्यं तद्वै वसुन्धरे ।
तदेतदहमश्रौषं सत्ये वै मुनिसंसदि ।। १६ ।।
एवमुक्त्वा हरिं नत्वा नारदो बदरीं ययौ ।
धरणी प्राह भगवँस्तस्य स्थानस्य दर्शनम् ।। १७। ।
पद्मिन्या दर्शनं कर्तुमिच्छामि ते कृपा यदि ।
तथास्त्विति वराहस्तामुक्त्वा सस्मार पक्षिणम् ।। १८।।
वैनतेयः समायातो दिव्यदेहेन तत्पुरः ।
धरणीं सह नीत्वैव वाराहो भगवान् स्वयम् ।। १९।।
समारुरोह गरुडं प्राजगाम जनिस्थलम् ।
विलोक्य पद्मिनीं छायां वियद्राजस्य कन्यकाम् ।।1.398.२०।।
नारायणपुरं दृष्ट्वा ययौ नारायणाचलम् ।
यत्र शेषाचलश्चाद्रिः सर्वातिशयपावनः ।।२१ ।।
अरुणाद्रिर्हस्तिशैलः सुवर्णमुखरी नदी ।
तस्याश्च ह्युत्तरे तीरे कमलाख्यं सरोवरम् ।।२२।।
तत्तीरे भगवानास्ते शुकस्य वरदो हरिः ।
सरसश्चोत्तरे पार्श्वे हरिचन्दनशोभितः ।।२३ ।।
श्रीवेंकटाचलो नाम वासुदेवालयो गिरिः ।
योजनद्वयविस्तीर्णः शैलोऽर्धयोजनोच्छ्रितः ।। २४।।
इन्द्राद्या देवताव्राता वशिष्ठाद्या मुनीश्वराः ।
सिद्धाः साध्याश्च मरुतो वैष्णवा भगवत्प्रियाः ।।२५।।
रम्भाद्या अप्सरःसंघा वसन्ति नियताः सदा ।
तपश्चरन्ति नागाश्च गरुडाः किन्नरादयः ।।।२६ ।।
नारायणगिरौ लक्ष्मि! स्वामिपुष्करिणी शुभा ।
अस्यास्तु पश्चिमे तीरे वाराहो धरणीयुतः । । २७।।
गरुडादवतीर्यैव निवासमकरोद्धरिः ।
आस्तेऽस्या दक्षिणे तीरे श्रीनिवासो जगत्पतिः । ।२८।।
श्रीभूमिसहितश्चाहं तत्र वसामि पद्मजे ।
कृतेंऽजनाद्रिं त्रेतायां नारायणगिरिं जगुः ।। २९।।
द्वापरे सिहशैलं च कलौ श्रीवेंकटाचलम् ।
प्रवदन्ति सुरास्तं च परमात्मालयं गिरिम् ।। 1.398.३ ०।।
स्वामिपुष्करिणी तीरे पश्चिमे लोकपूजिते ।
आस्ते वराहवदनो शेषाद्रौ वृषभाचले ।। २१ ।।
तत्र विश्रान्तिमासाद्य नारायणगिरौ क्षितिः ।
वराहरूपिणं देवं सखीभिः संयुता धरा ।। २ २।।
पप्रच्छ परया प्रीत्या लक्ष्मीछायां विलोक्य सा ।
वेंकटाख्ये महाशैले श्रीनिवासो जगत्पतिः ।। २३ ।।
कदा चक्षुष्पथे याति श्रीभूमिसहितः प्रभुः ।
श्रीवराहो धरामाह पुरावृत्तं शृणु प्रिये! ।।२४।।
पूर्वे कृतयुगे त्वत्र वायोर्दृष्ट्वा महत्तपः ।
आगच्छच्छ्रीनिवासो हि श्रीभूमिसहितः प्रभुः ।। ३५।।
दक्षिणेऽस्मिन् पुण्यतमे स्वामिपुष्करिणीतटे ।
हरिर्वायोः प्रियकरो ह्यानन्दाख्यविमानके ।।३६ ।।
आकल्पान्तमदृश्योऽस्मिन् विमाने वर्तते हरिः ।
योऽस्ति वैकुण्ठधामा श्रीकृष्णनारायणः प्रभुः ।।३७।।
धरण्याह कदा कृष्णः कथं दृश्यो भवेदिति ।
अगस्त्यऋषिराट् तं च याचेत यदि भावतः ।। ३८।।
तदा सर्वस्य विषयश्चक्षुषोः स्यात् श्रियः पतिः ।
इतिश्रुत्वा धराऽगस्त्यं सस्मार सोऽपि चाययौ ।।।३९।।
आराध्य परमात्मानं प्रीणयित्वा पुनः पुनः ।
ययाचे लोकलाभार्थं भवान् दृश्यो भवत्विति ।।1.398.४०।।
एवमुक्तो हृषीकेशः श्रीभूमिसहितः प्रभुः ।
सर्वेषां नेत्रविषयो ह्यभवत् स कृपालयः ।।४१ ।।
मुनिस्तद्दर्शनं कृत्वा प्रीतः प्रायात् स्वमाश्रमम् ।
विमानं विद्यमानं च न तु दृश्यं कदाचन ।।४२।।
ततश्चतुर्भुजो देवः सदा दृश्यो हि वर्तते ।
पृथ्वी तद्दर्शनं कृत्वा कृतकृत्या व्यजायत ।।४३।।
अथ सोमकुलोत्पन्नो मित्रवर्मा महारथः ।
तुण्डीरमण्डले राजा नारायणपुरेऽभवत् ।। ४४।।
तस्मिन् शासति भूलोकं धर्मेण मित्रवर्मणि ।
अकृष्टपच्या पृथिवी सर्वसस्यान्विताऽभवत् ।।४५।।
निरीतिकोऽभवत्सर्वो जनो भक्तिसमन्वितः ।
तस्य पत्नी समभवत् पाण्ड्यकन्या मनोरमा ।।४६।।
तस्य जज्ञे कुलोत्तंसो वियन्नामा सुतः शुभः ।
तस्य पत्नी च धरणी नाम्नाऽऽसीच्छुद्धवंशजा ।।४७।।
वियति राज्यमाधाय मित्रवर्मा तु वैष्णवः ।
ययौ तपोवनं पुण्यं वेंकटाद्रेः समीपतः ।।४८।।
वियन्नामा सार्वभौमश्चैकपत्नीव्रतोऽभवत् ।
धरणीलग्नचेताः स शोधयामास भूतलम् ।।४९।।
यज्ञार्थं च काञ्चनेन हलेन सुविशालकम् ।
भूतले कृष्यमाणे तु वियता भूभृता स्वयम् ।।1.398.५० ।।
बीजमुष्टिं विकिरता दृष्टा कन्या धरोद्गता ।
गह्वरं विवरं छन्नं तत्राऽऽसीद् भवनात्मकम् ।।५ १ ।।
आप्यायनाऽनिलजुष्टं सुगन्धिप्रसरच्छुभम् ।
द्वारोपर्युपलायुक्तं तदधः कन्यकाश्रितम् ।।५२।।
सर्वस्मृद्धिमयं स्थानं यदभूत् सुरपूजितम् ।
कृष्यमाणे हले तत्र सीता लग्ना हलस्य वै ।।५३।।
उपला चोत्थिता चान्तस्तेजो दृष्टं सुपाण्डुरम् ।
पद्मशय्योपकरणान्यपि दृष्टानि भूभृता ।।५४।।
शय्यायां राजती पुत्री सुवर्णनिर्मिता यथा ।
आकाशराज्ञा संदृष्टा विस्मयोत्फुल्लचक्षुषा ।।५५।।
आदाय तनयां राजा ममैवेयं पुनः पुनः ।
जहर्ष तं तदा प्राह वियद्वाणी विहायसि ।।५६।।
सत्यं तवैव तनया वर्धयस्व स्वपुत्रिकाम् ।
ततः प्रीतमना राजा तां रथे चावरोहयत् ।।५७।।
अभवत् कौसुमिर्वृष्टिर्देवोक्तविजयध्वनिः ।
दुन्दुभिध्वानसन्नादिताशाश्चक्रुः प्रतिध्वनीन् ।।५८।।
वाटिकाभूमिकां त्यक्त्वा विवेश स्वपुरं नृपः ।
आहूय धरणीं पत्नीमिदमाह महीश्वरः ।।५९।।
देवदत्तामिमां पश्य भूतलादुत्थितां मम ।
आवयोस्तदपुत्रयोः पुत्रीयं भविता ध्रुवम् ।।1.398.६०।।
इत्युक्त्वा प्रददौ पत्न्या हस्ते प्रीत्या वियन्नृपः ।
साध्वी राज्ञी विलोक्यैव बालां तर्कं करोति वै ।।६१ ।।
किमियं देवमाता वा वेदमाता च वा सती ।
श्रीर्वा लक्ष्मीः शारदा वाऽरुन्धती पार्वती च वा ।।६२।।
प्रभा वा माणिकी गंगा शची वा किं सरस्वती ।
राधा वा ललिता सीता जया वा विजया किमु? ।।६३ ।।
एकादशी जयन्ती द्यौः किम्वहल्या पतिव्रता ।
किमु ब्राह्मी महालक्ष्मीर्मदर्थं किं समागता ।।६४।।
एवं कृतवती तर्कान् तावत्तया तनौ स्वकम् ।
प्राविष्कृतं महत्तेजो महावैकुण्ठसदृशम् ।।६५।।
तत्र सिंहासनं रम्यं यत्र नारायणो हरिः ।
चतुर्भुजो युवा श्यामो राजते त्वतिसुन्दरः ।।६६ ।।
तस्य वामे स्थितां पार्श्वे पुत्रीं ददर्श तां सतीम् ।
महालक्ष्मीसमरूपां चतुर्भुजां तु वैष्णवीम् ।।६७।।
स्वकरस्थां विष्णुपत्नीं बालां दृष्ट्वा क्षितिः स्वयम् ।
मुमोद तां निचिक्षेप पादयोर्माधवस्य वै ।।६८।।
कृष्णनारायणस्तां तु गृहीत्वा युवतीमयीम् ।
पुनर्ददौ धरण्यै च जगाद् भगवान स्वयम् ।।६९।।
रक्षयैनामहं तत्रागत्य श्रीवेंकटाचलात् ।
उद्वहिष्ये विधिपूर्वं तावत्सेवां करोतु वै ।।1.398.७० ।।
इत्युक्ता सा धरणी तां करे कृत्वा प्रतिष्ठति ।
तावत्तेजश्च वैकुण्ठं सर्वं तिरोबभूव ह ।।७१ ।।
धरणिस्त्वभवत्तुष्टा जगाद वियते तदा ।
वियद्राजाऽपि दिव्यां श्रीछायां ज्ञात्वा तुतोष ह ।।७२।।
माता पुत्रीं श्रियं मत्वा नित्यं सेवां करोति हि ।
देवताश्चापि मुक्ताश्चाऽऽयान्ति द्रष्टुं दिवानिशम् ।।७३ ।।
पूजयन्ति तथा तां च नत्वा नत्वा प्रयान्ति वै ।
धरण्याश्च गृहं स्वर्गादधिकं विश्रुतं बभौ ।।७४।।
कन्यालाभे समकाले यज्ञसंकल्पपुण्यतः ।
आकाशराजभार्या सा धरणी गर्भमादधे ।।७५।।
वियन्नृपश्च सुप्रीतो वीक्ष्य दौहृदलक्षणाम् ।
उवाच फलिता सुभ्रु लता सान्तानिकी च मे ।।७६ ।।
अथ काले गते पत्नी धरणी सुषुवे सुतम् ।
सुप्रशस्ते मुहूर्ते च मेषस्थे च दिवाकरे ।।७७। ।
सुतेजस्कं स्वर्णवर्णं देवतुल्यं तु बालकम् ।
दृष्ट्वा तु धरणी राजा मुमुदातेऽति तावुभौ ।।७८। ।
ददतुर्बहुदानानि रत्नहस्तिगवादिकम् ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहेऽपतत् ।।७९।।
ववौ वायुः सुखस्पर्शस्तत्र पुत्रजनेर्दिने ।
पुत्रसूतिप्रवक्तॄणां दारिद्र्यं तेन नाशितम् ।।1.398.८०।।
कपिलाकोटिदानं च वृषभाणां शताऽधिकम् ।
सुवर्णानामयुतं च ददावाद्ये च षष्ठके ।।८१ ।।
तथैकादशके प्राप्ते दिने नाम चकार सः ।
वसुदान इतिरम्यं संस्काराँश्चाऽप्यकारयत् ।।८२।।
वसुदानो ववृधे वै शुक्लपक्ष इवोडुराट् ।
उपनीतो विनीतोऽसौ गुरुभिः शिक्षितस्तथा ।।८३ ।।
चतुष्पादं धनुर्वेदं सांगोपांगमधीतवान् ।
पितुरस्त्राणि सर्वाणि समन्त्राण्यप्यशिक्षत ।।८४।।
अप्रधृष्योऽजय्य आसीद् दुःसहो दुर्निरीक्ष्यकः ।
तं तु पुत्रं महाभाग्यं दृष्ट्वा राजा तु वैष्णवीम् ।।८५।।
समन्त्रां कृष्णनाम्ना वै दीक्षां ददौ भवापहाम् ।
अथ पुत्रीं पद्मतुल्यां पद्मामिवाऽपरां शुभाम् ।।८६ ।।
लक्ष्मीतुल्यां विदित्वैव नाम्ना चकार पद्मिनीम् ।
तां तु यौवनसम्पन्नां सखीभिः परिवारिताम् ।।८७।।
आरामे विहरन्तीं च कीरकोकिलनादिते ।
यदृच्छयाऽऽगतस्तत्र नारदो सर्ववित्तमः ।।८८।।
वनलक्ष्मीमिवाऽऽलोक्य लक्ष्मीछायां सुनिश्चिताम् ।
ननाम देवीं पप्रच्छ काऽसि कस्याऽसि वै सुता ।।८९।।
भाग्यं ते बहुसम्पन्नं मन्ये हस्तं प्रदर्शय ।
इत्युक्ता सा सुचार्वंगी स्वकं परिचयं ददौ ।।1.398.९० ।।
वियद्राजस्य कन्याऽहं धरणीपोषिताऽस्मि च ।
वर्धिता राजभवने समुत्पन्ना क्षितौ मुने! ।।९१ ।।
किं किं जानासि सर्वज्ञ! भाग्यं कीदृग् वदस्व मे ।
इत्युक्तो नारदस्तस्याः शारीरं चिह्नलक्षणम् ।।९२।।
प्रत्येकं संविलोक्यैव प्रहृष्टो ह्यवदत्तदा ।
पादाङ्गुलिनखा मध्यरक्ताश्चोन्नतिशालिनः ।।९३।।
पादौ प्रतिष्ठितौ शुभ्रो रक्तपद्मसुचिह्नितौ ।
स्थलपद्मदलरंगौ मृदुभावान्वितौ शुभौ ।।९४।।
तलयोः सन्ति वल्यादिचिह्नानि सुस्फुटानि ते ।
गुल्फौ गूढौ समो चाप्युज्ज्वलौ वर्तुलसून्नतौ ।।९५ ।।
जंघे चाऽरोमशे रम्ये क्रमपुष्टेऽतिशोभने ।
जानुनी समसुस्निग्धे समाबूरू क्रमपृथू ।।९६ ।।
समौ हस्तिकराभ्यां वै कोमलौ चन्द्रशीतलौ ।
सर्वातिशयरूपाढ्यौ कोमलौ चिक्कणौ तथा ।।९७।।
नितम्बौ पृथुलौ पीनौ समघट्टनकौ यतः ।
सक्थिमूले कोमले च रूपरूपातिशालिनी ।। ९८।।
जघनं लिंगरेखाढ्यं मध्यं स्वर्णसमोज्ज्वलम् ।
नाभिः समण्डला निम्ना त्रिवलीरेखयान्विता ।।९९।।
पार्श्वौ शुभ्रौ मेदुरौ च स्थलपद्मदलोपमौ ।
उदरं त्रिवलीरम्यं रोमराजिसुशोभितम् ।। 1.398.१०० ।।
स्तनौ पीनौ घनौ स्निग्धावुन्नतौ मग्नचूचुकौ ।
करौ ते रक्तपद्माभौ पद्मरेखासमन्वितौ ।। १०१ ।।
सुसूक्ष्मौ रक्तसत्पर्वनिरन्तरसमांगुली ।
चन्द्रतुल्यसुशुक्लाभौ मध्यरक्तसुसंभृतौ ।। १ ०२।।
दीर्घौ च कोमलौ कन्ये भुजौ ते पुष्पदण्डभौ ।
पृष्ठं ते वेदिवद् भाति विलग्नमृजुमध्यमम् ।। १ ०३।।
कण्ठः रक्तो मधुरश्च योग्यदीर्घोऽतिशोभनः ।
स्कन्धौ चावनतौ ते स्तः सिहस्कन्धोपमौ तथा ।। १ ०४।।
मुखं प्रसन्नं सततं वर्तुलं शुभ्रकान्तिमत् ।
तेजःपरिधिसंराजद्रम्यं दृष्टिहरं शुभम् ।। १ ०५।।
कपोलौ कनकादर्शसदृशौ कुण्डलोज्ज्वलौ ।
तिलपुष्पसमाकारा नासिका तेऽस्ति पद्मिनि! ।। १०६ ।।
विशालं धवलं चारु सूज्ज्वलं ते ललाटकम् ।
अकलंकाऽष्टमीचन्द्रनिभं रेखान्वितं शुभम् ।। १ ०७।।
नीलालकप्रमूलैश्च व्यञ्जितरूपभासुरम् ।
समं कम्मानिकोल्लेख्यं सर्वभाग्यविराजितम् ।। १ ०८।।
मूर्धा ते समवृत्तश्च स्निग्धायतकचान्वितः ।
स्मितसंशोभिदशनं बिम्बाधरसमन्वितम् ।। १ ०९।।
कुन्दकलिकासंशोभद्दन्तराजिविराजितम् ।
मुखं नारायणयोग्यं तवाऽस्ति तथ्यमेव यत् ।। 1.398.११ ०।।
नाभिस्ते दक्षिणावर्त्ता हृदयं विष्णुहस्तवत् ।
रेखासुशोभितं चास्ति लक्ष्मीरूपा हि दृश्यसे ।। १११ ।।
मध्ये तु स्तनयोस्तेऽस्ति हृदि नारायणस्य वै ।
चरणोर्ध्वतिलकाख्यपुण्ड्ररेखापि विद्यते ।। ११ २।।
नाभ्यधो जघने भागे तेऽस्ति सुवर्णपिंगला ।
बाणाकृतिसमा रेखा, ललाटे मुकुटाकृतिः ।। ११३ ।।
गण्डे तु दक्षिणे चाथ ललाटे मध्यदेशके ।
शोणबिन्दुश्च ते सुदर्शनतुल्योऽस्ति शोभनः ।। १ १४।।
उरसि ते चतुर्हस्तविष्णुरेखाऽस्ति सूक्ष्मिका ।
वामे भुजे गदाचिह्नं वामसक्थ्नि तु पादुका ।। ११५ ।।
हृदये वैजयन्त्याश्च रेखास्ति पौरटी शुभा ।
कमलं च करे धृत्वा हस्तिस्तेऽस्ति करे शुभे ।। १ १६।।
दक्षिणे ते पदेऽङ्गुष्ठमूलाऽधःफेणके वरम् ।
शंखचिह्नं वर्तते वै लक्ष्मीरूपप्रबोधकम् ।। १ १७।।
अंगुलीनां तथा मूले फणके सुविमानकम् ।
कनिष्ठामूलसान्निध्ये नावश्चिह्नं हि विद्यते ।। १ १८।।
गदाचिह्नं मीनचिह्नं शिखरचिह्नमस्ति च ।
ते च पार्ष्णौ मत्स्यरेखा तथा ताम्बूलवल्लिका ।। ११ ९।।
वामांगुष्ठस्य मूले ते यवचिह्नं मनोहरम् ।
तथा तत्र सुप्रासादो रेखया वर्तते शुभः ।। 1.398.१ २०।।
छत्रचिह्नमूर्ध्वरेखा कमलं फणके तथा ।
ध्वजोंऽकुशं कुमुदं च श्रीफलं कलशस्तथा ।। १२१ ।।
तथा वै स्थलकमलं द्वितीयाचन्द्रचिह्नकम् ।
दशचक्राणि ते सन्ति स्वर्णरेखा फणोपरि ।। १२२।।
अंकान्येतानि ते कन्ये दृश्यन्तेऽतो हरेः प्रिया ।
भाविनीति तु मन्येऽहं हृत्स्थं पतिं कुरु ध्रुवम् ।। १ २३।।
यस्या योनेर्मुखे मध्ये गर्भे चान्तर्दरीस्थले ।
बन्धकं वलयं कुण्डलिनीरूपं दृढं क्रमात् ।। १ २४।।
लिंगस्य पेषकं सुसंकोचविकसिशालि च ।
भवेत् स पद्मिनी नारी विष्णुयोग्याऽस्ति सर्वदा ।। १२५।।
कस्याश्चिद् विद्यते त्वेतद् गर्भगं वलयं दृढम् ।
पत्युः स्वस्याश्च सौख्याय सर्वासां नहि तद्भवेत् ।। १ २६।।
इत्युक्त्वा पूजितः साध्व्या नारढोऽन्तर्दधे तदा ।
एतच्छ्रुत्वाऽथ तत्सख्यस्तमूचुः पद्मिनीं सतीम् ।। १ २७।।
पुष्पार्थं फलपत्रार्थं वनं गच्छाम ईश्वरि! ।
पुष्पावचयनं कुर्मो वसन्तः समुपागतः ।। १ २८।।
इत्यतस्ता वनं जग्मुराकाशतनयायुताः ।
कंचिद् गजेन्द्रं ददृशुः शुभ्रदन्तचतुष्टयम् ।। १ २९।।
मदं वर्षन्तं गण्डाभ्यां धवलं करिणीयुतम् ।
चित्कारमुग्रं कुर्वन्तं दृष्ट्वा ता वृक्षमाश्रिताः ।। 1.398.१३ ०।।
निलिल्युर्द्रुमसंघाते तावदश्वं च ददृशुः ।
श्वेतं सुवर्णभूषाढ्यं शरन्मेघमिवोन्नतम् ।। १३१ ।।
तत्पृष्ठे पुरुषं कृष्णवर्णं कामधनाऽऽभृतम् ।
पद्मपत्रायतनेत्रं सूक्ष्मकौशेयकाम्बरम् ।। १ ३२।।
सद्रत्नमणिसन्नद्धहारकेयूरकुण्डलम् ।
दिव्यशार्ङ्गधरं स्वर्णशरयुक्तं करेण वै ।। १ ३३।।
पीतवस्त्रप्रवेष्टितकटिभागं सुमध्यमम् ।
रत्नकंकणनूपुररशनासूत्रराजितम् ।। १ ३४।।
विशालवक्षःसंशोभिदक्षिणावर्तसंयुतम् ।
स्वर्णयज्ञोपवीतेन स्फुरत्स्कन्धं मनोहरम् ।। १ ३५।।।
तं दृष्ट्वा विस्मिताः सर्वाः सस्मितास्तस्थुरादरात् ।
गजो ययौ तदा दूरं हयारूढो जनस्तदा ।। १३६ ।।
कन्या द्रुमाश्रिता दृष्ट्वा चाययौ तत्समीपतः ।
प्राह कन्या! भवतीभिर्दृष्टः कश्चिन्मृगोऽत्र वै ।। १ ३७।।
प्रत्यूचुस्तास्तु तं सर्वा दृष्टोऽस्माभिर्न कश्चन ।
किमर्थमागतोऽस्माकं वनं गच्छ वनाद्बहिः ।। १३८।।
अत्राऽवध्या मृगाः सर्वे त्वाकाशराजरक्षिताः ।
एवं श्रुत्वा वचस्तासां हयादवरुरोह सः ।। १३ ९।।
पप्रच्छ का भवत्योऽत्र केयं कन्या च पद्मिनी ।
ब्रूत मेऽहं गमिष्यामि श्रुत्वा नारायणाचलम् ।। 1.398.१४०।।
वसाम्यहं सदा नित्यं वने भ्रमामि यामि च ।
तदा तं धरणीपुत्र्या प्रेरिता प्राह शारदा ।। १४१ ।।
आकाशराजतनयां वसुधागर्भसंभवाम् ।
अस्माकं शिक्षिकां नाम्ना पद्मिनीं विद्धि बालिकाम् ।। १४२।।
देहि त्वं स्वीयनामादि किंजातिकोऽत्र वर्तसे! ।
इति पृष्टः स ता आह सूर्यवंशी जनोऽस्म्यहम् ।। १४३ ।।
नाम्नां न मे प्रसंख्यानं पावनानां तु कन्यकाः! ।
वर्णतो नामतश्चापि कृष्णोनारायणोऽस्म्यहम् ।। १४४।।
चक्रं भयावहं यस्य धर्मद्विषां तु देहिनाम् ।
शंखध्वनिर्यत्कृतो दारयत्यरिसमूहकान् ।। १४५।।
यस्य शार्ङ्गं धनुर्नित्यं सृष्टौ दैत्यविमोहनम् ।
पद्मं हस्तगतं दातृश्रियो लक्ष्म्याश्च वर्धकम् ।। १४६ ।।
सोऽहं वेंकटशैलस्थो मृगयार्थमुपागतः ।
मयाऽप्यनुद्रुतः श्वेतो गजात्मा मृगयूथपः ।। १४७।।
इतो धावन् वायुवेगो ययावदृश्यतामितः ।
समागच्छं समपश्यं सुभगां पद्मिनीमिमाम् ।। १४८।।
मृगं त्यक्त्वा मृगीं प्राप्तो मया किं लभ्यते न्वियम्? ।
इति कृष्णवचः श्रुत्वा क्रुद्धास्ताः प्राहुरश्विनम् ।। १४९।।
गच्छ शीघ्रं वनादस्मान्मा वदैवं कदाचन ।
आकाशराजः श्रुत्वा त्वां निगडे बन्धयिष्यति ।। 1.398.१५० ।।
यथानामगुणो भासि कृष्णश्चान्तर्बहिः खलु ।
याहि दिव्यां परकन्यां याचसे किं न लज्जसे ।। १५१ ।।
सर्वा मिलित्वा चात्रैव बन्धयिष्याम एव हि ।
ताडयिष्याम एवात्र येनाऽवोचः पुनर्न तत् ।। १५२।।
तर्जितस्ताभिरेवं श्रीकृष्णनारायणः प्रभुः ।
हयमारुह्य सन्दृष्ट्वा कटाक्षेण ययौ गिरिम् ।। १५३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये मेरौ भूनारदाभ्यां वराहावतारदर्शनं कृतम्, लक्ष्मीछायाया जन्मस्थलं नारायणपुरं गरुडेनागत्य दृष्टं, पृथिवीगर्भात्पद्मिन्या उत्पत्तिः, वियन्नामराज्ञा सा वर्धिता, वसुदानः सुतश्च जज्ञे, नारदेन चिह्नैर्लक्ष्मीसमाऽसीत्युक्तं,
उद्यानेऽश्वारूढो नारायण आगत्य परिचयं दत्वा वेंकटाद्रिं ययौ चेत्यादिनिरूपणनामाऽष्टनवत्यधिकत्रिशततमोऽध्यायः ।।३९८।।