लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३९६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३९७
[[लेखकः :|]]
अध्यायः ३९८ →

श्रीनारायण उवाच-
एवं शुभाशिषः प्राप्याऽलर्को ब्रह्मस्वरूपताम् ।
स्वात्मन्यनुभवन्प्राह भगवन्तं गुरुं हरिम् ।। १ ।।
भगवन्! योगिनश्चर्यां श्रोतुमिच्छामि सर्वथा ।
ब्रह्मवर्त्मन्यनुगच्छन् लक्ष्यते कैर्विलक्षणैः ।। २ ।।
गुरुः प्राह शृणु क्ष्मेश! लोकचर्याविलक्षणाः ।
चर्यास्तस्य भवन्त्येव निर्मर्यादा निराहताः ।। ३ ।।
मानापमानौ यावेतौ प्रीत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थौ योगिनस्तु विषामृते ।। ४ ।।
मौनमालम्बते प्रायो हरेर्नाम गृणन् मुहुः ।
आतिथ्ययज्ञयात्रादौ न गच्छेन्निर्जनेच्छुकः ।। ५ ।।
व्यस्ते विधूमे अंगारे सर्वस्मिन् भुक्तवज्जने ।
अटेत देवयात्रार्थं यदृच्छालाभतोषवान् ।। ६ ।।
यद्वा चाजगरीं वृत्तिं समाश्रित्य हि वर्तते ।
फलं मूलं दलं कन्दं कणा भाजा च यल्लभेत् ।। ७ ।।
तत्प्रयुञ्ज्यात्सुरेष्वार्प्य सतां वर्त्म न दूषयन् ।
सारभूतं यथापेक्षं गृह्णीयान्नाधिकं क्वचित् ।। ८ ।।
वाग्दण्डः कर्मदण़्डश्च मनोदण्डश्च ते त्रयः ।
यस्य वै नियताः स स्यात् त्रिदण्डी योगिराट् परः ।। ९ ।।
कृष्णमूर्तौ सदा युञ्जन् योगं कृष्णेति संजपन् ।
वर्तते नित्यमग्नोऽसौ स्थितिं श्रेष्ठां समुद्वहन् ।। 1.397.१० ।।
तारस्वरेण भगवन्नामरटनमाचरेत् ।
तत्र युक्तस्तु योगीशो भगवल्लयमाप्नुयात् ।। ११ ।।
शशांकरश्मिसंयोगाच्चन्द्रकान्तमणिः पयः ।
समुत्सृजति नाऽयुक्तः सोपमा योगिनः स्मृता ।। १ २।।
सूर्यरश्मिसंप्रयोगात्सूर्यकान्तो हुताशनम् ।
आविष्करोति नैकाकी सोपमा योगिनः स्मृता ।। १ ३।।
पिपीलिकाऽऽखुनकुलगृहगोधाकपिञ्जलाः ।
वसन्ति स्वामिवद्गेहे ध्वस्ते यान्ति ततोऽन्यतः ।। १४।।
दुःख तु स्वामिनो गेहध्वंसे तेषां यथा न वै ।
तथा तु योगिना भाव्यं दुःखानावृतकेन वै ।। १५।।
वल्मीककीटिका मुखाग्रेण चापि त्वणीयसा ।
करोति वल्मीकचयं तथा योगं समर्जयेत् ।। १६।।
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलादिकम् ।
सवृक्षं लुप्यते तद्वल्लोप्यं सर्वं तु योगिना ।।१७।।
रुरुशावविषाणाग्रं वर्धमानं विलोक्य च ।
योगी योगे वर्धते च तदा सिद्धिमवाप्नुयात् ।। १८।।
तद्गृहं यत्र वसति तद्भोज्यं येन जीवति ।
येन सम्पद्यते चार्थस्तत्सुखं ममताऽत्र का ।। १ ९।।
भोज्ये मिष्टं च वाऽमिष्टं तीक्ष्णं क्षारं च वा कटु ।
न यद् वेदयते योगी ज्ञात्वाऽपि न भणत्यपि ।।1.397.२०।।
स वै जिह्वां रसं स्वाद्ं जीतवानस्ति सर्वथा ।
कोमलं कठिनं रूक्षं मृदुः स्निग्धं खरं पृथु ।।२१ ।।
तीक्ष्णं प्रज्वालकं ज्ञात्वा चापि दुःखं न योजने ।
सोऽयं त्वचं सुखं स्पर्शं जीतवानस्ति सर्वथा ।।२२।।
मिष्टं भद्र स्वरयुक्तं गीतं चाह्लादकं मृदु ।
नर्म हास्यप्रदं रोषकरं वा मानदं तथा ।।२३ ।।
ज्ञात्वा शब्दं न वै तत्र सुखं दुःखं हि मन्यते ।
स च वाचं तदर्थं च जीतवानस्ति सर्वथा ।।२४।।
सुन्दरं सुघटं स्वर्णसमं तेजोमयं शुभम् ।
धवलं कर्बुरं चान्यत् चिक्कणं तीक्ष्णमेव वा ।।२५।।
रूपं दृष्ट्वा सुखं दुःखं यो न मन्येत मानसे ।
जीतवान् सर्वथा रूपं नेत्रं दृश्यं स योगिराट् ।।२६ ।।
सुगन्धं समनुप्राप्य नासा नैति विकासताम् ।
दुर्गन्धं समनुप्राप्य नस्पुटं न च रुद्ध्यते ।।२७।।
स योगी जीतवान् गन्ध नासिकां च स्वभावतः ।
सत्यपि खर्जने प्राप्ते चांचल्ये वा त्वचि क्वचित् ।।२८।।
नैव स्पृशति कर्णं च करोत्येव न त्वग्जयी ।
पद्भ्यां याति हरेर्धाम प्रदक्षिणां करोति च ।।२९ ।।
तीर्थयात्रां साधुयात्रां करोति चरणोज्जयी ।
देवगुरुसतां सेवां कराभ्यां प्रसमाचरेत् ।।1.397.३ ०।।
वाण्या संकीर्तनं कृष्णनारायणस्य चाचरेत् ।
नृत्यं करोति देवाग्रे कथां करोति साधुषु ।।३ १ ।।
गीतं करोति भक्तेषु ध्यानं करोति मूर्तिषु ।
चिन्तनं वन्दनं स्तोत्रं करोत्येव परात्मनि ।।३२।।
नमनं हसनं चाह्वानकं दिक्षु करोति च ।
दृष्ट्वा कृष्णं तत्र तत्र हर्षे चाविष्करोति च ।।३३।।
क्वचिद् वाऽदृश्यतां याति क्वचिद् वृक्षेषु वर्तते ।
क्वचिज्जलप्रदेशे वा क्वचिद्रणेऽपि वर्तते ।।३४।।
क्वचित्तु गह्वरे गर्ते कण्रकादौ क्वचित्क्वचित् ।
खेटे नगरे ग्रामादौ वनेऽरण्ये च निर्जने ।।३५।।
मनसा कल्पिते देशे भूतलेऽब्भ्रतलेऽपि वा ।
वसत्येव यथाचेष्टं यथासंकल्पमेव च ।।३६।।
मुखे क्वचिच्छिलाखण्डं धृत्वा खादति रवाद्यवत् ।
कज्जलं कर्दमं वापि धूलीं क्षिपति गात्रके ।।३७।।
चन्दनं शीतलं मत्वा जिहीर्षति मुहुर्मुहुः ।
अगम्यं दूरदेशस्थं वस्तु हस्तेन धार्यते ।।३८।।
अन्यदेशे जायमानं वृत्तान्तं जनसंसदि ।
वर्णयत्येव च यथायथं क्वचित् सतीशवत् ।।३९।।
क्वचित् स्वपिति मार्गेषु क्वचिज्जनेषु कूर्दति ।
पशुष्वपि विना चिन्तां भयं निद्राति मत्तवत् ।।1.397.४०।।
धूलीधूसरितांगश्च मोदते मनसा क्वचित् ।
दिगम्बरः क्वचिद् याति क्वचित्पर्णाम्बरोऽपि वा ।।४१ ।।
क्वचिद् वृक्षत्वगम्बरः क्वचिद् भस्माम्बरोऽपि वै ।
क्वचिद्वृष्टिप्रधारासु क्वचिदातपवह्निषु ।।४२।।
क्वचिच्छैत्यादिसलिले कर्दमे तिष्ठति क्वचित् ।
क्वचिन्मलादिलिप्तांगः क्वचित्स्वच्छशरीरकः ।।४३।।
क्वचिन्मूत्रादिदुर्गन्धः ष्ठीवनादिषु निर्घृणः ।
नासिकालालसंलग्नो देहक्षालनवर्जितः ।।४४।।
आत्मारामो यथा ब्रह्मस्वरूपो दिव्यविग्रहः ।
निरावरणसञ्चारो नरनारीविभानकः ।।४५।।
पशुपक्षितृणवल्लीकण्टकादिषु निर्भयः ।
हरेर्भानेन युक्तोऽपि देहभानादिवर्जितः ।।४६।।
अविस्मर्तव्यमेवाऽत्राऽत्यक्तव्यं चापि यद्भवेत् ।
न त्यजति नापि विस्मरत्यवधानवानपि ।।४७।।
वर्तते बालवद्वापि वृद्धवच्च कदाचन ।
कदापि वर्तते काकबकमार्जारघूकवत् ।।४८।।
क्वचित् स वर्तते प्रेम्णि मयूरशुकहंसवत् ।
क्वचिन्माधुकरीं वृत्तिं क्वचिद् वृत्तिं तु वानरीम् ।।४९।।
क्वचित् सैंहीं क्वचिद् दीनां क्वचिच्छ्येनसमां तथा ।
क्वचिन्मत्स्यसमां वृत्तिं समादाय हि वर्तते ।।1.397.५०।।
श्रीहरौ चित्तयुक्तत्वं चाऽन्यत्र चित्तवर्जितम् ।
अह्नां निर्गमनं तस्य भवति ब्रह्मयोगिनः ।।५१ ।।
क्वचिन्मानसपूजायां हरिं भोजयति ध्रुवः ।
जलं दत्वा नमः कृत्वा विसर्जयति चेष्टया ।।५२।
क्वचिद् धूल्यां तु पर्यंकं कृत्वा स्थापयति प्रभुम् ।
पत्रं पुष्पं दलं पर्णं फलं वा कंकरं तृणम् ।।५३।।
तुलसीं कमलं दत्वा हरिं रंजयति क्वचित् ।
एवं योगिजनस्यैव चेष्टा नियन्त्रणां विना ।।५४।।
दिव्या दिव्यस्वरूपा च दिव्यगतिप्रवर्तिका ।
दिव्यतत्त्वमयी सर्वा परश्रेयःप्रदायिनी ।।५५।।
भवत्येव सदाऽलर्क! योगी जानाति योगिनम् ।
सनकाद्याः ऋषभाद्याः शुकाद्याश्च तथाऽभवन् ।।५६।।
सिद्धा नाथास्तीर्थकरा हंसा अघोरवर्तनाः ।
साधवो योगिनश्चान्ये जडाश्च भैरवादयः ।।५७।।
शंकरो योगिनीचक्रं चाऽवधूतास्तथाऽपरे ।
सत्यः साध्व्यस्तथा दास्यो वैष्णव्यश्च समाधिगाः ।।।५८।।
प्रापुर्वै ब्रह्मपरमं लोकविलक्षणक्रियाः ।
किम्बहुनाऽत्र वाचा वै योगी योगेन दर्पितः ।।५९।।
नान्यत् किंचिद्विजानाति ब्रह्मभिन्नं हृदन्तरे ।
यस्य सर्वत्र चाऽऽत्माऽस्ति यस्मिन् सर्वात्मनो गृहम् ।।1.397.६ ०।।
सूत्रे मणिर्मणौ सूत्रं तथा यः स्थितिमाप्तवान् ।
परिपूर्णतमानन्दं प्राप्तवान् तन्मदान्वितः ।।६ १ ।।
तस्य योगिनः साम्यं को विमर्शयितुमर्हति ।
चेष्टया वर्तते व्यग्रो बुद्ध्या विशारदो यथा ।।६२।।
वाचा तु वर्तते साधुर्वृत्त्या शान्तो हि वर्तते ।
हृदा तु वर्तते तृप्तो देहेन वर्ततेऽभयः ।।६३ ।।
गुणैस्तु वर्तते मूढः स्निग्धो मुखेन वर्तते ।
ब्रह्मणि वर्तते रागी मायिके वर्तते सरुट् ।।६४।।
निर्जने वर्तते लुब्धः सघृणो वर्तते जने ।
दैवे पैत्र्ये हरेर्योगे सश्रद्धो वर्तते च सः ।।६५।।
देहकार्ये विचित्तो वै निजकार्ये तु चित्तवान् ।
परे निःश्रेयसि सर्वबलयुक्तः प्रवर्तते ।।६६।।
व्यवहारे विचित्तोऽयं परमेशे सचित्तकः ।
एवं लक्षणसम्पन्नो योगी वर्तेत सर्वदा ।।६७।।
क्वचिद् दर्शयति स्वस्मिंश्चमत्कारान् बहून् बहून् ।
क्वचिद् वन्यवदेवाऽयं प्रदर्शयति मूर्खताम् ।।६८।।।
एवंविधं जनं ज्ञात्वा विचित्रचेष्टिकं मुहुः ।
विजानीयान्महायोगेश्वरं ब्रह्मस्वरूपिणम् ।।६९।।
अथ योगी स्वयं चिह्नं ज्ञात्वा त्यजति विग्रहम् ।
शृणु वच्मि त्वरिष्टानि येनोत्क्रान्तौ न सदिति ।।1.397.७०।।
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।
यो न पश्यति नेत्रेण मृत्युस्तस्य समान्तरे ।।७१ ।।
सूर्यस्य मण्डलं रश्मिहीनं वह्निं सरश्मिकम् ।
यस्तु पश्यति नेत्रेण मृत्युस्तस्य समान्तरे ।।७२।।
वान्ते मूत्रपुरीषे च स्वर्णतुल्ये प्रपश्यति ।
स्वप्नेऽपि यदि पश्यति जीवेत् स दशमासिकम् ।।७३ ।।
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च ।
वृक्षान् कनकरंगाँश्च नवमासान् स जीवति ।।७४।।
पीनः शुष्कः शुष्कः पीनो ह्यकस्माज्जायते मुहुः ।
शिरोवायुभ्रमो यस्य तस्याऽऽयुश्चाष्टमासिकम् ।।७५।।
पादन्यासे भुवि पार्ष्णेर्यद्वा फणे प्रखण्डिता ।
रजःकर्दमधूल्यादौ सप्तमासान् स जीवति ।।७६ ।।
गृध्रः कपोतः काकोलो वायसो वापि मूर्धनि ।
क्रव्यादो वा खगो नीलः षण्मासायुःप्रदर्शकः ।।७७ ।।
हन्यते काकपंक्त्या च पांशुवर्षेण स्वप्नके ।
स्वच्छायामन्यथा द्रष्टा चतुःपञ्च स जीवति ।।।७८।।
अनभ्रे विद्युतो द्रष्टा दक्षिणस्यां प्रवासकृत् ।
रात्राविन्द्रधनुर्द्रष्टा द्वात्रमासिकजीवनः ।।७९।।
घृते तैले तथाऽऽदर्शे तोये वा नाऽऽत्मनस्तनुम् ।
यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ।।1.397.८०।।
यस्य बस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
तस्य वै जीवनं चार्धमासिकं बोध्यमेव हि ।।८ १ ।।
यस्य तु स्नातमात्रस्य हृदयं करपादकौ ।
पिबतश्च गले शोषो दशाहे स तु जीवति ।।८२।।।
यस्य वेगेन वायोश्च दण्डभेदः प्रजायते ।
तस्याऽन्तकः समायातो मुहूर्ते वै मरिष्यति ।।८३ ।।
ऋक्षवानरबस्तोष्ट्रगर्दभजम्बुकादिभिः ।
दक्षिणां यो दिशं वाहे तिष्ठन् याति मरिष्यति ।।८४।।
रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् ।
दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ।।।८५।।
नग्नं क्षपणकं यद्वा राक्षसं कालमेव वा ।
हसमानं प्रवल्गन्तं दृष्ट्वा मृत्युं विचारयेत् ।।८६ ।।
आत्मानं सर्वथा मग्नं पंके पश्येन्मरिष्यति ।
केशे वह्निं भुजगं च भस्म शुष्कां नदीं तथा ।।८७।।
स्वप्ने दृष्ट्वा दशाहेन मरिष्यति न संशयः ।
करालैः पुरुषैरायुधादिभिश्चोपलादिभिः ।।८८ ।।
मारितस्ताडितः सोऽपि मरिष्यति न संशयः।
दन्तजाड्यवतो मृत्युर्भविष्यति न संशयः ।।८९।।
सूर्योदये शिवा यस्य क्रोशन्ती याति सम्मुखम् ।
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ।।1.397.९०।।
भुक्तमात्रस्य यस्यैव पुनः संबाधते क्षुधा ।
दीपगन्धं न यो वेत्ति स गतायुर्न संशयः ।।९१ ।।
नात्मप्रतिकृतिं त्वन्यचक्षुषोर्वै प्रपश्यति ।
रात्रौ शक्रायुधद्रष्टा दिवा ग्रहविलोकनः ।।९२।।
नासिका वक्रिता यस्य कर्णौ च निम्नकोन्नतौ ।
नेत्रं वामं स्रवत्येव तस्यायुर्नास्ति सर्वथा ।।९३।।
मुखं रक्तं भवेज्जिह्वा श्यामा दन्ताश्च कृष्णकाः ।
निर्घोषाऽश्रवणं कर्णे चक्षुर्ज्योतिःक्षयं तथा ।।९४।।
गर्ते गतस्योपलाभिर्द्वारं यस्य पिधीयते ।
तस्य मृत्युः क्षणादूर्ध्वं स्वप्नेऽग्निवेशितस्य च ।।९५।।
जलप्रवेशने भूतैस्ताडने मृत्युरागतः ।
स्वभाववैपरीत्यं च प्रकृतेश्च विपर्ययः ।।९६।।
पूज्यनिन्दाऽवमानादि मृत्योराकारिणो मताः ।
तस्माद् योगं तदा युञ्ज्यान्मृत्युनाशाय तद्दिने ।।९७।।
यद्वा ब्रह्मणि युञ्जीतात्मानं नान्यत्स्मरेत्खलु ।
तेन कृष्णेन युक्तोऽसौ प्रयाति तत्परं पदम् ।।९८।।
सोऽयमात्यन्तिको मोक्षो मृत्युरात्यन्तिको हि सः ।
योगाभ्यासफलं तच्चाऽक्षरे पादार्चनं हरेः ।।९९।।
जननं सार्थकं तस्य मरणं सार्थकं तथा ।
सार्थकं राज्यकरणं प्राप्तिः कृष्णस्य पादयोः ।। 1.397.१० ०।।
अलर्क इतिसंश्रुत्वा ननाम गुरुपादयोः ।
निशामध्ये मुहूर्ते वै ज्ञानयोगौ ललाभ च ।। १०१ ।।
पूजितो वन्दितो दत्तात्रेयश्च भगवान् मुहुः ।
उवाच बहुसन्तुष्टः पुलकांचितविग्रहः ।। १ ०२।।
दिष्ट्या काशीपतेर्भूरिबलसैन्येन तर्जितः ।
यन्निमित्तमिहाऽऽयातः स भवत्संगदो मम ।। १ ०३।।
धन्यो भ्राता सुबाहुश्च येन ज्ञाने सुयोजितः ।
दिष्ट्या मातृकृतं पत्र वाचितं च मया तथा ।। १ ०४।।
दिष्ट्या त्वत्पादयुगलं सेवितं च मया तथा ।
दिष्ट्या त्वदुक्तयः सर्वा मम चेतसि सुस्थिराः ।। १ ०५।।
दिष्ट्या ज्ञानं ममोत्पन्नं तव साधोः समागमात् ।
दिष्ट्या भवता करुणा कृता भगवता मयि ।। १ ०६।।
सोऽहं तव प्रसादाग्निर्निर्दग्धाहंममादिकः ।
ब्रह्मधाम प्रगन्तुं वै यतिष्ये राज्यवर्तनात् ।। १ ०७।।
दत्तात्रेयस्ततः शिष्यं प्राह गच्छ सुखी भव ।
निर्ममो निरहंकारस्तथा चर विमुक्तये ।। १ ०८।।
एवमुक्तः प्रणम्यैनं जगाम निशिथे गृहम् ।
यत्र काशीपतिः राजा तथा सुबाहुरग्रजः ।। १ ०९।।
तत्र गत्वा समुवाच भुज्यतां राज्यमूर्जितम् ।
यथा वा रोचते तद्वत् सुबाहोः संप्रयच्छ वा ।। 1.397.११० ।।
काशीराजस्तदा प्राह किं त्यक्तं युद्धमन्तरा ।
अलर्कः प्राह गुरुणा ग्रन्थयो नाशिता मम ।। १११ ।।
दत्तात्रेयप्रसादेन भेदभावो निराकृतः ।
मनो ब्रह्मणि सन्धाय तज्जये परमो जयः ।। ११ २।।
सुबाहुः प्राह यस्यार्थं त्वामहं योद्धुमागतः ।
तन्मया सकलं प्राप्तं न मे राज्ये प्रयोजनम् ।। ११ ३।।
काशीराजस्तथा प्राह ज्ञानवैराग्ययोः कृते ।
अलर्क! तव मोक्षार्थं मया युद्धं प्रघोषितम् ।। १ १४।।
तत्ते ज्ञानं च वैराग्यं समुत्पन्नं व्रजाम्यहम् ।
उपेक्ष्यते सीदमानः स्वजनो बान्धवः सुहृत् ।। १ १५।।
स न प्रोक्तः स्वजनादिर्वाच्यः स तु जनैर्भवेत् ।
फलदायी सतां संगो मात्रा ते कथितः खलु ।। ११ ६।।
तजन्यबोधलाभेन यतेथाः श्रेयसे नृप! ।
एवमुक्त्वोत्सवं कृत्वा काशीराजो ययौ ततः ।। १ १७।।
सुबाहुरपि सिद्धार्थो ययौ स्वीयवनं पुनः ।
अलर्कस्तु समुत्तीर्णो गाथामेतामगायत ।। १ १८।।
अहो कष्टं मया कीदृग् राज्यं गर्वेण वर्तितम् ।
गुरोः कृपया विज्ञानं योगान्नास्ति परं सुखम् ।। ११ ९।।
इत्युक्त्वा च निजं पुत्रमभिषिच्य नराधिपम् ।
वनं जगाम सन्त्यक्तसर्वसंगः प्रमुक्तये ।। 1.397.१ २०।।
ततः कालेन महता ब्रह्मनिर्वाणमाप्तवान् ।
श्रवणात्पठनाच्चास्य ब्रह्मसायुज्यमाप्नुयात् ।। १२१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्येऽलर्कस्य दत्तात्रेयोपदेशे मुक्तचर्या, योगिनां मृत्युचिह्नानि, अलर्कस्य वनवासः एवमादिनिरूपणनामा सप्तनवत्यधिकत्रिशततमोऽध्यायः ।।३ ९७।।